Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.219

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.219.1

न स वेद परं ब्रह्म यो न वेद चतुष्टयम् ।
व्यक्ताव्यक्तं च यत्तत्त्वं संप्रोक्तं परमर्षिणा ॥ १२.२१९.१ ॥

不知四者之人,不知至上梵。显与隐之真理,乃至上仙人所宣说。

12.219.2

व्यक्तं मृत्युमुखं विद्यादव्यक्तममृतं पदम् ।
निवृत्तिलक्षणं धर्ममृषिर्नारायणोऽब्रवीत् ॥ १२.२१९.२ ॥

当知显者为死亡之口,不显者为不死之境。以离弃为特征的法,由仙人那罗延所说。

12.219.3

तत्रैवावस्थितं सर्वं त्रैलोक्यं सचराचरम् ।
निवृत्तिलक्षणं धर्ममव्यक्तं ब्रह्म शाश्वतम् ॥ १२.२१९.३ ॥

一切皆安住于彼:三界及动与不动之有情。以离弃为特征的法,即不显的永恒梵。

12.219.4

प्रवृत्तिलक्षणं धर्मं प्रजापतिरतथाब्रवीत् ।
प्रवृत्तिः पुनरावृत्तिर्निवृत्तिः परमा गतिः ॥ १२.२१९.४ ॥

而生主则以另一种方式说明以入世为特征的法:入世即是再次轮回,离弃才是至高的归宿。

12.219.5

तां गतिं परमामेति निवृत्तिपरमो मुनिः ।
ज्ञानतत्त्वपरो नित्यं शुभाशुभनिदर्शकः ॥ १२.२१९.५ ॥

以离弃为至上的牟尼,得到那至高归宿;常住于智慧之真理,能辨别善与恶。

12.219.6

तदेवमेतौ विज्ञेयावव्यक्तपुरुषाबुभौ ।
अव्यक्तपुरुषाभ्यां तु यत्स्यादन्यन्महत्तरम् ॥ १२.२१९.६ ॥

故应如是知此二者:未显与补鲁沙。然而另有一物,比未显与补鲁沙更为伟大。

12.219.7

तं विशेषमवेक्षेति विशेषेण विचक्षणः ।
अनाद्यन्तावुभावेतावलिङ्गौ चाप्युभावपि ॥ १२.२१९.७ ॥

智者应特别观察那种区别:这两者都无始无终,无相无状,二者皆然。

12.219.8

उभौ नित्यावनुचरौ महद्भ्यश्च महत्तरौ ।
सामान्यमेतदुभयोरेवं ह्यन्यद्विशेषणम् ॥ १२.२१९.८ ॥

二者皆永恒,是跟随者,甚至比大原理更为伟大。这是二者共同的标志;如此又有另一个区别的特征。

12.219.9

प्रकृत्या सर्गधर्मिण्या तथा त्रिगुणसत्वया ।
विपरीतमतो विद्यात्क्षेत्रज्ञस्य स्वलक्षणम् ॥ १२.२१९.९ ॥

与具有创造本性、由三德构成的自性相反,应知这正是田知者自己的特征。

12.219.10

प्रकृतेश्च विकाराणां द्रष्टारमगुणान्वितम् ।
क्षेत्रज्ञमाहुर्जीवं तु कर्तारं गुणसंवृतम् ॥ १२.२१९.१० ॥

自性及其变异的见证者、无德者,称为田知者;而被三德所包裹的行为者称为命我(jīva)。

12.219.11

अग्राह्यं येन जानन्ति तज्ज्ञानं दंशितश्च तत् ।
तेनैव दंशितो नित्यं न गुणः परिभूयते ॥ १२.२१९.११ ॥

以之而知不可取者,即是智慧,而它本身披着铠甲;常以之披甲,德便不会被战胜。

12.219.12

अग्राह्यौ पुरुषावेतावलिङ्गत्वादसङ्गिनौ ।
संयोगलक्षणोत्पत्तिः कर्मजा गृह्यते यथा ॥ १२.२१९.१२ ॥

这二人无相且无执,故不可被把握。以结合为特征的生起,被认为是由业所生而被感知。

12.219.13

करणैः कर्मनिर्वृत्तैः कर्ता यद्यद्विचेष्टते ।
कीर्त्यते शब्दसंज्ञाभिः कोऽहमेषोप्यसाविति ॥ १२.२१९.१३ ॥

由业所成就的诸根,行动者所做的一切,都以声音和名称来指称:'我是谁?此是谁?彼是谁?'

