摩诃婆罗多 · 章 12.212
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.212.1
योगं मे परमं तात मोक्षस्य वदभारत ।
तमहं तत्त्वतो ज्ञातुमिच्छामि वदतांवर ॥ १२.२१२.१ ॥
亲爱的父亲,婆罗多的后裔啊,请告诉我解脱的至高瑜伽。善言者中最优秀的人啊,我想真正地了解它。
12.212.2
भूयोपि ज्ञानसद्भावे स्थित्यर्थं त्वां ब्रवीम्यहम् ।
अचिन्त्यं वासुदेवाख्यं तस्मात्प्रब्रूहि सत्तम ॥ १२.२१२.२ ॥
为了在知识的真实本性中稳固,我再次对您说:请告诉我那不可思议、名为婆苏提婆的存在吧,善人中最优秀的人啊。
12.212.3
अत्राप्युदाह न्तीममितिहासं पुरातनम् ।
संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह ॥ १२.२१२.३ ॥
这里的人们也讲述这个古老的传说——弟子与师父之间关于解脱的对话。
12.212.4
कश्चिद्ब्राह्मणमासीनमाचार्यमृषिसत्तमम् ।
तेजोराशिं महात्मानं सत्यसन्धं जितेन्द्रियम् ॥ १२.२१२.४ ॥
一位婆罗门,一位端坐的导师,仙人中最优秀的,光明的聚合,大德,誓言真实,控制了自己的感官。
12.212.5
शिष्यः परममेधावी श्रेयोर्थी सुसमाहितः ।
चरणावुपसंगृह्य स्थितः प्राञ्जलिरब्रवीत् ॥ १२.२१२.५ ॥
这位极具智慧、追求至善、心意专注的弟子,握住老师的双足,合掌站立,说道。
12.212.6
उपासनात्प्रसन्नोऽसि यदि वै भगवन्मम ।
संशयो मे महान्कश्चित्तं मे व्याख्यातुमर्हसि।
कुतश्चाहं कुतश्च त्वं तत्सम्यग्ब्रूहि यत्परम् ॥ १२.२१२.६ ॥
尊者啊,若您因我的侍奉而欢喜,我心中有一大疑问,您应当为我解说。我从何而来,您又从何而来?请将那至高之理正确地告诉我。
12.212.7
कथं च सर्वभूतेषु समेषु द्विजसत्तम ।
सम्यग्वृत्ता निवर्तन्ते विपरीताः क्षयोदयाः ॥ १२.२१२.७ ॥
至善的再生者啊,在一切平等的众生之中,正确进行的衰落与兴盛,如何回转而变为相反?
12.212.8
वेदेषु चापि यद्वाक्यं लौकिकं व्यापकं च यत् ।
एतद्विद्वन्यथातत्त्वं सर्वं व्याख्यातुमर्हसि ॥ १२.२१२.८ ॥
吠陀中的每一句话,以及世俗而遍在的一切,智者啊,你有资格把这种不同的真理全部解说清楚。
12.212.9
शृणु शिष्य महाप्राज्ञ ब्रह्मगुह्यमिदं परम् ।
अध्यात्मं सर्वभूतानामागमानां च यद्वसु ॥ १२.२१२.९ ॥
听着,弟子啊,大智者!这是梵的至高秘密,是一切众生的内我,也是诸经典的宝藏。
12.212.10
वासुदेवः सर्वमिदं विश्वस्य ब्रह्मणो सुखम् ।
सत्यं दानं तपो यज्ञस्तितिक्षा दम आर्जवम् ॥ १२.२१२.१० ॥
婆苏提婆便是这一切;他是宇宙梵的喜乐。真实、布施、苦行、祭祀、忍耐、克制与正直,也都是他。
12.212.11
पुरुषं सनातनं विष्णुं यं तं वेदविदो विदुः ।
सर्गप्रलयकर्तारमव्यक्तं ब्रह्म शाश्वतम् ॥ १२.२१२.११ ॥
吠陀智者所知的永恒补鲁沙毗湿奴,创造与毁灭世界者,未显现而永恒的梵。
12.212.12
तदिदं ब्रह्म वार्ष्णोयमितिहासं शृणुष्व मे ।
ब्राह्मणो ब्राह्मणैः श्राव्यो राजन्यः क्षत्रियैस्तता ॥ १२.२१२.१२ ॥
这便是那梵。请听我讲这段韦利什尼族的传说:婆罗门应向婆罗门,刹帝利应向国王宣讲,此事已被详细讲述。
