摩诃婆罗多 · 章 12.194
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.194.1
चातुरात्रस्यनुक्तं ते राजधर्मास्तथैव च ।
नानाश्रयाश्च भगवन्नितिहासाः पृथग्विधाः ॥ १२.१९४.१ ॥
尊者啊,您尚未讲述四夜祭祀与王法,也未讲述来源各异的多种历史传说。
12.194.2
श्रुतास्त्वत्तः कथाश्चैव धर्मयुक्ता महामते ।
संदेहोऽस्ति तु कश्चिन्मे तद्भवान्वक्तुमर्हति ॥ १२.१९४.२ ॥
大智者啊,我曾从您那里听闻充满法义的故事;然而我心中仍有一疑,唯有您才应为我解答。
12.194.3
जापकानां फलावाप्तिं श्रोतुमिच्छामि भारत ।
किं फलं जपतामुक्तं क्व वा तिष्ठन्ति जापकाः ॥ १२.१९४.३ ॥
婆罗多之子啊,我想听闻行持念诵(japa)者所获的果报。对念诵者所说的果报是什么?念诵者又住在何处?
12.194.4
जपस्य च विधिं कृत्स्नं वक्तुमर्हसि सेऽनघ ।
जापका इति किंचैतत्साङ्ख्ययोगक्रियाविधिः ॥ १२.१९४.४ ॥
无垢者啊,您应当完整讲述念诵(japa)之法。所谓“念诵者”是什么?这是否是数论与瑜伽的行持之法?
12.194.5
किं यज्ञविधिरेवैष किमेतज्जप्यमुच्यते ।
एतन्मे सर्वमाचक्ष्व सर्वज्ञो ह्यसि मे मतः ॥ १२.१९४.५ ॥
这只是祭祀仪轨,还是称为念诵?请将这一切都为我解说,因为在我看来,您是一切智者。
12.194.6
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
यमस्य यत्पुरा वृत्तं कालस्य ब्राह्मणस्य च ॥ १२.१९४.६ ॥
在此事上,人们也引用这段古老的传说,即往昔之时,阎摩、时间(迦罗)与一位婆罗门所发生的事。
12.194.7
इक्ष्वाकोश्चैव मृत्योश्च विवादे धर्मकारणात् ।
संन्यास एव वेदान्ते वर्तते जपनं प्रति।
वेदवादाङ्गनिर्वृत्ताः शान्ता ब्रह्मण्यवस्थिताः ॥ १२.१९४.७ ॥
在伊克什瓦库与死亡因法而起的争论中,吠檀多中关于诵念唯有出离存续。精通吠陀学说诸支分者,寂静而安住于梵。
12.194.8
साङ्ख्ययोगौ तु यावुक्तौ मुनिभिः समदर्शिभिः ।
मार्गौ तावप्युभावेतौ संश्रितौ न च संश्रितौ ॥ १२.१९४.८ ॥
众见平等的牟尼所说的数论与瑜伽二道,此二道既被遵循,也不被遵循。
12.194.9
यथा संश्रूयते राजन्कारणं चात्र वक्ष्यते ।
क्रमेण चैव विहितो जपयज्ञविधिर्नृप ॥ १२.१९४.९ ॥
君王啊,如所闻,此处也将说明其因。君王啊,念诵祭的仪轨已依次规定。
12.194.10
सालम्बनमिति ज्ञेयं जपयज्ञात्मकं शुभम् ।
मनः समाधिरेवात्र तथेन्द्रियजयः स्मृतः ॥ १२.१९४.१० ॥
应知此为有所依托、吉祥、以念诵祭为体的修行。此处所说的是心的定,同样也是对诸根的克制。
12.194.11
सत्यमग्निपरीचारो विविक्तानां च सेवनम् ।
ध्यानं तपो दमः क्षान्तिरनसूया मिताशनम् ॥ १२.१९४.११ ॥
真实、侍奉圣火、亲近独居者、禅定、苦行、自制、忍耐、不嫉妒以及节制饮食。
12.194.12
विषयप्रतिसंहारो मितजल्पस्तथा शमः ।
एष प्रवर्तको धर्मो निवर्तकमथो शृणु ॥ १२.१९४.१२ ॥
从诸境收摄、言语有节、以及寂静——此为发起之法。现在听那使人返回之法。
12.194.13
यथा निवर्तते धर्मो जपतो ब्रह्मचारिणः ।
न जपो न च वै ध्यानं नेच्छा न द्वेषहर्षणौ।
युज्यते नृपशार्दूल सुसंवेद्यं हि तत्किल ॥ १२.१९४.१३ ॥
如同诵经的梵行者之法退隐,那里既无诵念,也无禅定,无欲望,无憎恶与喜悦;王中之虎啊,此事易于领会。
12.194.14
जपमावर्तयन्नित्यं जपन्वै ब्रह्मचारिकम् ।
तदर्थबुद्ध्या संयाति मनसा जापकः परम् ॥ १२.१९४.१४ ॥
