摩诃婆罗多 · 章 12.214
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.214.1
प्रवृत्तिलक्षणो धर्मो यथा समुपलभ्यते ।
तेषां विज्ञाननिष्ठानामन्यत्तत्वं न रोचते ॥ १२.२१४.१ ॥
以行动为特征的法,如其所见而被理解;但安住于智慧之人,并不喜欢另一种真理。
12.214.2
दुर्लभा वेदविद्वांसो वेदोक्तेषु व्यवस्थिताः ।
प्रयोजनं महत्त्वात्तु मार्गमिच्छन्ति संस्तुतम् ॥ १२.२१४.२ ॥
精通吠陀、坚定遵循吠陀所说之人稀少;因其伟大,他们渴望那被赞颂的道路。
12.214.3
वेदस्य न विदुर्भावं ज्ञानमार्गप्रतिष्ठितम् ।
सद्भिराचरितत्वात्तु वृत्तमेतदगर्हितम्।
इयं सा बुद्धिरभ्येत्य यथा याति परां गतिम् ॥ १२.२१४.३ ॥
他们不知吠陀之实义,它建立于智慧之道;因为善人所行,这种行为并不受非议。这就是那种智慧,获得它的人便抵达至高之境。
12.214.4
शरीरवानुपादत्ते मोहात्सर्वान्परिग्रहान् ।
कामक्रोधादिभिर्भावैर्युक्तो राजसतामसैः ॥ १२.२१४.४ ॥
有身者因迷惑而执取一切所有,与欲、怒等以激情与暗昧为本的心态相结合。
12.214.5
नाशुद्धमाचरेत्तस्मादभीप्सन्देहयापनम् ।
कर्मणां विवरं कुर्वन्न लोकानाप्नुयाच्छुभान् ॥ १२.२१४.५ ॥
因此,即使想维持身体,也不应行不净之事;在行为上开孔隙者,不能得到吉祥的世界。
12.214.6
लोहयुक्तं तथा हेम विपक्वं न विराजते ।
तथाऽपक्वकषायाख्यं विज्ञानं न प्रकाशते ॥ १२.२१४.६ ॥
与贱金属混合的黄金,若未充分冶炼便不会发光;同样,夹杂未成熟杂质的智慧也不会显现。
12.214.7
केचिदात्मगुणं प्राप्तास्ते मुक्ताश्चक्रबन्धनात् ।
इतरे दुःखसन्द्वन्द्वास्तथा दुःखपरायणाः ॥ १२.२१४.७ ॥
有些人获得了自我的品质,从轮的束缚中解脱;另一些人陷于苦的对立之中,始终以苦为归宿。
12.214.8
शुकाकर्मानुरूपं ते जायमानाः पुनः पुनः ।
क्रोधलोभमदाविष्टा मूढान्तः करणाः सदा ॥ १२.२१४.८ ॥
依照你的业行,你一再轮回,被愤怒、贪婪和傲慢所占据,内心常怀迷妄。
12.214.9
यथा… संछाया नास्ति नित्यतया परा ।
गुणानेव तथा चिन्त्या सन्त्येति च विदुर्बुधाः ॥ १२.२१४.९ ॥
正如影子在恒常上并非至高,诸德也应如此看待;智者如此知道。
12.214.10
यश्चाधर्मं चरेल्लोभात्कामक्रोधावनुप्लुवन् ।
धर्म्यं पन्थानमुत्क्रम्य सानुबन्धो विनश्यति ॥ १२.२१४.१० ॥
若因贪婪而行非法,被欲与怒所裹挟,越过法道,则与其后果一同毁灭。
12.214.11
अचलं ज्ञानमप्राप्य चलचित्तश्चलानियात् ।
शब्दादीन्विषयांस्तस्मान्न संरागादुपप्लवेत्।
क्रोधो हर्षो विषादश्च जायन्ते हि परस्परात् ॥ १२.२१४.११ ॥
未得不动之智、心意躁动者,应当制约躁动的诸根;因此不应被对声等境界的强烈执著所淹没。愤怒、喜悦与忧愁彼此相生。
12.214.12
गुणाः कार्याः क्रोधहर्षौ सुखदुःखे प्रियाप्रिये ।
द्वन्द्वान्यथैवमादीनि विजयेच्चैव सर्ववित् ॥ १२.२१४.१२ ॥
诸德应当被视为作用;愤怒与喜悦、乐与苦、可爱与不可爱,以及此类其他对立之对,全知者应当克服之。
12.214.13
पञ्चभूतात्मके देहे सत्त्वराजसताभसे ।
कमभिष्टुवते चायं कं वा क्रोशति किं वदन् ॥ १२.२१४.१३ ॥
在这由五大构成、具有善、欲、暗三德的身体中,他赞美谁,或诋毁谁,说了什么?
