摩诃婆罗多 · 章 12.220
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.220.1
केन वृत्तेन वृत्तज्ञो जनको मिथिलाधिपः ।
जगाम मोक्षं धर्मज्ञो भोगानुत्सृज्य बुद्धिमान् ॥ १२.२२०.१ ॥
智慧的、知晓正法的弥提罗王遮那迦,以何种行为舍弃享乐而获得解脱?
12.220.2
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
येन वृत्तेन धर्मज्ञः स जगाम महत्सुखम् ॥ १२.२२०.२ ॥
此处人们也引用这段古老的故事:知晓正法者凭借那样的行为获得了大乐。
12.220.3
जनको जनदेवस्तु मिथिलायां जनाधिप ।
और्ध्वदेहिकधर्माणामासीद्युक्तो विचिन्तने ॥ १२.२२०.३ ॥
在弥提罗,人民之神、人民之主遮那迦专心思考身后之礼的正法。
12.220.4
तस्य स्म शतमाचार्या वसन्ति सततं गृहे ।
दर्शयन्तः पृथग्धर्मान्नानापाषण्डवादिनः ॥ १२.२२०.४ ॥
他家中常住着一百位师长,他们展示各种不同的正法,宣扬各种异端之说。
12.220.5
स तेषां प्रेत्यभावेन प्रेत्य गातौ विनिश्चये ।
आगमस्थः स भूयिष्ठमात्मतत्त्वेन तुष्यन्ति ॥ १२.२२०.५ ॥
关于死后的状态与解脱之道,他权衡他们的见解;依止经典,他大多以自我的真理为足。
12.220.6
तत्र पञ्चशिखो नाम कापिलेयो महामुनिः ।
परिधावन्महीं कृत्स्नां जगाम यलामथ ॥ १२.२२०.६ ॥
那里,迦毗罗之后裔、大仙五髻,遍游整个大地,前往一个名为耶拉的地方。
12.220.7
सर्वसंन्यासधर्माणां तत्त्वज्ञाननिश्चये ।
सुपर्यवसितार्थश्च निर्द्वन्द्वो नष्टगशयः ॥ १२.२२०.७ ॥
在一切弃绝之法的真实知识的坚定决断中,目标已完全达成、超越对立之二元、内在执着已灭之人。
12.220.8
ऋषीणामाहुरेकं यं कामाद…नृषु ।
शाश्वतं सुखमत्यन्तमन्वि…सुदुर्लभम् ॥ १२.२२०.८ ॥
在仙人中,他们说某一位,他因欲望……在人类之中。
12.220.9
यमाहुः कपिलं साङ्ख्याः परमर्षि प्रजापतिम् ।
समेत्य तेन रूपेण विस्मापयति हि स्वयम् ॥ १२.२२०.९ ॥
数论者称之为迦毗罗,至上仙人、众生之主;与他相遇时,他仅以其形相便令人惊叹。
12.220.10
आसुरेः प्रथमं शिष्यं यमाहुश्चिरजीविनम् ।
पञ्चस्रोतसि यः सत्रमास्ते वर्षसहस्रिकम् ॥ १२.२२०.१० ॥
阿修利的首位弟子,人称长寿者,他在五流河中的祭祀法会中住留千年。
12.220.11
तमासीनं समागम्य कापिलं मण्डलं महत् ।
पञ्चस्रोतसि निष्णातः पञ्चरात्रविशारदः। ॥ १२.२२०.११ ॥
走近坐在迦毗罗大圆圈中的他,他精通五流之法,熟悉五夜之教。
12.220.12
पञ्चज्ञः पञ्चकृत्पञ्चगुणः पञ्चशिखः स्मृतः ।
पुरुषावस्थमव्यक्तं परमार्थं न्यवेदयत् ॥ १२.२२०.१२ ॥
知五者、作五者、具五德者,被称为五髻;他宣说了原人境界中未显现的至上真理。
12.220.13
इष्ट्वा सत्रेण संपृष्टो भूयश्च तपसाऽऽसुरिः ।
क्षेत्रक्षेत्रज्ञयोर्व्यक्तिं बुबुधे देवदर्शनात् ॥ १२.२२०.१३ ॥
阿苏利完成长期祭祀,并以苦行再度请问,借由见神而领悟了田与田知者的显现之相。
12.220.14
यत्तदेकाक्षरं ब्रह्म नानारूपं प्रदृश्यते ।
बोधायनपरान्विप्रानृषिभावमुपागतः।
