摩诃婆罗多 · 章 12.231
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.231.1
पुनेरव तु सं शक्रः अहसन्निदमब्रवीत् ।
निश्वसन्तं यथा गायं प्रत्याहाराय भारत ॥ १२.२३१.१ ॥
于是因陀罗笑着说了这些话,仿佛在教导叹息的伽耶收摄诸根,婆罗多啊。
12.231.2
यथज्ञानसहस्रेण ज्ञातिभिः परिवारितः ।
लोकान्यतापयन्तर्वान्यास्यस्मानवितर्कयन् ॥ १२.२३१.२ ॥
如你被亲族和千种无明所围绕,烦扰诸世界,或思念我们。
12.231.3
दृष्ट्वा सुकृष्णां चेमागयस्थामात्मनो बले ।
ज्ञातिमित्रपरित्यक्तः शोचस्याहो न शोचसि ॥ १२.२३१.३ ॥
见此极暗之境出现于你自身的力量之中,你为亲族朋友所弃而悲伤;唉,你却不为应当悲伤之事而悲伤。
12.231.4
प्रीतिं प्राप्यातुलां पूर्वं लोकांश्चात्मवशे स्थितान् ।
विनिपातमिमं चाद्य शोचस्याहो न शोचसि ॥ १२.२३१.४ ॥
你曾获得无比的喜乐,见诸世界皆在自己掌控之中,如今却为这次陨落而悲伤;唉,你却不为应当悲伤之事而悲伤。
12.231.5
गर्वं हित्वा तथा मानं देवराज शृणुष्व मे ।
मया च त्वाऽनुसद्भावं पूर्वमाचरितं महत् ॥ १२.२३१.५ ॥
天王啊,请放下骄傲与尊荣,听我说;我从前曾对你施以大恩。
12.231.6
अवश्यकालपर्यायमात्मनः परिवर्तनम् ।
अविदँल्लोकमाहात्म्यं… ॥ १२.२३१.६ ॥
不可避免的时序轮转与自身的变迁,不知诸世界的尊贵…
12.231.7
अनित्यमुपलक्ष्येह कालपर्यायमात्मनः ।
तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत् ॥ १२.२३१.७ ॥
我在此看到自身的时间轮转是无常的,因此,帝释啊,我不悲伤;这一切确实都有尽头。
12.231.8
अन्तवन्त इमे देहा भूतानां च सुराधिप ।
तेन शक्र न शोचामि नापराधादिदं मम ॥ १२.२३१.८ ॥
这些身体和众生的身体都有尽头,诸天之主啊;因此,帝释啊,我不悲伤,这并非因我的过失而起。
12.231.9
जीवितं च शरीरं च जात्या वै सह जायते ।
उभे सह विवर्धेते उभे सह विनश्यतः ॥ १२.२३१.९ ॥
生命与身体随出生一同产生;二者一同成长,二者一同毁灭。
12.231.10
न हीदृशमहंभावमवशः प्राप्य केवलम् ।
यदेवमभिजानामि का व्यथा मे विजानतः ॥ १२.२३१.१० ॥
获得了这样的自我意识,我也并非无助,因为我如此了知它;对于知者来说,还有什么苦恼呢?