12.214.14
स्पर्शरूपरसाद्येषु सङ्गं गच्छन्ति बालिशाः ।
नावगच्छन्ति विज्ञानादात्मानं पार्थिवं गुणम् ॥ १२.२१४.१४ ॥
愚人执着于触、色、味等境;他们不以智慧认识超越地性之德的自我。
12.214.15
मृन्मयं शरणं यद्वन्मृदैव परिलिप्यते ।
पार्थिवोऽयं तथा देहो मृद्विकारान्न नश्यति ॥ १२.२१४.१५ ॥
如同泥做的居所以泥涂抹,这具土质的身体不会因泥的变化而毁坏。
12.214.16
मधु तैलं पयः सर्पिर्मांसानि लवणं गुडः ।
धान्यानि फलमूलानि मृद्विकाराः सहाम्भसा ॥ १२.२१४.१६ ॥
蜜、油、乳、酥、肉、盐、糖蜜、谷物、果实与根茎——这些都是水与土的变化。
12.214.17
यद्वत्कान्तारमातिष्ठन्नौत्सुक्यं समनुव्रजेत् ।
ग्राम्यमाहारमादद्यादस्वाद्वपि हि यापनम् ॥ १२.२१४.१७ ॥
犹如入林之人不热切追求村中的食物,即便无味,也只为维持生命而进食,
12.214.18
तद्वत्संसारकान्तारमातिष्ठञ्श्रमतत्परः ।
यात्रार्थमद्यादाहारं व्याधितो भेषजं यथा ॥ १२.२१४.१८ ॥
同样,入于轮回之林、专心精进者,应只为维持生命之旅而进食,如病人服药一般。
12.214.19
भक्षणे श्वापदैर्मार्गादिति चारं करोति चेत् ।
एवं संसारमार्गेण यात्रार्थं विषयाणि च ॥ १२.२१४.१९ ॥
如同人在进食时被野兽引离正道而迷失,同样,在世俗存在的道路上,为了生命的旅程,应当享用感官之境。
12.214.20
न गच्छेद्भोगविज्ञानादुन्मार्गे पद्यते तदा ।
तस्माददुःखतो मार्गमास्थितस्तमनुस्मरेत् ॥ १२.२१४.२० ॥
不应依靠享乐的知识而行,否则便会堕入歧途。因此,应当踏上无苦之道,并时时忆念它。
12.214.21
नानापर्णफला वृक्षा बहवः सन्ति तत्र हि ।
भोक्तारो मुनयश्चैव तस्मात्परतरं वनम् ॥ १२.२१४.२१ ॥
那里有许多叶子和果实各异的树木,还有享用它们的圣贤;因此那片森林更为殊胜。
12.214.22
अनुमानैस्तथाशास्त्रैर्यशसा विक्रमेण च ।
सत्यशौचार्जवत्यागैर्वर्चसा विक्रमेण च।
क्षान्त्या धृत्या च बुद्ध्या च मनसा तपसैव च ॥ १२.२१४.२२ ॥
凭推理与经典,凭名声与勇力;凭真实、清净、正直与舍离;凭光辉与勇力;仅凭忍耐、坚定、智慧、心意与苦行。
12.214.23
भावान्सर्वान्यथावृत्तान्संवसेत यथाक्रमम् ।
शान्तिमिच्छन्नदीनात्मा संयच्छेदिन्द्रियाणि च ॥ १२.२१४.२३ ॥
应依次安住于一切境况,随其发生;愿求寂静,心不沮丧,应当摄持诸根。
12.214.24
सत्त्वेन रजसा चैव तमसा चैव मोहिताः ।
चक्रवत्परिवर्तन्ते ह्यज्ञानाज्जन्तवो भृशम् ॥ १२.२१४.२४ ॥
众生为善性、激性与暗性所迷惑,因无明而如车轮般剧烈地旋转不息。
12.214.25
तस्मात्सम्यक्परीक्षेत दोषानज्ञानसंभवान् ।
अज्ञानप्रभवं नित्यमहंकारं परित्यजेत् ॥ १२.२१४.२५ ॥
因此应当仔细审察由无明所生的过失,并永远舍弃由无明所生的我慢。
12.214.26
महाभूतानीन्द्रियाणि गुणाः सत्त्वं रजस्तमः ।
देहमूलं विजानीहि नैतानि भगवानतः ॥ १२.२१४.२६ ॥
当知大种、诸根以及德性——悦性、变性与暗性——乃是身体的根本;尊者啊,它们并非(自我)。
