摩诃婆罗多 · 章 12.222
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.222.1
जनको नरदेवस्तु ज्ञापितः परमर्षिणा ।
पुनरेवानुपप्रच्छ सांपराये भवाभवौ ॥ १२.२२२.१ ॥
虽已被至高仙人开示,国王遮那迦仍再次询问死后之世的有与无。
12.222.2
भगवन्यदि न प्रेत्य संज्ञा भवति कस्यचित् ।
एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति ॥ १२.२२२.२ ॥
尊者,若死后无人保有觉知,那么无明又能做什么,智慧又能做什么呢?
12.222.3
सर्वमुच्छेदनिष्ठं स्यात्पश्य चैतद्द्विजोत्तम ।
अप्रमत्तः प्रमत्तो वा किं विशेषं करिष्यति ॥ १२.२२२.३ ॥
再生者中最殊胜者啊,请看一切终归于毁灭。无论警觉还是放逸,又有何分别呢?
12.222.4
असंसर्गो हि भूतेषु संसर्गो वा विनाशिषु ।
कस्मै क्रियेत तत्वेन निश्चयः कोऽत्र तत्त्वतः ॥ १२.२२२.४ ॥
与众生不相交涉,或与无常之物相交涉——为谁而真实地确定此事呢?此中究竟何为真实的定见?
12.222.5
तमसा हि प्रतिच्छन्नं विभ्रान्तमिव चातुरम् ।
पुनः प्रशमयन्वाक्यैः कविः पञ्चशिखोऽब्रवीत् ॥ १२.२२२.५ ॥
仙人般的贤者般遮提,以言语再度安抚那被黑暗所蔽、仿佛迷惑而烦恼的人,说道。
12.222.6
उच्छेदनिष्ठा नेहास्ति भा निष्ठा न विद्यते ।
अयं ह्यपि समाहारः शरीरेन्द्रियचेतसाम्।
वर्तते पृथगन्योन्यमप्यपाश्रित्य कर्मसु ॥ १२.२२२.६ ॥
此处既无立于毁灭的定见,也见不到立于光明的定见。此聚合乃身、根与心之和合;它们虽各自不同,在行动中却彼此依赖而运作。
12.222.7
धावतः पञ्च तेषां तु खं वायुर्ज्योतिरम्बु भूः ।
ते स्वभावेन तिष्ठन्ति वियुज्यन्ते स्वभावतः ॥ १२.२२२.७ ॥
对于奔跑者而言,这五者是:空、风、火、水、地。它们依其自性而存在,也依其自性而分离。
12.222.8
आकाशो वायुरूष्मा च स्नेहो यश्चापि पार्थिवः ।
एष पञ्चसमाहारः शरीरमपि नैकधा ॥ १२.२२२.८ ॥
空、风、热、湿,以及属地的部分——这便是五者的聚合;身体也并非单一之物。
12.222.9
अहं वाच्यं द्विजानां यद्विशिष्टं बुद्धिरूपवत् ।
वाचामगोचरं नित्यं ज्ञेयमेवं भविष्यति ॥ १२.२२२.९ ॥
我将说出对再生者而言所应说的殊胜之义,它具有智慧之形;它永远超出言语的范围,如此它将可被知晓。
12.222.10
ज्ञानं ज्ञेयं तथा ज्ञानं त्रिविधं ज्ञानमुच्यते ।
ज्ञानमूष्मा च वायुश्च त्रिविधः कर्मसंग्रहः ॥ १२.२२२.१० ॥
知、所知,以及同样的知——知被说为三重。知、热与风:业的聚集是三重的。
12.222.11
इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः ।
प्राणापानौ विकारश्च धातवश्चात्र निःसृताः ॥ १२.२२२.११ ॥
诸根、诸根之境、自性、觉、意、气与下行气、变化与诸界:这些都从此而出。
12.222.12
प्राणादयस्तथा स्पर्शा न संबाधगतास्तथा ।
पुत्राधीनं भविष्येत चिन्मात्रः स परः पुमान् ॥ १२.२२२.१२ ॥
气息等与触感,并不居于狭隘之处;同样,它将依赖于子嗣。那至上之人唯是纯粹的觉。
12.222.13
श्रवणं स्पर्शनं जिह्वा दृष्टिर्नासा तथैव च ।
