摩诃婆罗多 · 章 12.130
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.130.1
त्रैः प्रहीयमाणस्य बह्वमित्रस्य का गतिः ।
… संक्षीणकोशस्य बलहीनस्य भारत ॥ १२.१३०.१ ॥
婆罗多之子啊,被三方面削弱、敌人众多、府库空竭、力量不足的人,其归宿如何?…
12.130.2
…मात्यसहायस्य श्रुतमन्त्रस्य सर्वतः ।
ज्यात्प्रच्यवमानस्य गतिमन्यामपश्यतः ॥ १२.१३०.२ ॥
……无大臣相助,谋略四方皆知,正从其位跌落,又见不到另外的出路之人……
12.130.3
परचक्राभियातस्य परराष्ट्राणि मृद्गतः ।
विग्रहे वर्तमानस्य दुर्बलस्य बलीयसा ॥ १२.१३०.३ ॥
被敌军攻击、践踏他国、与强者交战的弱者……
12.130.4
असंविहितराष्ट्रस्य देशकालावजानतः ।
अप्राप्यं च भवेत्सान्त्वं भेदो वाऽप्यतिपीडनात्। ॥ १२.१३०.४ ॥
若国家不得治理,又轻忽时势与地利,则安抚不可得;或因过度压迫而生离心。
12.130.5
जीवितं त्वर्थहेतोर्वा तत्र किं सुकृतं भवेत् ।
गुह्यां मा धर्ममप्राक्षीरतीव भरतर्षभ। ॥ १२.१३०.५ ॥
然而若为性命或财富而为之,那其中有何善行可言?婆罗多中的雄牛啊,不要如此深究这秘密之法。
12.130.6
प्रवक्तुं नोत्सहे पृष्टो धर्ममेतं युधिष्ठिर ।
धर्मो ह्यणीयान्वचनाद्वुद्धेश्च भरतर्षभ।
श्रुत्वौपम्यं सदाचारैः साधुर्भवति स क्वचित् ॥ १२.१३०.६ ॥
युधिष्ठिर啊,虽然你问了,我却不愿谈论此法。婆罗多中的雄牛啊,法比言语和智慧更为精微;听闻贤善者的譬喻,人才有时成为善人。
12.130.7
कर्मणा बुद्धिपूर्वेण भवत्याढ्ये न वा पुनः ।
तादृशोऽयमनुप्रश्नस्तद्ध्यायस्व स्वया धिया ॥ १२.१३०.७ ॥
人是否因有意识的行动而富足,这是一个类似的追问;你应以自己的智慧思考它。
12.130.8
उपायं धर्मबहुलं यात्रार्थं शृणु भारत ।
नाहमेतादृशे धर्मे बुभूषे धर्मकारणात् ॥ १२.१३०.८ ॥
婆罗多啊,请听那充满法的治理方法;为了法的缘故,我并不愿处于那样的法之中。
12.130.9
दुःखादान इह ह्येष स्यात्तु पश्चात्क्षमो मम ।
अभिगम्य मतीनां हि सर्वासामेव निश्चयम् ॥ १२.१३०.९ ॥
此处这或许带来痛苦,但之后我将能够,在通晓所有见解的结论之后。
12.130.10
यथायथा हि पुरुषो नित्यं शास्त्रमवेक्षते ।
तथातथा विजानाति विज्ञानं चास्य रोचते ॥ १२.१३०.१० ॥
人越是经常研读经典,便越能理解,其智慧也越发明亮。
12.130.11
अविज्ञानादयोगो हि पुरुषस्योपजायते ।
विज्ञानादपि योगश्च योगो भूतिकरः परः ॥ १२.१३०.११ ॥
由于无知,人便生出不相应;由于智慧,也生出相应,而这种相应乃是最高的兴盛之源。
12.130.12
अशङ्कमानो वचनमनसूयुरिदं शृणु ।
राज्ञः कोशक्षयादेव जायते बलसंक्षयः ॥ १२.१३०.१२ ॥
无疑无妒,请听此言:正是因为君王的库藏耗尽,才会导致兵力衰减。
12.130.13
कोशं संजनयेद्राजा नित्यमेभ्यो यथाबलम् ।
कालं प्राप्यानुगृह्णीयादेष धर्मोऽत्र सांप्रतम् ॥ १२.१३०.१३ ॥
