摩诃婆罗多 · 章 12.166
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.166.1
पितामह महाप्राज्ञ कुरूणां प्रीतिवर्धन ।
प्रश्नं कंचित्प्रवक्ष्यामि तन्मे व्याख्यातुमर्हसि ॥ १२.१६६.१ ॥
祖父啊,大智者,增益俱卢族欢喜的人!我将向您提一个问题;请您为我解说。
12.166.2
कीदृशा मानवाः सेव्याः कै प्रीति परमा भवेत् ।
आयत्यां च तदात्वे च के क्षमास्तान्वदस्व मे ॥ १२.१६६.२ ॥
应当侍奉什么样的人?因何能生至高的情谊?谁在将来与当下都能相助?请告诉我。
12.166.3
न हि तत्र धनं स्फीतं न च संबन्धिबान्धवाः ।
तिष्ठन्ति यत्र सुहृदस्तिष्ठन्तीति मतिर्मम ॥ १२.१६६.३ ॥
在没有丰厚财富、亲属与族人也不留下的地方,朋友却留了下来——这是我的看法。
12.166.4
दुर्लभो हि सुहृच्छ्रोता दुर्लभश्च हितः सुहृत् ।
एतद्धर्मभृतां श्रेष्ठ सर्वं व्याख्यातुमर्हसि ॥ १२.१६६.४ ॥
能倾听的朋友难得,能真正助益的朋友也难得。持守法者中最上的人啊,这一切请您为我全部解说。
12.166.5
सन्धेयान्पुरुषान्राजन्नसन्धेयांश्च तत्त्वतः ।
वदतो मे निबोध त्वं निखिलेन युधिष्ठिर ॥ १२.१६६.५ ॥
大王啊,我如实地告诉你哪些人可以信任,哪些人不可信任。坚战啊,请你完全理解我所说的。
12.166.6
लुब्धः क्रूरस्त्यक्तधर्मा निकृतिः शठ एव च ।
क्षुद्रः पापसमाचारः सर्वशङ्की तथाऽलसः ॥ १२.१६६.६ ॥
贪婪者、残忍者、舍弃法者、欺诈者、狡猾者、卑劣者、行为邪恶者、疑忌一切者,以及懒惰者——这些人都不可信任。
12.166.7
दीर्घसूत्रोऽनृजुः क्रुष्टो गुरुदारप्रधर्पकः ।
व्यसने यः परित्यागी दुरात्मा निरपत्रपः ॥ १२.१६६.७ ॥
拖延、邪曲、粗暴、侵犯师尊之妻、在危难中抛弃他人、心术邪恶而无羞耻之人——
12.166.8
सर्वतः पापदर्शी च नास्तिको वेदनिन्दकः ।
संप्रकीर्णेन्दियो लोके यः कालनिरतश्चरेत् ॥ १२.१६६.८ ॥
处处只见罪恶、否认教义、诽谤吠陀、诸根散乱、在世间专心于一时之务的人——
12.166.9
असभ्यो लोकविद्विष्टः समये चानवस्थितः ।
पिशुनोऽथाकृतप्रज्ञो मत्सरी पापनिश्चयः ॥ १२.१६६.९ ॥
粗鄙无礼、被世人憎恶、在约定中反复无常、搬弄是非、无智、嫉妒、一心作恶之人——
12.166.10
दुःशीलोऽथाकृतात्मा च नृशंसः कितवस्तथा ।
मित्रैरपकृतिर्नित्यमटतेऽर्थं धनेप्सया ॥ १२.१६६.१० ॥
品行恶劣、心性未修、残忍且好赌;常常加害朋友,因贪求财富而四处奔波之人——
12.166.11
ददतश्च यथाशक्ति यो न तुष्यति मन्दधीः ।
अधैर्यमपि यो युङ्क्ते सदा मित्रं नराधमः ॥ १२.१६६.११ ॥
即便对方尽力而施,仍不知足者,是愚钝之人;总是对朋友急躁不耐者,是最卑劣的人——
12.166.12
अस्थानक्रोधनो यश्च अकस्माच्च विरज्यते ।
सुहृदश्चैव कल्याणानाशु त्यजति किल्बिपी ॥ १२.१६६.१२ ॥
无故发怒、忽然疏远之人,这罪人很快便会抛弃连善良的朋友也——
12.166.13
अल्पेऽप्यपकृते मूढे न संस्मरनि यत्कृतम् ।
कार्यसेवी च मित्रेषु मित्रद्वेषी नराधिप। ॥ १२.१६६.१३ ॥
人主啊,即使只是小小的冒犯,愚人也不记得别人对他所做的恩惠;他们对朋友只为自己的目的而服务,并且憎恨朋友。
12.166.14
शत्रुर्मित्रमुखो यश्च जिह्नप्रेक्षी विलोचनः ।