12.231.11
भूतानां निधनं निष्ठा स्रोतसामिव सागरः ।
नैतत्सम्यग्विजानन्तो नरा मुह्यन्ति वज्रधृत् ॥ १२.२३१.११ ॥
死亡是众生的归宿,正如大海是江河的归宿;不能正确了知此理的人便陷入迷惑,手持金刚杵者啊。
12.231.12
ये त्वेवं नाभिजानन्ति रजोमोहपरायणाः ।
ते कृच्छ्रं प्राप्य सीदन्ति बुद्धिर्येषां प्रणश्यति ॥ १२.२३१.१२ ॥
然而那些沉溺于激情与迷妄、不如此了知的人,陷入苦难而沉沦;他们的智慧便毁灭了。
12.231.13
बुद्धिलाभात्तु पुरुषः सर्वं तुदति किल्विषम् ।
विपाप्मा लभते सत्वं सत्वस्थः संप्रसीदति ॥ १२.२३१.१३ ॥
人因获得智慧而除去一切罪过。脱离罪恶者得到清净之性(萨埵),安住于清净之中,便得安详喜悦。
12.231.14
ततस्तु ये निवर्तन्ते जायन्ते वा पुनः पुनः ।
कृपणाः परितप्यन्ते तैरर्थैरभिचोदिताः ॥ १२.२३१.१४ ॥
那些一再轮回、反复出生的人,即可怜之人,受那些目标驱使,便陷入痛苦。
12.231.15
अर्थसिद्धिमनर्थं च जीवितं मरणं तथा ।
सुखं दुःखं फलं चैव न द्वेष्मि न च कामये ॥ १२.२३१.१५ ॥
成就与失败、生与死、乐与苦,以及果报,我既不厌恶,也不贪求。
12.231.16
हतं हन्ति हतो ह्येव यो नरो हन्ति कंचन ।
उभौ तौ न विजानीतो यश्च हन्ति हतश्च यः ॥ १२.२३१.१६ ॥
杀人者实际上是在杀一个早已死去的人;被杀者亦是如此。杀人者与被杀者,二者都不知道这一点。
12.231.17
हत्वा जित्वा च मघवन्यः कश्चित्पुरुषायते ।
अकर्ता ह्येव भवति कर्ता ह्येव करोति तत् ॥ १२.२३१.१७ ॥
啊,摩伽婆!无论谁杀了人、战胜了人,若自以为是“作者”,实际上并非作者;真正的作者是那做了此事者。
12.231.18
को हि लोकस्य कुरुते विनाशप्रभवावुभौ ।
कृतं हि तत्कृतेनैव कर्ता तस्यापि चापरः ॥ १२.२३१.१८ ॥
究竟谁造成了世界的毁灭与生起?所作之事因作而成;而那作之者,又另有他者。
12.231.19
पृथिवी ज्योतिराकाशमापो वायुश्च पञ्चमः ।
एतद्योनीनि भूतानि तत्र का परिदेवना ॥ १२.२३१.१९ ॥
地、光、虚空、水,第五为风:这些是众生的根源。那又何必哀叹呢?
12.231.20
महाविद्योऽल्पविद्यश्च बलवान्दुर्बलश्च यः ।
दर्शनीयो विरूपश्च सुभगो दुर्भगश्च यः ॥ १२.२३१.२० ॥
博学者与寡学者,强者与弱者,可观者与丑陋者,有福者与无福者——
12.231.21
सर्वं कालः समादत्ते गम्भीरः स्वेन तेजसा ।
तस्मिन्कालवशं प्राप्ते का व्यथा मे विजानतः ॥ १२.२३१.२१ ॥
时间深不可测,以其自身之威力摄取一切。既已落入时间之手,我既然明白此理,又有何忧伤?
12.231.22
दग्धमेवानुदहते हतमेवानुहन्यते ।
नश्यते नष्टमेवाग्रे लब्धव्यं लभते नरः ॥ १२.२३१.२२ ॥
已焚者又焚之,已杀者又杀之;已失者先失之;人所当得者,人便得之。
12.231.23
नास्य द्वीपः कुतः पारो नावारः संप्रदृश्यते ।
नान्तमस्य प्रपश्यामि विधेर्दिव्यस्य चिन्तयन् ॥ १२.२३१.२३ ॥
此中不见岛屿,无彼岸亦无此岸;我思索此神圣的造化者,却看不到它的尽头。
12.231.24
यदि मे पश्यतः कालो भूतानि न विनाशयेत् ।
स्यान्मे हर्षश्च दर्पश्च क्रोधश्चैव शचीपते ॥ १२.२३१.२४ ॥
若我眼看时间不毁灭众生,那么,啊,舍姬之主,我便会有喜悦、骄傲与愤怒。
12.231.25
तुषभक्षं तु मां ज्ञात्वा प्रविविक्तजने गृहे ।
बिभ्रतं गार्दभं रूपमागत्य परिगर्हसे ॥ १२.२३१.२५ ॥
你知道我是吃糠之人,便在僻静的屋中化作驴的形象前来责备我。
12.231.26
इच्छन्नहं विकुर्यां हि रूपाणि बहृधाऽऽत्मनः ।
विभीषणानि यानीक्ष्य पलायेथास्त्वमेव मे ॥ १२.२३१.२६ ॥
我若愿意,便能多方变化出可怖的形象;见到它们,你自己便会从我面前逃走。
12.231.27
कालः सर्वं समादत्ते कालः सर्वं प्रयच्छति ।
