摩诃婆罗多 · 章 12.173
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.173.1
धर्माः पितामहेनोक्ता राजधर्माश्रिताः शुभाः ।
धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हसि सत्तम ॥ १२.१७३.१ ॥
祖父已经讲述了与王道相关的吉祥法则。善人中最优秀者啊,现在你应当讲述行于各个生活阶段者的最高法则。
12.173.2
सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलोदयः ।
बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया ॥ १२.१७३.२ ॥
法遍布一切,能引人升天,其果实以真实之相显现。在有多重门径的法中,没有任何行为是徒劳的。
12.173.3
यस्मिन्यस्मिंस्तु विषये योयो याति विनिश्चयम् ।
स तमेवाभिजानाति नान्यं भरतसत्तम् ॥ १२.१७३.३ ॥
人在任何领域中形成了某种确信,他便只认识那一种,而不认识别的,婆罗多中最优秀者啊。
12.173.4
यथायथा च पर्येति लोकतन्त्रमसारवत् ।
तथातथा विरागोऽत्र जायते नात्र संशयः ॥ १२.१७३.४ ॥
世界的秩序如同无实之物般不断流转,其中便越发生出离欲之心,此中毫无疑问。
12.173.5
एवं व्यवसिते लोके बहुदोषे युधिष्ठिर ।
आत्ममोक्षनिमित्तं वै यतेत मतिमान्नरः ॥ १२.१७३.५ ॥
如此,युधिष्ठिर啊,当世界被认定为充满诸多过失时,有智慧的人应当为自己的解脱而努力。
12.173.6
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते ।
यया बुद्ध्या नुदेच्छोक तन्मे ब्रूहि पितामह ॥ १२.१७३.६ ॥
财富丧失,或妻子、儿子、父亲去世之时,请告诉我,祖父,人以怎样的智慧可以驱除悲伤。
12.173.7
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते ।
अहोदुःखमिति ध्यायञ्शोकस्यापचितिं चरेत् ॥ १२.१७३.७ ॥
财富、妻子、儿子或父亲失去或死亡时,应当思量:“唉,多么痛苦!”如此减轻悲伤。
12.173.8
अत्राप्युदाहरन्तीममिहासं पुरातनम् ।
यथा सेनजितं विप्रः कश्चिदेत्याब्रवीत्सुहृत् ॥ १२.१७३.८ ॥
此处人们也讲述这个古老的故事:某位婆罗门以朋友身份来到赛那吉特面前,如此说道。
12.173.9
पुत्रशोकाभिसंतप्तं राजानं शोकविह्वलम् ।
विषण्णमनसं दृष्ट्वा विप्रो वचनमब्रवीत् ॥ १२.१७३.९ ॥
婆罗门见国王因丧子之痛而煎熬,悲伤不能自持,心神沮丧,于是说了这番话。
12.173.10
किंनु मुह्यसि मूढस्त्वं शोच्यः किमनु शोचसि ।
यदा त्वामपि शोचंतः शोच्या यास्यन्ति तां गातिम् ॥ १२.१७३.१० ॥
愚昧的人啊,你为何迷惑?你这值得悲悼的人,为何还悲悼?当为你悲伤的人也将走上那同样可悲的归宿。
12.173.11
त्वं चैवाहं च ये चान्ये त्वां राजन्पर्युपासते ।
सर्वे तत्र गमिष्यामो यत एवागता वयम् ॥ १२.१७३.११ ॥
你与我,以及侍奉你的其他人,大王,我们都将回到我们来时的地方。
12.173.12
का बुद्धिः किं तपो विप्र कः समाधिस्तपोधन ।
किं ज्ञानं किं श्रुतं वा ते यत्प्राप्य न विषीदसि ॥ १२.१७३.१२ ॥
婆罗门啊,苦行的宝藏,你有何智慧,何种苦行,何种禅定,何种知识,何种所学,得之而不沮丧?