12.219.14

ममापि कायमिति च तदज्ञो नित्यसंवृतः ।
उष्णीषवान्यथा वस्त्रैस्त्रिभिर्भवति संवृतः।
संवृतोऽयं तथा देही सत्त्वराजसतामसैः ॥ १२.२१९.१४ ॥

无知者以'此身亦是我的'为念,常被遮蔽,犹如戴头巾者被三件衣服所覆。此具身者亦被善、激情与惰性所覆。

12.219.15

भेदवस्तु त्वभेदेन जानाति स यदा पुमान् ।
तदा परं परात्माऽसौ भवत्येव निरञ्जनः ॥ १२.२१९.१५ ॥

当人以无别的方式了知有别之物时,他便成为至上我,无染无垢。

12.219.16

क्रियायोगे च भेदाख्ये बहु संक्षिप्यते क्वचित् ।
वसुरुद्रगणाद्येषु स्वानुभोगेन भोगतः ॥ १२.२१९.१६ ॥

在名为差别的业之结合中,有时许多被归纳——在婆苏、楼陀罗等众中,依自身受用的体验而定。

12.219.17

एवमेष परः सत्त्वो नानारूपेण संस्थितः ।
संक्षिप्तो दृश्यते पश्चादेकरूपेण विष्ठितः ॥ १२.२१९.१७ ॥

如此,此至上之有情以种种形相而住;其后则见其收摄,安住于一形相之中。

12.219.18

तस्माच्चतुष्टयं वेद्यमेतैर्हेतुभिरावृतम् ।
तथासंज्ञो ह्ययं सम्यगन्तकाले न मुह्यति।
वायुर्विधो यथा भानुर्विप्रकाशं गमिष्यति ॥ १२.२१९.१८ ॥

故应知此四分被这些因所遮覆。如是了知者,在临终时不迷惑,犹如风与日行向明亮之处。

12.219.19

श्रियं दिव्यामभिप्रेप्सुर्वर्ष्मवान्मनसा शुचिः ।
शारीरैर्नियमैरुग्रैश्चरेन्निष्कल्मषं तपः ॥ १२.२१९.१९ ॥

渴望神圣光辉者,心意清净,以严格的身体戒律修行无垢的苦行。

12.219.20

त्रैलोक्यं तपसा व्याप्तमन्तर्भूतेन भास्वता ।
सूर्यश्च चन्द्रमाश्चैव भासतस्तपसा दिवि ॥ १२.२१९.२० ॥

三界皆被内在光明的苦行所遍满;太阳与月亮也因苦行而在天空中放光。

12.219.21

अन्यच्च धर्मसाम्यं यत्तपस्तत्कीर्त्यते पुनः ।
प्रकाशस्तपसो ज्ञानं लोके संशब्दितं तपः ॥ १२.२१९.२१ ॥

另外,与法等同的苦行再次被宣说;苦行之光即是智慧,世间称苦行为智慧。

12.219.22

रजस्तमोघ्नं यत्कर्म तपसस्तत्स्वलक्षणम् ।
त्रितयं ह्येतदाख्यातं यद्यस्माद्भासितुं पुनः ॥ १२.२१९.२२ ॥

能灭除激情与黑暗的行为,正是苦行自身的特征;这三者如此宣说,因为要借它们再次放光。

12.219.23

स्वभासा भासयंश्चापि चन्द्रमा ह्यत्र वर्तते ।
सूर्ययोगे तु यः सन्धिस्तपः सर्वं प्रदीप्यते ॥ १२.२१९.२३ ॥

