Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.204

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.204.1

तदेव सततं मन्ये न शक्यमनुवर्णितुम् ।
यथा निदर्शनं वस्तु न शक्यमनुबोधितुम् ॥ १२.२०४.१ ॥

我认为那始终无法完全描述,正如一件事物无法通过例子完全使人明白。

12.204.2

यथाहि सारं जानाति न कथंचन संस्थितम् ।
परकायच्छविस्तद्वद्देहेऽयं चेतनस्तथा ॥ १२.२०४.२ ॥

正如人无论如何也不认识处于他人身体影子中的精华,同样,这身体中的这个有意识的自我也是如此。

12.204.3

विना कायं न सा च्छाया तां विना कायमस्त्युत ।
तद्वदेव विना नास्ति प्रकृतेरिह वर्तनम् ॥ १२.२०४.३ ॥

没有身体就没有那影子,没有那影子也就没有身体;同样,这里自然的运作也不能离开它而存在。

12.204.4

इदं वै नास्ति नेदमस्ति परं विना ।
जीवात्मना त्वसौ छिन्नस्त्वेष चैव परात्मना ॥ १२.२०४.४ ॥

此实非有,彼亦非有;然离开彼,此即是至上。彼与个体灵魂相隔,此亦与至上灵魂相隔。

12.204.5

तत्तवेति विदुः केचिदतथ्यमिति चापरे ।
उभयं मे मतं विद्वन्मुक्तिहेतौ समाहितम् ॥ १२.२०४.५ ॥

有人说那是你的,有人说那是不真实的。学者啊,我的看法是,二者共同构成解脱的因由。

12.204.6

विमुक्तैश्च मृगः सोऽपि दृश्यते संयतेन्द्रियः ।
सर्वेषां न हि दृश्यो हि तटिद्वत्स्फुरति ह्यसौ ॥ १२.२०४.६ ॥

那头制伏诸根的鹿,也被解脱者所见。他并非对所有人可见;他如闪电般闪现。

12.204.7

ब्राह्मणस्य समादृश्यो वर्तते सोऽपि किं पुनः ।
विद्यते परमः शुद्धः साक्षिभूतो विभावसुः ॥ १२.२०४.७ ॥

即使对婆罗门而言他也可充分被见,何况他人?他是至高的、纯净的见证者毗婆苏。

12.204.8

श्रुतिरेषा ततो नित्या तस्मादेकः परो मतः ।
न प्रयोजनमुद्दिश्य चेष्टा तस्य महात्मनः ॥ १२.२०४.८ ॥

此天启是永恒的;因此他被视为唯一的至高者。这位大灵的作为并非为了任何目的。

12.204.9

तादृशोस्त्विति मन्तव्यस्तथा सत्यं महात्मना ।
नानासंस्थेन भेदेन सदा गतिविभेदवत्।
तस्य भेदः समाख्यातो भेदो ह्यस्ति तथाविधः ॥ १२.२०४.९ ॥

应当思维:"愿他如此";这是大灵所说的真理。他安住于多种形态,如同运动的差别,总是显现为有差异的。因此他的差别被这样宣说,因为这样的差别确实存在。

12.204.10

एवं विद्वन्विजानीहि परमात्मानमव्ययम् ।
तत्तद्गुणविशेषेण संज्ञानामनुसंयुतम् ॥ १२.२०४.१० ॥

如此,智者应当认识那不坏的至上自我,他依据各自的特殊德性而与种种名称相连。

12.204.11

सर्वेश्वरः सर्वमयः स च सर्वप्रवर्तकः ।
सर्वात्मकः सर्वशक्तिः सर्वकारणकारणम् ॥ १२.२०४.११ ॥

他是一切的主宰,由一切构成;他是一切的推动者,一切的自我,全能,是一切原因的原因。

12.204.12

सर्वसाधारणः सर्वैरुपास्यश्च महात्मभिः ।
वासुदेवेति विख्यातस्तं विदित्वाऽश्नुतेऽमृतम् ॥ १२.२०४.१२ ॥