कालेन विहितं सर्वं मा कृथाः शक्र पौरुषम् ॥ १२.२३१.२७ ॥
时间夺走一切,时间给予一切。凡由时间所定的,都会发生;帝释啊,不要显示你的勇武。
12.231.28
पुरा सर्वं प्रव्यथितं मयि क्रुद्धे पुरंदर ।
विद्रवन्ति त्वया सार्धं सर्व एव दिबौकसः ॥ १२.२३१.२८ ॥
从前,破城者啊,我一发怒,一切便陷入混乱;你与天上的所有住者一同逃窜。
12.231.29
अवैमि त्वस्य लोकस्य कर्मं शक्र सनातनम् ।
त्वमप्येवमवेक्षस्व माऽऽत्मना विस्मगं गमः ॥ १२.२३१.२९ ॥
帝释啊,我知道这个世界的永恒之理;你也应这样思量,不要迷失自我。
12.231.30
प्रभवश्च प्रभावश्च नात्मसंस्थः कदाचन ।
कौमारमेव ते चित्तं तथैवाद्य यथा पुरा।
समवेक्षस्व मघवन्बुद्धिं विन्दस्व नैष्ठिकीम् ॥ १२.२३१.३० ॥
起源与威力从不安住于自我之中;你的心今日仍如从前一样幼稚。摩ghavan啊,好好思量,获得坚定的智慧。
12.231.31
देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः ।
आसन्सर्वे मम वशे तत्सर्वं वेत्थ वासव ॥ १२.२३१.३१ ॥
諸天、人類、祖先、乾闥婆、龍蛇與羅剎,皆在我的掌控之下;這你是知道的,婆娑婆。
12.231.32
नमस्तस्यै दिशेऽप्यस्तु यस्यां वैरोचनो बलिः ।
इति मामभ्यपद्यन्त बुद्धिमात्सर्यमोहिताः ॥ १२.२३१.३२ ॥
即使是毗盧遮那之子婆利所去的方向,也當致敬;他們被智慧與嫉妒所迷惑,便這樣向我撲來。
12.231.33
नाहं तदनुशोचामि नात्मभ्रंशं शचीपते ।
एवं मे निश्चिता बुद्धिः शास्तुस्तिष्ठाम्यहं वशे ॥ १२.२३१.३३ ॥
舍眾之主啊,我不為此悲傷,也不為自身的失落悲傷。我的心意已定:我將順從那位統治者。
12.231.34
दृश्यते हि कुले जातो दर्शनीयः प्रतापवान् ।
दुःखं जीवन्सहामात्यो भवितव्यं हि तत्तथा ॥ १२.२३१.३४ ॥
我們看到出身高貴、相貌俊美而威勢顯赫的人,與臣僚一同生活在苦難之中;事情本就該如此。
12.231.35
दौष्कुलेयस्तथा मूढो दुर्जातः शक्र दृश्यते ।
सुखं जीवन्सहामात्यो भवितव्यं हि तत्तथा ॥ १२.२३१.३५ ॥
帝釋啊,出身卑賤、愚昧而生性不良的人,也常見與臣僚一同安樂生活;這也本該如此。
12.231.36
कल्याणी रूपसंपन्ना दुर्भगा शक्र दृश्यते ।
अलक्षणा विरूपा च सुभगा दृश्यते परा ॥ १२.२३१.३६ ॥
帝釋啊,美貌端正、賢善的女子卻見其不幸;而無吉相、容貌醜陋的女子,反見其極為有福。
12.231.37
नैतदस्मत्कृतं शक्र नैतच्छक्र त्वया कृतम् ।
यत्तमेवं गतो वज्रिन्यच्चाप्येवं गता वयम् ॥ १२.२३१.३७ ॥
此非我等所为,帝释;此亦非你所为,帝释。持金刚者啊,他落到如此境地,我们也落到如此境地。
12.231.38
न कर्म तव नान्येषां कुतो मम शतक्रतो ।
ऋद्धिर्वाऽप्यथवा नर्द्धिः पर्यायकृतमेव तत् ॥ १२.२३१.३८ ॥
此非你所为,亦非他人所为;那又怎会是我所为,百祭者啊?得福与否,皆是轮流而至之事。
12.231.39
पश्यामि त्वां विराजन्तं देवराजमवस्थितम् ।
श्रीमन्तं द्युतिमन्तं च गर्जमानं ममोपरि ॥ १२.२३१.३९ ॥
我看见你屹立在那里,光芒四射,诸神之王,尊贵而辉煌,在我之上咆哮。
12.231.40
एवं नैव न चेत्कालो मामाक्रम्य स्थितो भवेत् ।
पातयेयमहं त्वाऽद्य सवज्रमपि मुष्टिना ॥ १२.२३१.४० ॥
若非时势压我而立,我今日必以拳将你连同金刚一并击倒。
12.231.41
न तु विक्रमकालोऽयं शान्तिकालोऽयमागतः ।
कालः स्थापयते सर्वं कालः पचति वै तथा ॥ १२.२३१.४१ ॥
然而此非显威之时,和平之时已至。时间确立万物,时间亦使万物成熟。
12.231.42
मां चेदभ्यागतः कालो दानवेश्वरमूर्जितम् ।
गर्जन्तं प्रतपन्तं च कमन्यं नागमिष्यति ॥ १२.२३१.४२ ॥
若时运已临于我——这强大的檀那婆之主,咆哮而炽烈——那它还会到谁身上呢?