国王应当根据自己的力量,经常从这些人那里充实府库;时机到来时,他也应施以恩惠。这就是此时此地的法。
12.130.14
उपायधर्मं प्राप्यैनं पूर्वैराचरितं जनैः ।
अन्यो धर्मः समर्थानामापत्स्वल्पश्च भारत ॥ १२.१३०.१४ ॥
依循古人所行的这种权宜之法,在危难中强者还有另一种法,婆罗多之子啊,而且它是次要的。
12.130.15
प्रकार्यं प्रोच्यते धर्मो वृत्तिर्धर्मे गरीयसी ।
धर्मं प्राप्य यथान्यायं न बलीयान्निषीदति ॥ १२.१३०.१५ ॥
行动被称为法,而在法中,生计更为重要。依正理得法者,即使强者也不会堕落。
12.130.16
यस्माद्धर्मस्योपचितिरेकान्तेन न विद्यते ।
तस्मादापद्यधर्मोऽपि श्रूयते धर्मलक्षणः ॥ १२.१३०.१६ ॥
因为法的积累从来不是完全的,所以灾难中的法也被说为具有法的特征。
12.130.17
अधर्मो जायते तस्मिन्निति वै कवयो विदुः ।
अनन्तरं क्षत्रियस्य तत्र किं विचिकित्स्यते ॥ १२.१३०.१७ ॥
智者知道,在那种情况下会产生非法。那么,刹帝利在那里还有什么可疑惑的呢?
12.130.18
यथास्य धर्मो न ग्लायेन्नेयाच्छत्रुवशं यथा ।
तत्कर्तव्यमिहेत्याहुर्नात्मानमवसादयेत् ॥ १२.१३०.१८ ॥
为使他的法不衰败、不落入敌人之手,此时此地应当这样做,人们这样说;不可使自己消沉。
12.130.19
सर्वात्मनैव धर्मस्य न परस्य न चात्मनः ।
सर्वोपायैरुज्जिहीर्षेदात्मानमिति निश्चयः ॥ १२.१३०.१९ ॥
完全为了法,不为他人,也不为自己,应以一切方法提升自己——这是决定。
12.130.20
तत्र धर्मविदस्तात निश्चयो धर्मनैपुणैः ।
उद्यमं जीवनं क्षात्रे बाहुवीर्यादिति श्रुतिः ॥ १२.१३०.२० ॥
孩子,关于此事,通晓法且善于法的人所定之决断是:刹帝利的生计依靠努力与双臂的力量,《天启》如此说。
12.130.21
क्षत्रियो वृत्तिसंरोधे कस्य नादातुमर्हति ।
अन्यत्र तापसस्वाच्च श्रोत्रियस्वाच्च भारत ॥ १२.१३०.२१ ॥
刹帝利的生计受阻时,他有权向任何人索取,唯有苦行者之财与精通经典的婆罗门之财除外,婆罗多后裔啊。
12.130.22
यथा वै ब्राह्मणः सीदन्नयाज्यमपि याजयेत् ।
अभोज्यमपि चाश्नीयात्तत्रेदं नात्र संशयः ॥ १२.१३०.२२ ॥
如同陷入困境的婆罗门,即使为不应为之祭祀的人主持祭祀,也可进食不可食之物——此中无疑。
12.130.23
पीडितस्य किमद्वारमुत्पथेनार्दितस्य च ।
अद्वारतः प्रद्रवति यथा भवति पीडितः ॥ १२.१३०.२३ ॥
对于受困、被错误之路所折磨的人,有什么出路之门呢?无门而逃者,依然同样受苦。
12.130.24
तस्य कोशबलग्लान्यां सर्वलोकपराभवः ।
भैक्षचर्या न विहिता न च विट्शूद्रजीविका ॥ १२.१३०.२४ ॥
当其府库与军力衰弱时,他会遭天下所轻侮。乞食并非所规定的,也非吠舍或首陀罗的生计。
12.130.25
स्वधर्मानन्तरावृत्तिर्याऽन्यामनुपजीवतः ।
जहतः प्रथमं कल्पमनुकल्पेन जीवनम् ॥ १२.१३०.२५ ॥
回归自身法在其后续次序中,属于不依赖他途为生者;舍弃最初规定之业者,则以替代之法维持生计。
12.130.26
आपद्गतेन धर्माणामन्यायेनोपजीवनम् ।
