摩诃婆罗多 · 章 12.241
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.241.1
त्रयीं विद्यामवेक्षेत वेदेपूत्तमतां गतः ।
ऋक्सामवर्णाक्षरतो यजुषोऽथर्वणस्तथा ॥ १२.२४१.१ ॥
精通吠陀而无与伦比者,应当从《梨俱》、《娑摩》、《夜柔》与《阿闼婆》的字母与音节中观照三明之学。
12.241.2
तिष्ठत्येतेषु भगवान्षट्सु कर्मसु संस्थितः ।
वेदवादेषु कुशला ह्यध्यात्मकुशलाश्च ये ॥ १२.२४१.२ ॥
世尊安住于这六种业中;精通吠陀言说与内在自我之学的人,也同样如此。
12.241.3
सत्ववन्तो महाभागाः पश्यन्ति प्रभवाप्ययौ ।
एवं धर्मेण वर्तेत क्रियाः शिष्टवदाचरेत् ॥ १२.२४१.३ ॥
具足善性的大福德者,能见生起与灭尽。因此应依法而行,像贤善之人那样行持诸业。
12.241.4
असंरोधेन भूतानां वृत्तिं लिप्सेत वै द्विजः ।
सद्भ्य आगतविज्ञानः शिष्टः शास्त्रविचक्षणः ॥ १२.२४१.४ ॥
再生者应在不妨害众生的前提下谋求生计;从善人处获得知识,成为贤善且精通经典之人。
12.241.5
स्वधर्मेण क्रिया लोके कुर्वाणः सोऽप्यसङ्करः ।
तिष्ठते तेषु गृहवान्षट्सु कर्मसु स द्विजः ॥ १२.२४१.५ ॥
依自身之法在世间行持诸业者,也能保持不杂;那位居家的再生者安住于这六种业中。
12.241.6
पञ्चभिः सततं यज्ञैः श्रद्दधानो यजेत च ।
धृतिमानप्रमत्तश्च दान्तो धर्मविदात्मवान्।
वीतहर्षमदक्रोधो ब्राह्मणो नावसीदति ॥ १२.२४१.६ ॥
怀着信心,应当常以五种祭祀供养;坚毅、不放逸、自制、知法、自持,离喜、骄慢与愤怒的婆罗门,不会沉沦。
12.241.7
दानमध्ययनं यज्ञस्तपो ह्रीरार्जवं दमः ।
एतैर्विवर्धते तेजः पाप्मानं चापकर्षति ॥ १२.२४१.७ ॥
布施、学习、祭祀、苦行、羞耻心、正直与克制——以此光辉增长,罪过被驱离。
12.241.8
धूतपाप्मा च मेधावी लघ्वाहारो जितेन्द्रियः ।
कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम् ॥ १२.२४१.८ ॥
洗净罪过、有智慧、饮食清简、克制诸根者,应制伏欲望与愤怒,志求梵的境界。
12.241.9
अग्नींश्च ब्राह्मणांश्चार्चेद्देवताः प्रणमेत च ।
वर्जयेदुशतीं वाचं हिंसां चाधर्मसंहिताम् ॥ १२.२४१.९ ॥
当敬奉圣火与婆罗门,向诸神礼拜;应远离粗恶之言,以及与非法相连的暴力。
12.241.10
एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते ।
ज्ञानागमेन कर्माणि कुर्वन्कर्मसु सिद्ध्यति ॥ १२.२४१.१० ॥
这是为婆罗门所规定的更早之行止:依靠知识与传统而行事者,在其业中得成就。
12.241.11
पञ्चेन्द्रियजलां घोरां लोभकूलां सुदुस्तराम् ।
मन्युपङ्कामनाधृष्यां नदीं तरति बुद्धिमान् ॥ १२.२४१.११ ॥
智者能渡过此河:此河可怖,以五根之水为流,以贪为岸,以怒为泥,极难渡越,不可侵犯。
12.241.12
कालमभ्युद्यतं पश्येन्नित्यमत्यन्तमोहनम् ॥ १२.२४१.१२ ॥
应当时时观见那正在升起的时间,它极能迷惑人。
12.241.13
महता विधिदृष्टेन बलिनाऽप्रतिघातिना ।
स्वभावस्रोतसा वृत्तमुह्यते सततं जगत् ॥ १२.२४१.१३ ॥
世界被由天命所定、伟大、强大而不可阻挡的自然之流不断地裹挟而去。
12.241.14
कालोदकेन महता वर्षावर्तेन संततम् ।
मासोर्मिणर्तुवेगेन पक्षोलपतृणेन च ॥ १२.२४१.१४ ॥
以时间的大水、雨季的漩涡不息,以月份之浪、季节之势,以及如芦苇杂草的半月。
12.241.15
निमेषोन्मेषफेनेन अहोरात्रजवेन च ।
कामग्राहेण घोरेण वेदयज्ञप्लवेन च ॥ १२.२४१.१५ ॥
以眨眼开闭之沫,以昼夜之速,以欲望的可怕鳄鱼,以及吠陀与祭祀之筏。
12.241.16
धर्मद्वीपेन भूतानां चार्थकामरवेण च ।
ऋतवाङ्मोक्षतीरेण विहिंसातरुवाहिना ॥ १२.२४१.१६ ॥
以众生的法之岛,以财与欲的轰鸣,以真言与解脱之岸,以及冲走伤害之树的河流。
12.241.17
युगह्रदौघमध्येन ब्रह्मप्रायभवेन च ।
धात्रा सृष्टानि भूतानि कृष्यन्ते यमसादनम् ॥ १२.२४१.१७ ॥
在诸时代之湖的洪流中央,以近乎梵的源头,由造物主创造的众生被拖向阎摩之居所。
12.241.18
एतत्प्रज्ञामयैर्धीरा निस्तरन्ति मनीषिणः ।
प्लवैरप्लववन्तो हि किं करिष्यन्त्यचेतसः ॥ १२.२४१.१८ ॥
以智慧之筏,坚毅者与明智者得以渡过;没有筏的无心之人,又将如何?
