摩诃婆罗多 · 章 12.140
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.140.1
युगक्षयात्परिक्षीणे धर्मे लोके च भारत ।
दस्युभिः पीड्यमाने च कथं स्थेयं पितामह ॥ १२.१४०.१ ॥
当时代衰败、法与世界衰微,婆罗多之后裔啊,人民又被盗匪欺压时,祖父啊,人应当如何自处?
12.140.2
हन्त ते वर्तयिष्यामि नीतिमापत्सु भारत ।
उत्सृज्यापि घृणां काले यथा वर्तेत भूमिपः ॥ १२.१४०.२ ॥
好吧,婆罗多之后,我将为你讲述危难中的治国之道:君王在时机来临时,即使舍弃怜悯,也当如何行事。
12.140.3
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
भारद्वाजस्य संवादं राज्ञः शत्रुंतपस्य च ॥ १२.१४०.३ ॥
此处人们也讲述这一古老传说:婆罗堕阇与国王舍特鲁多波的对话。
12.140.4
राजात्शत्रुंतपो नाम सौवीरेषु महारथः ।
भारद्वाजमुपागम्य पप्रच्छार्थविनिश्चयम् ॥ १२.१४०.४ ॥
在索维罗人中,有一位名叫舍特鲁多波的大战车王。他前往婆罗堕阇处,询问义理的确定。
12.140.5
अलब्धस्य कथं लिप्सा लब्धं केन विवर्धते ।
वधितं पाल्यते केन पालितं प्रणयेत्कथम् ॥ १२.१४०.५ ॥
未得之物当如何求?既得之物以何而增长?增长之物以何而守护,守护之物又当如何治理?
12.140.6
तस्मै विनिश्चितार्थाय परिपृष्टोऽर्थिश्चयम् ।
उवाच मतिमान्वाक्यमिदं हेतुमदुत्तमम् ॥ १२.१४०.६ ॥
那位已决心的国王发问,智慧的婆罗堕阇便就义理的确定说出了这番上好而有理据的言辞。
12.140.7
नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः ।
अच्छिद्रश्छिद्रदर्शी च परेषां विवरानुगः ॥ १२.१४०.७ ॥
君王应当始终高举刑杖,始终显示其勇武。自身无隙可乘,洞察敌人的破绽,并顺着其缺口行事。
12.140.8
नित्यमुद्यतदण्डस्य भृशमुद्विजते नरः ।
तस्मात्सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् ॥ १२.१४०.८ ॥
常高举刑杖的人,使百姓极为惊惧。因此应当唯以刑罚来驯服一切众生。
12.140.9
एवमेव प्रशंसन्ति बुधा ये तत्त्वदर्शिनः ।
तस्माच्चतुष्टये तस्मिन्प्रधानो दण्ड उच्यते ॥ १२.१४०.९ ॥
洞见真理的智者也如此称赞。因此在那四者之中,刑罚被称为首要。
12.140.10
छिन्नमूले त्वधिष्ठाने सर्वे तज्जीविनो हताः ।
कथं हि शाखास्तिष्ठेयुश्छिन्नमूले वनस्पतौ ॥ १२.१४०.१० ॥
根基被斩断,依靠它生活的一切都会灭亡。树根被砍断,枝条又怎能存活?