12.212.13
वैश्यो वैश्यैस्तथा श्राव्यः शूद्रः शूद्रैर्महामनाः ।
माहात्म्यं देवदेवस्य विष्णोरमिततेजसः ॥ १२.२१२.१३ ॥
吠舍应由吠舍诵读给他听,心胸宽广的首陀罗应由首陀罗诵读——这是诸神之神、无量光辉的毗湿奴的伟大。
12.212.14
अर्हस्त्वमसि कल्याणं वार्ष्णेयाध्यात्ममुत्तमम् ॥ १२.२१२.१४ ॥
你堪当此吉祥而至高的内在教法,啊,婆律施尼之裔。
12.212.15
यमच्युतं परं नित्यं लिङ्गहीनं च निर्मलम् ।
निर्वाणममृतं श्रीमत्तद्विष्णोः परमं पदम् ॥ १२.२१२.१५ ॥
那不朽、至上、永恒、无相无形、清净无垢者——那便是涅槃、甘露,吉祥的毗湿奴的至高之境。
12.212.16
भवे च भेदवद्भिन्नं प्रदानं गुणकारकम् ।
तस्मिन्न सज्यते नित्यं स एष पुरुषोऽपरः ॥ १२.२१२.१६ ॥
在生成之世有原初的本体(普拉丹),由差别而分化,能生成诸德;他永不执著于它——此即另一位原人。
12.212.17
पुरुषाधिष्ठितं नित्यं प्रधानं ब्रह्म कारणम् ।
कालस्वरूपं रूपेण विष्णुना प्रभविष्णुना ॥ १२.२१२.१७ ॥
由原人所主宰的永恒原初本体,即是梵与因;以时间之相,它被能创造的毗湿奴所推动。
12.212.18
क्षोभ्यमाणं सृजत्येव नानाभूतानि भागशः ।
तद्दृष्ट्वा पुरुषोतत्वं साक्षीभूत्वा प्रवर्तते।
तत्प्रविश्य यथायोगमभिन्नो भिन्नलक्षणः ॥ १२.२१२.१८ ॥
被激动之后,它逐部分地创造种种众生;原人见到自身的至上性,便以见证者的身份而运作。他依适当之道进入其中,虽不分割,却具有不同的标记。
12.212.19
कालचक्रमनाद्यन्तं भावाभावस्वलक्षणम् ।
त्रैलोक्ये सर्वभूतेषु चक्रवत्परिवर्तते ॥ १२.२१२.१९ ॥
无始无终、以有与无为自性的时轮,在三界一切众生之中如轮般运转。
12.212.20
यत्तदक्षरमव्यक्तममृतं ब्रह्म शाश्वतम् ।
वदन्ति पुरुषव्याघ्र केशवं पुरुषर्षभम् ॥ १२.२१२.२० ॥
那不灭、未显、不死、永恒的梵——人中之最,人们称之为克沙婆,人中之牛。
12.212.21
तदक्षरमचिन्त्यं वै भिन्नरूपेण दृश्यते ।
पश्य कालाख्यमनिशं न चोष्णं नातिशीतलम् ॥ १२.२१२.२१ ॥
那不灭者不可思议,却以分化之相显现。看哪,所谓时间的东西,既不是常热,也不是过冷。
12.212.22
न सन्त्येते गुणास्तस्मिंतथा तस्मात्प्रवर्तते ।
शीतलोऽयमनुप्राप्तः कालो ग्रीष्मस्तथैव च ॥ १२.२१२.२२ ॥
其中并无这些性质,因此它如此运行。看,寒季已经来临,夏季也同样到来。
12.212.23
वक्ष्यन्ति सर्वभूतानि ह्येते सूर्योदयं प्रति ।
आगच्छन्ति निवर्तन्ति स कालो गुणराशयः ॥ १२.२१२.२३ ॥
一切众生望着日出,都会谈论这些。它们来了又去,那时间便是诸德之聚。
12.212.24
न चैव प्रकृतिस्थेन कालयुक्तेन नित्यशः ।
गुणैः संभोगमरतिस्तत्वविज्ञानकोविदम्।
पुरुषाधिष्ठिता नित्यं प्रकृतिः सूयते परा ॥ १२.२१२.२४ ॥
安住于原质、与时相连者,并不常常沉迷于诸德之享受;精通真理之知识者则超然无欲。由神我所主宰的至上原质常常生起。
12.212.25
पितॄन्देवानृषींश्चैव तथा वै यक्षराक्षसान् ।
