摩诃婆罗多 · 章 12.206
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.206.1
पितामह महाप्राज्ञ पुण्डरीकाक्षमच्युतम् ।
कर्तारमकृतं विष्णुं भूतानां प्रभवाप्ययम् ॥ १२.२०६.१ ॥
祖父啊,大智者,莲花眼的、不朽的毗湿奴,创造者而不被创造,众生的起源与终结。
12.206.2
नारायणं हृषीकेशं गोविन्दमपराजितम् ।
तत्त्वेन भरतश्रेष्ठ श्रोतुमिच्छामि केशवम् ॥ १२.२०६.२ ॥
那那罗延、主宰感官者、哥文达、不败的克舍婆——婆罗多中最优秀者啊,我愿如实听闻他。
12.206.3
श्रुतोऽयमर्थो रामस्य जामदग्न्यस्य जल्पतः ।
नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च ॥ १२.२०६.३ ॥
我曾听闻这件事,是由雅玛达格尼之子罗摩、天仙那罗陀与黑仙毗耶娑所说。
12.206.4
असितो देवलस्तात वाल्मीकिश्च महातपाः ।
मार्कण्डेयश्च गोविन्दे कथयन्त्यद्भुतं महत् ॥ १२.२०६.४ ॥
孩子,阿希多、提婆罗、大苦行者跋弥以及摩根德耶,都在讲述哥文达,那是伟大而奇妙的事。
12.206.5
केशवस्य मया राजन्न शक्या वर्णितुं गुणाः ।
ईदृशोऽसौ हृषीकेशो वासुदेवः परात्परः ॥ १२.२०६.५ ॥
国王啊,我无法描述克舍婆的德性。那位主宰感官的婆苏提婆,超越了至高者。
12.206.6
केशवो भरतश्रेष्ठ भगवानीश्वरः प्रभुः ।
पुरुषः सर्वमित्येव श्रूयते बहुधा विभुः ॥ १२.२०६.६ ॥
婆罗多中最优秀者啊,克舍婆是世尊、主宰、君主、补鲁沙;人们以多种方式听说他即是一切,他是无所不在者。
12.206.7
किंतु यानि विदुर्लोके ब्राह्मणाः शार्ङ्गधन्वनि ।
महात्मनि महाबाहो शृणु तानि युधिष्ठिर ॥ १२.२०६.७ ॥
大臂的坚战啊,请听世间婆罗门所知的关于持沙尔迦弓的伟大灵魂者之事。
12.206.8
यानि चाहुर्मनुष्येन्द्र ये पुराणविदो जनाः ।
श्रुत्वा सर्वाणि गोविन्दो कीर्तयिष्यामि तान्यहम् ॥ १२.२०६.८ ॥
人主啊,我听完了通晓往世书者所说的一切,现将关于哥文达的那些事情讲述给你。
12.206.9
महाभूतानि भूतात्मा महात्मा पुरुषोत्तमः ।
वायुर्ज्योतिस्तथा चापः खं च गां चान्वकल्पयत् ॥ १२.२०६.९ ॥
众生之灵、伟大灵魂的至上人,安置了诸大元素:风、火、水、空以及地。
12.206.10
स सृष्ट्वा पृथिवीं चैव सर्वभूतेश्वरः प्रभुः ।
अप्स्वेव शयनं चक्रे महात्मा पुरुषोत्तमः ॥ १२.२०६.१० ॥
创造了大地之后,那位众生之主、伟大灵魂的至上人,便在水中铺设了自己的床榻。
12.206.11
सर्वतेजोमयस्तस्मिञ्शयानः शयने शुभे ।
सोऽग्रजं सर्वभूतानां संकर्षणमचिन्तयत् ॥ १२.२०६.११ ॥
他全身充满光辉,躺卧在那吉祥的床榻上,思念着一切众生的长兄桑卡尔沙那。
