Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.156

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.156.1

पापस्य यदधिष्ठानं यतः पापं प्रवर्तते ।
एतदिच्छाम्यहं श्रोतुं तत्त्वेन भरतर्षभ ॥ १२.१५६.१ ॥

罪的根基是什么,罪从何而生?我愿如实听闻,婆罗多族中的雄牛啊。

12.156.2

पापस्य यदधिष्ठानं तच्छृणुष्व नराधिप ।
एको लोभो महाग्राहो लोभात्पापं प्रवर्तते ॥ १२.१५६.२ ॥

君主啊,请听罪的根基。唯有贪欲是那巨大的攫取之鳄;罪由贪欲而生。

12.156.3

अतः पापमधर्मश्च तथा दुःखमनुत्तमम् ।
निकृत्या मूलमेतद्धि येन पापकृतो जनाः ॥ १२.१५६.३ ॥

因此,罪、不义与至上的苦,其根源正是欺诈;人们因此而成为作恶之人。

12.156.4

लोभात्क्रोधः प्रभवति लोभात्कामः प्रवर्तते ।
लोभान्मोहश्च माया च मानस्तम्भः परासुता ॥ १२.१५६.४ ॥

由贪生出瞋恚,由贪生出欲望;由贪生出迷惑与幻术,傲慢的僵滞,以及对他人的敌意。

12.156.5

अक्षमा ह्रीपरित्यागः श्रीनाशो धर्मसंक्षयः ।
अभिध्याऽप्रख्यता चैव सर्वं लोभात्प्रवर्तते ॥ १२.१५६.५ ॥

不忍、舍弃羞耻、福德衰败、法的消亡、贪求,以及失去名声——这一切都由贪而生。

12.156.6

अत्यागश्च कुतर्कश्च विकर्मसु च याः क्रियः ।
कुलविद्यामदश्चैव रूपैश्वर्यमदस्तथा ॥ १२.१५६.६ ॥

悭吝与歪理,以及在恶行中所做之事;门第与学问的骄慢,以及美貌与权势的骄慢——这些也都由贪而生。

12.156.7

सर्वभूतेष्वभिद्रोहः सर्वभूतेष्वसत्कृतिः ।
सर्वभूतेष्वविश्वासः सर्वभूतेष्वनार्जवम् ॥ १२.१५६.७ ॥

对一切众生怀有敌意,对一切众生轻慢,对一切众生不信任,对一切众生不正直。

12.156.8

हरणं परवित्तानां परदाराभिमर्शनम् ।
वाग्वेगो मनसो वेगो निन्दावेगस्तथैव च ॥ १२.१५६.८ ॥

夺取他人财物,触犯他人之妻,言语的冲动,心意的冲动,以及诽谤的冲动。

12.156.9

उपस्थोदरयोर्वेगो मृत्युवेगश्च दारुणः ।
ईर्ष्यावेगश्च बलवान्मिथ्यावेगश्च दुर्जयः ॥ १२.१५६.९ ॥

下体与腹部的冲动,可怕的死亡冲动,强大的嫉妒冲动,以及难以克服的虚妄冲动。

12.156.10

रसवेगश्च दुर्वार्यः श्रोत्रवेगश्च दुःसह ।
कुत्सा विकत्था मात्सर्यं पापं दुष्कर्मकारिता।
साहसानां च सर्वेषामकार्याणां क्रियास्तथा ॥ १२.१५६.१० ॥

味之冲动难以遏制,耳之冲动难以忍受。诽谤、自夸、嫉妒、罪恶、作恶事,以及一切鲁莽和不当的行为。

12.156.11

आतौ बाल्ये च कौमारे यौवने चापि मानवाः ।
न त्यजन्त्यात्मकर्मैकं यन्न जीर्यति जीर्यतः ॥ १२.१५६.११ ॥

人在婴儿、童年、少年与青年时,都不舍弃自己的那一种行为,它即使人老去也不会衰败。

12.156.12

यो न पूरयितुं शक्यो लोभः प्रीत्या कथंचन ।
नित्यं गम्भीरतोयाभिरापगाभिरिवोदधिः ॥ १२.१५६.१२ ॥

