Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.163

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.163.1

कृतार्थी यक्ष्यमाणश्च सर्ववेदान्तगश्च यः ।
आचार्यपितृकार्यार्थं स्वाध्यायार्थमथापि च ॥ १२.१६३.१ ॥

已成就目标、即将举行祭祀、通晓一切吠檀多者,为师长与祖先之事,亦为诵习吠陀,值得受布施。

12.163.2

एते वै साधवो दृष्टा ब्राह्मणाः धर्मभिक्षवः ।
निःस्वेभ्यो देयमेतेभ्यो दानं विद्या च भारत ॥ १२.१६३.२ ॥

这些善良的婆罗门被视为求法的乞者。婆罗多子孙啊,应当将布施与学问施予他们。

12.163.3

अन्यत्र दक्षिणादानं देयं भरतसत्तम ।
अन्येभ्योऽपि बहिर्वेदि न कृतान्नं विधीयते ॥ १२.१६३.३ ॥

婆罗多中最优者啊,祭礼的达希那布施应在别处给予。对于他人,在祭坛之外,也不规定供给熟食。

12.163.4

सर्वरत्नानि राजा हि यथार्हं प्रतिपादयेत् ।
ब्राह्मणायैव यज्ञाश्च सहान्नाः सहदक्षिणाः ॥ १२.१६३.४ ॥

国王应依其应得,将一切宝物施予婆罗门;祭祀也应连同食物与达希那,只为婆罗门而设。

12.163.5

अन्येभ्यो विमलाचारा यजन्ते गुणतः सदा ।
यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये।
अधिकं चापि विद्येत स सोमं पातुमर्हति ॥ १२.१६३.५ ॥

行为清净者总是依德行为他人祭祀。若其所储粮食足以供养仆役三年,乃至更多,则此人配得饮用苏摩。

12.163.6

यज्ञश्चेत्प्रतिरुद्धः स्यादंशेनैकेन यज्वनः ।
ब्राह्मणस्य विशेषेण धार्मिके सति राजनि ॥ १२.१६३.६ ॥

若祭祀的婆罗门之祭祀,即便被阻碍一分,尤其当有正法之王在位时,那便是不当的。

12.163.7

यो वैश्यः स्याद्बहुपशुर्हीनक्रतुरसोमपः ।
कुटुम्बात्तस्य तद्वित्तं यज्ञार्थं पार्थिवो हरेत् ॥ १२.१६३.७ ॥

若吠舍富有牲畜却不行祭祀、不饮苏摩,国王应为祭祀从其家中取走其财富。

12.163.8

आहरेद्द्रुह्यतः किंचित्कामं शूद्रस्य वेश्मनि ।
न हि वेश्मनि शूद्रस्य किंचिदस्ति परिग्रहः ॥ १२.१६३.८ ॥

对于伤害他人者,可随意取其一些财物;因为首陀罗的家中根本没有积蓄的财产。

12.163.9

योऽनाहिताग्निः शतगुरयज्वा त्त सहस्रगुः ।
तयोरपि कुटुम्बाभ्यामाहरेदविचारयन् ॥ १२.१६३.९ ॥

对于这两者的家庭——不设圣火、拥有百头牲畜且不行祭祀者,以及拥有千头牲畜者——应毫不犹豫地取其财。

12.163.10

अदातृभ्यो हरेद्वित्तं विख्याप्य नृपतिः सदा ।
तथैवाचरतो धर्मो नृपतेः स्यादथाखिलः ॥ १२.१६३.१० ॥

对于不肯布施者,国王应当公开告示后经常取其财物;如此行事的国王,其法便得圆满。

12.163.11

तथैव सप्तमे भक्ते भक्तानि षडनश्नतः ।
अश्वस्तनविभागेन हर्तव्यं हीनकर्मणः ॥ १२.१६३.११ ॥

同样,对于行为卑劣、在第七餐时已六餐未食者,应依“明日食”之分,取其一份作为明日的口粮。

12.163.12

खलात्क्षेत्रात्तथागाराद्यतो वाऽप्युपपद्यते ।
आख्यातव्यं नृपस्यैतत्पृच्छतोऽपृच्छतोपि वा।
न तस्मै धारयेद्दण्डं राजा धर्मेण धर्मवित् ॥ १२.१६३.१२ ॥