इन्द्रियाणीति पञ्चैते चित्तपूर्वगमा गुणाः ॥ १२.२२२.१३ ॥
听、触、舌、视、鼻,这便是五根;其德性皆以心为先导而行。
12.222.14
तत्र विज्ञानसंयुक्ता त्रिविधा चेतना ध्रुवा ।
सुखदुःखेति यामाहुरदुःखेत्यसुखेति च ॥ १२.२२२.१४ ॥
其中,与智慧相应的三种觉知是恒常的;人们称之为乐与苦,也称之为非苦与非乐。
12.222.15
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च मूर्तयः ।
एते ह्यामरणात्पञ्च षङ्गुणा ज्ञानसिद्धये ॥ १२.२२२.१५ ॥
声、触、色、味、香,这些是有形之境;这五者与第六德,直至死亡,皆为成就智慧而存在。
12.222.16
तेषु कर्मविसर्गश्च सर्वतत्वार्थनिश्चयः ।
तमाहुः परमं शुक्रं पारे च रजसः प्रभुम् ॥ १२.२२२.१६ ॥
其中有舍弃行为与确知一切真理之义;人们称之为至上、清净、超越激情的主宰。
12.222.17
विरागाद्वर्तते तस्मिन्मतो रजसि नित्यगम् ।
तस्मिन्प्रसन्ने संपश्ये द्वुद्धिरित्यव्ययं महत् ॥ १२.२२२.१७ ॥
因离欲,它安住于他之中;它被视为在激情中恒常运行。他澄明时,应当完全地观照——此觉慧不朽而伟大。
12.222.18
इमं गुणसमाहारमात्मभावेन पश्यतः ।
असम्यद्गर्शिनो दुःखमनन्तं नोपशाम्यति ॥ १२.२२२.१८ ॥
若人以自我之相观此诸德之聚,且不正见,则无尽之苦不得止息。
12.222.19
तस्मादेतेषु मेधावी न प्रसज्येत बुद्धिमान् ।
अनात्मेति च यद्दृष्टं तन्नाहं न ममेत्यपि।
वर्तते किमधिष्ठाना प्रसक्ता दुःखसंततिः ॥ १२.२२२.१९ ॥
因此,智慧而有见识的人不应执着于这些事物。那被视为“非我”(anātman)、“我非是,亦非我所有”的,又依何而立?以致苦的相续之流紧紧依附?
12.222.20
यत्र सम्यङ्भनो नाम त्यागमात्रमनुत्तमम् ।
शृणु यत्तव मोक्षाय भाष्यमाणं भविष्यति ॥ १२.२२२.२० ॥
在名为“正念”(samyak-manas)之处,唯有舍弃便是最上——请听,为你的解脱将要说的。
12.222.21
त्याग एव हि सर्वेषां युक्तानामपि कर्मणाम् ।
नित्यदुःखविनीतानां श्लेषो दुःखवहो हतः ॥ १२.२२२.२१ ॥
对一切人而言,即便从事于诸业,唯有舍弃才是根本。对常被苦所调伏者而言,那承载苦的执着便被毁灭。
12.222.22
द्रव्यत्यागे तु कर्माणि भोगत्यागे व्रतान्यपि ।
सुखत्यागे तपोयोगं सर्वत्यागे समापना ॥ १२.२२२.२२ ॥
舍弃财物则有诸业,舍弃享受则有诸戒。舍弃安乐则有苦行瑜伽,舍弃一切则得(解脱)。
12.222.23
तस्य मार्गोऽयमद्वैधः सर्वत्यागस्य दर्शितः ।
विप्रहाणाय दुःखस्य दुर्गतिस्त्वन्यथा भवेत् ॥ १२.२२२.२३ ॥
这条一切舍弃的不二之道,正是为此而示:彻底断离苦;否则将堕入恶趣。
12.222.24
शेते जरामृत्युभयैर्विमुक्तः ।
क्षीणे पुण्ये विगते च पापे।
तपोनिमित्ते विगते च निष्ठे ।
फले यथाऽऽकाशमलिङ्ग एव ॥ १२.२२२.२४ ॥
摆脱了衰老与死亡的恐惧,他安然安息。当福德耗尽、罪过已过、苦行之因与坚定之境皆已消逝时,他如虚空一般,于果中无相而住。
12.222.25
पञ्चज्ञानेन्द्रियाण्युक्त्वा मनःषष्ठानि चेतसि ।
