摩诃婆罗多 · 章 12.217
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.217.1
दुरन्तेष्विन्द्रियार्थेषु सक्ताः सीदन्ति जन्तवः ।
ये त्वसक्ता महात्मानस्ते यान्ति परमां गतिम् ॥ १२.२१७.१ ॥
执着于无尽感官对象的众生会沉沦;而不执着的大德者则达到至高的归宿。
12.217.2
जन्ममृत्युजरादुःखैर्व्याधिभिर्मानसक्लमैः ।
दृष्ट्वैव संततं लोकं घटेन्मोक्षाय बुद्धिमान् ॥ १२.२१७.२ ॥
智者见世间常为生、死、老之苦,为疾病与心神疲惫所苦,便应努力求得解脱。
12.217.3
वाङ्भनोभ्यां शरीरेण शुचिः स्यादनहंकृतः ।
प्रशान्तो ज्ञानवान्भिक्षुर्निरपेक्षश्चरेत्सुखम् ॥ १२.२१७.३ ॥
言语、意念、身体皆清净,无我慢,寂静而有智慧的比丘,应无所求地安乐游行。
12.217.4
वशा मोक्षवतां पाशास्तासां रूपं प्रदर्शकम् ।
दुर्ग्रहं पश्यमानोऽपि मन्यते मोहितस्तदा ॥ १२.२१७.४ ॥
对求解脱者而言,这些是应当降伏的羂索;其形相本身即显露其真相。虽见其难以把握,迷惑之人此时却以为容易。
12.217.5
एवं पश्यन्तमात्मानमनुध्यातं हि बन्धुषु ।
अयथात्वेन जानामि भेदरूपेण संस्थितम् ॥ १२.२१७.५ ॥
如此看到在亲属中被冥想的自我,我知道它并非以真实之性存在,而是以分别之相存在。
12.217.6
अथवा मनसः सङ्गं पश्येद्भूतानुकम्पया ।
तत्राप्युपेक्षां कुर्वीत ज्ञात्वा कर्मफलं जगत् ॥ १२.२१७.६ ॥
或者以慈悲于众生之心,观察心的执着;在那里也应以舍离自处,知世界乃业果。
12.217.7
यत्कृतं स्याच्छुभं कर्म पापं वा यदि वाऽश्नुते ।
तस्माच्छुभानि कर्माणि कुर्याद्वा बुद्धिकर्मभिः ॥ १२.२१७.७ ॥
无论所作是善是恶,人都承受其果报;因此应当以智慧指引,去行善业。
12.217.8
अहिंसा सत्यवचनं सर्वभूतेषु चार्जवम् ।
क्षमा चैवाप्रमादश्च यस्यैते स सुखी भवेत् ॥ १२.२१७.८ ॥
不杀生、说真话、对一切众生正直、忍耐与警觉——具备这些的人将得到幸福。
12.217.9
अनक्षसाध्यं तद्ब्रह्म निर्मलं जगतः परम् ।
स्वात्मप्रकाशमग्राह्यमहेतुकमचञ्चलम् ॥ १२.२१७.९ ॥
梵非感官所能得;它清净,超越世间,自身光明,不可把握,无因,不动摇。
12.217.10
विवेकज्ञानवाचिस्थो ह्याशुरूपेण संस्थितः ।
वैकारिकात्प्रदृश्येतै गैरिके मधुधारवत् ॥ १२.२१७.१० ॥
安住于分辨之智与言语者,迅速确立于形相之中;超越变化而显现,如赭土中流淌的蜜流。
12.217.11
यश्चैनं परमं धर्मं सर्वभूतसुखावहम् ।
दुःखान्निः सरणं वेद तत्त्वज्ञः स सुखी भवेत् ॥ १२.२१७.११ ॥
知晓这至上之法——它带给一切众生安乐,是脱离苦难之道——的真理通达者,将得幸福。
12.217.12