12.214.27
उपायतः प्रवक्ष्यामि तं च मृत्युं दुरासदम् ।
त्रैलोक्यं सेश्वरं सर्वमहंकारे प्रतिष्ठितम् ॥ १२.२१४.२७ ॥
我将依次说明那难以战胜的死亡;三界连同其主宰,皆安立于我慢之中。
12.214.28
यथेह नियतः कालो दर्शयत्यार्तवान्गुणान् ।
तद्वद्भतेष्वहंकारं विद्याद्भूतप्रवर्तकम् ॥ १२.२१४.२८ ॥
正如此处的定时显现四季的德性,同样应知众生中的我慢乃是驱动众生者。
12.214.29
संमोहकं तमो विद्यात्कृष्णमज्ञानसंभवम् ।
प्रकृतेर्गुणसंजातो महानहंक्रिया ततः ॥ १२.२१४.२९ ॥
当知暗性能使人迷惑,乃黑暗,生于无明。由自性之德生出大(觉),其后乃有我慢之作用。
12.214.30
अहंकारात्पुनः पश्चाद्भूतग्राममुदाहृतम् ।
अव्यक्तस्य गुणेभ्यस्तु तद्गुणांश्च निबोध तान् ॥ १२.२१४.३० ॥
自我意识之后又生起众大种之群,此已宣说;并且应知由未显现之德性所生者的德性。
12.214.31
प्रीतिदुःखनिबद्धांश्च समस्तांस्त्रीनथो गुणान् ।
सत्त्वस्य रजसश्चैव तमसश्च निबोध तान् ॥ १२.२१४.३१ ॥
现在请理解那三种与喜乐和痛苦相连的德性:善性(sattva)、激性(rajas)与暗性(tamas)。
12.214.32
प्रसादो हर्षजा प्रीतिरसंदेहो धृतिः स्मृतिः ।
एतान्सत्त्वगुणान्विद्यादिमान्राजसतामसान् ॥ १२.२१४.३२ ॥
平静、由喜悦而生的欢喜、无疑的确信、坚定与记忆——应知这些是善性(sattva)的德性,与激性和暗性不同。
12.214.33
असन्तोषोऽक्षमाऽधैर्यमतृप्तिर्विषयादिषु ।
राजसाश्च गुणा ह्येते तत्परं तामसाञ्शृणु ॥ १२.२१४.३३ ॥
不满、不耐、不安定以及对感官对象的永不满足——这些是激性(rajas)的德性。现在听那超越它们的暗性(tamas)的德性。
12.214.34
मोहस्तन्द्री तथा दुःखं निद्राऽऽलस्यं प्रमादता ।
विषादी दीर्घसूत्रश्च तत्तामसमुदाहृतम् ॥ १२.२१४.३४ ॥
迷惑、昏沉、忧苦、睡眠、懒惰、放逸、沮丧与拖延——这被称为暗性(tamas)的德性。
12.214.35
कामक्रोधौ प्रमादश्च लोभमोहौ भयं क्लमः ।
विषादशोकावरतिर्मानदर्पावनार्यता ॥ १२.२१४.३५ ॥
欲与怒、放逸、贪与迷、恐惧、疲困、忧苦与悲伤、厌离、慢与骄傲,以及不善之行。
12.214.36
दोषाणामेवमादीनां परीक्ष्य गुरुलाघवम् ।
विमृशेदात्मसंस्थानमेकैकमनुसंततम् ॥ १२.२१४.३६ ॥
审察这些过失的轻重之后,应当持续反省每一种过失与自我所处之位的关系。
12.214.37
यस्मिन्प्रतिष्ठितं चेदं यस्मिन्सज्ज्ञाननिर्गतिः ।
सर्वभूताधिकं नित्यमहंकारं विलोकयेत् ॥ १२.२१४.३७ ॥
此世界所立之处、真智所出之源,应观察那高于一切众生的永恒我执。
12.214.38
विलोकमानः स तदा स्वबुद्ध्या सूक्ष्मया पुनः ।
तदेव भाति तद्रूपमात्मना यत्सुनिर्मलम् ॥ १२.२१४.३८ ॥
此时他以细微的智慧再次观察,便见那由自我而极为清净的形相自行显现。
12.214.39
के दोषा मनसा त्यक्ताः के बुद्ध्या शिथिलीकृताः ।
के पुनः पुनरायान्ति के मोहादचला इव ॥ १२.२१४.३९ ॥
哪些过失已为意所舍弃,哪些已为智所松解,哪些又因迷惑而如磐石般一再回来?