आसुरिर्मण्डले तस्मिन्प्रतिपेदे तदव्ययम् ॥ १२.२२०.१४ ॥
那一个音节的梵,显现为多种形相。阿苏利在追随菩陀衍那的婆罗门中达到了仙人之位,在那个集会中证得了那不灭者。
12.220.15
तस्य पञ्चशिखः शिष्यो मानुष्याः पयसा भृतः ।
ब्राह्मणी कपिला नाम काचिदासीत्कुटुम्बिनी ॥ १२.२२०.१५ ॥
他的弟子是般遮尸迦,他是以一位人间女子的乳汁养育的。曾有一位名叫迦毗罗的婆罗门女主妇。
12.220.16
तस्याः पुत्रत्वमागम्य स्त्रियाः स पिबति स्तनौ ।
ततः स कापिलेयत्वं लेभे बुद्धिं च नैष्ठिकीम् ॥ १२.२२०.१६ ॥
他成为她的儿子,吮吸那女子的乳房;此后他获得了迦毗罗之子的身份与坚定的修行智慧。
12.220.17
एतन्मे भगवानाह कापिलेयस्य संभवम् ।
तस्य तत्कापिलेयत्वं सर्ववित्त्वमनुत्तमम् ॥ १२.२२०.१७ ॥
尊者向我讲述了迦毗罗之子的出生:他作为迦毗罗之子的身份以及至高的全知。
12.220.18
सामान्यं जनकं ज्ञात्वा धर्मज्ञानामनुत्तमम् ।
उपेत्य शतमाचार्यान्मोहयामास हेतुभिः ॥ १२.२२०.१८ ॥
他知道那只是普通的父亲,于是这位法的至上知者走近一百位师长,以论证使他们陷入迷惑。
12.220.19
निराकरिष्णुस्तान्सर्वांस्तेषां हेतुगुणान्वहून् ।
श्रावयामास मतिमान्मुनिः पञ्चशिखो नृप ॥ १२.२२०.१९ ॥
智者般遮尸诃仙人驳斥了他们诸多的论据与属性,使众人聆听,大王啊。
12.220.20
जनकस्त्वभिसंरक्तः कापिलेयानुदर्शनात् ।
उत्सृज्य शतमाचार्यान्पृष्ठतोऽनुजगाम तम् ॥ १२.२२०.२० ॥
然而遮那伽见到迦毗罗的弟子后深受吸引,舍弃百位老师,跟随在他身后。
12.220.21
तस्मै परमकल्याय प्रणताय च धर्मतः ।
अब्रवीत्परमं मोक्षं यतः साङ्ख्यं विधीयते ॥ १२.२२०.२१ ॥
他对这位极为吉祥、依法顶礼的人讲说了至高的解脱,依此而确立数论之道。
12.220.22
जातिनिर्वेदमुक्त्वा स कर्मनिर्वेदमब्रवीत् ।
कर्मनिर्वेदमुक्त्वा च सर्वनिर्वेदमब्रवीत् ॥ १२.२२०.२२ ॥
他讲说了对出生的厌离之后,又讲说了对行为的厌离;讲说了对行为的厌离之后,又讲说了对一切的厌离。
12.220.23
यदर्थं धर्मसंसर्गः कर्मणां च फलोदयः ।
तमनाश्वासिकं मोहं विनाशि चलमध्रुवम् ॥ १२.२२०.२३ ॥
因之而有法的结合与业果的生起,这种迷惑并不令人安心:会毁灭、动荡、不稳固。
12.220.24
दृश्यमाने विनाशे च प्रत्यक्षे लोकसाक्षिके ।
आगमात्परमस्तीति ब्रुवन्नपि पराजितः ॥ १२.२२०.२४ ॥
即使毁灭显而易见、为世人所亲见,若仅凭经典说“有至上者”,他也会失败。
12.220.25
आत्मना ह्यात्मनो नित्यं क्लेशमृत्युजरामयम् ।
आत्मानं मन्यते मोहात्तदसम्यक्परं मतम् ॥ १२.२२०.२५ ॥
因为自我自身始终受苦、死亡、衰老与疾病所支配;人却因迷惑而以为它如此——那种至上之见并不正确。
12.220.26
अथ चेदेवमप्यस्ति यल्लोके नोपपद्यते ।
अजरोऽयममृत्युश्च राजाऽसौ मन्यते तथा ॥ १२.२२०.२६ ॥
即便如此——而这在世间并不可能——那位君王(有情之我)仍如此认为:自己不老不死。
12.220.27
अस्ति नास्तीति चाप्येतत्तस्मिन्नसति लक्षणे ।
किमधिष्ठाय तद्ब्रूयाल्लोकयात्राविनिश्चयम् ॥ १२.२२०.२७ ॥
说'有'与'无',也是在那标志缺失时才说的。那么,依据它,谁能宣告世俗生活之道的确定结论呢?