नागासुरमनुष्यांश्च सृजते मनसाऽव्ययः ॥ १२.२१२.२५ ॥
不灭者以意念创造祖灵、诸神、仙人、夜叉、罗刹、龙、阿修罗与人类。
12.212.26
तथैव वेदशास्त्राणि लोकधर्मांश्च शाश्वतान् ।
प्रलये प्रकृतिं यातान्युगादौ सृजते पुनः ॥ १२.२१२.२६ ॥
同样,吠陀、论典与永恒的世间法在劫末归入原初本性,在劫初又被再次创造。
12.212.27
यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये ।
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ १२.२१२.२७ ॥
如同季节更替时,各季的标志以种种形态依次显现,诸有情的状态也同样在各个劫初显现。
12.212.28
अथ यद्यद्यदा भावि कालयोगाद्युगादिषु ।
तत्तदुत्पद्यते ज्ञानं लोकयात्राविधानजम् ॥ १२.२१२.२८ ॥
于是,凡在劫初因与时相应而当显现的,那相应的知识便随之生起,源于世间生活的安排。
12.212.29
श्रुतिरेषा समाख्याता तदर्थं कारणात्मना ।
अनाम्नायविधानाद्वै वेदा ह्यन्तर्हिता यथा ॥ १२.२१२.२९ ॥
此闻(天启)为此目的以因的形式被宣说;因缺少诵习的规矩,吠陀也隐没不显。
12.212.30
युगान्ते ह्यस्तभूतानि शास्त्राणि विविधानि च ।
सर्वसत्वविना द्वै जीवात्मनित्यया स्मृताः।
अन्यस्मिन्नण्डसद्भावे वर्तमानानि नित्यशः ॥ १२.२१२.३० ॥
劫末,众生隐没,诸论典也一样;即使一切众生都已灭尽,它们仍因个我的常住而被记忆;而在另一卵的状态中,它们常常存在。
12.212.31
युगान्तेऽन्तर्हितान्वेदान्सेतिहासान्महर्षयः ।
लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा ॥ १२.२१२.३१ ॥
在劫末,吠陀与古史隐没不见;大仙人们往昔借苦行而得之,得到自生者(梵天)的允许。
12.212.32
नियोगाद्ब्रह्मणो विप्रा लोकतन्त्रप्रवर्तकाः ।
वेदविद्भगवान्ब्रह्मा वेदाङ्गानि बृहस्पतिः।
भार्गवो नीतिशास्त्रं तु जगाद जगतो हितम् ॥ १२.२१२.३२ ॥
奉梵天之命,主持世界秩序的婆罗门们:通晓吠陀的世尊梵天讲说吠陀支分,木星(Bṛhaspati)亦然;而婆利古之后裔(Bhārgava)为世间利益讲说政治学。
12.212.33
गान्धर्वं नारदो वेद भरद्वाजो धनुर्ग्रहम् ।
देवर्षिचरितं गर्गो कृष्णात्रेयश्चिकित्सितम् ॥ १२.२१२.३३ ॥
那罗陀通晓乾闼婆之术(音乐);婆罗堕遮通晓弓术;伽尔伽通晓天仙之事迹;黑阿特雷耶通晓医术。
12.212.34
न्यायतन्त्रं हि कार्त्स्न्येन गौतमो वेद तत्वतः ।
वेदान्तकर्मायोगं च वेदविद्ब्रह्मविद्विभुः।
द्वैपायनो निजग्राह शिल्पशास्त्रं भृगुः पुनः ॥ १२.२१२.३४ ॥
瞿昙(Gautama)完整而如实地通晓正理论;通晓吠陀与梵的遍在者——黑岛(Dvaipāyana,毗耶娑)掌握了吠檀多与行动瑜伽;婆利古(Bhṛgu)则再度掌握了工艺之学。
12.212.35
न्यायतन्त्राण्यनेकानि तस्तैरुक्तानि वादिभिः ।
हेत्वागमसदाचारैर्यदुक्तं तदुपास्यते ॥ १२.२१२.३५ ॥
诸辩论者宣说了许多正理之体系;凡以理性、圣典与善行所说的,才是应当遵循的。
12.212.36
अनाद्यं तत्परं ब्रह्म न देवा नर्षयो विदुः ।
एकस्तद्वेद भगवान्धाता नारायणः प्रभुः ॥ १२.२१२.३६ ॥