मनःषष्ठानि वक्ष्यामि पञ्चकर्मेन्द्रियाणि तु ॥ १२.२२२.२५ ॥
在心中说完以意为第六的五知根之后,我现在将说以意为第六的五作根。
12.222.26
हस्तौ कर्मेन्द्रियं ज्ञेयमथ पादौ गतीन्द्रियम् ।
प्रजनानन्दयोः शेफो निसर्गे पायुरिन्द्रियम् ॥ १२.२२२.२६ ॥
双手应知为作根,双足为行根。生殖与快乐之根是生殖器,排泄之根是肛门。
12.222.27
वाक्च शब्दविशेषार्थं गतिं पञ्चान्वितां विदुः ।
एवमेकादशैतानि बुद्ध्या तूपहतं मनः ॥ १२.२२२.२७ ॥
语根用于发出特定之声;行根与五者相连,智者如此说。如此共十一根,而心因慧而受扰动。
12.222.28
कर्णौ शब्दश्च चित्तं च त्रयः श्रवणसंग्रहे ।
तथा स्पर्शे तथा रूपे तथैव रसगन्धयोः ॥ १२.२२२.२८ ॥
双耳、声与心,此三者属于听觉的摄取;触、色、味、香之摄取亦复如是。
12.222.29
एवं पञ्चत्रिका ह्येते गुणास्तदुपलब्धये ।
येनायं त्रिविधो भावः पर्यायात्समुंपस्थितः ॥ १२.२२२.२९ ॥
如是,此为三组各五的性质,用以觉知;由之此三种状态依次显现。
12.222.30
सात्विको राजसश्चापि तामसश्चापि ते त्रयः ।
त्रिविधा वेदना येषु प्रसूताः सर्वसाधनाः ॥ १२.२२२.३० ॥
善性、激性、暗性,此三者。其中生起三种受,以及一切方便。
12.222.31
प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता ।
अकुतश्चित्कुतश्चिद्वा चिन्तितः सात्विको गुणः ॥ १२.२२२.३१ ॥
喜悦、欢爱、喜乐、安乐与心的宁静——无论无因而生还是有因而生——都应认作萨埵之德。
12.222.32
अतुष्टिः परितापश्च शोको लोभस्तथाऽक्षमा ।
लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुतः ॥ १२.२२२.३२ ॥
不满、烦恼、忧愁、贪婪与不忍——这些是罗阇之德的标志,无论有因无因都可见到。
12.222.33
अविवेकस्तथा मोहः प्रमादः स्वप्नतन्द्रिता ।
कथंचिदपि वर्तन्ते विविधास्तामसा गुणाः ॥ १२.२२२.३३ ॥
无分别、迷惑、放逸、昏睡与懈怠——这些是种种暗之德,以某种方式持续存在。
12.222.34
तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत् ।
वर्तते सात्विको भाव इत्यपेक्षेत तत्तथा ॥ १२.२२२.३४ ॥
凡与喜悦相应,存在于身或心中的,即是萨埵之态,应当如此观察。
12.222.35
यत्तु सन्तापसंयुक्तमप्रीतिकरमात्मनः ।
प्रवृत्तं रज इत्येवं ततस्तदपि चिन्तयेत् ॥ १२.२२२.३५ ॥
然而与烦恼相应、令自己不悦而起的活动,即是罗阇之德,也应如此思惟。
12.222.36
अथ यन्मोहसंयुक्तं काये मनसि वा भवेत् ।
अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥ १२.२२२.३६ ॥
而与迷惑相应,存在于身或心中,不可思量、不可了知者,应当认作暗之德。
12.222.37
श्रोत्रं व्योमाश्रितं भूतं शब्दः श्रोत्रं समाश्रितः ।
नोभयं शब्दविज्ञाने विज्ञानस्तेतरस्य वा ॥ १२.२२२.३७ ॥
耳是依附于虚空的元素,声音依附于耳;在认识声音时并非二者皆是,或知者属于另一者。
12.222.38
एवं त्वक्चक्षुषी जिह्वा नासिका चेति पञ्चमी ।
स्पर्शे रूपे रसे गन्धे तानि चेतो मनश्च तत् ॥ १२.२२२.३८ ॥