他对一切人都普遍,为一切大灵所崇拜,以"婆苏提婆"之名闻名。知晓他者,便得不死。

12.204.13

यदा ते प़ञ्चभिः पञ्च युक्तानि मनसा सह ।
अथ तद्द्रक्ष्यते ब्रह्म मणौ सूत्रमिवार्पितम् ॥ १२.२०४.१३ ॥

当你的五根与意念一同与五境相合时,你便会见到梵,如同线穿过宝珠。

12.204.14

तदेव च यथा सूत्रं सुवर्णे वर्तते पुनः ।
मुक्तास्वथ प्रवालेषु मृन्मये राजते तथा ॥ १२.२०४.१४ ॥

正如那根线又在金、珍珠、珊瑚和陶土之物中闪耀,如此也是。

12.204.15

तद्वद्गोऽश्वमनुष्येषु तद्वद्धस्तिमृगादिषु ।
तद्वत्कीटपतङ्गेषु प्रसक्तात्मा स्वकर्मभिः ॥ १२.२०४.१५ ॥

同样,在牛、马、人之中;同样,在象、鹿等之中;同样,在虫与飞蛾之中,以自身业而执着的自我居住。

12.204.16

येनयेन शरीरेण यद्यत्कर्म करोत्ययम् ।
तेनतेन शरीरेण तत्तत्फलमुपाश्नुते ॥ १२.२०४.१६ ॥

此人以何种身体造作何种业,便以那同一身体获得其果报。

12.204.17

यथा ह्येकरसा भूमिरोषध्यर्थानुसारिणी ।
तथा कर्मानुगा बुद्धिरन्तरात्माऽनुदर्शिनी ॥ १२.२०४.१७ ॥

如同同一味的大地顺应草药之用,随业而行的智慧也相应地显现内在的自我。

12.204.18

ज्ञानपूर्वोद्भवा लिप्सा लिप्सापूर्वाभिसन्धिता ।
अभिसन्धिपूर्वकं कर्म कर्ममूलं ततः फलम् ॥ १२.२०४.१८ ॥

欲望生于知识;意图先于欲望;行为先于意图;行为即是根本,由此而有果报。

12.204.19

फलं कर्मत्मकं विद्यात्कर्म ज्ञेयात्मकं तथा ।
ज्ञेयं ज्ञानात्मकं विद्याज्ज्ञानं सदसदात्मकम् ॥ १२.२०४.१९ ॥

应当知道果实具有业的本性,业具有可知之物的本性。应当知道可知之物具有知识的本性,知识则由有与无构成。

12.204.20

तदेवमिष्यते ब्रह्म संख्यानाद्विनिभिद्यते ।
ज्ञानानां च फलानां च ज्ञेयानां कर्मणां तथा।
क्षयान्ते यत्फलं विद्याज्ज्ञानं ज्ञेयप्रतिष्ठितम् ॥ १२.२०४.२० ॥

因此梵被如此教导,并借列举而区分。应知在知识、果实、可知之物与业皆灭尽之后所生之果,即是安立于可知之物之中的知识。

12.204.21

महद्धि परमं भूतं युक्ताः पश्यन्ति योगिनः ।
अबुधास्तं न पश्यन्ति ह्यात्मस्थं गुणबुद्धयः ॥ १२.२०४.२१ ॥

伟大而至上的存在,修习有成的瑜伽行者能够见到。心系于德性的愚昧之人,见不到住于自我之中的他。

12.204.22

पृथिवीरुपतो रूपमपामिह महत्तरम् ।
अद्भ्यो महत्तरं तेजस्तेजसः पवनो महान् ॥ १२.२०४.२२ ॥

此处,水之形大于地之形;火大于水,而大风又大于火。

12.204.23

पवनाच्च महद्व्योम तस्मात्परतरं मनः ।
मनसो महती बुद्धिर्बुद्धेः कालो महान्स्मृतः ॥ १२.२०४.२३ ॥