12.206.12
आश्रयं सर्वभूतानां मनसेतीह शुश्रुम् ।
स धारयति भूतानि उभे भूतभविष्यती ॥ १२.२०६.१२ ॥
我们在此听闻,他以心为一切众生的依托;他承载着过去与未来。
12.206.13
प्रद्युम्नमसृजत्तस्मात्सर्वतेजः प्रकाशकम् ।
अनिरुद्धस्ततो जज्ञे सर्वशक्तिर्महाद्युतिः ॥ १२.२०६.१३ ॥
他从中创造了照亮一切光辉的普罗德尤姆那;随后诞生了全能、大光明的阿尼卢陀。
12.206.14
अप्सु व्योमगतः श्रीमान्योगनिद्रामुपेयिवान् ।
तस्मात्संजज्ञिरे देवा ब्रह्मविष्णुमहेश्वराः।
लयस्थित्यन्तकर्माणस्रयस्ते सुमहौजसः ॥ १२.२०६.१४ ॥
那位居于水中与天空的光荣者进入了瑜伽睡眠;从他中诞生了神梵天、毗湿奴与大自在天,他们的职责是创造、维持与毁灭,这三位都具有极大威力。
12.206.15
ततस्तस्मिन्महाबाहौ प्रादुर्भूते महात्मनि ।
भास्करप्रतिमं दिव्यं नाभ्यां पद्ममजायत ॥ १२.२०६.१५ ॥
那时,大臂的大心者显现,从他的肚脐中生出了如太阳般的神圣莲花。
12.206.16
स तत्र भगवान्देवः पुष्करे भ्राजयन्दिशः ।
ब्रह्मा समभवत्तात सर्वभूतपितामहः ॥ १२.२०६.१६ ॥
在那莲花之上,那位世尊神光照耀四方,成为了梵天,他是一切众生的祖父,我亲爱的孩子。
12.206.17
तस्मिन्नपि महाबाहौ प्रादुर्भूते महात्मनि ।
तमसः पूर्वजो जज्ञे मधुर्नाम महासुरः ॥ १२.२०६.१७ ॥
当那大臂的大心者显现时,从黑暗(Tamas)中诞生了长子,名为摩图的大阿修罗。
12.206.18
तमुग्रमुग्रकर्माणमुग्रां बुद्धिं समास्थितम् ।
ब्रह्मणोपचितिं कुर्वञ्जघान पुरुषोत्तमः ॥ १२.२०६.१८ ॥
那位行事凶猛、心怀凶狠的摩图,被至尊神所杀,以使梵天得以增长。
12.206.19
तस्य तात वधात्सर्वे देवदानवमानवाः ।
मधुसूदनमित्याहुर्ऋषभं सर्वसात्वताम् ॥ १२.२०६.१९ ॥
孩子啊,因为他的被杀,天神、檀那婆与人类都称他为摩图苏登那,即一切萨陀婆中的公牛。
12.206.20
ब्रह्माऽनुससृजे पुत्रान्मानसान्दक्षसप्तमान् ।
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ॥ १२.२०६.२० ॥
梵天依次从意念中创造诸子,达刹为第七:摩里其、阿低利、安吉罗、补罗私底、补罗诃与迦图。
12.206.21
मरीचिः कश्यपं तात पुत्रमग्रजमग्रजः ।
मानसं जनयामास तैजसं ब्रह्मवित्तमम् ॥ १२.२०६.२१ ॥
孩子啊,摩里其生出其长子迦叶波,他是意生的、光辉的,也是最精通梵的人。
12.206.22
अङ्गुष्ठात्ससृजे ब्रह्मा मरीचेरपि पूर्वजम् ।
सोऽभवद्भरतश्रेष्ठ दक्षो नाम प्रजापतिः ॥ १२.२०६.२२ ॥
梵天从拇指创造了比摩里其还年长的一位。婆罗多之最啊,他成为名为达刹的生主。
