摩诃婆罗多 · 章 12.196
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.196.1
कीदृशं निरयं याति जापको वर्णयस्व मे ।
कौतूहलं हि राजन्मे तद्भवान्वक्तुमर्हति ॥ १२.१९६.१ ॥
念诵者会堕入何种地狱?请为我描述。国王啊,我对此十分好奇,只有您才有资格说明。
12.196.2
धर्मस्यांशप्रसूतोऽसि धर्मज्ञोऽसि स्वभावतः ।
धर्ममूलाश्रयं वाक्यं शृणुष्वावहितोऽनघ ॥ १२.१९६.२ ॥
你是法的一部分所生,天性便通晓法。无垢者啊,请专心聆听这些以法之根本为依归的话语。
12.196.3
अमूनि यानि स्थानानि देवानाममरात्मनाम् ।
नानासंस्थानवर्णानि नानारूपफलानि च ॥ १२.१९६.३ ॥
那些不死之性的天神所居之处,形态与色彩各异,形象与果实也各不相同,
12.196.4
दिव्यानि कामचारीणि विमानानि सभास्तथा ।
आक्रीडा विविधा राजन्पद्मिन्यश्चामलोदकाः ॥ १२.१९६.४ ॥
随意飞行的神圣天车、议事厅以及各种游乐之地;还有,国王啊,清澈池水中的莲花池。
12.196.5
चतुर्णां लोकपालानां शुक्रस्याथ बृहस्पतेः ।
मरुतां विश्वदेवानां साध्यानामश्विनोरपि ॥ १२.१९६.५ ॥
还有四位世界守护者、室建陀与木星(Bṛhaspati)、风神(Marut)、诸遍天神、萨德亚神,以及双阿湿毗努神的居所。
12.196.6
रुद्रादित्यवसूनां च तथाऽन्येषां दिवौकसाम् ।
एते वै निरयास्तात स्थानस्य परमात्मनः ॥ १२.१९६.६ ॥
还有楼陀罗、阿提亚、婆苏以及其他天界居民的居所。孩子啊,这些正是至上自我之居所中的地狱。
12.196.7
अभयं चानिमित्तं च न च क्लेशभयावृतम् ।
द्वाभ्यां मुक्तं त्रिभिर्मुक्तमष्टाभिस्त्रिभिरेव च ॥ १२.१९६.७ ॥
它无畏且无因;不被苦恼与恐惧所包围;脱离二者,脱离三者,也脱离八者与三者。
12.196.8
चतुर्लक्षणवर्जं तु चतुष्कारणवर्जितम् ।
अप्रहर्षमनानन्दमशोकं विगतक्लमम् ॥ १२.१९६.८ ॥
它脱离四种特征,也脱离四种原因;没有欢欣,没有喜乐,没有忧愁,没有疲惫。
12.196.9
कालः संपच्यते तत्र कालस्तत्र न वै प्रभुः ।
स कालस्य प्रभू राजन्सर्वस्यापि तथेश्वरः ॥ १२.१९६.९ ॥
在那里时间可以被感知,但在那里时间并无主宰。大王,他是时间的主宰,也同样是一切的主宰。
12.196.10
एतद्वै ब्रह्मणः स्थाने जापकस्य महात्मनः ।
तत्रस्थं परमात्मानं ध्यायन्वै सुसमाहितः।
हिरण्यगर्भः सायुज्यं प्राप्नुयाद्वा नृपोत्तम ॥ १२.१९६.१० ॥
这正是梵的所在,是大德诵持者的住处。若专注地禅思那里所住的至上我,便可证得与金胎(Hiraṇyagarbha)合一,大王中的最上者啊。
12.196.11
आत्मकेवलतां प्राप्तस्तत्र गत्वा न शोचति ।
ईदृशं परमं स्थानं निरयास्ते च तादृशाः ॥ १२.१९६.११ ॥
已得自性孤独者,到达那里便不再忧愁。这便是至高之处;而那些地狱也是这样的。
12.196.12
एते ते निरयाः प्रोक्ताः सर्व एव यथातथम् ।
तस्य स्थानवरस्येह सर्वे निरयसंज्ञिताः ॥ १२.१९६.१२ ॥
这些地狱都已如实宣说;与那殊胜之处相比,它们全都被称为地狱。