न तुष्यति च कल्याणे यम्त्यजेत्तादृशं नरम् ॥ १२.१६६.१४ ॥
应当舍弃这样的人:戴着朋友面孔的敌人,眼神斜视,对善行不感到满意的人。
12.166.15
पानपो द्वेषणः क्रोधी निर्घृणः परुपस्तथा ।
परोपतापी मित्रध्रुक् तथा प्राणिवधे रतः ॥ १२.१६६.१५ ॥
嗜酒者、怀恨者、易怒者、无慈悲者、粗暴者、折磨他人者、背叛朋友者,以及以杀害生灵为乐者——
12.166.16
कृतघ्नश्चाधमो लोके न सन्धेयः कथंचन ।
मित्रद्वेषी ह्यसंधेयः सन्धेयानपि मे शृणु ॥ १२.१६६.१६ ॥
在世间,绝不可与忘恩负义、卑劣之人结盟,也不可与憎恨朋友者结盟。现在听我说,哪些人可以结盟。
12.166.17
कुलीना वाक्यसंपन्ना ज्ञानविज्ञानकोविदाः ।
रूपवन्तो गुणोपेतास्तथाऽलुब्धा जितश्रमाः ॥ १२.१६६.१७ ॥
出身高贵、言辞得体、精通知识与智慧、容貌端正、具备美德、不贪婪、能战胜疲劳的人——
12.166.18
सन्मित्राश्च कृतज्ञाश्च सर्वज्ञा लोभवर्जिताः ।
माधुर्यगुणसंपन्नाः सत्यसन्धा जितेन्द्रियाः ॥ १२.१६६.१८ ॥
善良的朋友、懂得感恩、博知一切、不贪婪、具备温和之德、言而有信、能克制诸根的人——
12.166.19
व्यायामशीलाः सततं भृत्यपुत्राः कुलोद्वहाः ।
दोषैः प्रमुक्ताः प्रथितास्ते ग्राह्याः पार्थिवैर्नराः ॥ १२.१६६.१९ ॥
总是勤勉努力、如仆从与儿子般、能担起家族重任、无过失且声名远播的人,国王应当接纳。
12.166.20
यथाशक्ति समाचाराः संप्रतुष्यन्ति हि प्रभो ।
नास्थाने क्रोधवन्तश्च न चाकस्माद्विरागिणः ॥ १२.१६६.२० ॥
主上啊,行为端正者依其能力而知足;他们不无故发怒,也不会无端地突然疏离。
12.166.21
विरक्ताश्च न दुष्यन्ति मनसाऽप्यर्थकोविदाः ।
आत्मानं पीडयित्वाऽपि सुहृत्कार्यपरायणाः।
विरज्यन्ति न मित्रेभ्यो वासो रक्तमिवाविकम् ॥ १२.१६६.२१ ॥
通晓事理者即便疏远,心中也不会败坏;即使使自己受苦,仍专心于朋友之事,也不会与朋友疏远,犹如染红的毛织物不会褪色。
12.166.22
दोषांश्च लोभमोहादीनर्थेषु युवतीपु च ।
न दर्शयन्ति सुहृदो विश्वस्ता बन्धुवत्सलाः ॥ १२.१६६.२२ ॥
可信赖且如亲人般友爱的朋友,在财利之事和年轻女子之事上,不会显露贪婪、迷惑等过失。
12.166.23
लोष्टकाञ्चनतुल्यार्थाः सुहृत्सु दृढबुद्धयः ।
ये चरन्त्यनभीमाना निसृष्टार्थविभूषणाः।
संगृह्णन्तः परिजनं स्वाम्यर्थपरमाः सदा ॥ १२.१६६.२३ ॥
视土块与黄金等同、在朋友间意志坚定、无骄慢地行走、以施舍财物为装饰、庇护家人、始终专注于主人利益的人。
12.166.24
ईदृशैः पुरुषश्रेष्ठैर्यः सन्धिं कुरुते नृपः ।
तस्य विस्तीर्यते राज्यं ज्योत्स्ना ग्रहपतेरिव ॥ १२.१६६.२४ ॥
与这样的人中至尊结盟的国王,其国土便如行星之主(月亮)的光辉般扩展。
12.166.25
सत्ववन्तो जितक्रोधा बलवन्तो रणे सदा ।
जन्मशीलगुणोपेताः सन्धेयाः पुरुषोत्तमाः। ॥ १२.१६६.२५ ॥
应与人中至尊结盟——他们坚定、战胜了愤怒、在战场上始终强大,并具备高贵的出身、品性与德行。
12.166.26
ये च दोपसमायुक्ता नराः प्रोक्ता मयाऽन ।
तेषामप्यधमा राजन्कृतघ्ना मित्रघातकाः।
त्यक्तव्यास्तु दुराचाराः सर्वेषामिति निश्चयः। ॥ १२.१६६.२६ ॥
在我此处所说的那些充满过失的人之中,国王啊,忘恩负义者与背叛朋友者最为卑劣。品行恶劣者应为所有人所弃,这是确定的结论。