同样,皮肤、双眼、舌与鼻为第五;它们用于触、色、味、香;它们与心、意一起即是那一切。
12.222.39
स्वकर्मयुगपद्भावो दशस्वेतेषु तिष्ठति ।
चित्तमेकादशं विद्धि बुद्धिर्द्वादशमी भवेत् ॥ १२.२२२.३९ ॥
各自职能的同时运作存在于这十者之中;应知意为第十一,觉为第十二。
12.222.40
तेषामयुगपद्भाव उच्छेदो नास्ति तामसः ।
आस्थितो युगपद्भावे व्यवहारः स लौकिकः ॥ १२.२२२.४० ॥
它们的非同时运作并非毁灭,也非暗性;依于同时运作的行为,便是世俗的。
12.222.41
इन्द्रियाण्युपसृत्यापि दृष्ट्वा पूर्वं श्रुतागमात् ।
चिन्तयन्ननुपर्येति त्रिभिरेवान्वितो गुणैः ॥ १२.२२२.४१ ॥
即使靠近诸根,先前所见及所闻之典,思惟之中,他便唯以这三德而往来。
12.222.42
यत्तमोपहतं चित्तमाशुसंचारमध्रुवम् ।
करोत्युपरमं काये तदाहुस्तामसं सुखम् ॥ १२.२२२.४२ ॥
被暗性所伤、迅速游荡、不稳定的心,使身体止息;他们称之为暗性之乐。
12.222.43
यद्यदागमसंयुक्तं न कृच्छ्रादुपशाम्यति ।
अथ तत्राप्युपादत्ते तमो व्यक्तमिवानृतम् ॥ १२.२२२.४३ ॥
凡与经典相连者,艰难方能平息;此时невежество仍会在其中抓住,仿佛明显的虚妄。
12.222.44
एवमेव प्रसङ्ख्यातः स्वकर्मप्रत्ययो गुणः ।
कथंचिद्वर्तते सम्यक्केषांचिद्वा निवर्तते ॥ १२.२२२.४४ ॥
同样,由自身行为所生的德性被清楚地列举:它以某种方式持续,或在某些人身上完全止息。
12.222.45
अहमित्येष वै भावो नान्यत्र प्रतितिष्ठति ।
यस्य भावो दृढो नित्यं स वै विद्वांस्तथेतरः ॥ १२.२२२.४५ ॥
此“我”的观念才是真正存留的,别处并不确立。其观念恒常坚定者才是智者;另一人则不然。
12.222.46
देहधर्मस्तथा नित्यं सर्वभूतेषु वै दृढः ।
एतेनैवानुमानेन त्याज्यो धर्मस्तथा ह्यसौ ॥ १२.२२२.४६ ॥
身体之法同样在一切众生中恒常坚固;依此同一推论,那法也应当舍弃。
12.222.47
ज्ञानेन मुच्यते जन्तुर्धर्मात्मा ज्ञानवान्भवेत् ।
धर्मेण धार्यते लोकः सर्वं धर्मे प्रतिष्ठितम् ॥ १२.२२२.४७ ॥
众生因智慧而解脱;愿法性之人成为有智慧者。世界依法而得维系;一切都立足于法。
12.222.48
सर्वार्थजनकश्चैव धर्मः सर्वस्य कारणम् ।
सर्वो हि दृश्यते लोके न सर्वार्थः कथंचन ॥ १२.२२२.४८ ॥
法本身是一切目的的生起者,也是一切的因;世间所见皆有,但一切目的却绝非皆可见。
12.222.49
सर्वत्यागे कृते तस्मात्परमात्मा प्रसीदति ।
व्यक्तादव्यक्तमतुलं लोकेषु परिवर्तते ॥ १२.२२२.४९ ॥
当一切都被舍弃时,至上自我便会喜悦;从显现到未显现,无与伦比地,他在诸世界中转变。
12.222.50
एतदाहुः समाहारं क्षेत्रमध्यात्मचिन्तकाः ।
स्थितो मनसि यो भावः स वै क्षेत्रज्ञ उच्यते ॥ १२.२२२.५० ॥
修习自我之人称此为田之总集;安住于心中的那一状态,被称为田知者。
12.222.51
एवं सति क उच्छेदः शाश्वतो वा कथं भवेत् ।
स्वभावाद्वर्तमानेषु सर्वभूतेषु हेतुषु ॥ १२.२२२.५१ ॥
若是如此,毁灭是什么,或者在依自性而存在的一切众生与诸因之中,永恒又如何可能?
