摩诃婆罗多 · 章 12.14
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.14.1
अव्याहरति कौन्तेये धर्मराजे युधिष्ठिरे ।
भ्रातृणां ब्रुवतां तांस्तान्विविधान्वेदनिश्चयान् ॥ १२.१४.१ ॥
昆提之子、法王坚战默然不语,而他的兄弟们正在陈述依据吠陀而作的种种决断。
12.14.2
महाभिजनसंपन्ना श्रीमत्यायतलोचना ।
अभ्यभाषत राजानं द्रौपदी योषितां वरा ॥ १२.१४.२ ॥
德劳帕蒂出身高贵,容光焕发,眼睛修长,是女子中的佼佼者,她向国王开口说道。
12.14.3
आसीनमृषभं राज्ञां भ्रातृभिः परिवारितम् ।
सिंहशार्दूलसदृशैर्वारणैरिव यूथपम् ॥ १२.१४.३ ॥
王者中的雄牛端坐,被如狮虎般的兄弟们环绕,犹如象群之首领。
12.14.4
अभिमानवती नित्यं विशेषेण युधिष्ठिरे ।
लालिता सततं राज्ञा धर्माधर्मनिदर्शिनी ॥ १२.१४.४ ॥
她总是心高气傲,尤其对坚战如此;常受国王宠爱,且善于指明法与非法。
12.14.5
आमन्त्रयित्वा सुश्रोणी साम्ना परमवल्गुना ।
भर्तारमभिसंप्रेक्ष्य ततो वचनमब्रवीत् ॥ १२.१४.५ ॥
这位腰身美好的女子呼唤丈夫,望着他,以极为温柔甜美的言辞,随后说出了这番话。
12.14.6
इमे ते भ्रातरः पार्थ शुष्यन्ते स्तोकका इव ।
वावाश्यमानास्तिष्ठन्ति न चैनानभिनन्दसे ॥ १२.१४.६ ॥
阿周那啊,你的这些兄弟如幼童般憔悴,哀叹而立,而你却不接纳他们。
12.14.7
नन्दयैतान्महाराज मत्तानिव महाद्विपान् ।
उपपन्नेन वाक्येन सततं दुःखभागिनः ॥ १२.१४.७ ॥
大王啊,请以恰当的言辞安慰这些时常分担苦难的人,正如安抚发情的大象一般。
12.14.8
कथं द्वैतवने राजन्पूर्वमुक्त्वा तथा वचः ।
भ्रातॄनेतान्स्म सहिताञ्शीतवातातपार्दितान् ॥ १२.१४.८ ॥
大王啊,你先前在二林中如此说过,如今怎能对这些相聚而受寒风和烈日折磨的兄弟视而不见?
12.14.9
वयं दुर्योधनं हत्वा मृधे भोक्ष्याम मेदिनीम् ।
संपूर्णां सर्वकामानामाहवे विजयैषिणः ॥ १२.१४.९ ॥
我们在战场上杀死难敌之后,追求胜利的我们将享有充满一切愿望的大地。
12.14.10
नृवीरांश्च रथान्हत्वा निहत्य च महागजान् ।
संस्तीर्य च रथैर्भूमिं ससादिभिररिंदमाः ॥ १२.१४.१० ॥
征服敌人者啊,杀死英雄与战车,击倒大象,以战车和骑兵铺满大地。
12.14.11
यजेभ विविधैर्यज्ञैः समृद्धैराप्तदक्षिणैः ।
वनवासकृतं दुःखं भविष्यति सुखाय नः ॥ १२.१४.११ ॥
我们将以丰厚的酬金举行各种盛大的祭祀,而林中流放所带来的苦难将成为我们的幸福。
12.14.12
इत्येतानेवमुक्त्वा त्वं स्वयं धर्मभृतां वर ।
कथमद्य पुनर्वीर विनिहंसि मनांसि नः ॥ १२.१४.१२ ॥
持法者中最优秀的人啊,你自己曾对这些人这样说过,英雄啊,为何今天又要摧毁我们的心?