那种无论如何也无法以满足填平的贪欲,总像大海一样,即使有深水的河流不断注入,也永不充盈。

12.156.13

न प्रहृष्यति यो लोभैः कामैर्यश्च न तृप्यति ।
यो न देवैर्न गन्धर्वैर्नासुरैर्न महोरगैः ॥ १२.१५६.१३ ॥

不为贪欲所喜,亦不为欲望所满足者;不为诸天、干闼婆、阿修罗、大蛇所满足者。

12.156.14

ज्ञायते नृप तत्त्वेन सर्वैर्भूतगणैस्तथा ।
स लोभः सह मोहेन विजेतव्यो जितात्मना ॥ १२.१५६.१४ ॥

大王,此事为一切众生所真实知晓。此贪欲与迷惑并存,应由自制者征服。

12.156.15

दम्भो द्रोहश्च निन्दा च पैशून्यं मत्सरस्तथा ।
भवन्त्येतानि कौरव्य लुब्धानामकृतात्मनाम् ॥ १२.१५६.१५ ॥

虚伪、欺害、诽谤、谗言与嫉妒也会生起。俱卢后裔啊,这些生于贪婪者与未调伏自心者之中。

12.156.16

सुमहान्त्यपि शास्त्राणि धारयन्तो बहुश्रुताः ।
छेत्तारः संशयानां च क्लिश्यन्तीहाल्पबुद्धयः ॥ १२.१५६.१६ ॥

即使那些能记诵广大经典、博学多闻、能断疑惑的人,因智慧低下,也在此受苦。

12.156.17

द्वेपक्रोधप्रसक्ताश्च शिष्टाचारबहिष्कृताः ।
अन्तःक्षुरा वाङ्भधुराः कृपाश्छन्नास्तृणैरिव ॥ १२.१५६.१७ ॥

沉溺于憎恨与愤怒,被善人之行所摒弃,内心如利刃,言语甘美,隐蔽如被草覆盖的井。

12.156.18

धर्मवैतंसिकाः क्षुद्रा मुष्णन्ति ध्वजिनो जगत् ।
कुर्वते च बहून्मार्गांस्तान्हेतुबलमाश्रिताः।
सर्वमार्गान्विलुम्पन्ति लोभज्ञानेष्ववस्थिताः ॥ १२.१५६.१८ ॥

假装行法的卑劣之徒,如旗手般劫掠世界。他们依仗论辩之力开辟许多歧途,安住于贪欲与所谓知识之中,毁灭一切正道。

12.156.19

धर्मस्य ह्रियमाणस्य लोभग्रस्तैर्दुरात्मभिः ।
याया विक्रियते संस्था ततः साऽपि प्रपद्यते ॥ १२.१५६.१९ ॥

当法被贪欲所控的恶人夺走时,因此而被扭曲的秩序也随之崩溃。

12.156.20

दर्पः बोधो मदः स्वप्नो हर्षः शोकोऽभिमानिता ।
एत हि कौरव्य दृश्यन्ते लुब्धबुद्धिषु ॥ १२.१५६.२० ॥

贪欲之心的人身上可见这些:骄傲、觉知、迷醉、睡眠、喜悦、悲伤与傲慢,俱卢后裔啊。

12.156.21

एताना टान्बुद्धस्व नित्यं लोभसमन्वितान् ।
शिष्टांस्तु परिपृच्छेथा यान्वक्ष्यामि शुचिव्रतान् ॥ १२.१५६.२१ ॥

要时常认清这些充满贪欲的人;但要向我即将提到的、持守清净誓言的贤人请教。

12.156.22

येष्वावृत्तिभयं नास्ति परलोकभयं न च ।
नामिपेषु प्रसङ्गोऽस्ति न प्रियेष्वप्रियेषु च ॥ १२.१५६.२२ ॥

那些既无轮回之惧,也无来世之惧的人;不执着于世间享受,也不执着于可意或不可意之事。

12.156.23

शिष्टाचारः प्रियो येषु दमो येषु प्रतिष्ठितः ।
सुखं दुःखं समं येषां सत्यं येषां परायणम् ॥ १२.१५६.२३ ॥

