Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.226

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.226.1

द्विजातयो व्रतोपेता यदिदं भुञ्जते हविः ।
अन्नं ब्राह्मणकामाय कथमेतत्पितामह ॥ १२.२२६.१ ॥

祖父啊,持戒的再生者们为了取悦婆罗门而食用这祭品与食物,这是怎么回事?

12.226.2

अवेदोक्तव्रतोपेता भुञ्जानाः कार्यकारिणः ।
वेदोक्तेषु च भुञ्जाना व्रतलुब्धा युधिष्ठिर ॥ १२.२२६.२ ॥

持守非吠陀所规定之誓戒而食者,乃是履行自身本分之人;而在吠陀所规定之誓戒中饮食者,则是贪求誓戒之人,般度子啊。

12.226.3

यदिदं तप इत्याहुरुपवासं पृथग्जनाः ।
एतत्तपो महाराज उताहो किं तपो भवेत् ॥ १२.२२६.३ ॥

世俗之人所谓的苦行,即禁食——大王,这就是苦行吗?还是别的什么才是苦行?

12.226.4

मासपक्षोपवासेन मन्यन्ते यत्तपो जनाः ।
आत्मतन्त्रोघातस्तु न तपस्तत्सतां मतम् ॥ १२.२२६.४ ॥

世人以为持续数月、半月禁食便是苦行;然而摧残自身的身体机能并非苦行——这是善人的看法。

12.226.5

त्यागश्च सन्नतिश्चैव शिष्यते तप उत्तमम् ।
सदोपवासी स भवेद्ब्रह्मचारी सदा भवेत् ॥ १२.२२६.५ ॥

舍离与谦逊被教导为至高的苦行;他应当常常禁食,常常保持梵行。

12.226.6

मुनिश्च स्यात्सदा विप्रो दैवतं च सदा भवेत् ।
कुटुम्बिको धर्मपरः सदाऽस्वप्नश्च भारत ॥ १२.२२६.६ ॥

婆罗门应常为仙人,常如神明;他应为居家者,常笃守法,常不眠,婆罗多啊。

12.226.7

अमांसादी सदा च स्यात्पवित्री च सदा भवेत् ।
अमृताशी सदा च स्यान्न च स्याद्विषभोजनः ॥ १२.२२६.७ ॥

应当永远不食肉,永远保持清净;永远食用甘露之食,不可食用毒物。

12.226.8

विधसाशी सदा च स्यात्सदा चैवातिथिप्रियः ।
श्रद्दधानः सदा च स्याद्देवताद्विजपूजकः ॥ १२.२२६.८ ॥

应当永远食用祭祀的余食,永远喜爱宾客,永远怀有信心,并敬奉诸神与再生者。

12.226.9

कथं सदोपवासी स्याद्ब्रह्मचारी कथं भवेत् ।
विघसाशी कथं च स्यात्सदा चैवातिथिप्रियः ॥ १२.२२६.९ ॥

人应如何常持斋戒,如何守梵行,如何食用余食,又如何永远喜爱宾客?

12.226.10

अन्तरा प्रातराशं च सायमाशं तथैव च ।
सदोपवासी स भवेद्यो न भुङ्क्तेऽन्तरा पुनः ॥ १२.२२६.१० ॥

在晨食与晚食之间不再进食的人,永远是持斋者。

12.226.11

भार्यां गच्छन्ब्रह्मचारी ऋतौ भवति ब्राह्मणः ।
ऋतवादी भवेन्नित्यं ज्ञाननित्यश्च यो नरः ॥ १२.२२६.११ ॥

婆罗门只在经期之后的可孕之时才亲近妻子,便成为梵行者;永远说真话、永远安住于智慧的人。

12.226.12

न भक्षयेद्वृथा मांसममांसाशी भवत्यपि ।
दाननित्यः पवित्रीस्यादस्वप्नश्च दिवाऽस्वपन् ॥ १२.२२६.१२ ॥

不应徒然食肉;如此行者,即使并非食肉者,也成为不食肉者。永远恒常行布施者成为清净者;白天不睡的人便是不寐者。

12.226.13

भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु सदा नरः ।
अमृतं केवलं भुङ्क्ते इति विद्धि युधिष्ठिर ॥ १२.२२६.१३ ॥

優迪什提拉啊,你應當知道:總是在仆人和客人用餐之後才進食的人,只食甘露。

12.226.14

अभुक्तवत्सु भुञ्जानो विषमश्नाति वै द्विजः ।
अदत्त्वा योऽतिथिभ्योऽन्नं न भुङ्क्ते सोतिथिप्रियः।
अभुक्त्वा दैवतेभ्यश्च यो न भुङ्क्ते सदैवतम् ॥ १२.२२६.१४ ॥

若在他们用餐之前自己先吃,这位再生者实则是在吃毒。不先给客人food而自己不吃的人,是客人所喜爱的。不先供奉诸神而自己不吃的人,与诸神一同进食。

12.226.15

देवताभ्यः पितृभ्यश्च भृत्येभ्योऽतिथिभिः सह ।
अवशिष्टं तु योऽश्नाति तमाहुर्विघसाशिनम् ॥ १२.२२६.१५ ॥

与诸神、祖先、仆人和客人一同享用剩余食物的人,被称为“残食者”(vighasāśin)。

12.226.16

तेषां लोका ह्यपर्यन्ताः सदने ब्रह्मणा सह ।
उपस्थिताश्चाप्सरोभिः परियान्ति दिवौकसः ॥ १२.२२६.१६ ॥

他们的世界无穷无尽;他们与梵天一同居于梵天的住所,伴随天女,天界居民在其中往来。

12.226.17

देवताभिश्च ये सार्धं पितृभ्यश्चोपभुञ्जते ।
रमन्ते पुत्रपौत्रैश्च तेषां गतिरनुत्तमा ॥ १२.२२६.१७ ॥

与诸神和祖先一同享用食物的人,与子孙同乐;他们的归宿无与伦比。