无论来自谷场、田地、房屋,或任何来源,都应向国王声明,无论他问与不问。知法的国王不应因此对他施加刑罚。

12.163.13

क्षत्रियस्य तु बालिश्याद्ब्राह्मणः क्लिश्यते क्षुधा ।
श्रुतशीले समाज्ञाय वृत्तिमस्य प्रकल्पयेत् ॥ १२.१६३.१३ ॥

若婆罗门因刹帝利的愚昧而受饥饿之苦,应当在明了其学问与品行之后,为他安排生计。

12.163.14

अथैनं परिरक्षेत पिता पुत्रमिवौरसम्। ॥ १२.१६३.१४ ॥

此时应当保护他,如同父亲保护自己的亲生儿子一样。

12.163.15

इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये ।
अविकल्पः पुरा धर्मो धर्मवादैस्तु केवलः ॥ १२.१६३.१५ ॥

每年年末应当常行毗湿伐那罗祭(Vaiśvānarī)。往昔,这由法论者所说的法,乃是唯一无可替代的规定。

12.163.16

विश्वैर्देवैश्च साध्यैश्च ब्राह्मणैश्च महर्षिभिः ।
आपत्सु गरणाद्भीतैर्लिङ्गः प्रतिनिधीकृतः ॥ १२.१६३.१६ ॥

毗湿婆天众、诸天、萨迪亚天众、婆罗门与大仙,因在灾难之时畏惧毒物,便设立一种象征性的规则(liṅga)以代替之。

12.163.17

प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते ।
स नाप्नोति फलं तस्य प्रेत्य चेह च दुर्मतिः ॥ १२.१६३.१७ ॥

有权势之人若舍弃第一条规则而依替代规则行事,此愚昧之人既不在此世,也不在死后获得其果报。

12.163.18

न ब्राह्मणो वेदयीत किंचिद्राजनि धर्मवित् ।
अविद्यावेदनाद्विद्यात्स्ववीर्यं वीर्यवत्तरम्।
तस्माद्राज्ञः सदा तेजो दुःसहं ब्रह्मवादिनाम् ॥ १२.१६३.१८ ॥

通晓法的婆罗门不应向国王透露任何事情;若暴露自己的无知,便会显出自身的力量更为强大。因此国王的威光对于宣说梵的人始终是难以忍受的。

12.163.19

मन्ता शास्ता विधाता च ब्राह्मणो देव उच्यते ।
तस्मिन्नाकुशलं ब्रूयान्न शुष्कामीरयेद्गिरम् ॥ १२.१६३.१९ ॥

作为谋士、导师与安排者的婆罗门被称为神。不应对他说不利之言,也不应说干涩粗硬的话。

12.163.20

क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः ।
धनैर्वैश्यश्च शुद्रश्च मन्त्रैर्होमैश्च वै द्विजः ॥ १२.१६३.२० ॥

刹帝利应以臂力度过自身的危难;吠舍与首陀罗以财富;而再生者以咒语与祭火供奉。

12.163.21

नैव कन्या न युवतिर्नामन्त्रज्ञो न बालिशः ।
परिवेष्टाऽग्निहोत्रस्य भवेन्नासंस्कृतस्तथा ॥ १२.१६३.२१ ॥

无论是未嫁的少女、年轻女子、不通祈请咒语者、愚人,还是未经净化者,都不应担任阿耆尼好特拉火的服侍者。

12.163.22

नरके निपतन्त्येते जुह्वानाः सवनस्य तत् ।
तस्माद्वैतानकुशलो होता स्याद्वेदपारगः ॥ १२.१६३.२२ ॥

在压榨祭中献祭者,因违犯这些规则而坠入地狱。因此,不熟练于吠陀祭的人,应当做通晓吠陀的祭司(呼唤者)。

12.163.23

प्राजापत्यमदत्त्वा च अग्न्याधेयस्य दक्षिणाम् ।
अनाहिताग्निरिति सं प्रोच्यते धर्मदर्शिभिः ॥ १२.१६३.२३ ॥