12.14.13
न क्लीबो वसुधां भुङ्क्ते न क्लीबो धनमश्नुते ।
न क्लीबस्य गृहे पुत्रा मत्स्याः पङ्क इवासते ॥ १२.१४.१३ ॥
无能之人不享有大地,无能之人不得财富。无能之人的家中,儿子们如泥中之鱼般困顿。
12.14.14
नादण्डः क्षत्रियो भाति नादण्डो भूमिमश्नुते ।
नादण्डस्य प्रजा राज्ञः सुखं विन्दन्ति भारत ॥ १२.१४.१४ ॥
无刑杖之刹帝利不显赫,无刑杖者不得大地。婆罗多子孙啊,无刑杖之王的臣民不得安乐。
12.14.15
सदेवासुरगन्घर्वैरप्सरोभिर्विभूषितम् ।
रक्षोभिर्गुह्यकैर्नागैर्मनुष्यैश्च विभूषितम् ॥ १२.१४.१५ ॥
以诸天、阿修罗、乾闼婆及阿ប萨罗为饰;又以罗刹、夜叉、龙与人类为饰。
12.14.16
त्रिवर्गेण च संपूर्णं त्रिवर्गस्यागमेन च ।
दण्डेनाभ्याहृतं सर्वं जगद्भोगाय कल्पते ॥ १२.१४.१६ ॥
以三目标圆满,并依三目标之教导,此整个世界由刑杖所导,便适于享受。
12.14.17
स्वायंभुवं महीपाल आगमं शृणु शाश्वतम् ।
विप्राणां विदितश्चायं तव चैव विशांपते ॥ १२.१४.१७ ॥
护地之王啊,请听梵天(自生者)的这一永恒传承。人民之主啊,婆罗门皆知此传承,你也知晓。
12.14.18
अराजके हि लोकेऽस्मिन्सर्वतो विद्रुते भयात् ।
रक्षार्थमस्य लोकस्य राजानमसृजत्प्रभुः।
महाकायं महावीर्यं पालने जगतः क्षमम् ॥ १२.१४.१८ ॥
此世界无王,因恐惧而四散,主为护持此世界而造一王——身形高大、威力广大,能够护持世界。
12.14.19
अनिलाग्नियमार्काणामिन्द्रस्य वरुणस्य च ।
चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः ॥ १२.१४.१९ ॥
取自风神、火神、阎摩、太阳、因陀罗、伐楼那、月神与财神的永恒精华,(国王因而被造出)。
12.14.20
यस्मादेषां सुरेन्द्राणां संभवत्यंशतो नृपः ।
तस्मादभिभवत्येष सर्वभूतानि तेजसा ॥ १२.१४.२० ॥
因为国王是由这些众天神之主的一部分所生,所以他以其光辉压倒一切众生。
12.14.21
तपत्यादित्यवच्चैव चक्षूंषि च मनांसि च ।
च चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षितुम् ॥ १२.१४.२१ ॥
他如太阳般燃烧,世上无人能以眼或心直视他。
12.14.22
सोऽग्निर्भवति वायुश्च सोऽर्कः सोमश्च धर्मराट् ।
स कुबेरः स वरुणः स महेन्द्रः प्रतापवान् ॥ १२.१४.२२ ॥
他即是火神,即是风神,即是太阳与月神,法王;他即是财神、伐楼那、大因陀罗——威力无比。
12.14.23
पितामहस्य देवस्य विष्णोः शर्वस्य चैव हि ।
ऋषीणां चैव सर्वेषां तस्मिंस्तेजः प्रतिष्ठितम् ॥ १२.१४.२३ ॥
祖父神(梵天)、毗湿奴、湿婆以及一切仙人的光辉,都安立于他之中。
12.14.24
बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः ।
महती देवता ह्येषा नररूपेण तिष्ठति ॥ १२.१४.२४ ॥
即使国王还是孩童,也不可因认为「他只是个凡人」而轻视;因为这是一位以人形居住于世的伟大神明。
12.14.25
एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम् ।
कुलं दहति राजाग्निः सपशुद्रव्यसंचयम् ॥ १२.१४.२५ ॥
火只烧那个不当靠近它的人,而国王之火却烧毁整个家族,连同其牲畜和积蓄的财物。
12.14.26
धृतराष्ट्रकुलं दग्धं क्रोधोद्भूतेन वह्निना ।
प्रत्यक्षमेतल्लोकस्य संशयो हि न विद्यते ॥ १२.१४.२६ ॥
般度之兄持国王的家族被由愤怒所生的火焚毁了;这对世人是明显的,毫无疑问。
12.14.27
कुलजो वृत्तसंपन्नो धार्मिकश्च महीपतिः ।
प्रजानां पालने युक्तः पूज्यते दैवतैरपि ॥ १२.१४.२७ ॥
出身高贵、品行端正、崇尚正法并尽心保护臣民的君王,连诸神也会尊敬他。
12.14.28
कार्यं योऽवेक्ष्य शक्तिं च देशकालौ च तत्वतः ।
कुरुते धर्मसिद्ध्यर्थं वैश्वरूप्यं पुनः पुनः ॥ १२.१४.२८ ॥
能真正权衡事务、自身力量、地点与时机,为成就正法而反复运用各种方法行事的人。
12.14.29
तस्य प्रसादे पद्मा श्रीर्विजयश्च पराक्रमे ।
मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः ॥ १२.१४.२९ ॥
在他的恩宠中住着帕德玛与吉祥天女,在他的威勇中有胜利,在他的愤怒中住着死亡;因为他确实充满一切光辉。
12.14.30
तं यस्तु द्वेष्टि संमोहात्स विनश्यति मानवः ।
तस्य ह्याशुविनाशाय राजाऽपि कुरुते मनः ॥ १२.१४.३० ॥
凡因迷惑而憎恨他的人必然灭亡;为了使其迅速毁灭,国王自己也会下定决心。
12.14.31
तस्माद्धर्मं यदिष्टेषु स व्यवस्यति पार्थिवः ।
अनिष्टं चाप्यनिष्टेषु तद्धर्मं न विचालयेत् ॥ १२.१४.३१ ॥
因此,国王对所爱之人所定的法,以及对不善之人所定的惩罚,他不应动摇于此法。
12.14.32
तस्यार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम् ।
ब्रह्मतेजोमयं दण्डमसृजत्पूर्वमीश्वरः ॥ १२.१४.३२ ॥
为了他,主在往昔创造了充满梵光的刑杖,它是保护一切众生的法,由他自身所生。
12.14.33
तस्य सर्वाणि भूतानि स्थावराणि चराणि च ।
भयाद्भोगाय कल्पन्ते धर्मान्न विचलन्ति च ॥ १२.१४.३३ ॥
因畏惧它,一切静止与运动的众生都得以享受安乐,且不背离法。
12.14.34
देशकालौ च शक्तिं च कार्यं चावेक्ष्य तत्वतः ।
यथार्हतः संप्रणयेन्नरेष्वन्यायवर्तिषु ॥ १२.१४.३४ ॥
真正考虑了地点、时间、力量与事情之后,应当恰当地对行不义的人施以惩罚。
12.14.35
स राजा पुरुषो दण्डः स नेता शासिता च सः ।
वर्णानामाश्रमाणां च धर्मप्रभुरथाव्ययः ॥ १२.१४.३५ ॥
那位国王便是人,他便是刑杖,他是引导者与统治者;他是诸种姓与诸生活阶段的法主,是不朽者。
12.14.36
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति ।
दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः ॥ १२.१४.३६ ॥
刑罚统治一切臣民,唯有刑罚保护他们。在沉睡者之中,刑罚常醒着;智者知道刑罚本身便是法。
12.14.37
सुसमीक्ष्य धृतो दण्डः सर्वा रञ्जयति प्रजाः ।
असमीक्ष्य प्रणीतस्तु विनाशयति सर्वशः ॥ १२.१४.३७ ॥
经过审慎考虑而施行的刑罚,使所有臣民喜悦;未经考虑而施加的刑罚,则会彻底毁灭他们。
12.14.38
यदि न प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः ।
जले मत्स्यानिवाभक्ष्यन्दुर्बलान्बलवत्तराः ॥ १२.१४.३८ ॥
若国王不懈怠地对应受惩罚者施以刑罚,强者就会吞噬弱者,如同水中大鱼吞食小鱼。
12.14.39
काकोऽद्याच्च पुरोडाशं श्वा चैवावलिहेद्धविः ।
स्वामित्वं न क्वचिच्च स्यात्प्रपद्येताधरोत्तरम् ॥ १२.१४.३९ ॥
乌鸦会吃掉祭饼,狗会舔食供物;任何地方都不再有主权,高低之序将被颠倒。
12.14.40
सर्वो दण्डजितो लोको दुर्लभस्तु शुचिर्नरः ।
दण्डस्य हि भयात्सर्वं जगद्भोगाय कल्पते ॥ १२.१४.४० ॥
整个世界由刑罚而受制,纯洁的人却难得;唯因惧怕刑罚,整个世界才能够享受生活。
12.14.41
देवदानवगन्धर्वा रक्षांसि पतगोरगाः ।
तेऽपि भोगाय कल्पन्ते दण्डेनैवाभिपीडिताः ॥ १२.१४.४१ ॥
诸天、阿修罗、乾闼婆、罗刹、飞鸟与蛇类,也唯有被刑罚所压制,才能够享受。
12.14.42
दूष्येयुः सर्ववर्णाश्च भिद्येरन्सर्वसेतवः ।
सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात् ॥ १२.१४.४२ ॥
因刑罚的紊乱,一切种姓都会堕落,一切堤防与界限都会崩坏,各个世界都会陷入动荡。
12.14.43
यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा ।
प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ॥ १२.१४.४३ ॥
若黑色、红眼、除罪的刑杖在行走,民众便不迷惑,只要统治者看得清楚。
12.14.44
आहुस्तस्य प्रणेतारं राजानं सत्यवादिनम् ।
समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम् ॥ १२.१४.४४ ॥
他们称引导它的人为王:说真话、审慎行事、有智慧、精通法、欲与利者。
12.14.45
तं राजा प्रणयन्सम्यक्स्वर्गायाभिप्रवर्तते ।