तस्मात्समाहितं बुद्ध्या मनो भूतेषु धारयेत् ।
नापथ्यायेन्न स्पृहयेन्नाबद्धं चिन्तयेदसत् ॥ १२.२१७.१२ ॥
因此应以智慧摄心,安住于众生;不起恶念,不生贪求,不思惟虚妄无根之事。
12.217.13
अथामोघप्रयत्नेन मनो ज्ञाने निवेशयेत् ।
सुवाचोऽथ प्रयोगेण मनोज्ञं संप्रवर्तते ॥ १२.२१७.१३ ॥
然后以不失之努力,将心专注于知识。善言亦因修习而悦于心。
12.217.14
विवेकयित्वा तद्वाक्यं धर्मसूक्ष्ममवेक्ष्य च ।
सत्यां वाचमहिंस्रां च वदेदनपवादिनीम् ॥ १२.२१७.१४ ॥
辨明那话,审察法的微妙,应说真实、不害、无谤的言语。
12.217.15
कल्कापेतामपरुषामनृशंसामपैशुनीम् ।
ईदृगल्पं च वक्तव्यमविक्षिप्तेन चेतसा ॥ १२.२१७.१५ ॥
应说无污、不粗、不残、不挑拨的言语;如此简短之语也应以不乱之心说出。
12.217.16
वाक्यबन्धेन संरागविहाराद्व्याहरेद्यदि ।
बुद्ध्याऽप्यनुगृहीतेन मनसा कर्म तामसम् ॥ १२.२१७.१६ ॥
若因言辞的牵缠与情欲的游戏而言,则即使以智慧扶持之心所作之业,也是暗性的。
12.217.17
रजोभूतैर्हि करणैः कर्मणि प्रतिपद्यते ।
स दुःखं प्राप्य लोकेऽस्मिन्नरकायोपपद्यते।
तस्मान्मनोवाक्शरीरैराचरेद्वैर्यमात्मनः ॥ १२.२१७.१७ ॥
以充满罗阇的诸根,人投身于业中;他在此世得苦,便生于地狱。因此应以意、语、身坚定地约束自己。
12.217.18
प्रकीर्ण एव भारो हि यद्वद्धार्येत दस्युभिः ।
प्रतिलोमां दिशं बुद्ध्वा संसारमबुधास्तथा।
संसारमार्गमापन्नः प्रतिलोमं विवर्जयेत् ॥ १२.२१७.१८ ॥
如同散落的重担被盗贼抢走,同样,愚者知晓逆向之方,陷入轮回之道,应当远离逆行。
12.217.19
तामेव च यथा दस्यून्हत्वा गच्छेच्छिवां दिशम् ।
तथा रजस्तमः कर्माण्युत्सृज्य प्राप्नुयाच्छुभम् ॥ १२.२१७.१९ ॥
如同杀死盗贼后走向那吉祥的方向,同样,舍弃激情与暗性之业,便应获得吉祥。
12.217.20
निःसंदिग्धमनीहो वै मुक्तः सर्वपरिग्रहैः ।
विविक्तचारी लघ्वाशी तपस्वी नियतेन्द्रियः ॥ १२.२१७.२० ॥
无疑、无欲、真正脱离一切所有之物,独居游行、少食、苦修、诸根调伏者,确实得解脱。
12.217.21
ज्ञानदग्धपरिक्लेशः प्रयोगरतिरात्मवान् ।
निष्प्रचारेण मनसा परं तदधिगच्छति ॥ १२.२१७.२१ ॥
苦恼已被智慧焚尽、乐于修行、自我调伏者,以不游移之心证得那至上。
12.217.22
धृतिमानात्मवान्बुद्धिं निगृह्णीयादसंशयम् ।
मनो बुद्ध्या निगृह्णीयाद्विषयान्मनसाऽऽत्मनः।
योजयित्वा मनस्तत्र निश्चलं परमात्मनि ॥ १२.२१७.२२ ॥
坚定而自制之人无疑应当摄伏觉性;以觉性摄伏意,以意摄伏诸境;将意安住于彼,在至上我中坚定不移。