12.173.13
हृष्यन्तमवसीदन्तं सुखदुःखविपर्यये ।
आत्मानमनुशोचामि यो ममैष हृदि स्थितः ॥ १२.१७३.१३ ॥
我为那随苦乐更替而欢喜或沉沦、居于我心中的自我而悲伤。
12.173.14
पश्य भूतानि दुःखेन व्यतिषिक्तानि सर्वशः ।
उत्तमाधममध्यानि तेषु तेष्विह कर्मसु ॥ १२.१७३.१४ ॥
看那一切众生,上、下、中,都完全被苦所缠绕,在此各自从事其所作之业。
12.173.15
आत्माऽपि चायं न मम सर्वा वा पृथिवी मम ।
यथा मम तथाऽन्येषामिति मत्वा न मे व्यथा।
एतां बुद्धिमहं प्राप्य न प्रहृष्ये न च व्यथे ॥ १२.१७३.१५ ॥
此身也非我所有,整个大地也非我所有。想到我如何,别人也如何,便不生痛苦。得此觉悟,我既不欢喜,也不悲伤。
12.173.16
यथा काष्ठं च काष्ठं च समेयातां महोदधौ ।
समेत्य च व्यपेयातां तद्वद्भूतसमागमः ॥ १२.१७३.१६ ॥
如两根木头在大海中相遇,相遇之后又分离,众生的聚合也是如此。
12.173.17
एवं पुत्राश्च पौत्राश्च ज्ञातयो बान्धवास्तथा ।
तेषु स्नेहो न कर्तव्यो विप्रयोगो ध्रुवो हि तैः ॥ १२.१७३.१७ ॥
儿子、孙子、亲属与族人也是如此。不应对他们生起爱恋,因为与他们的分离是必然的。
12.173.18
अदर्शनादापतितः पुनश्चादर्शनं गतः ।
न त्वाऽसौ वेद न त्वंतं कस्मात्त्वमनुशोचसि ॥ १२.१७३.१८ ॥
从不可见中来,又回到不可见中去。他不认识你,你也不知道他的终点;你为何还要悲伤呢?
12.173.19
सुखान्तप्रभवं दुःखं दुःखान्तप्रभवं सुखम् ।
सुखात्संजायते दुःखं दुःखात्संजायते सुखम् ॥ १२.१७३.१९ ॥
痛苦生于快乐的终结,快乐生于痛苦的终结。由快乐生出痛苦,由痛苦生出快乐。
12.173.20
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।
सुखदुःखे मनुष्याणां चक्रवत्परिवर्ततः ॥ १२.१७३.२० ॥
痛苦紧随快乐而来,快乐紧随痛苦而来。人的快乐与痛苦如车轮般轮转。
12.173.21
सुखात्त्वं दुःखमापन्नः पुनरापत्स्यसे सुखम् ।
न नित्यं लभते दुःखं न नित्यं लभते सुखम् ॥ १२.१७३.२१ ॥
你从快乐陷入了痛苦,还会再次获得快乐。人不会永远得到痛苦,也不会永远得到快乐。
12.173.22
शरीरमेवायतनं सुखस्य ।
दुःखस्य चाप्यायतनं शरीरम्।
यद्यच्छरीरेण करोति कर्म ।
तेनैव देही समुपाश्नुते तत् ॥ १२.१७३.२२ ॥
身体本身是快乐的所在,身体也是痛苦的所在。人用身体所做的任何行为,有身者便通过这同一身体承受其果报。
12.173.23
जीवितं च शरीरेण तेनैव सह जायते ।
उभे सह विवर्तेते उभे सह विनश्यतः ॥ १२.१७३.२३ ॥
生命与身体一同、伴随着身体而生。二者一同流转,二者一同毁灭。
12.173.24
स्नेहपाशैर्बहुविधैराविष्टविषया जनाः ।
अकृतार्थाश्च सीदन्ते जलैः सैकतसेतवः ॥ १२.१७३.२४ ॥
人们被诸般爱欲之索缚住,为诸境所迷,未成其事便陷于困顿,如沙堤遇水而坍塌。
12.173.25
स्नेहेन तैलवत्सर्वं सर्गचक्रे निपीड्यते ।
तिलपीडैरिवाक्रम्य क्लेशैरज्ञानसंभवैः ॥ १२.१७३.२५ ॥
如油一般,一切在创造之轮中因爱欲而被榨取;如芝麻榨机般,被由无知所生的苦恼所压迫。
12.173.26
संचिनोत्यशुभं कर्म कलत्रापेक्षया नरः ।