12.214.40
केषां बलाबलं बुद्ध्या हेतुभिर्विमृशेद्बुधः ।
एतन्मे सर्वमाचक्ष्व यथा विद्यामहं विभो।
मह्यं शुश्रूषवे विद्वन्वक्ष्येतद्बुद्धिनिश्चितम् ॥ १२.२१४.४० ॥
智者应依据何种理由,以智慧考察其中各者的强弱?啊,全能者,请把这一切都告诉我,使我得以明了。啊,博学者,对渴望聆听的我,我将说出由智慧所确定之理。
12.214.41
शान्तत्वादपरान्ताच्च आरम्भादपि चैकतः ।
प्रोक्तो ह्यत्र यथा हेतुरेवमाहुर्मनीषिणः ॥ १२.२१४.४१ ॥
从寂静、从终结、从开端,也从一方面来说,正如此处所陈述的理由,智者们也是这样说的。
12.214.42
दोषैर्मूलादवच्छिन्नैर्विशुद्धात्मा विमुच्यते ।
विनाशयति संभूतमयस्मयमयो यथा।
तथा कृतात्मा सहजैर्दोषैर्नश्यति राजसैः ॥ १२.२१४.४२ ॥
根源已被斩断的过失所缚的清净之我得以解脱;如同由铁所生的铁能毁灭它,同样,自我已受制伏者也会被其天生的罗阇过失所毁灭。
12.214.43
सहजैरविशुद्धात्मा दोषैर्नश्यति तामसैः ।
राजसं तामसं चैव शुद्धात्मा कालसंभवम् ॥ १२.२१४.४३ ॥
不净之我因由tamas所生的天性过失而毁灭;rajas与tamas,以及由时间所生者——清净之我则摆脱它们。
12.214.44
शमयेत्सत्त्वमास्थाय बुद्ध्या केवलया द्विजः ।
त्यजेच्च मनसा चेतः शुद्धात्मा बुद्धिमास्थितः ॥ १२.२१४.४४ ॥
再生者应依靠萨埵,仅以纯粹的智慧平息心念,并以意断绝心念;清净之我安住于智慧中,应当如此。
12.214.45
तत्सर्वं देहिनां बीजं सत्त्वमात्मवतः समम् ।
तस्मादात्मवता वर्ज्यं रजश्च तम एव च ॥ १२.२१४.४५ ॥
这一切是有身众生的种子;对于自制者而言,萨埵是平等的。因此自制者应当远离罗阇与答磨。
12.214.46
रजस्तमोभ्यां निर्मुक्तं सत्त्वं निर्मलतामियात् ।
आहारान्वर्जयेन्नित्यं राजसांस्तामसानपि ॥ १२.२१४.४६ ॥
脱离罗阇与答磨的萨埵得到清净。应当常远离罗阇性与答磨性的食物。
12.214.47
ते ब्रह्म पुनरायान्ति न मोहादचला इव ।
अथवा मन्त्रवद्ब्रूयुर्मांसादीनां यजुष्कृतम् ॥ १२.२१४.४७ ॥
他们再次归于梵,并非出于迷惑,而是如山般不动。或者,如咒语一般,他们应说肉食等是由夜柔吠陀所作。
12.214.48
स वै हेतुरनादाने शुद्धधर्मानुपालने ।
रजसा कामयुक्तानि कार्याण्यपि समाप्नुते ॥ १२.२१४.४८ ॥
这正是不接受与奉持清净法的原因;由于罗阇,甚至连与欲望相连的行为也会得到。
12.214.49
अर्थयुक्तानि चात्यर्थं कामान्सर्वांश्च सेवते ।
तमसा लोभयुक्तानि क्रोधजानि च सेवते।
हिंसाविहाराभिरतस्तन्द्रीनिद्रासमन्वितः ॥ १२.२१४.४९ ॥
他过度追求与财富相关之事和一切欲望;因闇性(tamas)而追求与贪婪相连及由愤怒所生之事;乐于暴力与嬉游,为懈怠与昏睡所缠。
12.214.50
सत्वस्थः सात्विकान्भावाञ्शुद्धान्पश्यति संश्रितः ।
स देही विमलः श्रीमाञ्श्रद्धाविद्यासमन्वितः ॥ १२.२१४.५० ॥
安住于悉多(sattva),依止清净的善性之境而观照之;此有身者清净无垢、光明炽盛,具足信与智。