12.241.19
उपपन्नं हि यत्प्राज्ञो निस्तरेन्नेतरो जनः ।
दूरतो गुणदोषौ हि प्राज्ञः सर्वत्र पश्यति ॥ १२.२४१.१९ ॥
智者能渡过,他人不能,这是理所当然的;智者从远处便能看见一切善恶。
12.241.20
संशयात्तु स कामात्मा चलचित्तोऽल्पचेतनः ।
अप्राज्ञो न तरत्येनं यो ह्यास्ते न स गच्छति ॥ १२.२४१.२० ॥
被欲望驱使、心意多变、智慧低下、充满疑惑的无知者不能渡过此河;坐而不动者不能前行。
12.241.21
अप्लवो हि महादोषं मुह्यमानो न गच्छति ।
कामग्राहगृहीतस्य ज्ञानमप्यस्य न प्लवः ॥ १२.२४१.२१ ॥
没有船筏的人,因大罪而迷惑,便不能前行;被欲望之鳄抓住的人,连他的知识也不是船筏。
12.241.22
तस्मादुन्मज्जनस्यार्थे प्रयतेत विचक्षणः ।
एतदुन्मज्जनं तस्य यदयं ब्राह्मणो भवेत् ॥ १२.२४१.२२ ॥
因此,有辨别力的人应当努力向上升起;他的升起就在于成为婆罗门。
12.241.23
त्र्यवदाते कुले जातस्त्रिसंदेहस्त्रिकर्मकृत् ।
तस्मादुन्मज्जनं तिष्ठेत्प्रज्ञया निस्तरेद्यथा ॥ १२.२४१.२३ ॥
生于三重清净之家,免于三重疑惑,履行三种职责;因此,已经升起的人应当保持稳定,以便凭智慧渡过。
12.241.24
संस्कृतस्य हि दान्तस्य नियतस्य यतात्मनः ।
प्राज्ञस्यानन्तरा सिद्धिरिह लोके परत्र च ॥ १२.२४१.२४ ॥
对于经过修养、自我克制、规范有序、心意收摄的智者,成就是即刻的,无论在此世还是来世。
12.241.25
वर्तेत तेषु गृहवानक्रुध्यन्ननसूयकः ।
पञ्चभिः सततं यज्ञैर्विघसाशी यजेत च ॥ १२.२४१.२५ ॥
居家者应与他们同住,不怒不妒;常以五祭供奉,并食祭余之物。
12.241.26
सतां धर्मेण वर्तेत क्रियां शिष्टवदाचरेत् ।
असंरोधेन लोकस्य वृत्तिं लिप्सेदगर्हिताम् ॥ १२.२४१.२६ ॥
应依善人之法而行,如贤者那样行事;不妨碍世人,求取无可非议的生计。
12.241.27
श्रुतविज्ञानतत्त्वज्ञः शिष्टाचारविचक्षणः ।
स्वधर्मेण क्रियावांश्च कर्मणा सोऽप्यसंकरः ॥ १२.२४१.२७ ॥
通晓学问与智慧之真谛、精于贤者之行、依己之法与业而修行者,亦不混杂。
12.241.28
क्रियावाञ्श्रद्दधानो कहि दान्तः प्रायोऽनसूयकः ।
धमार्धर्मविशेषज्ञः सर्वं तरति दुस्तरम् ॥ १२.२४१.२८ ॥
力行、有信、自制、多无嫉妒,明辨法与非法者,能渡过一切难渡之事。
12.241.29
धृतिमानप्रमत्तश्च दान्तो धर्मविदात्मवान् ।
वीतहर्षमदक्रोधो ब्राह्मणो नावसीदति ॥ १२.२४१.२९ ॥
坚定、不放逸、自制、通晓法、自主,离喜、傲慢与愤怒的婆罗门不会沉沦。
12.241.30
एषा पुरातनी वृत्तिर्ब्राह्मणस्य विधीयते ।
ज्ञानवृद्ध्यैव कर्माणि कुर्वन्सर्वत्र सिध्यति ॥ १२.२४१.३० ॥
此乃婆罗门所规定的古老生活方式;唯借智慧增长而行业者,处处成就。
12.241.31
अधर्मं धर्मकामो हि करोति ह्यविचक्षणः ।
धर्मं वा धर्मसंकाशं शोचन्निव करोति सः ॥ १२.२४१.३१ ॥
渴求法的无知之人确实行非法;或者像悲伤的人一样,做出似乎合法的事。
12.241.32
धर्मं करोमीति करोत्यधर्म ।
मधर्मकामश्च करोति धर्मम्।
उभे बालः कर्मणी न प्रजानम् ।
संजायते म्रियते चापि देही ॥ १२.२४१.३२ ॥
说“我行法”,却行非法;渴求非法者却行法。愚人不知这两种行为;有形之身既生也死。