摩诃婆罗多 · 章 12.160
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.160.1
सत्यं धर्मं प्रशंसन्ति विप्रर्षिपितृदेवताः ।
सत्यमिच्छाम्यहं ज्ञातुं तन्मे ब्रूहि पितामह ॥ १२.१६०.१ ॥
婆罗门、仙人、祖先与天神都赞美真实即是法。祖父啊,我想知道那真实,请告诉我。
12.160.2
सत्यं किंलक्षणं राजन्कथं वा तदवाप्यते ।
सत्यं प्राप्य भवेत्किंच कथं चैव तदुच्यताम् ॥ १२.१६०.२ ॥
大王啊,真实的特征是什么?如何获得它?获得真实之后会怎样?又该如何述说?
12.160.3
चातुर्वर्ण्यस्य धर्माणां संकरो न प्रशस्यते ।
धर्मः साधारणः सत्यं सर्ववर्णेषु भारत ॥ १२.१६०.३ ॥
四种姓的法相混并不被称赞。然而真实是一切种姓共同的法,婆罗多之后啊。
12.160.4
सत्यं सत्सु सदा धर्मः सत्यं धर्मः सनातनः ।
सत्यमेव नमस्येत सत्यं हि परमा गतिः ॥ १२.१६०.४ ॥
在善人之中,真实永远是法;真实是永恒的法。应当敬礼真实,因为真实是至高的归宿。
12.160.5
सत्यं धर्मस्तपोयोगः सत्यं ब्रह्म सनातनम् ।
सत्यं यज्ञः परः प्रोक्तः सर्वं सत्ये प्रतिष्ठितम् ॥ १२.१६०.५ ॥
真实即是法;真实即是苦行与瑜伽;真实即是永恒的梵。真实被宣说为至上的祭祀;一切都建立于真实之中。
12.160.6
रूपं यदिह सत्यस्य यथावदनुपूर्वशः ।
लक्षणं च प्रवक्ष्यामि सत्यस्येह पराक्रमम् ॥ १२.१६०.६ ॥
我将依次如实地说明这里真实的形态;也将说明真实的特征与它的力量。
12.160.7
प्राप्यते च यथा सत्यं तच्च वेत्तुमिहार्हसि ।
सत्यं त्रयोदशावधं सर्वलोकेषु भारत ॥ १२.१६०.७ ॥
真理如何获得,你在此也应当知道。婆罗多后裔啊,真理在一切世界中有十三种。
12.160.8
सत्यं च समता चैव दमश्चैव न संशयः ।
अमात्सर्यं क्षमा चैव ह्रीस्तितिक्षाऽनसूयता ॥ १२.१६०.८ ॥
真实、平等与克制,毫无疑问;无嫉妒、宽恕、羞耻心、忍耐,以及不挑剔他人过失。
12.160.9
त्यागो ध्यानमथार्यत्वं धृतिश्च सततं दया ।
अहिंसा चैव राजेन्द्र सत्याकारास्त्रयोदश ॥ १२.१६०.९ ॥
舍弃、禅修、高尚、坚定、恒常的慈悲,以及不杀生,啊,王中之王——这便是真理的十三种形态。
12.160.10
सत्यं नामाव्ययं नित्यमविकारि तथैव च ।
सर्वधर्माविरुद्धं च योगेनैतदवाप्यते ॥ १२.१६०.१० ॥
真理之名:不朽、恒常、不变,且与一切法不相违背;通过瑜伽而获得。
12.160.11
आत्मनीष्टे तथाऽनिष्टे रिपौ च समता तथा ।
इच्छाद्वेषं क्षयं प्राप्य कामक्रोधक्षयं तथा ॥ १२.१६०.११ ॥
对自己、对所欲与所厌、对敌人亦能平等;既已断除欲望与厌恶,也已断除贪欲与愤怒。
12.160.12
दमी नान्यस्पृहा नित्यं गाम्भीर्यं धैर्यमेव च ।
अशाठ्यं क्रोधदमनं ज्ञानेनैतदवाप्यते ॥ १२.१६०.१२ ॥
克制自己、从不贪求他人之物;沉稳与坚定;无欺诈与抑制愤怒——这些都通过智慧而获得。
12.160.13
अमात्सर्यं बुधाः प्राहुर्दाने धर्मे च संयमः ।
अवस्थितेन नित्यं च सत्येनामत्सरी भवेत् ॥ १२.१६०.१३ ॥
智者说,在布施与法中应无嫉妒并且自我克制。坚定之人应以真实而始终不生嫉妒。
12.160.14
अक्षमायाः क्षमायाश्च प्रियाणीहाप्रियाणि च ।