那无始的至上梵,神与仙人都不知晓;唯有一位知晓——世尊创造者、主宰那罗延(Nārāyaṇa)。
12.212.37
नारायणादृषिगणास्तथा मुख्याः सुरासुराः ।
राजर्षयः पुराणाश्च परमं दुःखभेषडम्।
वक्ष्येऽहं तव यत्प्राप्तमृषेद्वैपोयनान्मया ॥ १२.२१२.३७ ॥
从那罗延处,诸仙众、主要的天神与阿修罗、王仙及古代典籍者,都获得了至高的苦药。我将告诉你,我从仙人毗耶娑处所得之法。
12.212.38
पुरुषाधिष्ठितान्भावान्प्रकृतिः सूयते यदा ।
हेतुयुक्तमतः पूर्वं जगत्संपरिवर्तते ॥ १२.२१२.३८ ॥
当自性(prakṛti)生出由神我(puruṣa)所主导的诸有时,这与因相连的世界便如先前一般运转。
12.212.39
दीपादन्ये यथा दीपाः प्रवर्तन्ते सहस्रशः ।
प्रकृतिः सूयते सद्वदानन्त्यान्नापचीयते ॥ १२.२१२.३९ ॥
犹如一盏灯可以点燃千万盏他灯,自性如此而生,因其无尽,并不减少。
12.212.40
अव्यक्तकर्मजा बुद्धिरहंकारं प्रसूयते ।
आकाशं चाप्यहंकाराद्वायुराकाशसंभवः ॥ १२.२१२.४० ॥
由未显之业所生的觉(buddhi)生出我慢(ahaṃkāra);由我慢生虚空,由虚空生风。
12.212.41
वायोस्तेजस्ततश्चाप अद्भ्योऽथ वसुधोद्गता ।
मूलप्रकृतयो ह्यष्टौ जगदेतास्ववस्थितम् ॥ १२.२१२.४१ ॥
从风生火,继而生水,从水生出大地。此八者为根本自性,此世界即依之而立。
12.212.42
ज्ञानेन्द्रियाण्यतः पञ्च पञ्च कर्मेन्द्रियाण्यपि ।
विषयाः पञ्च चैकं च विकाराः षोडशं मनः ॥ १२.२१२.४२ ॥
由此而生五知根、五作根、五境,以及那一;诸变之中,第十六者是意。
12.212.43
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं ज्ञानेन्द्रियाण्यश्च ।
पादौ पायुरुपस्थश्च हस्तौ वाक्कर्मणी अपि ॥ १२.२१२.४३ ॥
听觉、皮肤、双眼、舌与嗅觉是知觉之根;双足、肛门、生殖器、双手与言语也是作业之根。
12.212.44
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च ।
विज्ञेयं व्यापकं चित्तं तेषु सर्वगतं मनः ॥ १२.२१२.४४ ॥
声、触、色、味、香是境界;应知遍在的心(citta);而意(manas)遍行于一切之中。
12.212.45
बुद्धीन्द्रियार्था इत्युक्ता दशसंसर्गयोनयः ।
सदसद्भावयोगे च मन इत्यभिधीयते ॥ १२.२१२.४५ ॥
此称为知根之境,为十种接触之源;在有与无的结合中,此名为意。
12.212.46
व्यवसायगुणा बुद्धिरहंकारोऽभिमानकः ।
न बीजं देहयोगे च कर्मबीजप्रवर्तनात् ॥ १२.२१२.४६ ॥
智(buddhi)以决定为德;我慢即是骄矜。在与身结合中它并非种子,因为它推动业之种子。
12.212.47
रसज्ञाने तु जिह्वेयं व्याहृते वाक्यथैव च ।
इन्द्रियैर्विविधैर्युक्तं सर्वैर्व्यतं मनस्तथा ॥ १२.२१२.४७ ॥
于味之知,此即舌;于言说,即是句。与种种根相合,为一切所织,意亦如是。
12.212.48
विद्यात्तु षोडशैतानि दैवतानि विभागशः ।
देहेषु ज्ञानकर्तारमुपासीनमुपासते ॥ १२.२१२.४८ ॥
应知此十六者,依其分别为神;他们礼拜住于身中之知者。
12.212.49
तत्र सोमगुणा जिह्वा गन्धस्तु पृथिवीगुणः ।