大于风的是广大的虚空;比它更高的是心。大于心的是广大的觉,大于觉的则被认为是伟大的时间。

12.204.24

कालात्स भगवान्विष्णुर्यस्य सर्वमिदं जगत् ।
नादिर्न मध्यं नैवान्तस्तस्य देवस्य विद्यते ॥ १२.२०४.२४ ॥

由时间而言,那位世尊毗湿奴,此一切世界皆属于他。那位神既无始,亦无中,亦无终可寻。

12.204.25

अनादित्वादमध्यत्वादनन्तत्वाच्च सोऽव्ययः ।
अत्येति सर्वदुःखानि दुःखं ह्यन्तवदुच्यते ॥ १२.२०४.२५ ॥

因为他无始、无中、无终,所以他是不灭的。他超越一切苦难,因为只有苦难被说为有终结。

12.204.26

तद्ब्रह्म परमं प्रोक्तं तद्धाम परमं पदम् ।
तद्गत्वा कालविषयाद्विमुक्ता मोक्षमाश्रिताः ॥ १२.२०४.२६ ॥

那梵被宣说为至高,那居所是至上之境。到达那里,脱离时间之域,依止解脱者便得解脱。

12.204.27

गुणेष्वेते प्रकाशन्ते निर्गुणत्वात्ततः परम् ।
निवृत्तिलक्षणो धर्मस्तथाऽऽनन्त्याय कल्पते ॥ १२.२०४.२७ ॥

这些在德性之中显现;因为他无德,所以超越于它们。如此,以止息为特征的法便适合于无限。

12.204.28

ऋचो यजूंषि सामानि शरीराणि व्यपाश्रिताः ।
जिह्वाग्रेषु प्रवर्तन्ते यत्नसाध्याविनाशिनः ॥ १२.२०४.२८ ॥

《梨俱》诗句、《夜柔》祷文与《娑摩》歌咏依附于身体;它们在舌尖生起,需凭努力才能成就,却是不灭的。

12.204.29

न चैवमिष्यते ब्रह्म शरीराश्रयसंभवम् ।
न यत्नसाध्यं तद्ब्रह्म नादिमध्यं न चान्तवन् ॥ १२.२०४.२९ ॥

如此,梵不被认为是依附身体而生起的;那梵不是凭努力所能成就的,无始无中,也无终结。

12.204.30

ऋचामादिस्तथा साम्नां यजुषामादिरुच्यते ।
अन्तश्चादिमतां दृष्टो न त्वादिर्ब्रह्मणः स्मृतः ॥ १२.२०४.३० ॥

《梨俱》诗句有其开端,《娑摩》歌咏与《夜柔》祷文也同样被说为有开端。有开端的事物可见其终结,但梵的开端无从记述。

12.204.31

अनादित्वादनन्तत्वात्तदनन्तमथाव्ययम् ।
अव्ययत्वाच्च निर्दुःखं द्वन्द्वाभावस्ततः परम् ॥ १२.२०४.३१ ॥

因为它无始无终,所以它无尽而不灭。因为它不灭,所以它无苦;此后在至高之境,便没有二元对立。

12.204.32

अदृष्टतोऽनुपायाच्च प्रतिसन्धेश्च कर्मणः ।
न तेन मर्त्याः पश्यन्ति येन गच्छान्त तत्पदम् ॥ १२.२०४.३२ ॥

因为它不可见,因为没有方法,也因为业的再度系缚,凡人看不见通向那境界的道路。

12.204.33

विषयेषु च संसर्गाच्छाश्वतस्य च संशयात् ।
मनसा चान्यदाकाङ्क्षन्परं न प्रतिपद्यते ॥ १२.२०४.३३ ॥

因为与感官对象的接触,也因为对永恒的怀疑,心中渴求别物的人不能达到至高。

12.204.34

गुणान्यदिह पश्यन्ति तदिच्छन्त्यपरे जनाः ।
परं नैवाभिकाङ्क्षन्ति निर्गुणत्वाद्गुणार्थिनः ॥ १२.२०४.३४ ॥