अपि ह्येतद्ब्राह्मणेषु दृष्टं वृत्तिपरिक्षये ॥ १२.१३०.२६ ॥
陷入困境者,可能以违背法则的不义手段谋生;当生计耗尽时,即便婆罗门也曾如此。
12.130.27
क्षत्रिये संशयः कस्मादित्येत्निश्चितं सदा ।
आददीत विशिष्टेभ्यो नावसीदेत्कथंचन ॥ १२.१३०.२७ ॥
对刹帝利何须怀疑?此理恒定:他应向尊贵者取用,无论如何不可沉沦。
12.130.28
आर्तानां रक्षितारं च प्रजानां क्षत्रियं विदुः ।
तस्मात्संरक्षता कार्यमादानं क्षत्रबन्धुना ॥ १२.१३०.२८ ॥
人们称刹帝利为困苦者与臣民的守护者;因此,护持者刹帝利之亲族应当取用。
12.130.29
अन्यत्रापि विहिंसाया वृत्तिर्नेहास्ति कस्यचित् ।
अप्यरण्यसमुत्थस्य एकस्य चरतो मुनेः ॥ १२.१३०.२९ ॥
即便在别处,靠伤害为生之道在此对任何人都不适用;即便是生于森林、独自游行的隐士也不例外。
12.130.30
न शङ्खलिखितां वृत्तिं शक्यमास्थाय जीवितुम् ।
विशेषतः कुरुश्रेष्ठ प्रजापालनमीप्सता ॥ १२.१३०.३० ॥
采用商迦与利奇多的生计而生活是不可能的,婆罗多之最,尤其对欲护持臣民者而言。
12.130.31
परस्पराभिहरणं राज्ञा राष्ट्रेण चापदि ।
नित्यमेव हि कर्तव्यमेष धर्मः सनातनः ॥ १२.१३०.३१ ॥
在危难之中,国王与国家应当始终互相扶助;这便是永恒的法。
12.130.32
राजा राष्ट्रं यथापत्सु द्रव्यौधैः परिरक्षति ।
राष्ट्रेण राजा व्यसने परिरक्ष्यस्तथा भवेत् ॥ १२.१३०.३२ ॥
正如国王在灾难中以大量财富保护国家,国家在困厄中也应保护国王。
12.130.33
कोशं दण्डं बलं मित्रं यदन्यदपि संचितम् ।
न कुर्वीतान्तरं राष्ट्रे राजा परिगतः क्षुधा ॥ १२.१३०.३३ ॥
即使被饥饿所困,国王也不应在府库、刑罚、兵力、盟友以及其他积蓄之物上区别对待国家。
12.130.34
बीजं भक्तेन संपाद्यमिति धर्मविदो विदुः ।
अत्रैतच्छम्बरस्याहुर्महामायस्य दर्शनम् ॥ १२.१३०.३४ ॥
知法者说,种子应当以食物供给;据说这里体现了大幻术师商跋罗的见解。
12.130.35
धिक्तस्य जीवितं राज्ञो राष्ट्रं यस्यावसीदति ।
अवृत्त्यान्यमनुष्योऽपि यो वैदेशिक इत्यपि ॥ १२.१३०.३५ ॥
那国王的生命应受斥责,他的国家因生计匮乏而衰败,其他人甚至外邦人也在受苦。
12.130.36
राज्ञः कोशबलं मूलं कोशमूलं पुनर्बलम् ।
तन्मूलं सर्वधर्माणां धर्ममूलाः पुनः प्रजाः ॥ १२.१३०.३६ ॥
国王的根本是府库与兵力;府库的根本又是兵力。这是一切法的根本,而臣民又立足于法的根本之上。
12.130.37
नान्यानपीडयित्वेह कोशः शक्यः कुतो बलम् ।
तदर्थं पीडयित्वा च न दोषं प्राप्नुमर्हति ॥ १२.१३०.३७ ॥
在此,若不压迫他人,如何能有府库与力量?为此而施压,国王也不应承受过失。
12.130.38
अकार्यमपि कार्यार्थं क्रियते यज्ञकर्मसु ।
एतस्मिन्कारणे राजा न दोषं प्राप्नुमर्हति ॥ १२.१३०.३८ ॥
在祭祀之事中,即使不应做的事,也为了职责而做。因此国王不应承受过失。
12.130.39
अर्थार्थमन्यद्भवति विपरीतमथापरम् ।