此处亦有以自身光明照耀的月亮;在与太阳相会的交接处,一切苦行都燃烧起来。

12.219.24

ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ।
वाङ्भनोनियमः सम्यङ्भानसं तप उच्यते ॥ १२.२१९.२४ ॥

梵行与不害称为身体的苦行;言语与意念的完全约束称为心的苦行。

12.219.25

विधिज्ञेभ्यो द्विजातिभ्यो ग्राह्यमन्नं विशिष्यते ।
आहारनियमेनास्य पाप्मा शाम्यति राजसः ॥ १२.२१९.२५ ॥

从知晓规则的再生者处接受的食物最为殊胜。依靠饮食节制,他由罗阇所生的罪垢得以平息。

12.219.26

वैमनस्यं च विषये यान्त्यस्य करणानि च ।
तस्मात्तन्मात्रमादद्याद्यावदत्र प्रयोजनम् ॥ १२.२१९.२६ ॥

他的诸根对境会生起厌离。因此应当只取此处所需要的那些。

12.219.27

अन्तकाले बलोत्कर्षाच्छनैः कुर्यादनातुरः ।
एवं युक्तेन मनसा ज्ञानं यदुपपद्यते ॥ १२.२१९.२७ ॥

在临终之时,力量增强,应当从容不迫,慢慢地(修习)。如此以专注之心,所生起的智慧便得以成就。

12.219.28

रजोवर्ज्यो ह्ययं देही देहवाञ्छब्दवांश्चरेत् ।
कार्यैरव्याहतमतिर्वैराग्यात्प्रकृतौ स्थितः ॥ १२.२१९.२८ ॥

此具身的自我远离罗阇,应当以身体和言语而行动。即使在行为之中心智也不受扰乱,依靠离欲而安住于自性之中。

12.219.29

आ देहादप्रमादाच्च देहान्ताद्विप्रमुच्यते ।
हेतुयुक्तः सदा सार्गो भूतानां प्रलयस्तथा ॥ १२.२१९.२९ ॥

从身体开始,凭借不放逸,直至身体终结,便得以完全解脱。众生的创造与毁灭同样总是与因相连。

12.219.30

परप्रत्ययसर्गे तु नियमो नातिवर्तते ।
एवं तत्प्रभवां प्रज्ञामासते ये विषर्यये ॥ १२.२१९.३० ॥

在依他而生起的创造中,规则不会被违越。安住于由此所生智慧之中的人,即使在颠倒之中也保持坚定。

12.219.31

धृत्या देहान्धारयन्तो बुद्धिसंक्षिप्तचेतसः ।
स्थानेभ्यो ध्वंसमानाश्च सूक्ष्मत्वात्तदुपासते ॥ १२.२१९.३१ ॥

以坚定维持身体,心被智慧收敛,从所处之位滑落,因其精微而崇奉之。

12.219.32

यथागमं च तत्सर्वं बुद्ध्या तन्नैव बुद्ध्यते ।
देहान्तं कश्चिदन्वास्ते भावितात्मा निराश्रयः ॥ १२.२१९.३२ ॥

依照经典,这一切绝非智慧所能领会;直至身体终结,仍有某位修养自我、无所依托者留存。

12.219.33

युक्तो धारणया कश्चित्सतः केचिदुपासते ।
अभ्यस्यन्ति परं देवं विद्यासंशब्दिताक्षरम् ॥ १२.२१९.३३ ॥

有人专注于执持,有些智者崇奉之;他们修习至上之神,即由知识所称名的不灭音节。

12.219.34

अन्तकाले ह्युपासन्ते तपसा दग्धकिल्विषाः ।
सर्व एते महात्मानो गच्छन्ति परमां गतिम् ॥ १२.२१९.३४ ॥

临终之时他们崇奉之;这些以苦行烧尽罪过的大德,皆抵达至高之境。

12.219.35

सूक्ष्मं विशेषणं तेषामवेक्षेच्छास्त्रचक्षुषा ।
देहं तु परमं विद्याद्विमुक्तमपरिग्रहम् ॥ १२.२१९.३५ ॥