12.140.11
मूलमेवादितश्छिन्द्यादरिपक्षस्य पण्डितः ।
ततः सहायान्पक्षं च सर्वमेवानुशातयेत् ॥ १२.१४०.११ ॥
智者应从一开始就斩断敌方的根本。然后再逐一消灭其盟友与所有支持者。
12.140.12
सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम् ।
आपदागमकाले तु कुर्वीत न विचारयेत् ॥ १२.१४०.१२ ॥
灾祸来临之时,应当以深思熟虑、勇猛果敢的方式行事,善战或善退;那时就应行动,不再反复思量。
12.140.13
वाङ्भात्रेण विनीतः स्याद्धृदयेन यथा क्षुरः ।
श्लक्ष्णपूर्वाभिभाषी च कामक्रोधौ विवर्जयेत् ॥ १२.१४०.१३ ॥
只在言语上谦逊,心中不可锋利如剃刀。先以温和之语开口,远离欲望与愤怒。
12.140.14
सपत्नसहितो राज्ये कृत्वा सन्धिं न विश्वसेत् ।
उपक्रामेत्ततः शीघ्रं कृतकार्यो विचक्षणः ॥ १२.१४०.१४ ॥
即使与敌人在国中订立和约,也不可相信。待事情办成,智者便应迅速离开那里。
12.140.15
शत्रुं च मित्रं पूर्वेण सान्त्वेनैवानुसान्त्वयेत् ।
नित्यशश्चोद्विजेत्तस्मात्सर्पाद्वेश्मगतादिव ॥ १२.१४०.१५ ॥
先以安抚之道平息敌人与朋友;但仍须时刻提防他们,如同防备潜入屋中的毒蛇。
12.140.16
यस्य बुद्धिं परिभवेत्तमतीतेन सान्त्वयेत् ।
अनागतेन दुष्प्रज्ञं प्रत्युत्पन्नेन पण्डितम् ॥ १२.१४०.१६ ॥
凡欲胜其心智者,以过去安慰之;愚者以未来,智者以现在安抚之。
12.140.17
अञ्जलिं शपथं सान्त्वं शिरसा पादवन्दनम् ।
अश्रुप्रपातनं चैव कर्तव्यं भूतिमिच्छता ॥ १२.१४०.१७ ॥
欲求兴旺者,应当合掌致礼、立誓、以安抚相待、以头叩足、并洒泪。
12.140.18
वहेदमित्रं स्कन्धेन यावदर्थस्य लम्भनम् ।
अथैनमागते काले भिन्द्याद्धटमिवाश्मनि ॥ १२.१४०.१८ ॥
在达成目的之前,应将敌人扛在肩上;待时机到来,便将他摔碎,如同把瓦罐砸在石头上。
12.140.19
मुहूर्तमपि राजेन्द्र तिन्दुकालातवज्ज्वलेत् ।
मा तुषाग्निरिवानर्चिर्धूमायेत चिरं नरः ॥ १२.१४०.१९ ॥
王中之王啊,人宁可如丁杜迦的燃烧木柴,哪怕只燃烧片刻,也不要像谷壳之火那样无焰而长久冒烟。
12.140.20
नानार्थिकोऽर्थसंबन्धं कृतघ्ने न समाचरेत् ।
अर्थी तु शक्यते भोक्तुं कृतकार्योऽवमन्यते।
तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ॥ १२.१४०.२० ॥
有多重目的的人不应与忘恩负义者建立利益关系。求助者可以被利用,但事成之后便遭轻视。因此,所有事务都应留有余地地去做。
12.140.21
कोकिलस्य वराहस्य मेरोः शून्यस्य वेस्मनः ।
व्यालस्य भक्तचित्तस्य यच्छ्रेयस्तत्समाचरेत् ॥ १२.१४०.२१ ॥
应当效法杜鹃、野猪、须弥山、空屋以及一心寻食之蛇中最为可取的品行。
12.140.22
उत्थायोत्थाय गच्छेच्च नित्ययुक्तो रिपोर्गृहम् ।
कुशलं चास्य पृच्छेत यद्यप्यकुशलं भवेत् ॥ १२.१४०.२२ ॥
常保警觉的人应屡屡起身,前往仇敌家中问候其安好,即使他正遭遇不幸。
12.140.23