12.206.23
तस्य पूर्वमजायन्त दश तिस्रश्च भारत ।
प्रजापतेर्दुहितरस्तासां ज्येष्ठाऽभवद्दितिः ॥ १२.२०६.२३ ॥
婆罗多啊,在他之前,生主诞下十三位女儿;其中最年长的是提蒂。
12.206.24
सर्वधर्मविशेषज्ञः पुण्यकीर्तिर्महायशाः ।
मारीचः कश्यपस्तात सर्वासामभवत्पतिः ॥ १२.२०६.२४ ॥
孩子啊,摩里其之子迦叶波,精通一切法的特殊义理,功德名声卓著,极具盛名,成为她们所有人的丈夫。
12.206.25
उत्पाद्य तु महाभागस्तासामवरजा दश ।
ददौ धर्माय धर्मज्ञो दक्ष एव प्रजापतिः ॥ १२.२०६.२५ ॥
这位大福之人生下了她们中最小的十位,知法的生主达刹将她们赠给了法神。
12.206.26
धर्मस्य वसवः पुत्रा रुद्राश्चामिततेजसः ।
विश्वेदेवाश्च साध्याश्च मरुत्वन्तश्च भारत ॥ १२.२०६.२६ ॥
法神之子是婆苏神,还有无量光明的楼陀罗、一切天神、萨提亚神,以及摩路多神,婆罗多啊。
12.206.27
अपराश्च यवीयस्यस्ताभ्योऽन्याः सप्तविंशतिः ।
सोमस्तासां महाभागः सर्वासामभवत्पतिः ॥ १२.२०६.२७ ॥
还有比她们更小的其他二十七位,大福的月神苏摩成为她们所有人的丈夫。
12.206.28
इतरास्तु व्यजायन्त गन्धवोस्तुरगान्द्विजान् ।
गाश्च किंपुरुषान्मत्स्यानुद्भिज्जांश्च वनस्पतीन् ॥ १२.२०६.२८ ॥
其余的生下了乾闼婆、马、鸟、牛、紧那罗、鱼,以及从大地中生长出来的树木和草木。
12.206.29
आदित्यानदितिर्जज्ञे देवश्रेष्ठान्महाबलान् ।
तेषां विष्णुर्वामनोऽभूद्गोविन्दश्चाभवत्प्रभुः ॥ १२.२०६.२९ ॥
阿底提生下了诸天中最优秀的大力阿提耶神;其中,毗湿奴成为侏儒化身,主宰者哥文达也出现了。
12.206.30
तस्य विक्रमणाच्चापि देवानां श्रीर्व्यवर्धत ।
दानवाश्च पराभूता दैतेयाश्चासुरी प्रजा ॥ १२.२०६.३० ॥
因他的大步,诸神的荣光增长,檀那婆被击败,提迭耶与阿修罗众也一样。
12.206.31
विप्रचित्तिप्रधानांश्च दानवानसृजद्दनुः ।
दितिस्तु सर्वानसुरान्महासत्वानजीजनत् ॥ १२.२०६.३१ ॥
达奴生出以毗钵罗质多为首的檀那婆,提提则生出所有大力的阿修罗。
12.206.32
ततः ससर्ज भगवान्मृत्युं लोकभयंकरम् ।
हर्तारं सर्व भूतानां ससर्ज च जनार्दनः ॥ १२.२०६.३२ ॥
于是世尊生主创造了令世界恐惧的死亡,即夺取一切众生的那一位。
12.206.33
अहोरात्रं च कालं च यथर्तु मधुसूदनः ।
पूर्वाह्णं चापराह्णं च सर्वमेवान्वकल्पयत् ॥ १२.२०६.३३ ॥
摩图苏陀依次安排了昼夜、随季节而变的时间、上午与下午,一切都井然有序。
12.206.34
लब्ध्वापः सोऽसृजन्मेघांस्तथा स्थावरजङ्गमान् ।
पृथिवीं सोऽसृजद्विश्वां सहीतां भूरितेजसा ॥ १२.२०६.३४ ॥