12.217.23
योगाभिसन्धियुक्तस्य ब्रह्म तत्संप्रकाशते ।
ऐकान्त्यं तदिदं विद्धि सर्ववस्त्वन्तरस्थितिः ॥ १२.२१७.२३ ॥
对于专注于瑜伽之志者,彼梵便显现。当知此即唯一之境:安住于一切事物之内。
12.217.24
विशेषहीनं गृह्णन्ति विशेषां कारणात्मिकाम् ।
अथवा न प्रभुस्तत्र परमात्मनि वर्तितुम्।
आगामित्तत्त्वं योगात्मा योगतन्त्रमुपक्रमेत् ॥ १२.२१७.२४ ॥
他们或执取无差别者,或执取由因所成的差别者;或者他们无力安住于彼至上我。瑜伽者应当以经典之真谛为依,开始瑜伽之法。
12.217.25
निगृहीतेन्द्रियस्यास्य कुर्वाणस्य मनो वशे ।
देवतास्ताः प्रकाशन्ते हृष्टा यान्ति तमीश्वरम् ॥ १२.२१७.२५ ॥
对于诸根已被制约、使心意受控的人,那些神祇便显现;欣然地,他们归向那位主宰。
12.217.26
ताभिः संयुक्तमनसो ब्रह्म तत्संप्रकाशते ।
शनैश्चापगते सत्वे ब्रह्मभूयाय कल्पते ॥ १२.२१७.२६ ॥
当心意与那些神祇相合时,那梵便完全显现;渐渐地,当纯善之德消退,他便堪能成为梵。
12.217.27
अथवा न प्रवर्तेत योगतन्त्रैरुपक्रमेत् ।
योगतन्त्रमयं तन्त्रं वृत्तिः स्यात्ततदाचरेत् ॥ १२.२१७.२७ ॥
或者,若他不投入其中,则应以瑜伽之法开始;以瑜伽密法构成的修持便是他的行为,他应当依此而行。
12.217.28
कणकुल्माषपिण्याकशाकयावकसक्तवः ।
तथा मूलफलं भैक्ष्यं पर्यायेणोपयोजयेत् ॥ १२.२१७.२८ ॥
谷壳、煮豆、油饼、菜蔬、大麦粥与炒面;以及根茎、果实与乞食之食——应当轮流食用。
12.217.29
आहारनियमं चैव देशे काले च सात्विकः ।
तत्परीक्ष्यानुवर्तेत यत्प्रवृत्त्यनुवर्तकम् ॥ १२.२१७.२९ ॥
依照地点与时节,具足纯善之德者应持守饮食的规约;经过检验之后,便当遵循那与修行进展相应的。
12.217.30
प्रवृत्तं नोपरुन्धेत शनैरग्निमिवेन्धयेत् ।
ज्ञानैधितं तथा ज्ञानमर्कवत्संप्रकाशते ॥ १२.२१७.३० ॥
已经开始的修行,不可阻止;应如生火一般,渐渐地使其燃起。由智慧所点燃的智慧,便如太阳一般完全光明地照耀。
12.217.31
ज्ञानाधिष्ठानमज्ञानं त्रील्लोँकानधितिष्ठति ।
विज्ञानानुगतं ज्ञानमज्ञानेनापकृष्यते ॥ १२.२१७.३१ ॥
无知作为智识的根基,遍布三界。伴随辨识的知识,被无知拉低。
12.217.32
पृथक्त्वात्संप्रयोगाच्च नासूयुर्वेद शाश्वतम् ।
स तयोरपवर्गज्ञो वीतरागो विमुच्यते ॥ १२.२१७.३२ ॥
因分离与结合,好嫉者不知永恒。知晓二者解脱之道、无欲的人,便得解脱。
12.217.33
वयोतीतो जरामृत्यू जित्वा ब्रह्म सनातनम् ।
अमृतं तदवाप्नोति यत्तदक्षरमव्ययम् ॥ १२.२१७.३३ ॥
超越年岁,战胜衰老与死亡,他证得永恒的梵。他获得那不灭、不衰的甘露。