若未献上生主之祭,也未给予立火之布施,依法的见者便称其为无圣火者。

12.163.24

पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः ।
अनाप्तदक्षिणैर्यज्ञैर्न यजेत कथंचन ॥ १२.१६३.२४ ॥

有信心且克制感官者应行其他功德;对于未付布施的祭祀,任何情况下都不应以之献祭。

12.163.25

प्रजाः पंशूश्च स्वर्गं च हन्ति यज्ञो ह्यदक्षिणः ।
इन्द्रियाणि यशः कीर्तिभायुश्चाप्यवकृन्तति ॥ १२.१६३.२५ ॥

没有达克希那的祭祀会毁灭子孙、牲畜和天界;它还会割断感官、名声、荣誉和寿命。

12.163.26

उदक्यामासते ये च द्विजाः केचिदनग्नयः ।
कुलं चाश्रोत्रियं येषां सर्वे ते शूद्रकर्मिणः ॥ १२.१६३.२६ ॥

那些与月经中的女子同住、不守圣火、家族中无人通晓吠陀的再生族,他们都从事首陀罗之业。

12.163.27

उदपानोदके ग्रामे ब्राह्मणो वृपलीयतिः ।
अपित्वा द्वादश समाः शूद्रकर्मैव गच्छति ॥ १२.१६३.२७ ॥

在有井有水的村庄里,婆罗门若行为如贱民,不饮水,便会在十二年间从事首陀罗之业。

12.163.28

अभार्यी शयने विभ्रच्छूद्रं वृद्धं च वै द्विजः ।
अब्राह्मणं भन्यमानस्तृणेष्वासीत पृष्ठतः।
तथा संशुध्यते राजञ्शृणु चात्र वचो मम ॥ १२.१६३.२८ ॥

无妻的再生族若在床上扶持首陀罗或老人,或被非婆罗门殴打,应在草上从后方坐下,如此便得清净。大王,请听我说。

12.163.29

यदेकरात्रेण करोति पापं ।
कृष्णं वर्णं ब्राह्मणः सेवमानः।
स्थानासनाभ्यां विहरन्वती स ।
त्रिभिर्वर्षैः शमयेदात्मपापम् ॥ १२.१६३.२९ ॥

婆罗门若服侍黑色之人(首陀罗)并在一夜之间犯下罪过,应一边遵守站立与坐卧的誓戒一边游行,三年之内平息自己的罪。

12.163.30

न नर्मयुक्तमतृतं हिनस्ति ।
न स्त्रीषु राजन्न विवाहकाले।
प्राणात्यये सर्वधनापहारे ।
पञ्चानृतान्याहुरपातकानि ॥ १२.१६३.३० ॥

戏言中的谎话不会造成伤害。大王,对女子、在婚礼时、性命危急时、或全部财富被夺时——这五种虚言被称为无罪。

12.163.31

श्रद्दधानः शुभां विद्यां हीनादपि समाप्नुयात् ।
सुवर्णमपि चामेध्यादाददीताविचारयन् ॥ १२.१६३.३१ ॥

有信心的人即使从卑贱者处也能获得吉祥的知识,即使从不洁之处也能毫不犹豫地取得黄金。

12.163.32

स्त्रीरत्नं दुष्कुलाच्चापि विषादप्यमृतं पिबेत् ।
अदूष्या हि स्त्रियो रत्नमाप इत्येव धर्मतः ॥ १२.१६३.३२ ॥

女子如宝玉,即使出自低劣家族也可娶取,正如即使从毒药中也能饮甘露。女子无可指责,如水一般,依法应当如此理解。

12.163.33

गोब्राह्मणहितार्थं च वर्णानां संकरेषु च ।
वैश्यो गृह्णीत शस्त्राणि परित्राणार्थमात्मनः ॥ १२.१६३.३३ ॥

为了牛与婆罗门的利益,以及在种姓混乱之时,吠舍应为自身防护而持武器。

12.163.34

सुरापो ब्रह्महा चैव गुरुतल्पगतस्तथा ।
अचिरेण महाराज पतितो वै भवत्युत ॥ १२.१६३.३४ ॥

