Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.221

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.221.1

जनको नरदेवस्तु ज्ञापितः परमर्षिणा ।
पुनरेवानुपप्रच्छ सांपराये भवाभवौ ॥ १२.२२१.१ ॥

人主遮那伽由至上仙人开示之后,又问及来世的有与无。

12.221.2

भगवन्यदिदं प्रेत्य संज्ञा भवति कस्यचित् ।
एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति ॥ १२.२२१.२ ॥

尊者啊,若人死后仍有觉知,那么无明又能做什么,智慧又能做什么呢?

12.221.3

विवादादेव सिद्धोऽसौ कारणस्येव वेदना ।
चेतनो विद्यते ह्यत्र हैतुकं च मनोगतम् ॥ १२.२२१.३ ॥

唯因辩论而成立此事,犹如由因而生的痛觉。此处有有觉的众生,也有依理推论与存于心中之物。

12.221.4

आगमादेव सिद्धोऽसौ स्वताः सिद्धा इति श्रुतिः ।
वर्तते पृथगन्योन्यं न ह्यपःश्रित्य कर्मसु ॥ १२.२२१.४ ॥

唯依圣典而成立此事;天启说它们自有成立。它们彼此分别而存在,在行为中并不依赖于水。

12.221.5

चेतनो ह्यंशवस्तत्र स्वमूर्तं धारयन्त्यतः ।
स्वभावं पौरुषं कर्म ह्यात्मानं तमुपाश्रितम्।
तमाश्रित्य प्रवर्तन्ते देहिनो देहबन्धनाः ॥ १२.२२१.५ ॥

有觉之分支在彼处各自持有其自身之形;因此,自性、人力与业行便依止于那个自我而行。依止于它,受身体束缚的有身者便开始活动。

12.221.6

गुणज्ञानमभिज्ञानं तस्य लिङ्गानुशब्दयत् ।
पृथिव्यादिषु भूतेषु तत्तदाहुर्निदर्शनम् ॥ १२.२२१.६ ॥

了知其德性即是识别,由诸相所示;在地等诸大之中,各被称为其示例。

12.221.7

आत्माऽसौ वर्तते भिन्नस्तत्रतत्र समन्वितः ।
परमात्मा तथीवैको देवेऽस्मिन्निति वै श्रुतिः ॥ १२.२२१.७ ॥

此我分处各处,随处与之相合;至上我亦如是唯一——在此神之中,吠陀天启如是说。

12.221.8

आकाशं वायुरूष्भा च स्नेहो यच्चापि पार्थिवम् ।
यथा त्रिधा प्रवर्तन्ते तथाऽसौ पुरुषः स्मृतः ॥ १२.२२१.८ ॥

虚空、风、热、湿,以及属地者:如这些以三种方式运行,那补鲁沙也被如此记述。

12.221.9

पपस्यन्तर्हितं यद्वत्तद्वद्व्याप्तं महात्मकम् ।
पूर्वं नैश्चर्ययोगेन तस्मादेतन्न शेपवान् ॥ १२.२२१.९ ॥

如内在隐藏者,如是遍满的大我之相;先前以主宰瑜伽,故此不有余限。

12.221.10

शब्दाः कालः क्रिया देहो ममैकस्वैव कल्पना ।
स्वभावं तन्मयं त्वेदं मायारूपं तु भेदवत् ॥ १२.२२१.१० ॥

声、时、业、身——唯是我一人之分别;此由其自性所成,具幻化之相,然似有差别。

12.221.11

नानाख्यं परं शुद्धं निर्विकल्पं परात्मकम् ।
लिङ्गादि देवमध्यास्ते ज्ञानं देवस्य तत्तथा ॥ १२.२२१.११ ॥

多名、至上、清净、无分别、以至上我为体——神住于林伽等之中;对神的知,亦复如是。

12.221.12

चिन्मयोऽयं हि नादाख्यः शब्दश्चासौ मनो महान् ।
गतिमानुत संधत्ते वर्णमत्तत्पदान्वितम् ॥ १२.२२१.१२ ॥

此为识所成;名为那达之声;此即大心,它运行而将具有字母、与那些词相连的声音组合起来。

12.221.13

कायो नास्ति च तेषां वै अवकाशस्तथा परम् ।
एतेनोढा इति चाख्याताः सर्वे ते धर्मदूषकाः ॥ १२.२२१.१३ ॥