12.231.43
द्वादशानां तु भवतामादित्यानां महात्मनाम् ।
तेजांस्येकेन सर्वेषां देवराज धृतानि मे ॥ १२.२३१.४३ ॥
天王啊,十二位大德阿提提亚的光明,都由我一人所持。
12.231.44
अहमेवोद्वहाम्यापो विसृजामि च वासव ।
तपामि चैव त्रैलोक्यं विद्योताम्यहमेव च ॥ १२.२३१.४४ ॥
婆娑啊,水由我独自升起,也由我降下;三界由我独自炙热,也由我独自照亮。
12.231.45
संरक्षामि विलुम्पामि ददाम्यहमथाददे ।
संयच्छामि नियच्छामि लोकेषु प्रभुरीश्वरः ॥ १२.२३१.४५ ॥
我守护也毁灭,给予也夺取;我约束也制御——在诸世界中,我是主宰与统治者。
12.231.46
तदद्य विनिवृत्तं मे प्रभुत्वममराधिप ।
कालसैन्यावगाढस्य सर्वं न प्रतिभाति मे ॥ १२.२३१.४६ ॥
因此,诸天之主啊,今日我的权柄已经终结;我陷入时之军中,一切已不再在我眼前清晰显现。
12.231.47
नाहं कर्ता न चैव त्वं नान्यः कर्ता शचीपते ।
पर्यायेण हि भुज्यन्ते लोकाः शक्र यदृच्छया ॥ १२.२३१.४७ ॥
我不是作者,你也不是,别人也不是作者,舍脂之主啊;轮流地,帝释啊,诸世界依随机缘而被享受。
12.231.48
मासमासार्धवेश्मानमहोरात्राभिसंवृतम् ।
ऋतुद्वारं वायुमुखमायुर्वेदविदो जनाः ॥ १२.२३१.४८ ॥
这是由月与半月构成的居所,被日与夜环绕,以季节为门,以风为口——吠陀的知者如此理解寿命。
12.231.49
आहुः सर्वमिदं चिन्त्यं जनाः केचिन्मनीषया ।
अनित्यपञ्चवर्षाणि षष्ठो दृश्यति देहिनाम् ॥ १२.२३१.४९ ॥
有些人以智慧说,这一切都应当思考:在有身者之中,经过五个无常之年,便显现第六个。
12.231.50
अस्याः पञ्चैव चिन्तायाः पर्येष्यामि च पञ्चधा ।
ततस्तानि न पश्यामि काले तमपि वृत्रहन् ॥ १२.२३१.५० ॥
这五重思虑,我将以五种方式探究;然而,斩杀弗栗多者啊,到了时候,我并不见到它们,也不见到那一位。
12.231.51
गम्भीरं गहनं ब्रह्म महत्तोयार्णवं यथा ।
अनादिनिधनं चाहुरक्षरं क्षरमेव च ॥ १२.२३१.५१ ॥
梵深邃难测,如同浩瀚的大海;人们说它无始无终,既不灭,也会灭。
12.231.52
सत्त्वेषु लिङ्गमाविश्य निर्लिङ्गमपि तत्स्वयम् ।
मन्यन्ते ध्रुवमेवैनं ये जनास्तत्त्वदर्शिनः ॥ १२.२३१.५२ ॥
进入众生之中成为标记,它自身却无标记;见真理的人确信它是恒定的。
12.231.53
यमिन्द्रियाणि सर्वाणि नानुपश्यन्ति पञ्चधा ।
तं कालमिति जानीहि यस्य सर्वमिदं वशे ॥ १२.२३१.५३ ॥
当知那便是时间:诸根以五种方式都不能觉知它,而这一切都在它的掌控之下。
12.231.54
भूतानां तु विषर्यासं कुरुते भगवानिति ।
न ह्येतावद्भवेद्ग्राम्यं न यस्मात्प्रभवेत्पुनः ॥ १२.२३१.५४ ॥
世尊造成众生的变迁;然而仅此并非世间之事,因为由此不再有新的生起。
12.231.55
गतिं हि सर्वभूतानामगत्वा क्व गमिष्यति ।