饮酒者、杀害婆罗门者,以及与师尊之妻同床者,大王,不久便会堕落。

12.163.35

सुवर्णहरणं स्तैन्यं विप्रस्वं चेति पातकम् ।
विहारो मद्यपानं च अगम्यागमनं तथा ॥ १२.१६३.३५ ॥

盗取黄金、偷窃,以及夺取婆罗门的财物,皆是罪过;嬉戏放纵、饮酒,以及与不可亲近者交合,也是如此。

12.163.36

पतितैः संप्रयोगश्च ब्राह्मणीयोनितस्तथा ।
अनिर्देश्यानि मन्यन्ते प्राणान्तानीति धारणा ॥ १२.१६३.३६ ॥

与堕落者交往,以及婆罗门女所生之子,也是如此;定则认为,这些是应以死罚相加的罪过。

12.163.37

संवत्सरेण पतति पतितेन सहाचरन् ।
याजनाध्यापनाद्दानान्न तु यानासनाशनात् ॥ १२.१६३.३७ ॥

与堕落者同行者,一年之内自己也会堕落——通过主持祭祀、教授或布施;但不因共乘车辆、同坐或同食而堕落。

12.163.38

एतानि हित्वातोऽन्यानि निर्देश्यानीति धारणा ।
निर्देश्यकेन विधिना कालेनाव्यसनी भवेत् ॥ १२.१६३.३८ ॥

舍去这些,其余被认为是应当宣示的罪过;依照规定的方式,适时,愿他摆脱灾厄。

12.163.39

अनुत्तीर्य न होतव्यं प्रेतकर्मण्युपाश्रिते ।
त्रिषु त्वेतेषु पूर्वेषु न कुर्वीत विचारणम् ॥ १२.१६३.३९ ॥

丧葬之仪已经开始,不可未完成便行供奉;但对于这前面的三件事,不应加以讨论。

12.163.40

अमात्यान्वा गुरून्वापि जह्याद्धर्मेण धार्मिकः ।
प्रायश्चित्तान्यकुर्वाणा नैते कुर्वन्ति संविदम् ॥ १२.१६३.४० ॥

正直之人依法可以舍弃即便是大臣或师长,只要他们不行赎罪;这些人不会立约。

12.163.41

अधर्मकारी धर्मेण तपसा हन्ति किल्विषम् ।
ब्राह्मणायावगुर्येत स्पृष्टे गुरुतरं भवेत् ॥ १२.१६३.४१ ॥

行非法者,凭法与苦行消除罪过;应在婆罗门面前认罪;若触碰婆罗门,罪过便更加沉重。

12.163.42

अस्तेनं स्तेन इत्युक्त्वा द्विगुणं पापमाप्नुयात् ।
त्रिभागं ब्रह्महत्यायाः कन्यां प्राप्नोति दुष्यति।
यस्तु दूषयिता तस्याः शेषं प्राप्नोति पाप्मनः ॥ १२.१६३.४२ ॥

称非盗者为盗者,招致双倍罪过;得到少女并玷污她者,承担杀害婆罗门之罪的三分之一;玷污她者则承担该罪的其余部分。

12.163.43

ब्राह्मणानवगर्ह्येह स्पृष्ट्वा गुरुतरं भवेत् ।
वर्षाणां हि शतं पापः प्रतिष्ठां नाधिगच्छति ॥ १२.१६३.४३ ॥

在此辱骂婆罗门或殴打他们,罪过便更加沉重。罪人一百年间找不到立足之处。

12.163.44

सहस्रं चैव वर्षाणां निपत्य नरकं वसेत् ।
तस्मान्नैवावगुर्याद्धि नैव जातु निपातयेत् ॥ १२.१६३.४४ ॥

坠入地狱,在那里住上千年。因此绝不可辱骂,也绝不可使人跌倒。

12.163.45

शोणितं यावतः पांसून्संगृह्णीयाद्द्विजक्षतात् ।
तावतीः स समा राजन्नरके प्रतिपद्यते ॥ १२.१६३.४५ ॥

啊,国王,二生者伤口之血中所聚的尘粒有多少,他便在地狱中待多少年。

12.163.46

भ्रूणहाऽऽहवमध्ये तु शुध्यते शस्त्रपाततः ।
आत्मानं जुहुयादग्नौ समिद्धे तेन शुध्यते ॥ १२.१६३.४६ ॥