अनर्थार्थमथाप्यन्यत्तत्सर्वं ह्यर्थकारणम्।
एवं बुद्ध्या संप्रपश्येन्मेधावी कार्यनिश्चयम् ॥ १२.१३०.३९ ॥
为了利益会发生一事,与之相反又另有一事;为了损失又有他事。这一切实为利益之因。如此,智者应以智慧审视行动的决断。
12.130.40
यज्ञार्थमन्यद्भवति यज्ञोऽन्यार्थस्तथाः परः ।
यज्ञस्वार्थार्थमेवान्यत्तत्सर्वं यज्ञसाधकम् ॥ १२.१३०.४० ॥
为了祭祀会有另一事发生;祭祀又为另一目的,同样还有他事。为祭祀自身之利又另有一事;这一切都成就祭祀。
12.130.41
उपमामत्र वक्ष्यामि धर्मतत्त्वप्रकाशिनीम् ॥ १२.१३०.४१ ॥
此处我将讲一个阐明法之本质的譬喻。
12.130.42
यूपं छिन्दन्ति यज्ञार्थं तत्र ये परिपन्थिः ।
द्रुमाः केचन सामन्ता ध्रुवं छिन्दन्ति तानपि ॥ १२.१३०.४२ ॥
为了祭祀,人们砍伐祭柱;在那里,确实也砍掉妨碍道路的一些邻近树木。
12.130.43
ते चापि निपतन्तोऽन्यान्निघ्नन्त्यपि वनस्पतीन् ।
एवं कोशस्य महतो ये नराः परिपन्थिनः।
तानहत्वा न पश्यामि सिद्धिमत्र परंतप ॥ १२.१३०.४३ ॥
他们倒下时也会击打他人,甚至树木。同样,若不杀掉那些阻碍大宝库的人,我在此看不到成功,啊,焚敌者。
12.130.44
धनेन जयते लोकमिमं चामुं च भारत ।
सत्यं च धर्मवचनं यथा नास्त्यधनस्तथा ॥ १२.१३०.४४ ॥
以财富,人能赢得此世与彼世,婆罗多后裔啊。真理与法之言也是如此,无财之人便无此物。
12.130.45
सर्वोपायैराददीत धनं यज्ञप्रयोजनम् ।
न तुल्यदोषः स्यादेवं कार्याकार्येषु भारत ॥ १२.१३०.४५ ॥
为祭祀之用,应以一切方法获取财富。如此,在应做与不应做之事上便不会有同等的过失,婆罗多后裔啊。
12.130.46
नोभौ सभवतो राजन्कथंचिदपि भारत ।
न ह्यरण्येषु पश्यामि धनवृद्धानहं क्वचित् ॥ १२.१३०.४६ ॥
国王啊,婆罗多后裔啊,两者中居于议会者,无论如何皆非如此。我从未在森林中见到因财富而增长之人。
12.130.47
यदिदं दृश्यते वित्तं पृथिव्यामिह किंचन ।
ममेदं स्यान्ममेदं स्यादित्येवं मन्यते जनः ॥ १२.१३०.४७ ॥
凡此地上所见的财富,人便想:愿此物归我,愿此物归我。
12.130.48
न च राज्ञः समो धर्मः कश्चिदस्ति कथंचन ।
धर्मः संशब्दितो राज्ञामापदर्थस्ततोऽन्यथा ॥ १२.१३०.४८ ॥
无论如何,没有任何责任能与国王之责相等。国王之法已如此宣说;在危难中,其目的则不同。
12.130.49
ज्ञानेन कर्मणा चान्ये तपन्त्यन्ये तपस्विनः ।
बुद्ध्या दाक्ष्येण चैवान्ये चिन्वन्ति धनसंचयान् ॥ १२.१३०.४९ ॥
有人以知识与行动努力,有人以苦行者的苦修努力;还有人以智慧与技巧积聚财富。
12.130.50
अधनं दुर्बलं प्राहुर्धनेन बलवान्भवेत् ।
सर्वं बलवतः प्राप्यं सर्वं तरति कोशवान् ॥ १२.१३०.५० ॥
没有财富的人被称为弱者;人因财富而变得强大。强者能得到一切,拥有宝库的人能超越一切。
12.130.51
कोशो धर्मश्च कामश्च परलोकस्तथा ह्ययम् ।
तं धर्मेण विलिप्सेत नाधर्मेण कदाचन ॥ १२.१३०.५१ ॥
宝库、法、欲望与来世,都在其中。应当只以法去求取,绝不可以非法求取。