他们没有身体,也没有安住之处。因此他们被称为迷惑者,他们都是败坏法的人。

12.221.14

अवन्धनमविज्ञानाज्ज्ञानं तद्भुवमव्ययम् ।
नानाभेदविकल्पने येषामात्मा स्मृतः सदा ॥ १२.२२१.१४ ॥

那不被无知所缚的智慧是坚固而不坏的;对于那些在分别多种差异中常常如此认识自我的人而言。

12.221.15

प्रकृतेरपरस्तेषां बहवोऽप्यात्मवादिनः ।
विरोधो ह्यात्मसन्मायां न तेषां सिद्ध एव हि।
अन्यदा च गृहीतै…वेदबाह्यास्ततः स्मृताः ॥ १२.२२१.१५ ॥

然而他们之中有许多人主张与自性不同的我。他们关于我之幻相的学说自相矛盾,对他们而言并不成立。在另一时所采纳的……;因此他们被视为在吠陀之外。

12.221.16

एकानेकात्मकं तेषां प्रतिषेधो हि भेदनुत् ।
तस्माद्वेदस्य हृदयमद्वैध्यमिति विद्धि तत् ॥ १२.२२१.१६ ॥

驳斥他们一与多的本性,便能消除分别。因此应当知道,那就是吠陀的心髓:不二。

12.221.17

वेदादृष्टेरयं लोकः सर्वार्थेषु प्रवर्तते ।
तस्माच्च स्मृतयो जाताः सेतिहासाः पृथग्विधाः ॥ १२.२२१.१७ ॥

依靠吠陀那不可见的力量,此世界在一切事务中运行。因此,连同历史传说,各种各样的圣传经典应运而生。

12.221.18

न यन्न साध्यं तद्ब्रह्म नादिमध्यं न चान्तवत् ।
इन्द्रियाणि च भूरीणि परा च प्रकृतिर्मनः ॥ १२.२२१.१८ ॥

不可成就者即是梵;它无始、无中、无终。诸根众多,而最高的自性是心。

12.221.19

आत्मा च परमः शुद्धः प्रोक्तोऽसौ परमः पुमान् ॥ १२.२२१.१९ ॥

自我被宣称为至上而清净;那便是至上神我。

12.221.20

उत्पत्तिलक्षणं चेदं विपरीतमथोभयोः ।
यो वेत्ति प्रकृतिं नित्यं तथा चैवात्मनस्तु ताम्।
प्रदहत्येष कर्माख्यं दावोद्भूत इवानलः ॥ १२.२२१.२० ॥

此乃生起之相,与二者相反。若常知自性与自我者,便能焚烧名为业的此物,如林野大火中升起的火焰。

12.221.21

चिन्मात्रपरमः शुद्धः सर्वाकृतिषु वर्तते ॥ १२.२२१.२१ ॥

唯以纯粹觉性为至上的清净者,遍在于一切形相之中。

12.221.22

आकाशकल्पं विमलं नानाशक्तिसमन्वितम् ।
तापनं सर्वभूतानां ज्योतिषां मध्यमस्थितिम्।
दुःखमस्ति न निर्दुःखं तद्विद्वान्न च लिप्यति ॥ १२.२२१.२२ ॥

如虚空般清净,具足种种力量,炙热一切众生,居于众光之中;其中有苦,却又无苦;智者不为其所染。

12.221.23

असावश्नाति यद्वत्तद्वमरोऽश्नाति यन्मधु ।
एवमेव महानात्मा नात्मानमवबुध्यते ॥ १२.२२१.२३ ॥

如彼食用,如不死者食蜜,如是大我不觉知自身。

12.221.24

एवंभूतस्त्वमित्यत्र स्वाधितो बुद्ध्यते परम ।
बुधस्य बोधनं तत्र क्रियते सद्भिरित्युत।
न बुधस्येति वै कश्चिन्न तथावच्छृणुष्व मे ॥ १२.२२१.२४ ॥

「你即是此」——于此,至上者由自我开示而自知。唤醒智者的事由善人去做;然而并无所谓「智者的」这种人。请如实听我说。

12.221.25

शोकमस्य न गत्वा ते शास्त्राणां शास्त्रदस्यवः ।
लोकं निध्नन्ति संभिन्ना ज्ञातिनोत्र वदन्त्युत ॥ १२.२२१.२५ ॥

不知其悲,经典的劫掠者,迷乱分裂,毁灭世界;此处他们如是说。

12.221.26

एवं तस्य विभोः कृत्यं धातुरस्य महात्मनः ।
क्षमन्ति ते महात्मानः सर्वद्वन्द्वविवर्जिताः ॥ १२.२२१.२६ ॥

如是,超越一切对立的大德者,宽恕那遍在造物主、大德者的所作。

12.221.27

अतोऽन्यथा महात्मानमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥ १२.२२१.२७ ॥

因此,视大德者为他者之人,何罪不作?盗窃自我之贼,何罪不作?

