Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.185

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.185.1

न प्रणाशोऽस्ति जीवानां दत्तस्य च कृतस्य च ।
याति देहान्तरं प्राणी शरीरं तु विशीर्यते ॥ १२.१८५.१ ॥

众生无灭,布施与所作之业亦无灭。有情转入另一身体,而身体则朽坏。

12.185.2

न शरीराश्रितो जीवस्तस्मिन्नष्टे प्रणश्यति ।
यथा समित्सु दग्धासु न प्रणश्यति पावकः ॥ १२.१८५.२ ॥

有情不依附身体;身体毁坏时,它并不灭亡,犹如柴薪烧尽时火并不灭亡。

12.185.3

अग्नेर्यथा समिद्धस्य यदि नाशो न विद्यते ।
इन्धनस्योपयोगान्ते स चाग्निर्नोपलभ्यते ॥ १२.१८५.३ ॥

若燃烧的火不会灭亡,那么燃料用尽之后,为何看不到那火了呢?

12.185.4

नश्यतीत्येव जानामि शान्तमग्निमनिन्धनम् ।
मतिर्यस्य प्रमाणं वा संस्थानं वा न दृश्यते ॥ १२.१८५.४ ॥

我知道,没有燃料而熄灭的火便会灭亡。凡其智、量或形皆不可见者,便被认为已灭。

12.185.5

जीवस्य चेन्धनाग्नेश्च सदा नाशो न विद्यते ।
समिधामुपयोगान्ते सन्नेवाग्निर्न दृश्यते।
आकाशानुगतत्वाद्धि दुर्ग्रहः स निराश्रयः ॥ १२.१८५.५ ॥

有情与薪火之火永不灭亡。柴薪用尽后,火虽存在却不可见;因其随顺虚空,难以把握,且无所依托。

12.185.6

तथा शरीरसंत्यागे जीवो ह्याकाशमाश्रितः ।
न गृह्यते तु सूक्ष्मत्वाद्यथा ज्योतिरनिन्धनम् ॥ १२.१८५.६ ॥

同样,舍弃身体时,有情依止虚空,因其微妙而不可把握,犹如无薪之光。

12.185.7

प्राणान्धारयते योऽग्निः स जीव उपधार्यताम् ।
वायुसंधारणो ह्यग्निर्नश्यत्युच्छ्वासनिग्रहात् ॥ १२.१८५.७ ॥

维持诸气息的火,应当被理解为生命之我。这火由风所托,当呼吸被止息时便熄灭。

12.185.8

तस्मिन्नष्टे शरीराग्नौ शरीरं तदचेतनम् ।
पतितं याति भूमित्वमयनं तस्य हि क्षितिः ॥ १२.१८५.८ ॥

当身体之火熄灭时,无知觉的身体倒下,化为土性,因为大地是它的归宿。

12.185.9

जङ्गमानां हि सर्वेषां स्थावराणां तथैव च ।
आकाशं पवनोऽन्वेति ज्योतिस्तमनुगच्छति।
तेषां त्रयाणामेकत्वं द्वयं भूमौ प्रतिष्ठितम् ॥ १२.१८५.९ ॥

在一切动物与植物之中,风随空而行,火随风而行。在这三者的统一之中,有两者安住于大地之上。

12.185.10

यत्र खं तत्र पवनस्तत्राग्निर्यत्र मारुतः ।
अमूर्तयस्ते विज्ञेया आपो मूर्तास्तथा क्षितिः ॥ १२.१८५.१० ॥

有空之处即有风,有风之处即有火。这三者应知为无形,而水与地则有形。

12.185.11

यद्यग्निमारुतौ भूमिः खमापश्च शरीरिषु ।
जीवः किंलक्षणस्तत्रेत्येतदाचक्ष्व मेऽनघ ॥ १२.१८५.११ ॥

若火、风、地、空、水存在于有身众生之中,那么其中生命之我的特征是什么?无罪者啊,请为我解说。

12.185.12

पञ्चात्मके पञ्चरतौ पञ्चविज्ञानसंयुते ।
शरीरे प्राणिनां जीवं वेत्तुमिच्छामि यादृशम् ॥ १२.१८५.१२ ॥

我想知道,在由五大构成、具足五种欢愉、与五种觉知相应的身体中,众生的生命之我是怎样的。

12.185.13

मांसशोणितसंघाते मेदः स्नाय्वस्थिसंचये ।
भिद्यमाने शरीरे तु जीवो नैवोपलभ्यते ॥ १२.१८५.१३ ॥

身体是血肉、脂肪、筋骨堆积之物,若此身破裂,便不见命我(jīva)。

12.185.14

यद्यजीवं शरीरं तु पञ्चभूतसमन्वितम् ।
शारीरे मानसे दुःखे कस्तां वेदयते रुजम् ॥ १२.१८५.१४ ॥

若五大所成之身无命我,那么在身心之苦中,是谁使人知晓那痛楚?