एकः क्लेशानवाप्नोति परत्रेह च मानवः ॥ १२.१७३.२६ ॥
人为了妻子而积累不吉祥的业;他独自在今世和来世承受苦恼。
12.173.27
पुत्रदारकुटुम्बेषु प्रसक्ताः सर्वमानवाः ।
शोकपङ्कार्णवे मग्ना जीर्णा वनगजा इव ॥ १२.१७३.२७ ॥
所有人执著于儿子、妻子与家眷,沉没在忧愁泥泞的大海中,如同衰老的野象。
12.173.28
पुत्रनाशे वित्तनाशे ज्ञातिसंबन्धिनामपि ।
प्राप्यते सुमहद्दुःखं दावाग्निप्रतिमं विभो।
दैवायत्तमिदं सर्वं सुखदुःखे भवाभवौ ॥ १२.१७३.२८ ॥
丧失儿子、丧失财富,甚至亲属的丧亡,都会带来如森林大火般的极大苦痛。哦,威严者,这一切皆由命运支配:苦乐、生死有无。
12.173.29
असुहृत्ससुहृच्चापि सशत्रुर्मित्रवानपि ।
सप्रज्ञः प्रज्ञया हीनो दैवेन लभते सुखम् ॥ १२.१७३.२९ ॥
无友或有友,有敌或有伴侣,有智或无智,人唯有藉由命运才能获得快乐。
12.173.30
नालं सुखाय सुहृदो नालं दुःखाय दुर्हृदः ।
न च प्रज्ञाऽलमर्थानां न सुखानामलं धनम् ॥ १२.१७३.३० ॥
善友不足以带来快乐,恶友也不足以带来痛苦;智慧不足以成就所求,财富也不足以带来享乐。
12.173.31
न बुद्धिर्धनलाभाय न मौढ्यमसमृद्ध्ये ।
लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः ॥ १२.१७३.३१ ॥
智慧不是为了获得财富,愚昧也不是为了贫困。世间变迁的始末,只有智者知晓,他人则不然。
12.173.32
बुद्धिमन्तं च शूरं च मूढं भीरुं जडं कविम् ।
दुर्बलं बलवन्तं च भागिनं भजते सुखम् ॥ १२.१७३.३२ ॥
无论智者与勇士、愚者与怯懦者、迟钝者与诗人、弱者与强者,幸福所眷顾的,乃是那有份之人。
12.173.33
धेनुर्वत्सस्य गोपस्य स्वामिनस्तस्करस्य च ।
पयः पिबति यस्तस्या धेनुस्तस्येति निश्चयः ॥ १२.१७३.३३ ॥
母牛属于小牛,也属于牧人、主人,也属于盗贼;谁饮它的奶,那母牛便是谁的——这就是定论。
12.173.34
ये च मूढतमा लोके ये च बुद्धेः परं गताः ।
ते नराः सुखमेधन्ते क्लिश्यत्यन्तरितो जनः ॥ १२.१७३.३४ ॥
世上极度愚昧之人,以及超越了智慧之人,这些人在幸福中兴盛;而居于中间的人则受苦。
12.173.35
अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे ।
अन्तप्राप्तिं सुखं प्राहुर्दुःखमन्तरमन्तयोः ॥ १२.१७३.३५ ॥
坚定的智者在两端中欢喜,而不在中间欢喜;他们说到达终点即是幸福,而两端之间的间隔便是痛苦。
12.173.36
सुखं स्वपिति दुर्मेधाः स्वानि कर्माण्यचिन्तयन् ।
अविज्ञानेन महता कम्बलेनेव संवृतः ॥ १२.१७३.३६ ॥
愚钝之人不思己之所为,安然入睡,仿佛裹在巨大的无知毯子之中。
12.173.37
ये च बुद्धिं परां प्राप्ता द्वन्द्वातीता विमत्सराः ।
तान्नैवार्था न चानर्था व्यथयन्ति कदाचन ॥ १२.१७३.३७ ॥
已获得至上智慧、超越对立、无嫉妒的人,利益与损失都永远不会使他们动摇。
12.173.38
अथ ये बुद्धिमप्राप्ता व्यतिक्रान्ताश्च मूढताम् ।
तेऽतिवेलं प्रहृष्यन्ति संतापमुपयान्ति च ॥ १२.१७३.३८ ॥
而未获得智慧、陷入愚痴的人,过度欢喜,也会陷入痛苦。
12.173.39
नित्यं प्रमुदिता मूढा दिवि देवगणा इव ।