12.221.28

तस्य संयोगयोगेन शुचिरप्यशुचिर्भवेत् ।
अशुचिश्च शुचिश्चापि ज्ञानाद्देहादयो यथा ॥ १२.२२१.२८ ॥

以与之相合的关联,清净者可成不净,不净者可成清净,如身体等依知而显。

12.221.29

दृश्यं न चैव दृष्टं स्याद्दृष्टं दृश्यं तु नैव च ॥ १२.२२१.२९ ॥

所见不能成为能见者,能见者也不能成为所见。

12.221.30

अतीतत्रितयाः सिद्धा ज्ञानरूपेण सर्वदा ।
एवं न प्रतिपद्यन्ते रागमोहमदान्विताः ॥ १२.२२१.३० ॥

超越三者的成就者常住于知的形态;而充满贪爱、迷惑与傲慢的人则不如此证得。

12.221.31

वेदबाह्या दुरात्मानः संसारे दुःखभागिनः ।
आगमानुगतज्ञाना बुद्धियुक्ता भवन्ति ते ॥ १२.२२१.३१ ॥

游离于吠陀之外、心性邪恶者,在轮回中承受苦难。知识依循圣典者,则具备智慧。

12.221.32

बुद्ध्या भवति बुद्ध्या त्वं यद्बुद्धं चात्मरूपवत् ।
तमस्यन्धे न संदेहात्परं यान्ति न संशयः ॥ १२.२२१.३२ ॥

此事依智慧而成,你所知者如同自我之相。他们并非在深重黑暗中、因疑惑而达到至上,此中无疑。

12.221.33

नित्यनैमित्तिकान्कृत्वा पापहानिमवाप्य च ।
शुद्धसत्वा महात्मानो ज्ञाननिर्धूतकल्मषाः ॥ १२.२२१.३३ ॥

履行常规与临时之仪轨,获得罪恶之消除,纯净本性的大德者以智慧洗净其污染。

12.221.34

असक्ताः परिवर्तन्ते संसरन्त्यथ वायुवत् ।
न युज्यन्तेऽथवा क्लेशैरहंभावोद्भवैः सह ॥ १२.२२१.३४ ॥

无所执著,如风般往来,在轮回中流转。或者,他们不与由我执而生的烦恼相系。

12.221.35

इतस्ततः समाहृत्य ज्ञानं निर्वर्णयन्त्युत ।
ज्ञानान्वितस्तमो हन्यादर्कवत्स महामतिः ॥ १२.२२१.३५ ॥

从各处搜集知识,他们加以确定。具备智慧的大智者,应当如太阳般驱除黑暗。

12.221.36

एवमात्मानमन्वीक्ष्य नानादुःखसमन्वितम् ।
देहं पङ्कमले मग्नं निर्मलं परमार्थतः ॥ १२.२२१.३६ ॥

如此观察拥有诸多苦难的自我,以及沉陷于泥淖与污秽中的身体,并在究竟真理中知其本为无垢。

12.221.37

तमेवं सर्वदुःखात्तु मोचयेत्परमात्मवान् ।
ब्रह्मचर्यव्रतोपेतः सर्वसङ्गबहिष्कृतः।
लघ्वाहारो विशुद्धात्मा परं निर्वाणमृच्छति ॥ १२.२२१.३७ ॥

知晓至上自我者应使其脱离一切苦难。持守梵行誓愿、远离一切执著、少食、心灵清净者,证得至上涅槃。

12.221.38

इन्द्रियाणि मनो वायुः शोणितं मांसमस्थि च ।
आनुपूर्व्याद्विनश्यन्ति स्वं धातुमुपयान्ति च ॥ १२.२२१.३८ ॥

诸根、意、风息、血、肉与骨依次消散,各自回归其本元。

12.221.39

कारणानुगतं कार्यं यदि तच्च विनश्यति ।
अलिङ्गस्य कथं लिङ्गं युज्यते तन्मृषा दृढम् ॥ १२.२२१.३९ ॥

若随因而生之果亦灭,则无相者如何可以附加相?此必定是虚妄。

12.221.40

न त्वेव हेतवः सन्ति ये केचिन्मूर्तिसंस्थिताः ।
अमर्त्यस्य च मर्त्येन सामान्यं नोपपद्यते ॥ १२.२२१.४० ॥