12.185.15

शृणोति कथितं जीवः कर्णाभ्यां न शृणोति तत् ।
महर्षे मनसि व्यग्रे तस्माज्जीवो निरर्थकः ॥ १२.१८५.१५ ॥

命我听闻所说,却不是以耳朵听闻。大仙啊,心意散乱之时,命我便无用了。

12.185.16

सर्वं पश्यति यद्दृश्यं मनोयुक्तेन चक्षुषा ।
मनसि व्याकुले तस्मिन्पश्यन्नपि न पश्यति ॥ १२.१८५.१६ ॥

以心相应之眼,所见之物皆能见;心若烦乱,虽看亦不见。

12.185.17

न पश्यति न चाघ्राति न शृणोति न भाषते ।
न च स्पर्शरसौ वेत्ति निद्रावशगतः पुनः ॥ १२.१८५.१७ ॥

陷入睡眠之中的命我,既不见,不嗅,不闻,不言,也不知触与味。

12.185.18

हृष्यति क्रुध्यते कोऽत्र शोचत्युद्विजते च कः ।
इच्छति ध्यायति द्वेष्टि वाचमीरयते च कः ॥ १२.१८५.१८ ॥

此中谁欢喜,谁愤怒,谁悲伤,谁惶惑?谁欲求,谁思维,谁憎恶,谁又发出言语?

12.185.19

न पञ्चसाधारणमत्र किंचि ।
च्छरीरमेकी वहतेऽन्तरात्मा।
स वेत्ति गन्धांश्च रसाञ्श्रुतीश्च ।
स्पर्शं च रूपं च गुणाश्च येऽन्ये ॥ १२.१८५.१९ ॥

此处五大元素之中并无共有之物。唯有内在的我承载身体。它知觉香、味、声、触、色以及其他诸性。

12.185.20

पञ्चात्मके पञ्चगुणप्रदर्शी ।
स सर्वगात्रानुगतोऽन्तरात्मा।
स वेत्ति दुःखानि सुखानि चात्र ।
तद्विप्रयोगात्तु न वेत्ति देही ॥ १२.१८५.२० ॥

在由五者构成的身体中,那内在的我是感知五种性质的人。遍布于一切肢体,他在此知晓苦与乐;但与之分离时,有身者便不知。

12.185.21

यदा न रूपं न स्पर्शो नोष्मभावश्च पञ्चके ।
तदा शान्ते शरीराग्नौ देहं त्यक्त्वा न नश्यति ॥ १२.१८५.२१ ॥

当这由五者构成的身体中既无色,也无触,亦无温热之态,身中之火平息之时,即使离开身体,他也不会灭亡。

12.185.22

अम्मयं सर्वमेवेदमापो मूर्तिः शरीरिणाम् ।
तत्रात्मा मानसो ब्रह्मा सर्व भूतेषु लोककृत् ॥ १२.१८५.२२ ॥

这一切皆由水所成;水即有身众生之形。其中,意识之我即梵天,是一切众生中创造诸界者。

12.185.23

आत्मा क्षेत्रज्ञ इत्युक्तः संयुक्तः प्राकृतैर्गुणैः ।
तैरेव तु विनिर्मुक्तः परमात्मेत्युदाहृतः ॥ १२.१८५.२३ ॥

此我称为知场者,与自然之性质相结合;然而脱离那些性质,则被宣称为至上之我。

12.185.24

आत्मानं तं विजानीहि सर्वलोकविपाचकम् ।
स तस्मिन्संश्रितो देहे ह्यब्बिन्दुरिव पुष्करे ॥ १२.१८५.२४ ॥

你应当知道那使一切世界成熟的我。他依止于此身之中,如莲叶上的水滴。

12.185.25

क्षेत्रज्ञं तं विजानीहि नित्यं लोकहितात्मकम् ।
तमो रजश्च सत्त्वं च विद्धि जीवगुणानिमान् ॥ १२.१८५.२५ ॥

应当认识那位知场者,其本性始终是诸世界的福祉。应知黑暗、激情与善性,乃是有情生命的诸德。

12.185.26

सचेतनं जीवगुणं वदन्ति ।
स चेष्टते चेष्टयते च सर्वम्।
ततः परं क्षेत्रविदो वदन्ति ।
प्रावर्तयद्यो भुवनानि सप्त ॥ १२.१८५.२६ ॥

此被称为具有觉知的有情之德。他行动,并使一切行动。在此之上,知场者说,那是推动七界运行者。

12.185.27

न जीवनाशोऽस्ति हि देहभेदे ।
मिथ्यैतदाहुर्मुत इत्यबुद्धाः।
जीवस्तु देहान्तरितः प्रयाति ।
दशार्धतैवास्य शरीरभेदः ॥ १२.१८५.२७ ॥

身体破坏时,有情生命并不毁灭。说“他死了”是虚妄的,无知者如此说。有情被转入另一身体而离去;其身体之变,仅是……

12.185.28

एवं सर्वेषु भूतेषु गूढश्चरति संवृतः ।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया तत्त्वदर्शिभिः ॥ १२.१८५.२८ ॥

如此,他隐藏于一切有情之中,被遮覆而行。然而,见真理者以至上微妙的智慧能见到他。

12.185.29

तं पूर्वापररात्रेषु युञ्जानः सततं बुधः ।
लध्वाहारो विशुद्धात्मा पश्यत्यात्मानंमात्मनि ॥ १२.१८५.२९ ॥

于夜之初与夜之末,智者恒常修习瑜伽,少食,心性清净,便见到他——以自我见自我。

12.185.30

चित्तस्य हि प्रसादेन हित्वा कर्म शुभाशुभम् ।
प्रसन्नात्माऽत्मनि स्थित्वा सुखमव्ययमश्नुते ॥ १२.१८५.३० ॥

凭借心之清明,舍弃善与恶的业,心性安宁、安住于自我之中,他便得到不坏的安乐。

12.185.31

मानसोऽग्निः शरीरेषु जीव इत्यभिधीयते ।
सृष्टिः प्रजापतेरेषा भूताध्यात्मविनिश्चया ॥ १२.१८५.३१ ॥

在身体中,心之火被称为生命自我。这是生主的创造,是关于诸元素与内在自我的确定。