कामात्मविषयी क्षुद्रो दण्डेनैव निहन्यते ॥ १२.१४.४५ ॥
国王若善治它,便走向天界;而沉迷欲望与感官之乐的卑劣之人,则正被刑杖所诛。
12.14.46
दण्डो हि सुमहातेजा दुर्धरश्चाकृतात्मभिः ।
धर्माद्विचलितं हन्ति नृपमेव सबान्धवम् ॥ १२.१४.४६ ॥
刑杖威力极大,对心未调伏者难以承受;它会连同亲族击杀背离法道的国王。
12.14.47
ततो दुर्गं च राष्ट्रं च लोकं च सचराचरम् ।
अन्तरिक्षगतांश्चैव मुनीन्देवांश्च हिंसति ॥ १२.१४.४७ ॥
于是它伤害城堡、国家、包括动静众生的世界,乃至住在空中的仙人与天神。
12.14.48
सोऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना ।
अशक्यो न्यायतो नेतुं विषयांश्चैव सेवता ॥ १२.१४.४८ ॥
无助、愚痴、贪婪、智慧未成熟且沉溺于感官之乐者,无法以正道引导。
12.14.49
शुचिना सत्यसन्धेन नीतिशास्त्रानुसारिणा ।
दण्डः प्रणेतुं शक्यो हि सुसहायेन धीमता ॥ १२.१४.४९ ॥
唯有清净、守信、遵循治国之学的人,以及有良善辅佐的智者,才能施行刑罚。
12.14.50
स्वराष्ट्रे न्यायवर्ती स्याद्भृशदण्डश्च शत्रुषु ।
सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥ १२.१४.५० ॥
在本国应守持正义,对敌人施以严厉的刑罚,对朋友坦诚正直,对亲近者和婆罗门则应怀有忍耐与宽恕。
12.14.51
एवंवृत्तस्य राज्ञस्तु शिलोञ्छेनापि जीवतः ।
विस्तीर्येत यशो लोके तैलबिन्दुरिवाम्भसि ॥ १२.१४.५१ ॥
行事如此的君王,即使以拾取遗穗为生,其名声也会如水中的油滴般传遍世间。
12.14.52
अतस्तु विपरीतस्य नृपतेरकृतात्मनः ।
संक्षिप्येन यशो लोके घृतबिन्दुरिवाम्भसि ॥ १२.१४.५२ ॥
然而行事相反、不能自制的君王,其名声会如水中的酥油滴般在世间缩小。
12.14.53
देवदेवेन रुद्रेण ब्रह्मणा च महीपते ।
विष्णुना चैव देवेन शक्रेण च महात्मना ॥ १२.१४.५३ ॥
地上之主啊,此理为诸神之神楼陀罗、梵天、神毗湿奴与大德因陀罗所确立。
12.14.54
लोकपालैश्च भूतैश्च पाण्डवैश्च महात्मभिः ।
धर्माद्विचलिता राजन्धार्तराष्ट्रा निपातिताः।
अधार्मिका दुराचाराः ससैन्या विनिपातिताः ॥ १२.१४.५४ ॥
大王啊,背离法的持国之子们,被世界守护者、众生以及大德般度五子所打倒;他们不义而行为邪恶,连同军队一并被彻底消灭。
12.14.55
तान्निहत्य न दोषस्ते स्वल्पोऽपि जगतीपते ।
छलेन मायया वाऽथ क्षत्रधर्मेण वा नृप ॥ १२.१४.५५ ॥
杀了他们,你没有丝毫过错,大地之主啊,无论是以欺诈、诡计,还是以刹帝利之法,哦,国王。
12.14.56
मित्रता सर्वभूतेषु दानमध्ययनं तपः ।
ब्राह्मणस्यैव धर्मः स्यान्न राज्ञो राजसत्तम ॥ १२.१४.५६ ॥
对一切众生的友爱、布施、学习与苦行,这些本是婆罗门的法,而非国王的法,哦,王中之最。
12.14.57
असतां प्रतिषेधश्च सतां च परिपालनम् ।
एष राज्ञां परो धर्मः समरे चापलायनम् ॥ १२.१४.५७ ॥
抑制邪恶,保护善良,这是国王的至上之法,也包括在战场上不逃跑。
12.14.58
यस्मिन्क्षमा च क्रोधश्च दानादाने भयाभये ।
निग्रहानुग्रहौ चोभौ स वै धर्मविदुच्यते ॥ १२.१४.५८ ॥
若其人兼具宽恕与愤怒、施与受、畏惧与无畏、惩罚与恩赐,此人便被称为通晓法者。
12.14.59
न श्रुतेन न दानेन न सांत्वेन न चेज्यया ।
त्वयेयं पृथिवी लब्धा न संकोचेन चाप्युत ॥ १२.१४.५९ ॥
你并非凭学问、布施、安抚或祭祀得到这片大地,也非凭退缩而得。
12.14.60
यत्तद्बलममित्राणां तथा वीरसमुद्यतम् ।
हस्त्यश्वरथसंपन्नं त्रिभिरङ्गैरनुत्तमम् ॥ १२.१४.६० ॥
敌人那支由英雄整备、备有象、马、车的军队,以其三支兵种而无与伦比。
12.14.61
रक्षितं द्रोणकर्णाभ्यामश्वत्थाम्ना कृपेण च ।
तत्त्वया निहतं वीर तस्माद्भुङ्क्ष्व वसुंधराम् ॥ १२.१४.६१ ॥
那支由德罗纳、迦尔纳、阿湿缚塘摩与克里帕所守护的军队,英雄啊,已被你消灭;因此去享受大地吧。
12.14.62