नालसाः प्राप्नुवन्त्यर्थान्न क्लीबा नातिमानिनः ।
न च लोकरवाद्भीता न वै शश्वत्प्रतीक्षिणः ॥ १२.१४०.२३ ॥
懒惰者不能得到所求,怯弱者和过分傲慢者也不能;畏惧众人议论者以及只知守候者同样不能。
12.140.24
नास्य च्छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु ।
गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥ १२.१४०.२४ ॥
敌人不应发现自己的弱点,反而应当洞察敌人的弱点。像乌龟藏起四肢那样隐藏自己,守护自身的缺口。
12.140.25
बकवच्चिन्तयेदर्थान्सिंहवच्च पराक्रमेत् ।
वृकवच्चावलुम्पेत शरवच्च विनिष्पतेत् ॥ १२.१४०.२५ ॥
应像白鹭一样思量事务,像狮子一样显示勇猛,像狼一样扑击,像箭一样疾飞而出。
12.140.26
पानमक्षास्तथा नार्यो मृगया गीतवादितम् ।
एतानि युक्त्या सेवेत प्रसङ्गो ह्यत्र दोषवान् ॥ १२.१४०.२६ ॥
饮酒、博弈、女色、狩猎、歌舞音乐——应当有节制地享用,因为过分沉溺于其中便是过失。
12.140.27
कुर्यात्तृणमयं चापं शयीत मृगशायिकाम् ।
अन्धः स्यादन्धवेलायां बाधिर्यमपि संश्रयेत् ॥ १२.१४०.२७ ॥
应当用草制成弓,以鹿卧之姿躺下;在盲目之时应装作盲人,甚至应当借助聋哑之态。
12.140.28
देशकालं समासाद्य विक्रमेत विचक्षणः ।
देशकालव्यतीतो हि विक्रमो निष्फलो भवेत् ॥ १२.१४०.२८ ॥
智者得其地与时,便应奋勇而行;若已过其地与时,勇武便归于徒劳。
12.140.29
कालाकालौ संप्रधार्य बलाबलमथात्मनः ।
परस्य च बलं ज्ञात्वा तथाऽऽत्मानं नियोजयेत् ॥ १२.१४०.२९ ॥
审慎权衡时机之宜与不宜,衡量自己的强弱,并知晓敌人的力量,然后方可投身行动。
12.140.30
दण्डेनोपनतं शत्रुं यो राजा न नियच्छति ।
स मृत्युमुपगूहेत् गर्भमश्वतरी यथा ॥ १२.१४०.३० ॥
若国王对已被刑罚制服的敌人不加约束,便是拥抱死亡,如母骡拥抱其胎儿一般。
12.140.31
सुपुष्पितः स्यादफलः फलवान्स्याद्दुरारुहः ।
आमः स्यात्पक्वसंकाशो न च शीर्येत कस्यचित् ॥ १२.१४०.३१ ॥
它可能花开繁盛却无果,或结实累累却难以攀及;未熟却似已熟,且不会落到任何人手中。
12.140.32
आशां कालवतीं कुर्यात्तां च विघ्नेन योजयेत् ।
विघ्नं निमित्ततो ब्रूयान्निमित्तं चापि हेतुमत् ॥ १२.१४०.३२ ॥
应将希望系于时机,并与某种障碍相连;把障碍说成由某个征兆所致,并使征兆本身也有其缘由。
12.140.33
भीतवत्संविधातव्यं यावद्भयमनागतम् ।
आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत् ॥ १२.१४०.३३ ॥
在危险尚未来临之前,应像畏惧者那样行事;危险一旦来临,见到它后,应像无所畏惧者那样出击。
12.140.34
न साहसमनारुह्य नरो भद्राणि पश्यति ।
संशयं पुनरारुह्य यदि जीवति पश्यति ॥ १२.१४०.३४ ॥
人若不冒险行动,便看不到好的结果;若再次涉入风险而仍然活着,他便能看见。
12.140.35
अनागतं विजानीयात्त्यजेद्भयमुपस्थितम् ।