喜爱贤人之行、克己之德稳固确立、视苦乐为一、以真实为最高归依的人。

12.156.24

दातारो न ग्रहीतारो दयावन्तस्नथैव च ।
पितृदेवातिथेयाश्च नित्योद्युक्तास्तथैव च ॥ १२.१५६.२४ ॥

他们是施予者而非索取者;心怀慈悲,敬奉祖先、诸神与宾客,且始终勤勉不懈。

12.156.25

सर्वोपकारिणो वीराः सर्वधर्मानुपालकाः ।
सर्वभूतहिताश्चैव सर्वदेयाश्च भारत ॥ १२.१५६.२५ ॥

婆罗多啊,他们利益一切人,是英雄,是一切法的守护者,对一切众生有益,并且对一切人施予。

12.156.26

न ते चालयितुं शक्या धर्मव्याहारकारिणः ।
न तेषां भिद्यते वृत्तं यत्पुरा साधुभिः कृतम् ॥ १२.१५६.२६ ॥

那些以谈论法而行事的人不可动摇;他们的行为不会破坏,正如往昔善人所行的那样。

12.156.27

न त्रासिनो न चपला न रौद्राः सत्पथे स्थिताः ।
ते सेव्याः साधुभिर्नित्यमसाधूंश्च विवर्जयेत् ॥ १२.१५६.२७ ॥

那些不使人恐惧、不轻浮、不残暴、立于正道的人,善人应当常常侍奉,而应远离不善之人。

12.156.28

कामक्रोधव्यपेता ये निर्ममा निरहंकृताः ।
सुव्रताः स्थिरमर्यादास्तानुपास्व च पृच्छ च ॥ १२.१५६.२८ ॥

那些远离欲望与愤怒、无我执与傲慢、持守善誓、恒定于礼法之限的人——你要侍奉他们,并向他们请教。

12.156.29

न वागर्थं यशोर्थं वा धर्मस्तेपां युधिष्ठिर ।
अवश्यं कार्य इत्येव शरीरस्य क्रियास्तथा ॥ १२.१५६.२९ ॥

Yudhiṣṭhira啊,他们的法不是为了言语,也不是为了名声;他们认为“这必须去做”,因而身体的行为也以同样的心念来完成。

12.156.30

त भयं क्रोधचापल्ये न शोकस्तेषु विद्यते ।
न धर्मध्वजिनश्चैव न गुह्यं किंचिदास्थिताः ॥ १२.१५६.३० ॥

他们之中没有恐惧,没有愤怒与轻浮,也没有悲伤;他们不是高举法之旗帜的伪善者,也不依托任何隐秘之事。

12.156.31

येष्वलोभस्तथाऽमोहो ये च सत्यार्जवे स्थिताः ।
तेषु कौन्तेय रज्येथा येषां न भ्रश्यते पुनः ॥ १२.१५६.३१ ॥

在那些无贪无痴、安住于真实与正直的人之中,俱提之子啊,你应当喜爱他们;他们的堕落不会再来。

12.156.32

ये न हृष्यन्ति लाभेषु नालाभेषु व्यथन्ति च ।
निर्ममा निरहंकाराः सत्वस्थाः समदर्शिनः ॥ १२.१५६.३२ ॥

得利不喜、失利不忧,无我所之念与我慢,安住于善性,以平等心看待一切。

12.156.33

लाभालाभौ सुखदुःखे च तात ।
प्रियाप्रिये मरणं जीवितं च।
समानि येषां स्थिरविक्रमाणां ।
बुभुत्सतां सत्यपथे स्थितानाम् ॥ १२.१५६.३३ ॥

得失、苦乐、爱憎、死生,对于意志坚定、渴求智慧、安住于真实之道的人而言,皆是平等的,亲爱的孩子。

12.156.34

धर्मप्रियांस्तान्सुमहानुभावान् ।
दान्तोऽप्रमत्तश्च समर्चयेथाः।
दैवात्सर्वे गुणवन्तो भवन्ति ।
शुभाशुभे वाक्प्रलापास्तथाऽन्ये ॥ १२.१५६.३४ ॥

你应当以克己与警觉之心,尊敬那些热爱正法的大德之人。由于命运,所有人都会具足德性;善与恶,以及其他种种,不过是空谈。