12.222.52
यथार्णवगता नद्यो व्यक्तीर्जहति नाम च ।
नतु स्वतां नियच्छन्ति तादृशः सत्वसंक्षयः ॥ १२.२२२.५२ ॥
如诸河流入大海,舍弃其形与名,却不保留自身之性;众生的消散也是如此。
12.222.53
एवं सति कुतः संज्ञा प्रेत्यभावे पुनर्भवेत् ।
प्रतिसंमिश्रिते जीवे गृह्यमाणे च सर्वतः ॥ १२.२२२.५३ ॥
若是如此,死后的再生又如何有其名?当命我再度融合、从四面八方被执取之时。
12.222.54
इमां च यो वेद विमोक्षबुद्धि ।
मात्मानमन्विच्छति चाप्रमत्तः।
न लिप्यते कर्मफलैरनिष्टैः ।
पत्रं बिसस्येव जलेन सिक्तम् ॥ १२.२२२.५४ ॥
知此解脱之心、警醒而求索自我者,不为不善业果所染,如莲茎之叶虽被水洒,亦不沾湿。
12.222.55
दृढैर्हि पाशैर्बहुभिर्विमुक्तः ।
प्रजानिमित्तैरपि दैवतैश्च।
यदा ह्यसौ सुखदुःखे जहाति ।
मुक्तस्तदाग्र्यां गतिमेत्यलिङ्गः ॥ १२.२२२.५५ ॥
当人从众多坚固的束缚中解脱,即使是由众生和诸神所造成的束缚,舍弃苦乐之时,他便得解脱、无相,抵达至高的归宿。
12.222.56
मास्थाय पश्यन्ति महत्यसक्ताः ॥ १२.२२२.५६ ॥
无执着者依靠伟大者而见之。
12.222.57
यथोर्णनाभिः परिवर्तमान ।
स्तन्तुक्षये तिष्ठति पात्यमानः।
तथा विमुक्तः प्रजहाति दुःखं ।
बिध्वंसते लोष्ठ इवाद्रिमृच्छन् ॥ १२.२२२.५७ ॥
如蜘蛛旋转,丝尽而悬挂其上,解脱者舍弃痛苦;如土块撞上岩石而碎裂,它便被毁灭。
12.222.58
यथा रुरुः शृङ्गमथो पुराणं ।
हित्वा त्वचं वाऽप्युरगो यथा च।
विहाय गच्छत्यनवेक्षमाण ।
स्तथा विमुक्तो विजहाति दुःखम् ॥ १२.२२२.५८ ॥
如麋鹿舍弃旧角,或蛇舍弃其皮,不回顾而去,解脱者便舍弃苦痛。
12.222.59
द्रुमं यथावाऽप्युदकै पतन्त ।
मुत्सृज्य पक्षी निपतत्यसक्तः।
तथा ह्यसौ सुखदुःखे विहाय ।
मुक्तः पराद्धर्यां गतिमेत्यलिङ्गः ॥ १२.२२२.५९ ॥
如鸟儿无执着地离开坠入水中的树木而落于别处,他舍弃苦乐,得解脱、无相,抵达至高的归宿。
12.222.60
ह्यहं तदन्तर्ह्यहमेव भोक्ता ॥ १२.२२२.६० ॥
我即是彼;在内我自身即是享受者。
12.222.61
अपिच भवति मैथिलेन गीतं ।
नगरमुपाहितमग्निनाऽभिवीक्ष्य।
न खलु मम तुषोऽपि दह्यतेऽत्र ।
स्वयमिदमाह किल स्म भूमिपालः ॥ १२.२२२.६१ ॥
此外,弥提罗王唱道:他看见城市被火包围燃烧,自己说道:“在这里,连我的一粒糠皮也没有燃烧。”
12.222.62
इदममृतपदं विदेहराजा ।
स्वयमिह पञ्चशिखेन भाष्यमाणम्।
निखिलमभिसमीक्ष्य निश्चितार्थः ।
परमसुखी विजहार वीतशोकः ॥ १२.२२२.६२ ॥
毗提诃王在此完全领会了五髻所说的这一不死之境,意志坚定,无忧无虑,安住于至高的快乐之中。
12.222.63
इमं हि यः पठति विमोक्षनिश्चयं ।
महीपते सततमवेक्षते तथा।
उपद्रवान्नानुभवत्यदुःखितः ।
प्रमुच्यते कपिलमिवैत्य मैथिलः ॥ १२.२२२.६३ ॥
哦,大地之主!诵读此解脱决断并时常默想的人,不因悲苦而受种种灾厄,便得解脱,正如弥提罗王走近迦毗罗而获得解脱一样。