क्षमते स तः साधुस्ततः प्राप्नोति सत्यताम् ॥ १२.१६०.१४ ॥
此世中能忍受宽恕与不宽恕、可爱与不可爱之事的,便是善人;因此他获得真实。
12.160.15
कल्याणं रुते बाढं धीमान्न ग्लायते क्वचित् ।
प्रशान्तवाङ्भना नित्यं ह्रीस्तु धर्मादवाप्यते ॥ १२.१६०.१५ ॥
智者确实说吉祥之言,从不疲倦。言语与心意常寂静者,因法而得惭愧之心。
12.160.16
धर्मार्थहेतोः क्षमते तितिक्षा धर्म उत्तमः ।
लोकसंग्रहणार्थं वै सा तु धैर्येण लभ्यते ॥ १२.१६०.१६ ॥
为了法与财,人能忍耐;忍耐(titikṣā)是至上的法。为了维系世界,它须以坚定而得。
12.160.17
अनसूया तु गाम्भीर्यं दानेनैतदवाप्यते ।
त्यक्तस्नेहस्य यस्त्यागो विषयाणां तथैव च।
रागद्वेषप्रहीणस्य त्यागो भवति नान्यथा ॥ १२.१६०.१७ ॥
无非议与庄重,由布施而得。断除爱着者对诸境的舍弃亦复如是;离贪嗔者的舍弃,并无他样。
12.160.18
ध्यानं च शाठ्यमित्युक्तं मौनेनैतदवाप्यते ।
आर्यता नाम भूतानां यः करोति प्रयत्नतः।
शुभं कर्म निराकारो वीतरागस्तथैव च ॥ १२.१६०.१८ ॥
所谓禅定与诈伪,此由寂默而得。对众生的高尚,属于努力行善之人;无相者与离贪者亦复如是。
12.160.19
धृतिर्नाम सुखे दुःखे यया नाप्नोति विक्रियाम् ।
तां भजेत सदा प्राज्ञो य इच्छेद्भूतिमात्मनः ॥ १२.१६०.१९ ॥
坚定是指使人在快乐与痛苦中都不动摇的品质。想要自身福祉的智者应当始终培养它。
12.160.20
सर्वथा क्षमिणा भाव्यं तथा सत्यपरेण च ।
वीतहर्षभयक्रोधो धृतिमाप्नोति पण्डितः ॥ १२.१६०.२० ॥
忍辱之人应当在一切方面如此,并且专注于真实。摆脱喜悦、恐惧与愤怒的智者获得坚定。
12.160.21
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा ।
अनुग्रहश्च दानं च सतां धर्मः सनातनः ॥ १२.१६०.२१ ॥
不以行为、心念或言语伤害任何众生,慈惠与布施——这便是善人的永恒之法。
12.160.22
एते त्रयोदशाकाराः पृथक्सत्यैकलक्षणाः ।
भजन्ते सत्यमेवेह बृंहयन्ते च भारत ॥ १२.१६०.२२ ॥
这十三种形态虽各自不同,却共有真实这一个特征。婆罗多后裔啊,在此它们只归于真实,并使之增长。
12.160.23
नान्तः शक्यो गुणानां च वक्तुं सत्यस्य पार्थिव ।
अतः सत्यं प्रशंसन्ति विप्राः सपितृदेवताः ॥ १२.१६०.२३ ॥
国王啊,真实的功德无法说尽。因此婆罗门与祖先、诸神一同赞美真实。
12.160.24
नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम् ।
स्थितिर्हि सत्यं धर्मस्य तस्मात्सत्यं न लोपयेत् ॥ १२.१६०.२४ ॥
没有比真实更高的法,也没有比虚妄更大的罪。真实正是法的根基,因此不应违背真实。
12.160.25
उपैति सत्याद्दानं हि तथा यज्ञाः सदक्षिणाः ।
त्रेताग्निहोत्रं वेदाश्च ये चान्ये धर्मनिश्चयाः ॥ १२.१६०.२५ ॥
布施由真实而生;同样,附有酬金的祭祀、三火祭、吠陀以及其他法的确定之事,也都由真实而成就。
12.160.26
अश्वमेधसहस्त्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥ १२.१६०.२६ ॥
若将千次马祭与真实置于天平上称量,唯有真实超过千次马祭。