जम्बूद्वीपो महाराज नानाजनपदैर्युतः ।
त्वया पुरुषशार्दूल दण्डेन मृदितः प्रभो ॥ १२.१४.६२ ॥
大王啊,拥有众多城邦的赡部洲,人中猛虎、主人啊,你已用刑杖将它征服。
12.14.63
जम्बूद्वीपेन सदृशः क्रौञ्चद्वीपो नराधिप ।
अपरेण महामेरोर्दण्डेन मृदितस्त्वया ॥ १२.१४.६३ ॥
克劳罕遮洲与赡部洲相似,位于大须弥山之西,你已用刑杖将它征服,人主啊。
12.14.64
क्रौञ्चद्वीपेन सदृशः शाकद्वीपो नराधिप ।
पूर्वेण तु महामेरोर्दण्डेन मृदितस्त्वया ॥ १२.१४.६४ ॥
沙迦洲与克劳罕遮洲相似,位于大须弥山之东,你已用刑杖将它征服,人主啊。
12.14.65
उत्तरेण महामेरोः शाकद्वीपेन संमितः ।
भद्राश्वः पुरुषव्याघ्र दण्डेन मृदितस्त्वया ॥ १२.१४.६५ ॥
大须弥山之北有贤马洲,与沙迦洲相当;人中猛虎啊,你已用刑杖将它征服。
12.14.66
द्वीपाश्च सान्तरद्वीपा नानाजनपदाश्रयाः ।
विगाह्य सागरं वीर दण्डेन मृदितास्त्वया ॥ १२.१४.६६ ॥
诸洲与间洲,众多城邦所居之地,英雄啊,你已进入大海,用刑杖将它们征服。
12.14.67
एतान्यप्रतिमेयानि कृत्वा कर्माणि भारत ।
न प्रीयसे महाराज पूज्यमानो द्विजातिभिः ॥ १२.१४.६७ ॥
婆罗多之裔啊,你建立了如此无与伦比的功业,又受到再生族的尊崇,大王啊,你却并不欢喜。
12.14.68
स त्वं भ्रातॄनिमान्दृष्ट्वा प्रतिनन्दस्व भारत ।
ऋषभानिव संमत्तान्गजेन्द्रान्गर्जितानिव ॥ १२.१४.६८ ॥
婆罗多之裔啊,你且看着这些兄弟欢喜吧,正如人们见到发情的公牛和咆哮的象王而欢喜一般。
12.14.69
अमरप्रतिमाः सर्वे शत्रुसाहाः परंतपाः ।
एकैकोऽपि सुखायैषां मम स्यादिति मे मतिः ॥ १२.१४.६९ ॥
他们个个都如同不死的天神,能征服敌人,能焚烧仇敌。依我之见,他们中即便只有一人,也足以令我快乐。
12.14.70
किं पुनः पुरुषव्याघ्राः पतयो मे नरर्षभाः ।
समस्तानीन्द्रियाणीव शरीरस्य विचेष्टने ॥ १२.१४.७० ॥
更何况我的夫君们——人中之虎,人中之牛——对身体的运作而言,就如同身体的一切感官一般不可或缺。
12.14.71
अनृतं नाब्रवीच्छ्वश्रूः सर्वज्ञा सर्वदर्शिनी ।
युधिष्ठिरस्त्वां पाञ्चालि सुखे धास्यत्यनुत्तमे ॥ १२.१४.७१ ॥
无所不知、无所不见的婆婆从未说过谎话。般遮利啊,坚战必将使你安居于至上的福乐之中。
12.14.72
इत्वा राजसहस्राणि बहून्याशुपराक्रमः ।
तद्व्यर्थं संप्रपश्यामि मोहात्तव जनाधिप ॥ १२.१४.७२ ॥
人主啊,你以迅猛的勇力杀死了成千上万的国王,但我看来,那一切都因你的迷惑而徒劳无益。
12.14.73
येषामुन्मत्तको ज्येष्ठः सर्वे तेऽप्यनुसारिणः ।
तवोन्मादान्महाराजसोन्मादाः सर्वपाण्डवाः ॥ १२.१४.७३ ॥
若其长者狂乱,则其众皆随之。大王啊,因你的狂乱,所有般度子也都陷入了狂乱。
12.14.74
यदि हि स्युरनुन्मत्ता भ्रातरस्ते नराधिप ।
बद्ध्वा त्वां नास्तिकैः सार्धं प्रशासेयुर्वसुंधराम् ॥ १२.१४.७४ ॥
人主啊,若你的兄弟不狂乱,他们便会将你与无信之人一同捆绑,而统治大地。
12.14.75
कुरुते मूढ एवं हि यः श्रेयो नाधिगच्छति ।
धूपैरञ्जनयोगैश्च नस्यकर्मभिरेव च ॥ १२.१४.७५ ॥
不得善果的愚人便这样行事;应以熏香、眼膏与鼻疗来治疗他。
12.14.76
उन्मत्तिरपनेतव्या तव राजन्यदृच्छया ।
भेषजैः स चिकित्स्यः स्याद्य उन्मार्गेण गच्छति ॥ १२.१४.७६ ॥
大王,你的狂乱须以某种方式消除;行于邪途者,应以药物治疗。
12.14.77
साहं सर्वाधमा लोके स्त्रीणां भरतसत्तम ।
तथा विनिकृता पुत्रैर्याऽहमिच्छामि जीवितुम् ॥ १२.१४.७७ ॥
婆罗多之最啊,我在世上是诸女中最卑贱者,被诸子如此凌辱,却仍想活下去。
12.14.78
धृतराष्ट्रसुता राजन्नित्यमुत्पथगामिनः ।
तादृशानां वधे दोषं नाहं पश्यामि कर्हिचित् ॥ १२.१४.७८ ॥
大王,持国之子常行邪途;对于这样的人,我从不见杀戮之中有何过失。
12.14.79
इमांश्चोशनसा गीताञ्श्लोकाञ्श्रृणु नराधिप ॥ १२.१४.७९ ॥