他获得了水,便创造了云,以及不动与动的众生;又以其大光明创造了整个大地,并使之凝聚不散。
12.206.35
ततः कृष्णो महाभागः पुनरेव युधिष्ठिर ।
ब्राह्मणानां शतं श्रेष्ठं मुखादेवासृजत्प्रभुः ॥ १२.२०६.३५ ॥
然后,俱卢子啊,大福的黑天主宰从口中创造了婆罗门中最优秀的一百人。
12.206.36
बाहुभ्यां क्षत्रियशतं वैश्यानामूरुतः शतम् ।
पद्भ्यां शूत्रशतं चैव कशेवो भरतर्षभ ॥ १२.२०६.३६ ॥
从双臂中创造一百刹帝利,从大腿中创造一百吠舍,从双脚中创造一百首陀罗;婆罗多中的雄牛啊。
12.206.37
स एवं चतुरो वर्णान्समुत्पाद्य महातपाः ।
अध्यक्षं सर्व भूतानां धातारमकरोत्स्वयम् ॥ १२.२०६.३७ ॥
他如此创造了四种姓之后,这位大苦行者自己成为一切众生的主宰与创造者。
12.206.38
वेदविद्याविधातारं ब्रह्माणमतितद्युतिम् ।
भूतमातृगणाध्यक्षं विरूपाक्षं च सोऽसृजत् ॥ १२.२०६.३८ ॥
他又创造了梵天——吠陀知识的确立者,光辉无比——以及掌管众母灵群的毗卢波叉。
12.206.39
शासितारं च पापानां पितृणां समवर्तिनम् ।
असृजत्सर्वभूतात्मा निधिपं च धनेश्वरम् ॥ १२.२०६.३९ ॥
众生之魂创造了惩治恶人者、对祖先一视同仁者,以及财宝之主、财富之王毗沙门。
12.206.40
यादसामसृजन्नाथं वरुणं च जलेश्वरम् ।
वासवं सर्वदेवानामध्यक्षमकरोत्प्रभुः ॥ १२.२०६.४० ॥
他创造了水族之主伐楼那和水之主,而主则使婆娑成为一切天神的统领。
12.206.41
यावद्यावदभूच्छ्रद्धा देहं धारयितुं नृणाम् ।
तावत्तावदजीवंस्ते नासीद्यमकृतं भयम् ॥ १२.२०६.४१ ॥
只要人们心中仍有维持身体的信念,他们便能生存,那时也没有阎摩带来的恐惧。
12.206.42
न चैषां मैथुनो धर्मो बभूव भरतर्षभ ।
संकल्पादेव चैतेषां गर्भः समुपपद्यते ॥ १२.२०६.४२ ॥
他们没有交合之法,婆罗多族中的雄牛啊;他们的胎儿仅凭意志而生。
12.206.43
ततस्रेतायुगे काले संस्पर्शाज्जायते प्रजा ।
न ह्यभून्मैथुनो धर्मस्तेषामपि जनाधिप ॥ १२.२०६.४३ ॥
其后在特雷塔时代,众生通过接触而生。人主啊,对他们而言也不存在交合之法。
12.206.44
द्वापरे मैथुनो धर्मः प्रजानामभवन्नृप ।
तथा कलियुगे राजन्द्वन्द्वमापेदिरे जनाः ॥ १२.२०६.४४ ॥
君王啊,在双轭时代,众生之间出现了交合之法。同样,君王啊,在迦利时代,人们陷入了二元对立。
12.206.45
एष भूतपतिस्तात स्वध्यक्षश्च तथोच्यते ।
निरपेक्षांश्च कौन्तेय कीर्तयिष्यामि तच्छृणु ॥ १२.२०६.४५ ॥
此人是众生之主,亲爱的孩子,也被称为自身的监护者。贡蒂之子啊,我将讲述那些无所执着者,请听。
12.206.46
दक्षिणापथजन्मानः सर्वे करभृतस्तव ।