在此,他人渴求他们视为功德之物;但追求功德者因为无德,不愿求至高。

12.204.35

गुणैर्यस्त्ववरैर्युक्तः कथं विद्याद्गुणानिमान् ।
अनुमानाद्धि गन्तव्यं गुणैरवयवैः परम् ॥ १२.२०४.३५ ॥

然而,具有低劣功德者如何能知晓这些功德?至高必须通过推论,借助功德及其部分而抵达。

12.204.36

सूक्ष्मेण मनसा विद्मो वाचा वक्तुं न शक्नुमः ।
मनो हि मनसा ग्राह्यं दर्शनेन च दर्शनम् ॥ १२.२०४.३६ ॥

我们以细微之心知之,却不能以言语说出。心为心所把握,见为见所见。

12.204.37

ज्ञानेन निर्मलीकृत्य बुद्धिं बुद्ध्या मनस्तथा ।
मनसा चेन्द्रियग्राममक्षरं प्रतिपद्यते ॥ १२.२०४.३७ ॥

以知识净化智力,又以智力净化意,若以意制御诸根之群,便能证得不灭者。

12.204.38

बुद्धिप्रहीणो मनसा समृद्ध ।
स्तथाऽनिराशीर्गुणतामुपैति।
परं त्यजन्तीह विलोभ्यमाना ।
हुताशनं वायुरिवेन्धनस्थम् ॥ १२.२०४.३८ ॥

无智而心富,如是无欲,便达于德性之境。此世中被诱惑者舍弃至上,如风舍弃薪中之火。

12.204.39

गुणादाने विप्रयोगे च तेषां ।
मनः सदा विद्धि परावराभ्याम्।
अनेनैव विधिना संप्रवृत्तो ।
गुणादाने ब्रह्म शरीरमेति ॥ १२.२०४.३९ ॥

于德性之取与离,应常以上下二者知其意。依此法而行,在取德性之时,便得梵之身。

12.204.40

अव्यक्तात्मा पुरुषोऽव्यक्तकर्मा ।
सोऽव्यक्तत्वं गच्छति ह्यन्तकाले।
तैरेवायं चेन्द्रियैर्वर्धमानै ।
र्ग्लायद्भिर्वा वर्ततेऽकामरूपः ॥ १२.२०४.४० ॥

自我未显、业行未显之人,临终时归于未显之境。以这些或增或减的诸根,他以随意之形而存在。

12.204.41

सर्वैरयं चेन्द्रियैः संप्रयुक्तो ।
देहं प्राप्तः यञ्चभूताश्रयः स्यात्।
न सामर्थ्याद्गच्छति कर्मणेह ।
हीनस्तेन परमेणाव्ययेन ॥ १२.२०४.४१ ॥

与诸根相合者,得身之后,可为诸大之所依。非由其力,而由业行,他在此离于那至上不灭者而去。

12.204.42

पृथ्व्या नरः पश्यति नान्तमस्या ।
ह्यन्तश्चास्या भविता चेति विद्धि।
परं न यातीह विलोभ्यमानो ।
यथा प्लवं वायुरिवार्णवस्थम् ॥ १२.२०४.४२ ॥

人看不到这大地的尽头;应当知道它也终将有尽头。像海上的小船被风吹动,被贪欲牵引的人在此不能达到至高之境。

12.204.43

दिवाकरो गुणमुपलभ्य निर्गुणो ।
यथा भवेदपगतरश्मिमण्डलः।
तथां ह्यसौ मुनिरिह निर्विशेषवान् ।
स निर्गुणं प्रविशति ब्रह्म चाव्ययम् ॥ १२.२०४.४३ ॥

犹如太阳在光轮散去之后便无形质,这位圣者在此超越差别,进入无德且不灭的梵。

12.204.44

अनागतं सुकृतवतां परां गतिं ।
स्वयंभुवं प्रभवनिधानमव्ययम्।
सनातनं यदमृतमव्ययं ध्रुवं ।
निचाय्य तत्परममृतत्वमश्नुते ॥ १२.२०४.४४ ॥

那尚未降临于善行者的至高归宿,自生,万物的根源与宝藏,不灭、永恒、不死、不坏、坚定。确知此境,便得至高的不死。