人主啊,请听乌奢那所吟唱的这些诗句。
12.14.80
आत्महन्ताऽर्थहन्ता च बन्धुहन्ता विषप्रदः ।
अकारणेन हन्ता च यश्च भार्यां परामृशेत् ॥ १२.१४.८० ॥
自杀者、夺取财富者、杀害亲族者、施毒者、无故杀人者,以及触碰他人之妻者——
12.14.81
निर्दोषं वधमेतेषां षण्णामप्याततायिनाम् ।
ब्रह्मा प्रोवाच भगवान्भार्गवाय महात्मने ॥ १२.१४.८१ ॥
即使是杀死这六种侵害者也是无罪的,尊贵的梵天对伟大的婆尔伽瓦如此说道。
12.14.82
ब्रह्मक्षत्रविशां राजन्सत्पथे वर्तिनामपि ।
प्रसह्यागारमागम्य हन्तारं गरदं तथा ॥ १२.१४.८२ ॥
国王啊,闯入行于正道的婆罗门、刹帝利、吠舍之家,行凶或施毒者,可以被杀。
12.14.83
अभक्ष्यापेयदातारमग्निदं च निशातयेत् ।
मार्ग एष महीपानां गोब्राह्मणवधेषु च ॥ १२.१४.८३ ॥
给予禁食、禁饮者,以及纵火者,应当被杀。杀害牛与婆罗门之事,王者之道亦是如此。
12.14.84
केशग्रहे च नारीणामपि युध्येत्पितामहम् ।
ब्रह्माणं देवदेवेशं किं पुनः पापकारिणम् ॥ १२.१४.८४ ॥
若抓住女子的头发,即便与天神之主、祖父梵天作战也是应该的,何况是作恶之人。
12.14.85
गोब्राह्मणार्थे व्यसने च राज्ञां राष्ट्रोपमर्दे स्वशरीरहेतोः ।
स्त्रीणां च विक्रुष्टरुतानि श्रुत्वा विप्रोऽपि युध्येत महाप्रभावः ॥ १२.१४.८५ ॥
为了牛与婆罗门,在国王的灾难中,在国家的毁灭中,为了自身,听到妇女的哭喊声,即便是大有威力的婆罗门也应当作战。
12.14.86
धर्माद्विचलितं विप्रं निहन्यादाततायिनम् ।
तस्यान्यत्र वधं विद्वान्मनसाऽपि न चिन्तयेत् ॥ १२.१४.८६ ॥
背离法、行为侵害的婆罗门可以被杀。智者即便在心中也不应考虑杀他之外的其他办法。
12.14.87
गोब्राह्मणवधे वृत्तं मन्त्रत्राणार्थमेव च ।
निहन्यात्क्षत्रियो विप्रं स्वकुटुम्बस्य चाप्तये ॥ १२.१४.८७ ॥
当牛与婆罗门遭受杀害时,为了保护神圣的曼陀罗,为了自家的福祉,刹帝利甚至可以杀死婆罗门。
12.14.88
तस्करेण नृशंसेन धर्मात्प्रचलितेन च ।
क्षत्रबन्धुः परं शक्त्या युध्येद्विप्रेण संयुगे ॥ १२.१४.८८ ॥
名义上的刹帝利,在战斗中应以全力与偷盗、残忍、背离法的婆罗门作战。
12.14.89
आततायिनमायान्तमपि वेदान्तपारगम् ।
जिघांसन्तं जिघांसीयान्न तेन भ्रूणहा भवेत् ॥ १२.१४.८९ ॥
即便是精通吠陀终极的、怀着杀心前来的侵略者,想要杀他的人也可以杀他;这样做,他不会成为杀胎之人。
12.14.90
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाऽप्यन्त्यजोपि वा ।
न हन्याद्ब्राह्मणं शान्तं तृणेनापि कदाचन ॥ १२.१४.९० ॥
无论是婆罗门、刹帝利、吠舍、首陀罗,甚至贱民,都不应当杀害一位平和的婆罗门,哪怕是用一根草。
12.14.91
ब्राह्मणायावगुर्याद्यः स्पृष्ट्वा गुरुतरं महत् ।
वर्षाणां त्रिशतं पापः प्रतिष्ठां नाधिगच्छति ॥ १२.१४.९१ ॥
若有人打击婆罗门,触碰他并犯下重大深重的罪过,此罪人三百年间不得立足之处。
12.14.92
सहस्राणि च वर्षाणि निहत्य नरके पतेत् ।
तस्मान्नैवावगुर्याद्धि नैव शस्त्रं निपातयेत् ॥ १२.१४.९२ ॥
杀害婆罗门者,将在地狱中堕落数千年。因此不可攻击他,也不可以兵器加害。
12.14.93
शोणितं यावतः पांसून्गृह्णातीति हि धारणा ।
तावतीः स समाः पापो नरके परिवर्तते ॥ १२.१४.९३ ॥
相传血所沾起的尘土有多少颗粒,罪人便在地狱中轮转多少年。
12.14.94
त्वगस्थिभेदं विप्रस्य यः कुर्यात्कारयेत वा ।
ब्रह्महा स तु विज्ञेयः प्रायश्चित्ती नराधमः ॥ १२.१४.९४ ॥
伤裂婆罗门皮肉与骨骼者,或使人如此做者,应被视为杀害婆罗门者;此卑劣之人应当赎罪。
12.14.95
श्रोत्रियं ब्राह्मणं हत्वा तथाऽऽत्रेयीं च ब्राह्मणीम् ।
चतुर्विशतिवर्षाणि चरेद्ब्रह्महणो व्रतम् ॥ १२.१४.९५ ॥
杀死精通吠陀的婆罗门,以及同样杀死阿特里家族的婆罗门妇女者,应持守杀婆罗门之戒律二十四年。