常常重复诵念,如梵行者那样诵念,以心意专注于其义,诵念者以心达到至高。
12.194.15
यथा संश्रूयते जापो येन वै जापको भवेत् ।
संहिताप्रणवेनैव सावित्री च परा मता ॥ १२.१९४.१५ ॥
如同听闻的诵念,藉此成为诵念者,唯以本集与唵(praṇava),而萨维德丽也被视为至上。
12.194.16
यदन्यदुचितं शुद्धं वेदस्मृत्युपपादितम् ।
एतत्सर्वमशेषेण यथोक्तं परिवर्तयेत् ॥ १२.१९४.१६ ॥
其他任何适宜而清净、由吠陀与法典所确立的,这一切无一遗漏,应如所说那样轮番诵念。
12.194.17
द्विविदं मार्गमासाद्य व्यक्ताव्यक्तमनामयम् ।
कुशोच्चयनिषष्णः सन्कुशहस्तः कुशैः शिख।
कुशैः परिवृतस्तस्मिन्मध्ये छन्नः कुशैस्तथा ॥ १२.१९४.१७ ॥
抵达两重之道,显与隐,无病;坐于吉祥草堆上,手持吉祥草,顶髻上为吉祥草所围,中间亦为吉祥草所遮。
12.194.18
विषयेभ्यो नमस्कुर्याद्विषयान्न च भावयेत् ।
साम्यमुत्पाद्य मनसा मनस्येव मनो दधत् ॥ १२.१९४.१८ ॥
应向诸境顶礼远离,不应思念诸境;以心生起平等,唯以心安住于心。
12.194.19
तद्धिया ध्यायति ब्रह्म जपन्वै संहितां हिताम् ।
संन्यस्यत्यथवा तां वै समाधौ पर्यवस्थितः ॥ १२.१९४.१९ ॥
以此心他冥想梵,诵念那利益的《本集》;或者放下它,安住于三昧之中。
12.194.20
ध्यानमुत्पादयत्यत्र संहिताबलसंश्रयात् ।
अथाभिमतमन्त्रेण प्रणवाद्यं जपेत्कृती ॥ १२.१९४.२० ॥
在此,他依靠《本集》的力量生起禅定。然后,智者应以所选的咒语念诵,从唵(praṇava)开始。
12.194.21
यस्मिन्नेवाभिपतितं मनस्तत्र निवेशयेत् ।
समाधौ स हि मन्त्रे तु संहितां वा यथाविधि।
शुद्धात्मा तपसा दान्तो निवृत्तद्वेषकामवान् ॥ १२.१९४.२१ ॥
心在何处安住,便应将其固定于彼处。在三昧中,他沉浸于咒语,或依规则沉浸于《本集》。心意纯净,以苦行自制,远离憎恨与贪欲。
12.194.22
अरागमोहो निर्द्वन्द्वो न शोचति न सज्जते ।
न कर्ता करणीयानां नाकार्याणामिति स्थितिः ॥ १२.१९४.२२ ॥
离开贪爱与迷惑,超越二元对立,他不忧愁,也不执着。他既非应做之事的作者,也非不应做之事的作者;这便是他的境界。
12.194.23
न चाहंकारयोगेन मनः प्रस्थाफ्येत्क्वचित् ।
न चार्थग्रहणे युक्तो नावमानी न चाक्रियः ॥ १२.१९४.२३ ॥
不应因与我慢相连,而使心意偏离。不应执取外物,不应轻慢他人,也不应无所作为。
12.194.24
ध्यानक्रियापरो युक्तो ध्यानवान्ध्याननिश्चयः ।
ध्याने समाधिमुत्पाद्य तदपि त्यजति क्रमात् ॥ १२.१९४.२४ ॥
专注于禅修之行,心意调伏,具足禅定且决心坚定,在禅定中生起三昧,然后依次连它也舍弃。
12.194.25
स वै तस्यामवस्थायां सर्वत्यागकृतः सुखी ।
निरिच्छस्त्यजति प्राणान्ब्राह्मीं संश्रयते तनुम् ॥ १२.१९४.२५ ॥
处于此境,舍弃一切者便得快乐;无欲者舍弃生命之气,依止梵之身。
12.194.26
निरालम्बो भवेत्स्मृत्वा मरणाय समाधिमान् ।
सर्वाल्लोँकान्समाक्रम्य क्रमात्प्राप्नोति वै परम् ॥ १२.१९४.२६ ॥
安住于三摩地,无所依托,应忆念死亡;越过一切世界,他渐次证得至上。
12.194.27
अथवा नेच्छते तत्र ब्रह्मकायनिषेवणम् ।
उत्क्रामति च मार्गस्थो नैव क्वचन जायते ॥ १२.१९४.२७ ॥
若他不愿在彼处侍奉梵之身,则立于道上而去,此后再不于任何处受生。
12.194.28
आत्मबुद्धिं समास्थाय शान्तीभूतो निरामयः ।
अमृतं विरजाः शुद्धमात्मानं प्रतिपद्यते ॥ १२.१९४.२८ ॥
坚持自我之觉知,寂静而无病,他证得不死、离尘、清净的自我。