श्रोत्रे शब्दगुणे चैव चक्षुरग्नेर्गुणस्तथा।
स्पर्शं वायुगुणं विद्यात्सर्वभूतेषु सर्वदा ॥ १२.२१२.४९ ॥
此处舌具有苏摩的属性,气味是地的属性。耳以声为属性,眼则是火的属性。触觉是风的属性;应当始终在一切众生中知晓此理。
12.212.50
मनः सत्वगुणं प्राहु सत्वमव्यक्तजं तथा ।
सर्वभूतात्मभूतस्थं तस्माद्बुद्ध्येत बुद्धिमान् ॥ १२.२१२.५० ॥
据说心具有萨埵的属性,萨埵也生于未显现者。因此智者应当理解那作为一切众生之自我而安住者。
12.212.51
एते भावा जगत्सर्वं बहन्ति सचराचरम् ।
श्रिता विरजसं देवं यमाहुः परमं पदम् ॥ १२.२१२.५१ ॥
这些境界承载着整个世界,包括动与不动者。依止那离于激情的神,人们称他为至高之境。
12.212.52
नवद्वारं पुरं पुण्यमेतैर्भावैः स्मन्वितम् ।
व्याप्य शेते महानात्मा तस्मात्पुरुष उच्यते ॥ १२.२१२.५२ ॥
这座有九门的神圣城市具备这些境界。大我遍布其中而安住,因此称之为补噜沙。
12.212.53
अजरश्चामरश्चैव व्यक्ताव्यक्तोपदेशवान् ।
व्यापकः सगुणः सूक्ष्मः सर्वभूतगुणाश्रयः ॥ १२.२१२.५३ ॥
不老不死,具备显与隐的教义,遍在,具足属性,微妙,是一切众生属性的依托。
12.212.54
यथा दीपः प्रकाशात्मा ह्रस्वो वा यदि वा महान् ।
ज्ञानात्मानं तथा विद्यात्पुरुषं सर्वजन्तुषु ॥ १२.२१२.५४ ॥
犹如灯以光明为自性,无论小或大,同样应当知晓:在一切众生中,补噜沙是以智慧为自性的自我。
12.212.55
श्रोत्रं वेदयते वेद्यं स शृणोति स पश्यति ।
कारणं तस्य देहोऽयं स कर्ता सर्वकर्मणाम् ॥ १२.२१२.५५ ॥
耳根使可知之物被感知;是他在听,是他在看。此身是他的工具,他是一切行为的作者。
12.212.56
अग्निर्दारुगतो यद्वद्भिन्ने दारौ न दृश्यते ।
तथैवात्मा शरीरस्थ ऋते योगान्न दृश्यते ॥ १२.२१२.५६ ॥
如火藏于木中,即使劈开木头也看不见;同样,居于身中的自我,若无瑜伽便不可见。
12.212.57
अग्निर्यथा ह्युपायेन मथित्वा दारु दृश्यते ।
तथैवात्मा शरीरस्थो योगेनैवात्र दृश्यते ॥ १२.२१२.५७ ॥
如以方法钻木取火,火便显现;同样,居于身中的自我,在此唯有通过瑜伽才得以显现。
12.212.58
नदीष्वापो यथा युक्ता यथा सूर्ये मरीचयः ।
संतन्वाना यथा यान्ति तथा देहाः शरीरिणाम् ॥ १२.२१२.५८ ॥
如水流汇入江河,如日光散布而行,有身之众生的身体也如此流转。
12.212.59
स्वप्नयोगे यथैवात्मा पञ्चेन्द्रियसमायुतः ।
देहमुत्सृज्य वै याति तथैवात्मोपलभ्यते ॥ १२.२१२.५९ ॥
如在梦境中,自我与五根相连,离开身体而去;自我也如此被觉知。
12.212.60
कर्मणा व्याप्यते सर्वं कर्मणैवोपपद्यते ।
कर्मणा नीयतेऽन्यत्र स्वकृतेन बलीयसा ॥ १२.२१२.६० ॥
一切都被业所贯穿,唯从业而生。人被自己所作之业这一更强大的力量牵引到别处。
12.212.61
स तु देहाद्यथा देहं त्यक्त्वाऽन्यं प्रतिपद्यते ।
तथा तं संप्रवक्ष्यामि भूतग्रामं स्वकर्मजम् ॥ १२.२१२.६१ ॥
正如有身者舍弃一个身体而获得另一个身体,我将为你讲述由自身业力所生的众生。