12.14.96
द्विगुणां ब्रह्महत्येयं सर्वैः प्रोक्ता महर्षिभिः ।
प्रायश्चित्तमकुर्वाणं कृताङ्कं विप्रवासयेत् ॥ १२.१४.९६ ॥
诸大仙人皆言,杀婆罗门之罪加倍。不行赎罪者,应刻记标记并逐出婆罗门社群。
12.14.97
ब्राह्मणं क्षत्रियं वैश्यं शूद्रं वा घातयेन्नृपः ।
ब्रह्मघ्नं तस्करं चैव माभूदेवं चरिष्यति ॥ १२.१४.९७ ॥
国王应当令人杀死婆罗门、刹帝利、吠舍或首陀罗,也应杀死杀害婆罗门者和盗贼,以免此类行为再次发生。
12.14.98
छित्त्वा हस्तौ च पादौ च नासिकोष्ठौ च भूपतिः ।
ब्रह्मघ्नं चोत्तमं पापं नेत्रोद्धारेण योजयेत् ॥ १२.१४.९८ ॥
国王应砍断此杀害婆罗门的罪大恶极之人的双手、双脚、鼻子和嘴唇,再挖去他的双眼。
12.14.99
शूद्रस्यैव स्मृतो दण्डस्तद्वद्राजन्यवैश्ययोः ।
प्रायश्चित्तमकुर्वाणं ब्राह्मणं तु प्रवासयेत् ॥ १२.१४.९९ ॥
为首陀罗规定的刑罚,同样适用于刹帝利和吠舍;但不行赎罪的婆罗门,应当被流放。
12.14.100
क्षत्रियं वैश्यशूद्रौ च शस्त्रेणैव च घातयेत् ।
ब्रह्मघ्नान्ब्राह्मणात्राजा कृताङ्कान्विप्रवासयेत् ॥ १२.१४.१०० ॥
国王应当以兵器杀死刹帝利、吠舍和首陀罗;并将杀害婆罗门者和被烙印者从婆罗门中驱逐出去。
12.14.101
विकलेन्द्रियांस्त्रिवर्णांश्च चण्डालैः सह वासयेत् ।
तैश्च यः संपिबेत्कश्चित्स पिबन्ब्रह्महा भवेत् ॥ १२.१४.१०१ ॥
肢体残缺者与三个上层种姓之人应与旃陀罗同住;与他们同饮者,单凭饮用便成为杀害婆罗门者。
12.14.102
प्रेतानां न च देयानि पिण्डदानानि केनचित् ॥ १२.१४.१०२ ॥
任何人都不应向亡者供奉米团。
12.14.103
कृष्णवर्णा विरूपा च निर्णीता लम्बमूर्धजा ।
दुनोत्यदृष्ट्वा कर्तारं ब्रह्महत्येति तां विदुः ॥ १२.१४.१०३ ॥
肤色黝黑、形貌丑陋、长发的她被认定为此,她不见行凶者便加以折磨——人们称她为梵杀(婆罗门杀害)。
12.14.104
ब्रह्मघ्नेन पिबन्तश्च विप्रा देशाः पुराणि च ।
अचिरादेव पीड्यन्ते दुर्भिक्षव्याधितस्करैः ॥ १२.१४.१०४ ॥
与梵杀者同饮的婆罗门,以及国家与城市,很快便会遭受饥荒、疾病与盗贼的折磨。
12.14.105
ब्राह्मणं पापकर्माणं विप्राणामाततायिनम् ।
क्षत्रियं वैश्यशूद्रौ च नेत्रोद्धारेण योजयेत् ॥ १२.१४.१०५ ॥
对于作恶的婆罗门、侵害婆罗门的凶手,以及刹帝利、吠舍和首陀罗,应当施以挖眼之刑。
12.14.106
दुर्बलानां बलं राजा बलिनो ये च साधवः ।
बलिनां दुर्बलानां च पापानां मृत्त्युरिष्यते ॥ १२.१४.१०६ ॥
君王是弱者的力量,强而善良者亦然。对于强者、弱者和作恶之人,死亡是注定的。
12.14.107
सदोषमपि यो हन्यादश्राव्य जगतीपते ।
दुर्बलं बलवन्तं वा स पराजयमर्हति ॥ १२.१४.१०७ ॥
地上的君主啊,即使对有罪之人,不加听审便加以杀害者——无论弱者或强者——都应受到败亡。
12.14.108
राजाज्ञां प्राड्विवाकं च नेच्छेद्यच्चापि निष्पतेत् ।
साक्षिणं साधुवाक्यं च जितं तमपि निर्दिशेत् ॥ १२.१४.१०८ ॥
不应以王命和法官为求,也不应依赖不公正之人;应以证人与诚实之言为据,并指认败诉之人为有罪。
12.14.109
बन्धनान्निष्पतेद्यच्च प्रतिभूर्न ददाति च ।
कुलजश्च धनाढ्यश्च स पराजयमर्हति ॥ १२.१४.१०९ ॥
逃脱束缚、不给保人、出身高贵且富有的人,应当判为败诉。
12.14.110
राजाज्ञया समाहूतो यो न गच्छेत्सभां नरः ।
बलवन्तमुपाश्रित्य सायुधः स पराजितः ॥ १२.१४.११० ॥
奉王命被召而不赴会堂,投靠强者并持械自保的人,即为败者。
12.14.111
तं दण्डेन विनिर्जित्य महासाहसिकं नरम् ।
वियुक्तदेहसर्वस्वं परलोकं विसर्जयेत् ॥ १२.१४.१११ ॥
以刑罚战胜那大胆妄为之人后,应将其剥夺身体与全部财产,送往另一世界。
12.14.112
मृतस्यापि न देयानि पिण्डदानानि केनचित् ।
दत्त्वा दण्डं प्रयच्छेत मध्यमं पूर्वसाहयम् ॥ १२.१४.११२ ॥