अवलेपेन महता परितृप्ता विचेतसः ॥ १२.१७३.३९ ॥
愚昧之人常常欢喜,如天上的众神;因极大的傲慢而心满意足,于是心智迷乱。
12.173.40
सुखं दुःखान्तमालस्यं दुःखं दाक्ष्यं सुखोदयम् ।
भूतिश्चैव श्रिया सार्धं दक्षे वसति नालसे ॥ १२.१७३.४० ॥
因懒惰而来的快乐终结于痛苦,而因勤勉而来的痛苦导向快乐的升起;繁荣与吉祥同住于勤勉者,而不在懒惰者之中。
12.173.41
सुखं वा यदि वा दुःखं प्रियं वा यदि वाऽप्रियम् ।
प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः ॥ १२.१७३.४१ ॥
无论是快乐还是痛苦,是喜欢的还是不喜欢的,人应当以不被征服的心去面对所遇之事。
12.173.42
शोकस्थानसहस्राणि भयस्थानशतानि च ।
दिवसेदिवसे मूढमाविशन्ति न पण्डितम् ॥ १२.१७३.४२ ॥
成千上万的忧愁之处与数百的恐惧之处,日复一日地侵入愚人,却不侵入智者。
12.173.43
बुद्धिमन्तं कृतप्रज्ञं शुश्रूषुमनहंकृतम् ।
शान्तं जितेन्द्रियं चापि शोको न स्पृशते नरम् ॥ १२.१७३.४३ ॥
智慧成熟、乐于聆听、不自高自大、平静并克制诸根的智者,忧愁不会触及此人。
12.173.44
एतां बुद्धिं समास्थाय शुद्धचित्तश्चरेद्बुधः ।
शुक्लकृष्णगतिज्ञं तं देवासुरविनिर्गमम्।
उदयास्तमयज्ञं हि न शोकः स्प्रष्टुमर्हति ॥ १२.१७३.४४ ॥
采纳此种领悟,智者应以清净之心生活。知白与黑之道、天神与阿修罗的出现、以及日出日落者,忧愁不能触及他。
12.173.45
यन्निमत्तो भवेच्छोकस्रासो वा क्रोध एव वा ।
आयासो वा यतो मूलं तदेकाङ्गमपि त्यजेत् ॥ १२.१७३.४५ ॥
凡是忧愁、恐惧、愤怒或劳苦所由生起的因由,哪怕是其根源的一部分,也应当舍弃。
12.173.46
यद्यत्त्यजति कामनां तत्सुखस्याभिपूर्यते ।
कामानुसारी पुरुषः कामाननुविनश्यति ॥ १२.१७३.४६ ॥
人所舍弃的每一种欲望,正是由此,他的快乐得以圆满。随欲而行的人,与欲望一同毁灭。
12.173.47
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥ १२.१७३.४७ ॥
世间的欲乐,以及那殊胜的天界大乐,都不及灭除渴爱之乐的十六分之一。
12.173.48
पूर्वदेहकृतं कर्म शुभं वा यदि वाऽशुभम् ।
प्राज्ञं मूढं तथा शूरं भजते तादृशं नरम् ॥ १२.१७३.४८ ॥
前世所作之业,无论善恶,都会归于这样的人,无论他是智者、愚人还是勇士。
12.173.49
एवमव किलैतानि प्रियाण्येवाप्रियाणि च ।
जीवेषु परिवर्तन्ते दुःखानि च सुखानि च ॥ १२.१७३.४९ ॥
如是,诸般可爱与不可爱之事,苦与乐,在众生之中轮转更替。
12.173.50
एतां बुद्धिं समास्थाय नावसीदेद्गुणान्वितः ।
सर्वान्कामाञ्जुगुप्सेन कोपं कुर्वीत पृष्ठतः ॥ १२.१७३.५० ॥
坚定地持守此智,有德之人不应沮丧;应厌弃一切欲望,把愤怒抛在身后。
12.173.51
वृत्त एव हृदि प्रौढो मृत्युरेप मनोभवः ।
क्रोधो नाम शरीरस्थो देहिनां प्रोच्यते बुधैः ॥ १२.१७३.५१ ॥
此死亡在心中因心的活动而成熟,由心所生,居于身体之中,智者称之为“忿怒”,此乃论有身众生者。
12.173.52
यदा संहरते कामान्कूर्मोऽङ्गानीव सर्वशः ।
तदात्मज्योतिरात्मश्रीरात्मन्येव प्रसीदति ॥ १२.१७३.५२ ॥