杀害胎儿者在战阵中被兵器击倒便得清净;或将自己投入熊熊烈火中作供物,由此便得清净。

12.163.47

सुरापो वारुणीमुष्णां पीत्वा पापाद्विमुच्यते ॥ १२.१६३.४७ ॥

饮酒者饮下热的婆楼尼酒,便从罪中解脱。

12.163.48

तया स काये निर्दग्धे मृत्युं वा प्राप्य शुध्यति ।
लोकांश्च लभते विप्रो नान्यथा लभते हि सः ॥ १२.१६३.४८ ॥

当他的身体被其焚尽,或遇到死亡,他便得清净;那婆罗门便得诸界,否则便不能得到。

12.163.49

गुरुतल्पमधिष्ठाय दुरात्मा पापचेतनः ।
शिलां ज्वलन्तीमासाद्य मृत्युना सोभिशुध्यति ॥ १२.१६३.४९ ॥

心怀罪念、作恶的邪恶之人,躺卧于师尊之床,登上炽热的岩石,经死亡而得净化。

12.163.50

अधवा शिश्नवृषणावादायाञ्जलिना स्वयम् ।
नैर्ऋतीं दिशमास्थाय निपतेत्सत्वजिह्मगः ॥ १२.१६३.५० ॥

或者,自己以合掌捧起阴茎与睾丸,面向西南方(尼涅提方位),心性歪曲者应当倒下。

12.163.51

ब्राह्मणार्थेऽपि वा प्राणान्संत्यजंस्तेन शुध्यति ॥ १२.१६३.५१ ॥

或者为婆罗门舍弃生命,他便因此而得净化。

12.163.52

अश्वमेधेन वाऽपीष्ट्वा अथवा गोसवेन वा ।
मरुत्सोमेन वा सम्यगिह प्रेत्य च पूज्यते ॥ १२.१६३.५२ ॥

若行马祭、牛祭或末鲁特苏摩祭,他在此世与死后都会受到恰当的尊崇。

12.163.53

तथैव द्वादशसमाः कापोतं धर्ममाचरेत् ।
एककालं चरेद्भैक्षं स्वकर्मोदाहरञ्जने ॥ १२.१६३.५३ ॥

同样,十二年间应奉行鸽子之法,每日一次乞食,并在众人面前宣说自己所行之事。

12.163.54

एवं वा तपसा युक्तो ब्रह्महा सवनी भवेत् ।
एवं गर्भमविज्ञातमात्रेयीं वा निपातयेत् ॥ १२.१६३.५४ ॥

或者,以此方式修持苦行,杀害婆罗门者应成为行苏摩祭之人;同样,他应使未被察觉的胎儿堕落。

12.163.55

द्विगुणा ब्रह्महत्या वै आत्रेयीहिंसने भवेत् ।
सुरापी नियताहारो ब्रह्मचारी क्षपाचरः ॥ १२.१६३.५५ ॥

杀害阿特雷伊女子的罪孽是杀婆罗门罪的两倍。饮酒者、饮食有节者、梵行者、夜行者应当持守此戒。

12.163.56

ऊर्ध्वं त्रिभ्योऽपि वर्षेभ्यो यजेताग्निष्टुता परम् ।
ऋषभैकसहस्रं वा गा दत्त्वा शौचमाप्नुयात् ॥ १२.१६३.५६ ॥

即使过了三年,也应以阿格尼什图塔祭祀行祭;或者布施一千头公牛和母牛,即可获得清净。

12.163.57

वैश्यं दत्त्वा तु वर्षे द्वे ऋषभैकशतं च गाः ।
शूद्रं हत्वाऽब्दमेवैकमृषभं च शतं च गाः ॥ १२.१६३.५७ ॥

杀害吠舍者,应在两年内布施一百头公牛和母牛;杀害首陀罗者,应在一年内布施一头公牛和一百头母牛。

12.163.58

श्ववराहखरान्हत्वा शौद्रमेव व्रतं चरेत् ।
मार्जारचाषमण्डूकान्काकं व्यालं च मूषिकम् ॥ १२.१६३.५८ ॥