पुनर्बुद्धिक्षयात्किंचिदनिवृत्तिं निशामयेत् ॥ १२.१४०.३५ ॥
应当辨明尚未到来的事,舍弃已经出现的危险;再者,要考虑因智慧丧失,某些事便不可挽回。
12.140.36
प्रत्युपस्थितकालस्य सुखस्य परिवर्जनम् ।
अनागतसुखाशा च नैव बुद्धिमतां नयः ॥ १२.१४०.३६ ॥
放弃已经临近的当下之乐,而执着于未来之乐的希望,这不是智者的策略。
12.140.37
योऽरिणा सह संधाय विश्वस्तः स्वपते सुखम् ।
स वृक्षाग्रे प्रसुप्तो वा पतितः प्रतिबुध्यते ॥ १२.१४०.३७ ॥
与敌人订立盟约后,信任而安然入睡的人,醒来时便如同在树梢上熟睡或已坠落一般。
12.140.38
कर्मणा येन केनेह मृदुना दारुणेन वा ।
उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ॥ १२.१४०.३८ ॥
无论此处以何种行为,温和或严厉,都应使卑微的自己振作起来;有能力者应当行持法。
12.140.39
ये सपत्नाः सपत्नानां सर्वांस्ताननुवर्तयेत् ।
आत्मनश्चापि बोद्धव्याश्चाराः सुमहिताः परैः ॥ १२.१४०.३९ ॥
对于那些为敌之人,应当监视他们所有的敌人;自己的间谍也应当了解,他们是由他人妥善安插的。
12.140.40
चारः सुविहितः कार्य आत्मनोऽथ परस्य च ।
पाषण्डांस्तापसादींश्च परराष्ट्रे प्रवेशयेत् ॥ १२.१४०.४० ॥
应当为自己和他人妥善设置间谍;并把异端者、苦行者等派入敌国。
12.140.41
उद्यानेषु विहारेषु प्रपास्वावसथेषु च ।
पानागारे प्रवेशेषु तीर्थेषु च सभासु च ॥ १२.१४०.४१ ॥
在园林、游憩之所、水站、住所、酒肆门口、圣地渡口,以及集会之中。
12.140.42
धर्माभिचारिणः पापाश्चौरा लोकस्य कण्टकाः ।
समागच्छन्ति तान्बुद्ध्वा नियच्छेच्छमयीत च ॥ १२.१४०.४२ ॥
违背法度的恶贼是世间的荆棘,他们会聚集在一起。察知后应加以制止并使其平息。
12.140.43
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।
विश्वासाद्भयमभ्येति नापरीक्ष्य च विश्वसेत् ॥ १२.१४०.४३ ॥
不可信任不可信之人,对可信之人也不可过度信任。恐惧由信任而生;未经考察不可轻信。
12.140.44
विश्वासयित्वा तु परं तत्त्वभूतेन हेतुना ।
अथास्य प्रहरेत्काले किंचिद्विचलिते पदे ॥ १२.१४०.४४ ॥
以看似真实的手段赢得他人的信任后,应在恰当时机、其步伐稍有动摇时出击。
12.140.45
अशङ्क्यमपि शङ्केत नित्यं शङ्केत शङ्कितान ।
भयं ह्यशङ्किताज्जातं समूलमपि कृन्तति ॥ १२.१४०.४५ ॥
即便不可怀疑之人,也应加以怀疑;对可疑者应时时怀疑。因不加怀疑而生的恐惧,会连根斩断。
12.140.46
अवधानेन मौनेन काषायेण जटाजिनैः ।
विश्वासयित्वा द्वेष्टारमवलुम्पेद्यथा वृकः ॥ १२.१४०.४६ ॥
以专注、沉默、赭色衣、乱发和鹿皮赢得信任后,应如狼一般扑住仇敌。
12.140.47
पुत्रो वा यदि वा भ्राता पिता वा यदि वा सुहृद ।
अर्थस्य विघ्नं कुर्वाणा हन्तव्या भूतिमिच्छता ॥ १२.१४०.४७ ॥
无论是儿子、兄弟、父亲还是朋友,凡阻碍财富之事者,求繁荣者应将其杀死。
12.140.48