若人尽摄诸欲,如龟收敛其肢体,则自性之光、自性之德,便在自性之中澄然安宁。
12.173.53
किंचिदेव ममत्वेन यदा भवति कल्पितम् ।
तदेव परितापाय नाशे संपद्यते तदा ॥ १२.१७३.५३ ॥
若因“我所”之念而有所执设,此即成为苦恼之因;其毁坏之时,亦正是此事发生。
12.173.54
न बिभेति यदा चायं यदा चास्मान्न विभ्यति ।
यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा ॥ १२.१७३.५४ ॥
若此人不惧于人,人亦不惧于此人;不求不恶,则此时便证得梵。
12.173.55
उभे सत्यानृते त्यक्त्वा शोकानन्दौ भयाभये ।
प्रियाप्रिये परित्यज्य प्रशान्तात्मा भविष्यति ॥ १२.१७३.५५ ॥
舍弃真与伪、悲与喜、畏与无畏、爱与不爱之后,他将成为心意寂静之人。
12.173.56
यदा न कुरुते धीरः सर्वभूतेषु पापकम् ।
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥ १२.१७३.५६ ॥
当坚定的人对一切众生,无论以行为、意念或言语,都不作恶时,那时他便证得梵。
12.173.57
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।
योसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखं ॥ १२.१७३.५७ ॥
那愚人难以舍弃的渴爱,即使人已老去也不衰老,那是致命的疾病——舍弃此渴爱者便得安乐。
12.173.58
अत्र पिङ्गलया गीता गाथा शृणु नराधिप ।
यथा सा कृच्छ्रकालेऽपि लेभे शर्म सनातनम् ॥ १२.१७३.५८ ॥
人主啊,请听这里Piṅgalā所唱的偈颂,她借此即便在困厄之时也得到了永恒的安宁。
12.173.59
संकेते पिङ्गला वेश्या कान्तेनासीद्विनाकृता ।
अथ कृच्छ्रगता शान्तां बुद्धिमास्थापयत्तदा ॥ १२.१७३.५९ ॥
在约会之处,妓女Piṅgalā没有等到她的情人。于是她陷入苦恼,便将心意安住于寂静。
12.173.60
उन्मत्ताऽहमनुन्मत्तं कान्तमन्ववसं चिरम् ।
अन्तिके रमणं सन्तं नैनमध्यगमं पुरा ॥ १२.१७३.६० ॥
我曾经疯狂,长久依恋那位不疯狂的情人。那近在身旁的可爱爱人,我先前却没有找到。
12.173.61
एकस्थूणं नवद्वारमपिधास्याम्यगारकम् ।
का ह्यकान्तमिहायान्तं कान्त इत्यभिमंस्यते ॥ १२.१७३.६१ ॥
我要关闭这座一根柱子、九扇门的房子。哪个女人会把前来的不爱之人当作爱人?
12.173.62
अकामाः कामरूपेण धूर्ताश्च नररूपिणः ।
न पुनर्वञ्चयिष्यन्ति प्रतिबुद्धाऽस्मि जागृमि ॥ १२.१७३.६२ ॥
他们虽无欲望,却以欲望之形、人之样貌出现的狡徒,不会再欺骗我了。我已觉醒,我正清醒。
12.173.63
अनर्थोऽपि भवत्यर्थो दैवात्पूर्वकृतेन वा ।
संबुद्धाऽहं निराकारा नाहमद्याजितेन्द्रिया ॥ १२.१७३.६३ ॥
无论由于天命还是前世所作,祸患也会变成福利。我已完全觉醒,无形无相;今日我不再是感官不受约束的人。
12.173.64
सुखं निराशः स्वपिति नैराश्यं परमं सुखम् ।
आशामनाशां कृत्वा हि सुखं स्वपिति पिङ्गला ॥ १२.१७३.६४ ॥
无所希望的人安然入睡;无望才是至上的快乐。品加拉啊,把希望化为无望,人才能安然入睡。
12.173.65
एतैश्चान्यैश्च विप्रस्य हेतुमद्भिः प्रभाषितैः ।
पर्यवस्थापितो राजा सेनजिन्मुमुदे सुखम् ॥ १२.१७३.६५ ॥
婆罗门以这些及其他有道理的话语劝慰,国王千那基特得以安定下来,心中欢喜。