12.220.28
प्रत्यक्षं ह्येतयोर्मूलं कृतान्तैतिह्ययोरपि ।
प्रत्यक्षेणागमो भिन्नः कृतान्तो वा न कश्चन ॥ १२.२२०.२८ ॥
直接感知正是这二者——经典与传承——的根本。离开直接感知,并无独立的圣言,也没有别的学说。
12.220.29
यत्रतत्रानुमानेऽस्मिन्कृतं भावयतोऽपि च ।
नान्यो जीवः शरीरस्य नास्तिकानां मते स्मृतः ॥ १२.२२०.२९ ॥
在此处、彼处的这种推论中,即使对于思量所作之业的人——依无神论者之见,并不承认有离于身体的另一个有情之我。
12.220.30
रेतो वटकणीकायां घृतपाकाधिवासनम् ।
जातिः स्मृतिरयस्कान्तः सूर्यकान्तोऽम्बुभक्षणम् ॥ १२.२२०.३० ॥
榕树籽中的种子,如熬酥油般的浸泡,出生,记忆,磁石,日光石,以及饮水。
12.220.31
प्रेत्य भूताप्ययश्चैव देवताभ्युपयाचनम् ।
मृते कर्मनिवृत्तिश्च प्रमाणमिति निश्चयः ॥ १२.२२०.३१ ॥
死后,元素消散,向神祇祈求,死时业行止息——此为证据,此乃定论。
12.220.32
न त्वेते हेतवः सन्ति ये केचिन्मूर्तिसंस्थिताः ।
अमूर्तस्य हि मूर्तेन सामान्यं नोपपद्यते ॥ १२.२२०.३२ ॥
然而,凡存于有形之中的因,都不是此物;无形者与有形者不可有共同之处。
12.220.33
अविद्याकर्मचेष्टानां केचिदाहुः पुनर्भवे ।
कारणं लोभमोहौ तु दोषाणां च निषेवणम् ॥ १२.२२०.३३ ॥
有人说:无明与业行所作,再生之因在于贪与痴,以及沉溺于诸过失。
12.220.34
अविद्यां क्षेत्रमाहुर्हि कर्मबीजं तथा कृतम् ।
तृष्णासंजननं स्नेह एष तेषां पुनर्भवः ॥ १२.२२०.३४ ॥
人们称无明为田,所作之业为种子;生起渴爱的执著,便是他们的再生。
12.220.35
तस्मिन्मूढे च जग्धे च देहे मरणधर्मिणि ।
अन्योऽसौ जायते प्रेतस्तदाहुस्तत्वमक्षयम् ॥ १२.२२०.३५ ॥
在那迷惑而被消耗、受死亡支配的身体中,另一个人作为那亡者而生;这被称为不灭的真理。
12.220.36
यदा स्वरूपतश्चान्यो जातितः श्रुतितोऽर्थतः ।
कथमस्मिन्स इत्येवं संबोधः स्यादसंहितः ॥ १२.२२०.३६ ॥
当其在形态、类别、所闻与意义上皆为另一者时,怎能生起“他在此中”的相应之知?那必然是不相连的。
12.220.37
एवं सति च का प्रीतिर्दानविद्यातपोबलैः ।
यद्यदाचरितं कर्म सर्वमन्यत्प्रपद्यते ॥ १२.२२०.३७ ॥
既然如此,施舍、学问与苦行之力又有何喜悦?凡所行之业,皆归于他者。
12.220.38
यदि ह्ययमिहैवान्यैः प्राकृतैर्दुःखितो भवेत् ।
सुखितो दुःखितैर्वाऽपि दृश्यो ह्यस्यविनिर्णयः ॥ १२.२२०.३८ ॥
若此人在此被其他凡人所苦,或快乐者被受苦者所苦,则此事并无确定的判断可见。
12.220.39
यदा हि मुसलैर्हन्युः शरीरं न पुनर्भवेत् ।
पृथग्ज्ञानं यदन्यच्च येनैतन्नोपपद्यते ॥ १२.२२०.३९ ॥
身体若被棍棒击打,便不会再复原;而另外的知识,若由之不能成立此事,也是另一回事。
12.220.40