应以经典之眼观察他们细微的特征;而身体应被认识为至上、解脱且无所执取。

12.219.36

अन्तरिक्षादन्यतरं धारणासक्तमानसम् ।
मर्त्यलोकाद्विमुच्यन्ते विद्यासंसक्तचेतसः ॥ १२.२१९.३६ ॥

或往生空界之一,心专注于执持;心系于智慧者,便从凡世解脱。

12.219.37

ब्रह्मभूता विरजसस्ततो यान्ति परां गतिम् ।
एवमेकायनं धर्ममाहुर्वेदविदो जनाः ॥ १२.२१९.३७ ॥

成为梵、离于激情之人,然后达到最高归宿。因此吠陀的知者宣称这一条唯一之道即是法。

12.219.38

यथाज्ञानमुपासन्तः सर्वे यान्ति परां गतिम् ।
कषायवर्जितं…तेषामुत्पद्यतेऽमलम्।
यान्ति तेऽपि… कान्विशुध्यन्ति यथाबलं ॥ १२.२१९.३८ ॥

凡依自身所知而修习者,皆得至最高归宿。在他们之中,离于垢染者……生起无垢。他们也……依自身之力而得清净。

12.219.39

भगवन्तमजं दिव्य विष्णुमव्यक्तसंज्ञितम् ।
भावेन यान्ति शुद्धा ये ज्ञानतृप्ता निराशिषः ॥ १२.२१९.३९ ॥

那位尊贵、不生、神圣、名为未显现的毗湿奴,由虔信而得清净、以知识为满足、无欲的人得以证得。

12.219.40

ज्ञात्वाऽऽत्मस्थं… न निवर्तन्ति तेऽव्ययाः ।
प्राप्य तत्परमं स्थानमोदन्तेऽक्षरमव्ययम् ॥ १२.२१९.४० ॥

知晓那居于自我者……这些不灭者不再返回。证得那至上之所,他们在不灭、不坏者之中欢喜。

12.219.41

एतावदेतद्विज्ञानमेतदस्ति च नास्ति च ।
तृष्णाबद्धं जगत्सर्वं चक्रवत्परिवर्तते ॥ १२.२१९.४१ ॥

此即是这般智慧:有,亦无。被渴爱所缚的整个世界,如轮般旋转。

12.219.42

विसतन्तुर्यथैवायमन्तस्थः सर्वतो बिसे ।
तृष्णातन्तुरनाद्यन्तस्तथा देहगतः सदा ॥ १२.२१९.४२ ॥

如莲茎之丝居于内,遍布四方,无始无终的渴爱之线,常住于身体之中。

12.219.43

सूच्या सूत्रं यथा वस्त्रे संसारयति वायकः ।
तद्वत्संसारसूत्रं हि तृष्णासूच्या निबद्ध्यते ॥ १२.२१९.४३ ॥

犹如织工以针将线穿入布中,轮回之线便被渴爱(tṛṣṇā)之针缚住。

12.219.44

इतस्ततः समाहृत्य रूपं निर्वर्तयिष्यति ।
विकारं प्रकृतिं चैव पुरुषं च सनातनम् ॥ १२.२१९.४४ ॥

从此处和彼处汇集,他将生出形相、变易、原质(prakṛti)以及永恒的补鲁沙(puruṣa)。

12.219.45

यो यथावद्विजानाति स वितृष्णो विमुच्यते ।
याति नित्यं स सद्भावमात्मनो वै महद्भुवम् ॥ १२.२१९.४५ ॥

若如实了知此理者,离于渴爱便得解脱;他常常证得自我的真实状态,那殊胜的境界。

12.219.46

प्रकाशं भगवानेतदृषिर्नारायणोऽमृतम् ।
भूतानामनुकम्पार्थं जगाद जगतो हितम् ॥ १२.२१९.४६ ॥

世尊仙人那罗延(Nārāyaṇa)为怜悯众生,为世间之利益,明白宣说了这不死之法。