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम् ॥ १२.१४०.४८ ॥
即便是尊长,若骄傲自大,不知何事当为、何事不当为,并已走上邪路,就必须加以惩处。
12.140.49
प्रत्युत्थानाभिवादाभ्यां संप्रदानेन केनचित् ।
प्रपूजयन्निघाती स्यात्तीक्ष्णतुण्ड इव द्विजः। ॥ १२.१४०.४९ ॥
以起身、致敬和某种赠礼来尊敬他,然后像尖嘴鸟一样从暗处出击。
12.140.50
नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम् ।
नाहत्वा मत्स्यघातीव प्राप्नोति परमां श्रियम् ॥ १२.१४०.५० ॥
不切断要害,不做残酷之事,不像渔夫那样击杀,就得不到至高的福祉。
12.140.51
नास्ति जात्या रिपुर्नाम मित्रं वाऽपि न विद्यते ।
सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ॥ १२.१४०.५१ ॥
生来并无敌人,也无朋友;因力量的结合,朋友与敌人才会产生。
12.140.52
न प्रमुञ्चेत दायादं वदन्तं करुणं बहु ।
दुःखं तत्र न कर्तव्यं हन्यात्पूर्वापकारिणम् ॥ १२.१४०.५२ ॥
不应放过那个满口怜悯、大声求情的亲族继承人;在那里不应悲伤,而应杀死先前伤害你的人。
12.140.53
संग्रहानुग्रहे यत्नः सदा कार्योऽनसूयता ।
निग्रहश्चापि यत्नेन कर्तव्यो हितमिच्छता ॥ १२.१४०.५३ ॥
在团结与施恩之事上,应当始终无嫉妒地努力;而希望他人福祉者也应努力加以约束。
12.140.54
प्रहरिष्यन्प्रियं ब्रूयात्प्रहृत्यापि प्रियोत्तरम् ।
असिनाऽपि शिरश्छित्त्वा शोचेत च रुदेत च ॥ १२.१४०.५४ ॥
将要打击的人应当说好听的话;即便打击之后,也应当温和作答;即使用剑斩下了头颅,也应当悲叹并哭泣。
12.140.55
निमन्त्रयीत सान्त्वेन संमानेन तितिक्षया ।
आशाकरणमित्येतत्कर्तव्यं भूतिमिच्छता ॥ १२.१४०.५५ ॥
应以安抚、尊重和忍耐去邀请;求昌盛者,当行的是使人心生希望。
12.140.56
न शुष्कवैरं कुर्वीत बाहुभ्यां न नदीं तरेत् ।
अनर्थकमनायुष्यं गोविषाणस्य भक्षणम्।
दन्ताश्च परिमृद्यन्ते रसश्चापि न लभ्यते ॥ १२.१४०.५६ ॥
不应无谓地结仇,不应用双臂渡河;啃食牛角毫无益处,且损寿——牙齿磨损,连味道也尝不到。
12.140.57
त्रिवर्गे त्रिविधा पीडा अनुबन्धस्तथैव च ।
अनुबन्धं तथा ज्ञात्वा पीडां च परिवर्जयेत् ॥ १२.१४०.५७ ॥
在三宗目标之中有三种苦患,其后果亦然;知晓其后果,便应远离苦患。
12.140.58
ऋणशेषं चाग्निशेषं शत्रुशेषं तथैव च ।
पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न कारयेत् ॥ १२.१४०.५८ ॥
债务的残余、火的残余与敌人的残余,都会一再滋长;因此不应留下任何残余。
12.140.59
ऋणशेषां विवर्धन्ते परिभूताश्च शत्रवः ।
आवहन्त्यनयं तीव्रं व्याधयश्चाप्युपेक्षिताः ॥ १२.१४०.५९ ॥
由债务的残余,即使被压制的敌人也会壮大;被忽视的疾病也会带来严重的灾祸。
12.140.60
नाम…क्कृत्यकारी स्यादप्रमत्तः सदा भवेत् ।
