Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.161

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.161.1

यतः प्रभवति क्रोधः कामो वा भरतर्षभ ।
शोकमोहौ विधित्सा च परासुत्वं तथा मदः ॥ १२.१६१.१ ॥

婆罗多族的雄牛啊,愤怒或欲望从何而生?悲伤与迷惑、作为的意愿、精神上的死亡状态,以及同样的骄狂,又从何而生?

12.161.2

लोभो मात्सर्यमीर्ष्या च कुत्साऽसूया कृपा भयम् ।
एतत्सर्वं महाप्राज्ञ याथातथ्येन मे वद ॥ १२.१६१.२ ॥

贪婪、嫉妒、妒忌、轻蔑、恶意、怜悯与恐惧——这一切,大智者啊,请如实地告诉我。

12.161.3

त्रयोदशैतेऽतिबलाः शत्रवः प्राणिनां स्मृताः ।
उपासते महाराज समन्तात्पुरुषानिह ॥ १२.१६१.३ ॥

大王啊,众生的这十三种极其强大的敌人被记述;他们在此四面环绕着人们。

12.161.4

एते प्रमत्तं पुरुषमप्रमत्तास्तुदन्ति च ।
वृका इव विलुम्पन्ति दृष्ट्वेव पुरुषेतरान् ॥ १२.१६१.४ ॥

它们侵扰放逸之人,也折磨警觉之人;如狼一般,见到他人便将之撕裂。

12.161.5

एभ्यः प्रवर्तते दुःखमेभ्यः पापं प्रवर्तते ।
इति मर्त्यो विजानीयात्सततं पुरुषर्षभ ॥ १२.१६१.५ ॥

由此生起痛苦,由此生起罪恶。凡人应当时常知晓此理,人中之雄牛啊。

12.161.6

एतेषामुदयं स्थानं क्षयं च पृथिवीपते ।
हन्त ते कथयिष्यामि क्रोधस्योत्पत्तिमादितः।
यथातत्त्वं क्षितिपते तन्मे निगदतः शृणु ॥ १२.१६१.६ ॥

大地之主啊,我将从起始为你如实讲述它们的生起、所居与消灭,以及愤怒的根源。大地之主,请听我如实宣说。

12.161.7

लोभात्क्रोधः प्रभवति परदोषैरुदीर्यते ।
क्षमया तिष्ठते राजन्क्षमया विनिवर्तते ॥ १२.१६१.७ ॥

贪欲生起愤怒,他人的过失使之激发。大王,因忍耐而它得以持续,也因忍耐而它退去。

12.161.8

संकल्पाज्जायते कामः सेव्यमानो विवर्धते ।
यदा प्राज्ञो विरमते तदा सद्यः प्रणश्यति ॥ १२.१६१.८ ॥

由思虑生起欲望,若被放纵便会增长。智者一旦止息,它便立即消亡。

12.161.9

परामूया क्रोधलोभावन्तरा प्रतिमुच्यते ।
दयया सर्वभूतानां निर्वेदाद्विनिवर्तते।
अवद्यदर्शनादेति तत्त्वज्ञानाच्च नश्यति ॥ १२.१६१.९ ॥

愤怒与贪欲被克服时,便中途得以解脱。以对一切众生的慈悲,以离欲,它便退去。见到过失便离去,以真知则消亡。

12.161.10

अज्ञानप्रभवो मोहः पापाभ्यासात्प्रवर्तते ।
यदा प्राज्ञेषु रमते तदा सद्यः प्रणश्यति ॥ १२.१६१.१० ॥

由无明生起的迷惑,因习惯于恶行而生起。若人乐于与智者相处,它便立即消亡。

12.161.11

विरुद्धानीह शास्त्राणि ये पश्यन्ति कुरूद्वह ।
विधित्सा जायते तेषां तत्त्वज्ञानान्निवर्तते ॥ १२.१६१.११ ॥

库鲁之最,那些见到经典彼此相违的人,心中会生起要加以厘清的念头;以真知,它便退去。

12.161.12

प्रीतेः शोकः प्रभवति वियोगात्तस्य देहिनः ।
यदा निरर्थकं वेत्ति तदा सद्यः प्रणश्यति ॥ १२.१६१.१२ ॥

由爱著生起悲忧,因与那有身者分离。若知其无意义,它便立即消亡。

12.161.13

परासुता क्रोधलोभादभ्यासाच्च प्रवर्तते ।
दयया सर्वभूतानां निर्वेदात्सा निवर्तते ॥ १२.१६१.१३ ॥

气息的疲竭由愤怒与贪婪而生,亦由习惯而起。以对一切众生的慈悲与出离之心,它便退去而止息。

12.161.14

सत्यत्यागात्तु मात्सर्यमहितानां च सेवया ।
एतत्तु क्षीयते तात साधूनामुपसेवनात् ॥ १२.१६१.१४ ॥

嫉妒由舍弃真实与侍奉不善之人而生。然而,亲爱的孩子,它因亲近善人而消散。

12.161.15

कुलाञ्ज्ञानात्तथैश्वर्यान्मदो भवति देहिनाम् ।
एभिरेव तु विज्ञातैर्मदः सद्यः प्रणश्यति ॥ १२.१६१.१५ ॥

由门第、由知识、同样由权势,有形之生灵便生出傲慢。然而,若能真正明了这些,傲慢便立即消散。

12.161.16

ईर्ष्या कामात्प्रभवति संहर्षाच्चैव जायते ।
इतरेषां तु सत्वानां प्रज्ञया सा प्रणश्यति ॥ १२.१६१.१६ ॥

嫉妒由欲望而生,也由欢喜而生。然而在其他众生身上,它因智慧而消灭。

12.161.17

विभ्रमाल्लोकबाह्यानां द्वेष्यैर्वाक्यैरसंमतैः ।
कुत्सा संजायते राजँल्लोकान्प्रेक्ष्याभिशाम्यति ॥ १२.१६१.१७ ॥

由于迷惑,以及世外之人那些憎恶而不被认可的言语,轻蔑便产生了,大王。观照众世界,它便平息。

12.161.18

प्रतिकर्तुं न शक्ता ये बलस्थायापकारिणे ।
असूया जायते तीव्रा कारुण्याद्विनिवर्तते ॥ १२.१६१.१८ ॥

对于那些无力报复强者所加之害的人,猛烈的怨恨便会生起。以慈悲,它便被止息。

12.161.19

कृपणान्सततं दृष्ट्वा ततः संजायते कृपा ।
धर्मनिष्ठां यदा वेत्ति तदा शाम्यति सा कृपा ॥ १२.१६१.१९ ॥

常见困苦之人,于是生起悲悯;若知其守持法义,则悲悯便平息。

12.161.20

अज्ञानप्रभवो लोभो भूतानां दृश्यते सदा ।
अस्थिरत्वं च भोगानां दृष्ट्वा ज्ञात्वा निवर्तते ॥ १२.१६१.२० ॥

由无明而生的贪欲,常见于众生之中;见知欲乐之无常,便会止息而退。

12.161.21

एतान्येव जितान्याहुः प्रशान्तेन त्रयोदश ।
एते हि धार्तराष्ट्राणां सर्वे दोषास्त्रयोदश।
त्वया सत्यार्थिना नित्यं विजिता जेष्यता चते ॥ १२.१६१.२१ ॥

据说这十三者被平静之人所征服。这正是持国之子的十三种过失。你追求真理,始终征服了它们,并将继续征服。