आन्ध्राः पुलिन्दाः शवराश्चूचुपा मद्रकैः सह ॥ १२.२०६.४६ ॥
生于南道者皆为你的纳贡之民:安陀罗、补林达、萨瓦拉,以及与摩陀罗人同在的楚楚波人。
12.206.47
उत्तरापथजन्मानः कीर्तयिष्यामि तानपि ।
ये तु काम्भोजगान्धाराः किराता बर्वरैः सह ॥ १२.२०६.४७ ॥
生于北道者,我也将讲述:憍萨罗人……坎博阇与乾陀罗,以及与野蛮人同在的吉罗多人。
12.206.48
एते पापकृतस्तात चरन्ति पृथिवीमिमाम् ।
बकश्वपाकगृध्राणां सधर्माणो नराधिप ॥ १२.२०६.४८ ॥
这些作恶之人,亲爱的孩子,游荡于此大地之上,人主啊,他们的本性与鹭鸶、狗肉者和秃鹫相同。
12.206.49
नैते कृतयुगे तात चरन्ति पृथिवीमिमाम् ।
त्रेताप्रभुति वर्धन्ते ते जना भरतर्षभ ॥ १२.२०६.४९ ॥
孩子啊,这些人在克里塔时代并不在这片大地上游荡;从特蕾塔时代起,那些人逐渐增多,婆罗多中的雄牛啊。
12.206.50
ततस्तस्मिन्महाघोरे संन्ध्याकाले युगान्तिके ।
राजानः समसज्जन्त समासाद्येतरेतम् ॥ १२.२०६.५० ॥
那时,在那极为可怕的、时代终结的黄昏时分,诸王相遇并互相冲突。
12.206.51
ऐन्द्रं रूपं समास्थाय ह्यसुरेभ्यो चरन्महीम् ।
स एव भगवान्देवो वेदित्वं च गता मही ॥ १२.२०६.५१ ॥
他化作因陀罗的形象,避开阿修罗在大地上游行;正是那位世尊之神,大地才得以认识他。
12.206.52
एवंभूते सृष्टिर्नारसिंहादयः क्रमात् ।
प्रादुर्भावाः स्मृता विष्णोर्जगतीरक्षणाय वै ॥ १२.२०६.५२ ॥
如此,那罗希姆哈等依次被记为毗湿奴的显现,实为护持世间而生。
12.206.53
एष कृष्णो महायोगी तत्तत्कार्यानुरूपणम् ।
हिरण्यकशिपुं दैत्यं हिरण्याक्षं तथैव च ॥ १२.२०६.५३ ॥
这位大瑜伽师黑天,依各自所需化现相应之形;对于达伊特亚希兰雅迦ශিপু与希兰雅夏,亦是如此。
12.206.54
रावणं च महादैत्यं हत्वासौ पुरुषोत्तमः ।
भूमेर्दुःखोपनाशार्थं ब्रह्मशक्रादिभिः स्तुतः ॥ १२.२०६.५४ ॥
他也杀死了大达伊特亚罗波那,那位人中至尊,为消除大地之苦,被梵天、因陀罗等所赞颂。
12.206.55
आत्मनोऽङ्गान्महातेजा उद्वबर्ह जनार्दनः ।
सितकृष्णौ महाराज केशौ हरिरुदारधीः ॥ १२.२०६.५५ ॥
大光明的遮那陀那从自己的肢体上拔下白发与黑发两根,大王啊;他是心怀宽厚的哈里。
12.206.56
वसुदेवस्य देवक्यामेष जात इहोत्तमः ।
देहवानिह विश्वात्मा संबन्धी ते जनार्दनः ॥ १२.२०६.५६ ॥
此最尊者由婆苏提婆在提婆吉中于此降生;宇宙之魂遮那陀那在此现身,是你的亲族。
12.206.57
आविर्वभूव योगीन्द्रो मनोतीतो जगत्पतिः ।
अचिन्त्यः पुरुषव्याघ्र नैव केवलमानुषः ॥ १२.२०६.५७ ॥