ऋतुसंवत्सरौ तिथ्यः शीतोष्णेऽथ प्रियाप्रिये ।
यथाऽतीता न दृश्यन्ते तादृशः सत्वसंक्षयः ॥ १२.२२०.४० ॥
季节、岁月、月相日、寒暑与悦意不悦意,过去者不复可见;众生之灭亡亦复如是。
12.220.41
जरयाऽभिपरीतस्य मृत्युना न विनाशिना ।
दुर्बलं दुर्बलं पूर्वं गृहस्येव विनश्यति ॥ १२.२२०.४१ ॥
为衰老所围绕者——尚非毁灭之死——弱者先渐衰弱,如房屋一般败坏毁灭。
12.220.42
इन्द्रियाणी मनो वायुः शोणितं मांसमस्थि च ।
आनुपूर्व्या विनश्यन्ति स्वं धातुमुपयान्ति च ॥ १२.२२०.४२ ॥
诸根、意、风、血、肉、骨依次坏灭,各自归于其本性之界。
12.220.43
लोकयात्राविधानं च दानधर्मफलागमः ।
तदर्थं वेदशब्दाश्च व्यवहाराश्च लौकिकाः ॥ १२.२२०.४३ ॥
世间生活的规范与布施、法的果报之来临;为此而有吠陀之言与世俗的习惯。
12.220.44
इति सम्यङ्भनस्येते बहवः सन्ति हेतवः ।
एतदासीन्ममास्तीति न कश्चित्प्रतिपद्यते ॥ १२.२२०.४४ ॥
如此,使心完全安定的原因有很多。无人坚持说:「这曾是我的,这现在是我的。」
12.220.45
तेषां विमृशतामेवं तत्तत्समभिधावताम् ।
क्वचिन्निविशते बुद्धिस्तत्र जीर्यति वृक्षवत् ॥ १२.२२०.४५ ॥
他们如此思量,各自奔逐,其智慧或许停驻于某处,便在那里如树木般衰朽。
12.220.46
एवमर्थैरनर्थैश्च दुःखिताः सर्वजन्तवः ।
आगमैरपकृष्यन्ते हस्तिपैर्हस्तिनो यथा ॥ १२.२२०.४६ ॥
如此,一切众生为得失所苦,被种种来临所牵引,如象被象夫牵引一般。
12.220.47
न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ १२.२२०.४७ ॥
欲望绝不会因享受欲望之物而平息;反而如以酥油供养的黑径之火,只会再次增长。
12.220.48
अर्थांस्तथाऽत्यन्तमुखावहांश्च ।
लिप्सन्त एते बहवो विशुष्काः।
महत्तरं दुःखमनुप्रपन्ना ।
हित्वा सुखं मृत्युवशं प्रयान्ति ॥ १२.२२०.४८ ॥
这些众多枯槁之人,贪求那极能带来至乐的目标,陷入更大的苦难,舍弃安乐,走向死亡的掌控。
12.220.49
विनाशिनो ह्यध्नुवजीवितस्य ।
किं बन्धुभिर्मित्रपरिग्रहैश्च।
विहाय यो गच्छति सर्वमेव ।
क्षणेन गत्वा न निवर्तते च ॥ १२.२२०.४९ ॥
在无常易逝的生命中,亲属与朋友的聚集有何用处?那舍弃一切、在瞬间离去的人,不会再回来。
12.220.50
भूव्योमतोयानलवायवोऽपि ।
सदा शरीरं प्रतिपालयन्ति।
इतीदमालक्ष्य रतिः कुतो भवे ।
द्विनाशिनो ह्यस्य न कर्म विद्यते ॥ १२.२२०.५० ॥
大地、天空、水、火与风也始终护持着身体。明白了这一点,在世间又怎会生起贪爱?那双重无常之物,并没有持久的作为。
12.220.51
इदमनुपधिवाक्यमच्छलं ।
परमनिरामयमात्मसाक्षिकम्।
नरपतिरभिवीक्ष्य विस्मितः ।
पुनरनुयोक्तुमिदं प्रचक्रमे ॥ १२.२२०.५१ ॥
此番坦率、无所依执、至上而无瑕的言辞,自我可以作证。国王见此而惊异,于是又开始就此事发问。