कष्यकोपि हि दुश्छिन्नो विकारं कुरुते चिरम् ॥ १२.१४०.६० ॥
……应当做该做之事,并且始终保持警觉;即使小伤,若愈合不好,也会长久地化脓变坏。
12.140.61
वधेम च मनुष्याणां मार्गाणां दूषणेन च ।
आकाराणां विनाशैश्च परराष्ट्रं विनाशयेत् ॥ १२.१४०.६१ ॥
以杀害人民、污染道路、毁灭标记之法,摧毁敌国。
12.140.62
गृध्रदृष्टिर्बकालीनः श्वचेष्टः सिंहविक्रमः ।
अनुद्विग्रः काकशङ्की भुजङ्गचरितं चरेत् ॥ १२.१४०.६२ ॥
以秃鹫之眼、白鹭之隐、犬之行、狮之勇,无所畏惧而如乌鸦般多疑,行事如蛇。
12.140.63
शूरमञ्जलिपातेन भीरुं भेदेन भेदयेत् ।
लुब्धमर्थप्रदानेन समं तुल्येन विग्रहः ॥ १२.१४०.६३ ॥
以合掌致敬收服英雄,以离间分化怯懦者,以赠予财富诱惑贪婪者,与同等之人交战。
12.140.64
श्रेणीमुख्योपजापेषु वल्लभानुनयेषु च ।
अमात्यान्परिरक्षेत भेदसंघातयोरपि ॥ १२.१४०.६४ ॥
在与行会首领的谋划和安抚宠臣之中,也要保护大臣免于离间与结盟。
12.140.65
मृदुरित्यवजानन्ति तीक्ष्ण इत्युद्विजन्ति च ।
तीक्ष्णकाले भवेत्तीक्ष्णो मृदुकाले मृदुर्भवेत् ॥ १२.१४०.६५ ॥
以为他温和,便轻视他;以为他严厉,便畏惧他。因此,在严厉之时当严厉,在温和之时当温和。
12.140.66
मृदुनैव मृदुं हन्ति मृदुना हन्ति दारुणम् ।
नासाध्यं मृदुना किंचित्तस्मात्तीक्ष्णतरो मृदुः ॥ १२.१४०.६६ ॥
以柔克柔,亦以柔克刚。柔则无所不能,故柔者比锐者更锐利。
12.140.67
काले मृदुर्यो भवति काले भवति दारुणः ।
स साधयति कृत्यानि शत्रुं चाप्यधितिष्ठति ॥ १२.१४०.६७ ॥
能够适时温和、适时严厉的人,便能成就事业,甚至制服敌人。
12.140.68
पण्डितेन विरुद्धस्तु दूरस्थोऽस्मीति नाश्वसेत् ।
दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ॥ १२.१४०.६८ ॥
与智者结怨时,不可因“我远在他方”而安心;智者的臂膀很长,凭此他会打击伤害他的人。
12.140.69
न तत्तरेद्यस्य न पारमुत्तरे ।
न्न तद्धरेद्यत्पुनराहरेत्परः।
न तत्खनेद्यस्य न मूलमुद्धरे ।
न्न तं हन्याद्यस्य शिरो न पातयेत् ॥ १२.१४०.६९ ॥
不可渡过不能渡过之处;不可夺取敌人能够夺回之物;不可挖掘无法拔除根基之物;不可打击无法使其头颅落地之人。
12.140.70
इतीदमुक्तं वृजिनाभिसंहितं ।
न चैतदेवं पुरुषः समाचरेत्।
परप्रयुक्तस्तु कथं विभावये ।
दतो मयोक्तं भवतो हितार्थिना ॥ १२.१४०.७० ॥
如此所说,满含邪恶之意;人不应当这样行事。但被他人所唆使者,我又如何辨别呢?我是希望你好才这样对你说的。
12.140.71
यथावदुक्तं वचनं हितार्थिना ।
निशम्य विप्रेण सुवीरराष्ट्रपः।
तथाऽकरोद्वाक्यमदीनचेतनः ।
श्रियं च दीप्तां बुभुजे सबान्धवः ॥ १२.१४०.७१ ॥
这位统治英勇战士之国的君王,从婆罗门那里听到了希望他好的人所说的话,一字不差;他便以无畏之心照此行事,与亲族一同享受光辉的繁荣。