瑜伽之主、超越心念的世界之主显现了;人中虎啊,他不可思议,绝非仅仅是凡人。
12.206.58
अव्यक्तादिविशेषान्तं परिमाणार्थसंयुतम् ।
क्रीडा हरेरिदं सर्वं क्षरमित्येव धार्यताम् ॥ १२.२०६.५८ ॥
从未显者到各个特殊之物,皆有尺度与目的,此一切乃哈里之游戏;应当认作可毁坏之物。
12.206.59
अक्षरं तत्परं नित्यं वैरूप्यं जगतो हरेः ।
तद्विद्धि रूपमतुलममृतत्वं भवज्जितम् ॥ १२.२०६.५९ ॥
那不灭、至上、永恒者;世界的多样形态属于哈里;应知这是他无与伦比的形相,是你所获得的不死。
12.206.60
तदेव कृष्णो दाशार्हः श्रीमाञ्श्रीवत्सलक्षणः ।
न भूतसृष्टिसंस्थानं देहोऽस्य परमात्मनः ॥ १२.२०६.६० ॥
正是那达沙尔哈族的克里希那,光辉尊贵,具有室利婆萨标记;这位至高之魂的身体并非众生创造的结构。
12.206.61
देहवानिह यो विष्णुरसौ मायामयो हरिः ।
आत्मनो लोकरक्षार्थं ध्याहि नित्यं सनातनम् ॥ १२.२०६.६१ ॥
此处有身的毗湿奴,正是由幻力所成的哈利。为护持世界,应常常冥想那位永恒者。
12.206.62
अङ्गानि चतुरे वेदा मीमांसा न्यायविस्तरः ।
इतिहासपुराणानि धर्माः स्वायंभुवादयः ॥ १२.२०६.६२ ॥
四吠陀及其支分、弥曼差、正理的广泛论述、史诗与往世书,以及从自生主(Svāyambhuva)开始的诸法。
12.206.63
य एनं प्रतिवर्तन्ते वेदान्तानि च सर्वशः ।
भक्तिहीना न तैर्यान्ति नित्यमेनं कथंचन ॥ १२.२०६.६३ ॥
凡转向他、并全力研习吠檀多经典、却缺乏虔信的人,无论如何也不能到达他那里。
12.206.64
सर्वभूतेषु भूतात्मा तत्तद्बुद्धिं समास्थितः ।
तस्माद्बुद्धस्त्वमेवैनं ध्याहि नित्यमतन्द्रितः ॥ १२.२०६.६४ ॥
他是众生之内在我,安住于每一个生灵的觉知之中。因此,你应觉醒,不知疲倦地常常冥想他。
12.206.65
एवमेष कुरुश्रेष्ठ प्रादुर्भावो महात्मनः ।
एवं देवर्षिराचष्ट नारदः सर्वलोकदृक् ॥ १२.२०६.६५ ॥
故此,诸库鲁中最优秀者啊,这便是大我的显现。遍见诸世界的天仙那罗陀如此宣说。
12.206.66
नारदोऽप्यथ कृष्णस्य परं मेने नराधिप ।
शाश्वतत्वं महाबाहो यथावद्भरतर्षभ ॥ १२.२०६.६६ ॥
那罗陀也便将克里希那视为至高。人主啊,大臂者,婆罗多族中的雄牛,他如实承认了他的永恒。
12.206.67
एवमेव महाबाहुः केशवः सत्यविक्रमः ।
अचिन्त्यः पुण्डरीकाक्षो नैष केवलमानुषः ॥ १२.२०६.६७ ॥
同样,大臂的Keśava,其勇武真实,不可思议,眼如莲花,并非仅仅是凡人。
12.206.68
एवंविधोऽसौ पुरुषः को वैनं वेत्ति सर्वदा ।
एतत्ते कथितं राजन्भूयः श्रोतुं किमिच्छसि ॥ १२.२०६.६८ ॥
谁能时常认识这样的人呢?国王啊,这些已经讲给你听了;你还想再听什么?