即使对于已死之人,也不应由任何人供奉团饭。交付罚金后,应依据先前的帮助支付中等数额。
12.14.113
कुलस्त्रीव्यभिचारं च राष्ट्रस्य च विमर्दनम् ।
ब्रह्महत्यां च चौर्यं च राजद्रोहं च पञ्चमम् ॥ १२.१४.११३ ॥
与良家妇女通奸、毁坏国家、杀害婆罗门、盗窃以及叛逆君王——这是第五种。
12.14.114
युद्धादन्यत्र हिंसायां सुरापस्य च कीर्तने ।
महान्तं गुरुतल्पे च मित्रद्रोहे च पातकम् ॥ १२.१४.११४ ॥
非战争中的暴力、称赞饮酒者、与师母同床,以及背叛朋友——这些都是大罪。
12.14.115
न कथंचिदुपेक्षेत महासाहसिकं नरम् ।
सर्वस्वमपहृत्याशु ततः प्राणैर्वियोजयेत् ॥ १२.१४.११५ ॥
对于犯下重大暴行的人,绝不可置之不理;迅速夺去他的全部财产之后,便应当夺去他的性命。
12.14.116
त्रिषु वर्णेषु यो दण्डः प्रणीतो ब्रह्मणा पुरा ।
महासाहसिकं विप्रं कृताङ्कं विप्रवासयेत् ॥ १२.१४.११६ ॥
梵天古时为三种种姓所定的刑罚是:对犯下重大暴行、已被烙印的婆罗门,应将其驱逐出境。
12.14.117
साहस्रो वा भवेद्दण्डः काञ्चनो देहनिष्क्रिया ।
चतुर्णामपि वर्णानामेवमाहोशना कविः ॥ १२.१४.११७ ॥
刑罚应为罚金一千,或罚黄金,或施以肉刑;智者乌舍那斯为四种种姓都是这样宣示的。
12.14.118
नारीणां बालवृद्धानां गोपतेश्च महामतिः ।
पापानां दुर्विनीतानां प्राणान्तं च बृहस्पतिः।
दण्डमाह महाभाग सर्वेषामाततायिनाम् ॥ १२.१४.११८ ॥
对于妇女、儿童与老人,对于国王(牛主),以及对于罪人和无礼之人,明智的布里哈斯帕蒂宣布了死刑;啊,大福之人,对于所有侵犯者,他宣布的也是这同一刑罚。
12.14.119
सर्वेषां पापबुद्धीनां पापकर्मैव क्वुर्वताम् ।
धृतराष्ट्रस्य पुत्राणां दण्डो निर्दोष इष्यते।
सौबलस्य च दुर्बुद्धेः कर्णस्य च दुरात्मनः ॥ १२.१४.११९ ॥
对于所有心怀恶念、行恶之人,应施以无可指摘的刑罚;对于持国之子是如此,对于心术不正的苏跋拉之子(沙恭尼)以及心怀恶意的迦尔纳也是如此。
12.14.120
पश्यतां चैव शूराणां याऽहं द्यूते सभां तदा ।
रजस्वला समानीता भवतां पश्यतां नृप।
वाससैकेन संवीता तव दोषेण भूपते ॥ १२.१४.१२० ॥
众英雄注视之时,我当时在掷骰子的议会中,因月经而不洁地被带来,国王啊,你们所有人注视之时,我仅以一块布遮身,因你的过错,大地之主啊。
12.14.121
माभूद्धर्मविलोपस्ते धृतराष्ट्रकुलक्षयात् ।
क्रोधाग्निना तु दग्धं च सपशुद्रव्यसंचयम् ॥ १२.१४.१२१ ॥
愿你的法不因持国家族的覆灭而毁灭;它已被愤怒之火焚烧,连同牲畜与财富的积存。
12.14.122
साऽहमेवंविधं दुःखं संप्राप्ता तव हेतुना ।
आदित्यस्य प्रसादेन न च प्राणैर्वियोजिता ॥ १२.१४.१२२ ॥
我因你的缘故遭受了这样的痛苦;然而因太阳的恩典,我没有与生命之气分离。
12.14.123
रक्षिता देवदेवेन जगतः कालहेतुना ।
दिवाकरेण देवेन विवस्त्रा न कृता तदा ॥ १२.१४.१२३ ॥
我受到了神中之神、世界时间之因——太阳的守护;那时我没有被剥去衣衫。
12.14.124
एतेषां यतमानानां न मेऽद्य वचनं मृषा ।
त्वं तु सर्वां महीं त्यक्त्वा कुरुषे स्वयमापदम् ॥ १२.१४.१२४ ॥
对于这些奋力之人,我今日之言并非虚妄;而你舍弃整个大地,却自己招来这灾难。
12.14.125
यथाऽऽस्तां संमतौ राज्ञां पृथिव्यां राजसत्तम् ।
मांधाता चाम्बरीषश्च तथा राजन्विराजसे ॥ १२.१४.१२५ ॥
正如曼陀多与安巴利沙在大地诸王中享有共识,诸王中最优秀的啊,国王啊,你也将光耀。
12.14.126
प्रशाधि पृथिवीं देवीं प्रजा धर्मेण पालयन् ।
सपर्वतवनद्वीपां मा राजन्विमना भव ॥ १२.१४.१२६ ॥
以法护持臣民,统治这神圣的大地,连同其山岳、森林与岛屿;国王啊,不要沮丧。
12.14.127
यजस्व विविधैर्यज्ञैर्युध्यस्वारीन्प्रयच्छ च ।
धनानि भोगान्वासांसि द्विजातिभ्यो नृपोत्तम ॥ १२.१४.१२७ ॥
举行种种祭祀,与敌人作战,并将财富、享乐与衣物施予再生者(婆罗门),最优秀的国王啊。