杀死狗、野猪或驴,只应持守首陀罗的誓戒;杀猫、鹫鸟(cāṣa)、蛙、乌鸦、蛇或老鼠,亦同此。

12.163.59

उक्तः पशुवधे दोषो राजन्प्राणिनिपातनात् ।
अनस्थिकेषु गोमूत्रं पानमेकं प्रचक्षते।
प्रायश्चित्तान्यथान्यानि प्रवक्ष्याम्यनुपूर्वशः ॥ १२.१६३.५९ ॥

大王啊,杀害动物与生灵的罪过已被宣说。对于无骨之类,一次饮用牛尿,据说即是赎罪。

12.163.60

तल्पे वाऽन्यस्य चौर्ये च पृथक् संवत्सरं चरेत् ।
त्रीणि श्रोत्रियभार्यायां परदारे च द्वे स्मृते ॥ १२.१६३.६० ॥

奸淫他人床榻或偷盗,各应分别持守一年之戒;若是博学婆罗门之妻,则定为三年;若是他人之妻,则为两年。

12.163.61

काले चतुर्थे भुञ्जानो ब्रह्मचारी व्रती भवेत् ।
स्थानासनाभ्यां विहरेत्रिरह्नाऽभ्युपयन्नपः ॥ १२.१६३.६१ ॥

在适当的时候,于第四时分进食,他应当守梵行、持誓;站立与坐着行走,白日里三次走近水边(漱口净身)。

12.163.62

ऐवमेव चरन्राजंस्तस्मात्पापात्प्रमुच्यते ।
एवमेव निराकर्ता यश्चाग्नीनपविध्यति ॥ १२.१६३.६२ ॥

君王啊,如此修行的人便从那罪过中解脱;抛弃并舍弃圣火的人,同样如此。

12.163.63

त्यजत्यकारणे यश्च पितरं मातरं गुरुम् ।
पतितः स्यात्स कौरव्य यथा धर्मेषु निश्चयः ॥ १२.१६३.६३ ॥

无故抛弃父亲、母亲或师长的人,俱卢的后裔啊,会堕落;这就是关于法的定论。

12.163.64

ग्रासाच्छादनयानं च शयनं ह्यासनं तथा ।
ब्रह्मचारी द्विजेभ्यश्च दत्त्वा पापात्प्रमुच्यते ॥ १२.१६३.६४ ॥

若身为梵行者,将饮食、衣服、车乘、卧具与座席布施给再生者,人便从罪中解脱。

12.163.65

भार्यायां व्यभिचारिण्यां निरुद्धायां विशेषतः ।
यत्पुंसः परदारेषु तदेनां चारयेद्व्रतम्। ॥ १२.१६३.६५ ॥

妻子若行淫乱,尤其是被约束之后,男子因侵犯他人之妻而所持的赎罪誓愿,也应使她来履行。

12.163.66

श्रेयांसं शयने हित्वा पापीयांसं समृच्छति ।
श्वभिस्तमर्दयेद्राजा संस्थाने बहुविस्तरे ॥ १२.१६३.६६ ॥

若舍弃尊者于床榻而去就更为罪恶的人,国王应当在一个宽阔之处让狗来折磨他。

12.163.67

पुमांसं बन्धयेत्पाशैः शयने तप्त आयसे ।
अप्यादधीत दारूणि तत्र दह्येत पापकृत ॥ १२.१६३.६७ ॥

应以绳索捆绑那男子,置于烧红的铁床之上,下面放上柴火,让那作恶者在那里焚烧。

12.163.68

एव दण्डो महाराज स्त्रीणां भर्तृव्यतिक्रमे ।
संवत्सारोऽभिशस्तस्य दुष्टस्य द्विगुणो भवेत् ॥ १२.१६३.६८ ॥

大王,妇人违背丈夫,其惩罚如此;对被控的恶人,其刑期应为一年的两倍。

12.163.69

द्वे तस्य त्रीणि वर्षाणि चत्वारि सहसेविनः ।
कुमारः पञ्चवर्षाणि चरेद्भैक्षं मुनिव्रतः ॥ १२.१६३.६९ ॥