यो धावता न हातव्यस्तिष्ठन्नपि न हीयते ॥ १२.२३१.५५ ॥
若未抵达一切众生的归宿,他将往何处去?奔跑之人亦无法舍弃它,停留之人亦不会失去它。
12.231.56
तमिन्द्रियाणि सर्वाणि नानुपश्यन्ति पञ्चधा ।
आहुश्चैनं केचिदग्निं केचिदाहुः प्रजापतिम् ॥ १२.२३१.५६ ॥
诸根皆无法以五种方式知觉他。有人称他为火神,有人称他为生主。
12.231.57
ऋतून्मासार्धमासांश्च दिवसांश्च क्षणांस्तथा ।
पूर्वाह्णमपराह्णं च मध्याह्नमपि चापरे ॥ १२.२३१.५७ ॥
四季、月与半月、日与刹那,以及上午、下午与正午,也都是他;另有人如此说。
12.231.58
मुहूर्तमपि चैवाहुरेकं सन्तमनेकधा ।
तं कालमिति जानीहि यस्य सर्वमिदं वशे ॥ १२.२३१.५८ ॥
人们说,即便是一瞬也是他;虽然唯一,他却以多种方式显现。应当知道,时间就是那位掌控这一切的存在。
12.231.59
बहूनीन्द्रसहस्राणि समतीतानि वासव ।
बलवीर्योपपन्नानि यथैव त्वं शचीपते ॥ १२.२३१.५९ ॥
婆薮啊,舍胝之主!与你一样拥有力量与勇武的成千上万位因陀罗,已经逝去了。
12.231.60
त्वामप्यतिबलं शक्र देवराजं बलोत्कटम् ।
प्राप्ते काले महावीर्यः कालः संशमयिष्यति ॥ १२.२३१.६० ॥
帝释啊!即便是你,这位力量极强、天神之王、沉醉于力量的人,待时机到来,那大威力的时间也将使你平息。
12.231.61
य इदं सर्वमादत्ते तस्माच्छक्र स्थिरो भव ।
मया त्वया च पूर्वैश्च न स शक्योऽतिवर्तितुम् ॥ १२.२३१.६१ ॥
夺取这一切的那位——因此,帝释啊,你要坚定。无论是我、你,还是前人,都无法超越他。
12.231.62
यामेतां प्राप्य जानीषे राज्यश्रियमनुत्तमाम् ।
स्थिता मयीति तन्मिथ्या नैषा ह्येकत्र तिष्ठति ॥ १२.२३१.६२ ॥
你得到了这至高的王权荣耀,便以为它安住在我身上——那是虚妄的。它不会停留在一处。
12.231.63
स्थिता हीन्द्रसहस्रेषु त्वद्विशिष्टतमेष्वियम् ।
मां च लोला परित्यज्य त्वामगाद्विबुधाधिप ॥ १२.२३१.६३ ॥
她曾停留在千万个帝释之中,在像你这样最卓越的之中。那善变的女神离开了我,去了你那里,诸天之主啊。
12.231.64
मैवं शक्र पुनः कार्षीः शान्तो भवितुमर्हसि ।
त्वामप्येवंविधं ज्ञात्वा क्षिप्रमन्यं गमिष्यति।
कालेन चोदिता शक्र मा ते गर्वः शतक्रतो ॥ १२.२३१.६४ ॥
帝释啊,不要再这样做了,你应当平静。知道你是这样的人,她很快就会去找别人。帝释啊,百祭啊,受时间驱使,你不要自负。
12.231.65
क्षमस्व कालयोगं तमागतं विद्धि देवप ।
निर्लज्जश्चैव कस्मात्त्वं देवराज विकत्थसे ॥ १२.२३१.६५ ॥
请忍受已经到来的时间之运转,要了知它,诸神的守护者啊。诸神之王啊,你为何如此无耻地夸耀?
12.231.66
सर्वासुराणामधिपः सर्वदेवभयंकरः ।
जितवान्ब्रह्मणो लोकं को विद्यादागतं गतिम् ॥ १२.२३१.६६ ॥
一切阿修罗之主,一切天神的恐怖,曾征服梵天之界——谁能预知降临到他身上的命运?