然而并无任何有形而定的因素。不死者与有死者之间不可能有共同之处。

12.221.41

लोकदृष्टो यथा जातेः स्वेदजः पुरुषः स्त्रियाम् ।
कृतानुस्मरणात्सिद्धो वेदगम्यः परः पुमान् ॥ १२.२२१.४१ ॥

如世间所见,从女子所生之男子可由其出生而知;同样,由忆念所作之业而确立、可由吠陀所知的至上补鲁沙确实存在。

12.221.42

प्रत्यक्षानुगतो वेदो नामहेतुभिरिष्यते ॥ १२.२२१.४२ ॥

随顺现量之吠陀,依名称之因而被承认。

12.221.43

यथा शाखा हि वै शाखा तरोः संबध्यते तदा ।
श्रुत्या तथापरोप्यात्मा दृश्यते सोऽप्यलिङ्गवान्।
अलिङ्गसाध्यं तद्ब्रह्म बहवः सन्ति हेतवः ॥ १२.२२१.४३ ॥

如同枝条与树相连,依吠陀所加之我虽无标记,仍可见。无标记的梵可以通过多种途径获得。

12.221.44

लोकयात्राविधानं च दानधर्मफलागमः ।
तदर्थं वेदशब्दाश्च व्यवहाराश्च लौकिकाः ॥ १२.२२१.४४ ॥

世俗生活的安排,以及布施与法之果报的到来——为此才有吠陀之言与世间的行为规范。

12.221.45

इति सम्यङ्भनस्येते बहवः सन्ति हेतवः ।
एतदस्तीदमस्तीति न किंचित्प्रतिदृश्यते ॥ १२.२२१.४५ ॥

如此以心善加思量,这些便是众多的因。没有任何东西被清楚地看见为“这是、这是”。

12.221.46

तेषां विमृशतामेवं तत्तत्समभिधावताम् ।
क्वचिन्निविशते बुद्धिस्तत्र जीर्यति वृक्षवत् ॥ १२.२२१.४६ ॥

那些如此思量、追逐每一事物的人,智慧会停留在某处,并在那里像树木一样衰败。

12.221.47

एवमर्थैरनर्थैश्च दुःखिताः सर्वजन्तवः ।
आगमैरपकृष्यन्ति हस्तिनो हस्तिपैर्यथा ॥ १२.२२१.४७ ॥

如此,众生因有利与无益而受苦,被阿伽玛的教导牵引而去,犹如象被象奴牵引。

12.221.48

न जातु कामः कामामामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिर्वधते ॥ १२.२२१.४८ ॥

欲望绝不会因享受欲境而平息;犹如火因酥油而更旺,它只会一再增长。

12.221.49

अर्थांस्तथाऽत्यन्तदुःखाबहांश्च ।
लिप्सन्त एके बहवो विशुष्काः।
महत्तरं दुःखमभिप्रपन्ना ।
हित्वा सुखं मृत्युवशं प्रयान्ति ॥ १२.२२१.४९ ॥

许多枯槁之人贪求带来极大痛苦的财物,陷入更大的苦难,舍弃幸福,走向死亡的掌控。

12.221.50

विनाशिनो ह्यध्रुवजीवितस्य ।
किं बन्धुभिर्मन्त्रपरिग्रहैश्च।
विहाय यो गच्छति सर्वमेव ।
क्षणेन गत्वा न निवर्तते च ॥ १२.२२१.५० ॥

对于寿命短暂而不稳定的人来说,亲族和所聚集的谋略又有什么用?凡舍弃一切、在片刻之间离去的人,一去便不再回来。

12.221.51

स्वं भूमितोयानलवायवो हि ।
सदा शरीरं प्रतिपालयन्ति।
इतीदमालक्ष्य कुतो रतिर्भवे ।
द्विनाशिनो ह्यस्य न कर्म विद्यते ॥ १२.२२१.५१ ॥

地、水、火、风始终维系着身体。明白这一点,在此世间何来执著?此身两者皆会毁灭,其所作为也无长久之果。

12.221.52

इदमनुपधिवाक्यमच्छलं ।
परमनिरामयमात्मसाक्षिकम्।
नरपतिरनुवीक्ष्य विस्मितः ।
पुनरनुयोक्तुमिदं प्रचक्रमे ॥ १२.२२१.५२ ॥

国王见此无伪、无诈、至高无瑕、由自我所证的言语,感到惊异,于是再次就此事发问。