强行与女子同寝者,其刑为二、三或四年;少年应持苦行者之誓,乞食五年。

12.163.70

परिवित्तिः परिवेत्ता या चैव परिविद्यते ।
पाणिग्राहस्त्वधर्मेण सर्वे ते पतिताः स्मृताः ॥ १२.१६३.७० ॥

长兄未娶者(parivitti)、先娶者(parivettā)、被如此嫁出的女子(parividyate),以及非法执手娶亲者——他们都被称为堕落者。

12.163.71

चरेयुः सर्व एवैते वीरहा यद्व्रतं चरेत् ।
चान्द्रायणं चरेन्मासं कृच्छ्रं वा पापशुद्धये ॥ १२.१६३.७१ ॥

这些人都应行杀害英雄者所行之戒;为求洗净罪孽,应行一月的月行苦行(cāndrāyaṇa),或行克里契拉苦行(kṛcchra)。

12.163.72

परिवेत्ता प्रयच्छेता तां स्नुषां परिवित्तये ।
ज्येष्ठेन त्वभ्यनुज्ञातो यवीयाप्यनन्तरम्।
एनसो मोक्षमाप्नोति तौ च सा चैव धर्मतः ॥ १२.१६३.७२ ॥

已娶的长兄应将那儿媳交给长兄未娶者(parivitti);经长兄允许后,幼弟也可随后娶她。他便得以脱离罪孽,那二人及那女子也依法得以解脱。

12.163.73

अमानुषीषु गोवर्जमनादिष्टं न दुष्यति ।
अधिष्ठातारमत्तारं पशूनां पुरुषं विदुः ॥ १२.१६३.७३ ॥

在非人类的雌性中,除了母牛,未经吩咐者不会受污染;他们只认作人为动物的主宰与食用者。

12.163.74

परिधायोर्ध्ववालं तु पात्रमादाय मृन्मयम् ।
चरेत्सप्तगृहान्भैक्षं स्वकर्म परिकीर्तयन् ॥ १२.१६३.७४ ॥

披着尾巴高翘的皮,拿着泥制的器皿,在七家门前乞食而行,并宣告自己的所作。

12.163.75

तथैव लब्धभोजी स्याद्द्वादशाहात्स शुध्यति ।
चरेत्संवत्सरं चापि तद्व्रतं येन कृन्तति ॥ १२.१६३.७५ ॥

同样,他应当只食所得;十二日后他便清净。他还应持守此戒一年之久,借此斩断(罪业)。

12.163.76

भवेत्तु मानुषेष्वेवं प्रायश्चिमनुत्तमम् ।
दानं वा दानशक्तेषु सवेर्मतत्प्रकल्पयेत् ॥ १२.१६३.७६ ॥

在人类之中应有这样的最高赎罪;或者对于有能力布施的人,以布施为赎罪。此说应为所有人确立。

12.163.77

अनास्तिकेषु गोमात्रं दानमेकं प्रचक्षते ।
श्ववराहमनुष्याणां कुक्कुटस्य खरस्य च ॥ १२.१६३.७७ ॥

对于不信者,他们宣称唯独布施一头母牛为(赎罪);狗、野猪、人、公鸡和驴也是如此。

12.163.78

मांसं मूत्रं पुरीषं च प्राश्य संस्कारमर्हति ।
ब्राह्मणस्तु सुरापस्य गन्धमादाय सोमपाः ॥ १२.१६३.७८ ॥

食肉、尿与粪者方配受净化;但婆罗门若闻到饮酒者的气味,饮苏摩者(也会沾染酒的气味)。

12.163.79

अपख्यहं पिबेदुष्णाः संयतात्मा जितेन्द्रियः ।
अपः पीत्वा तु स पुनर्वायुभक्षो भवेन्त्र्यहम् ॥ १२.१६३.७९ ॥

自制且制服了诸根之人应饮用热水。饮水之后,他应当三日仅以风为食。

12.163.80

एवमेतत्समुद्दिष्टं प्रायश्चित्तिषेवणम् ।
ब्राह्मणस्य विशेषेण यदज्ञानेन जायते ॥ १२.१६३.८० ॥

如此已宣说了忏悔之法,尤其是为婆罗门因无知而生的过失所作。