Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.244

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.244.1

एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते ।
ज्ञानवानेव कर्माणि कुर्वन्सर्वत्र सिद्ध्यति ॥ १२.२४४.१ ॥

这是为婆罗门所规定的更古老的行为方式:唯有有智慧者在行事时,处处都能成就。

12.244.2

तत्र चेन्न भवेदेवं संशयः कर्मनिश्चये ।
किंतु कर्मस्वभावोऽयं ज्ञानं कर्मेति वा पुनः ॥ १२.२४४.२ ॥

若在确定行为时没有这样的疑惑,那么这行为的本性是智慧还是行动,这一问题仍会再度出现。

12.244.3

तत्र वेदविवित्सायां ज्ञानं चेत्पुरुषं प्रति ।
उपपत्त्युपलब्धिभ्यां वर्णयिष्यामि तच्छॄणु ॥ १२.२४४.३ ॥

若在求知《吠陀》之心中,有关于人的知识,我将以推理与体验为你讲述;请听。

12.244.4

पौरुषं कारणं केचिदाहुः कर्मसु मानवाः ।
दैवमेके प्रशंसन्ति स्वभावमपरे जनाः ॥ १२.२४४.४ ॥

有些人说行为的原因在于人的努力;有些人赞美天命;另一些人赞美本性。

12.244.5

पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः ।
त्रयमेतत्पृथग्भूतमविवेकं तु केचन ॥ १२.२४४.५ ॥

人的努力、行为与天命——依据结果生起的本性,这三者各不相同;但有些人缺乏分辨,便迷惑了。

12.244.6

एतदेवं च नैवं न च चोभे नानुभे तथा ।
कर्मस्था विषयं ब्रूयुः सत्वस्थाः समदर्शिनः ॥ १२.२४४.६ ॥

此是如此,又非如此;非两者,亦非非两者——安住于行动者便如此谈论此事;安住于善性、视同一律者则能领会。

12.244.7

त्रेतायां द्वापरे चैव कलिजाश्च ससंशयाः ।
तपस्विनः प्रशान्ताश्च सत्वस्थाश्च कृते युगे ॥ १२.२४४.७ ॥

在特莱塔与德瓦帕拉时代,以及生于羯利时代者,皆有疑惑;苦行者与寂静者安住于善性之中,在克里塔时代亦然。

12.244.8

अपृथग्दर्शनाः सर्वे ऋक्सामसु यजुःषु च ।
कामद्वषौ पृथग्दृष्ट्वा तपः कृत उपासते ॥ १२.२४४.८ ॥

诸人视《梨俱》、《娑摩》与《夜柔》无别;见欲望与厌恶各各不同,便以苦行为业而修习。

12.244.9

तपोधर्मेण संयुक्तस्तपोनित्यः सुसंशितः ।
तेन सर्वानवाप्नोति कामान्यान्मनसेच्छति ॥ १२.२४४.९ ॥

与苦行之法相应,恒常修习苦行,善于自持者,凭此便能获得心中所愿的一切欲求。

12.244.10

तपसा तदवाप्नोति यद्भूतं सृजते जगत् ।
तद्भूतश्च ततः सर्वभूतानां भवति प्रभुः ॥ १२.२४४.१० ॥

以苦行他获得那种能力,凭之成为创造世界的存在;成为那一存在之后,他便成为一切众生之主。

12.244.11

तदुक्तं वेदवादेषु गहनं वेददर्शिभिः ।
वेदान्तेषु पुनर्व्यक्तं क्रमयोगेन लक्ष्यते ॥ १२.२४४.११ ॥

此义由吠陀见者在吠陀诸说中深奥地宣说;而在吠檀多中,则通过次第瑜伽之法再次清楚显现。

12.244.12

आरम्भयज्ञाः क्षव्राश्च हविर्यज्ञा विशः स्मृताः ।
परिचारयज्ञाः शूद्राश्च जपयज्ञा द्विजातयः ॥ १२.२४४.१२ ॥

刹帝利被称为行始祭者,吠舍被称为行供物祭者;首陀罗行侍奉之祭,二生族行持诵之祭。

12.244.13

परिनिष्ठितकार्यो हि स्वाध्यायेन द्विजो भवेत् ।
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥ १२.२४४.१३ ॥

职责已尽的人,通过自我诵习成为再生者。无论他是否另有所为,怀有慈心者被称为婆罗门。

12.244.14

त्रेतादौ सकला वेदा यज्ञा वर्णाश्रमास्तथा ।
संरोधादायुषस्त्वेते व्यस्यन्ते द्वापरे युगे ॥ १२.२४४.१४ ॥

在特里塔时代之初,一切吠陀、祭祀以及种姓与生活阶段都存在;因寿命缩短,它们在德瓦帕拉时代衰减。

12.244.15

द्वापरे विप्लवं यान्ति वेदाः कलियुगे तथा ।
दृश्यन्ते नापि दृश्यन्ते कलेरन्ते पुनः किल ॥ १२.२४४.१५ ॥

在德瓦帕拉时代,吠陀陷入紊乱;在迦利时代亦然。迦利时代末尾,它们不被看见,之后又再次被看见。

12.244.16

उत्सीदन्ति स्वधर्माश्च तत्राधर्मेण पीडिताः ।
गवां भूमेश्च ये चापामोषधीनां च ये रसाः ॥ १२.२४४.१६ ॥

在那里,被非法所压迫,自身的职责衰落,牛、大地、水与草药的精华也随之衰减。

12.244.17

अधर्मान्तर्हिता वेदा वेदधर्मास्तथाऽऽश्रमाः ।
विक्रियन्ते स्वधर्माश्च स्थावराणि चराणि च ॥ १२.२४४.१७ ॥

吠陀、吠陀之法与生活阶段被非法所遮蔽而变质;自身职责也随之改变,静止与运动的众生亦然。

12.244.18

यथा सर्वाणि भूतानि वृष्टथा तृप्यन्ति प्रावृषि ।
सृजन्ते सर्वतोऽङ्गानि तथा वेदा युगेयुगे ॥ १२.२४४.१८ ॥

正如雨季降雨,一切众生得以满足,四面八方长出肢体,吠陀也在每一个时代如此(复生)。

12.244.19

विहितं कालनानात्वमनादिनिधनं च यत् ।
कीर्तितं यत्पुरस्तात्ते यतः संयान्ति च प्रजाः ॥ १२.२४४.१९ ॥

时间的多样性,既定而无始无终,我先前已向你说明;众生由此而生并前行。

12.244.20

यच्चेदं प्रभवः स्थानं भूतानां संयमो यमः ।
स्वभावेनैव वर्तन्ते द्वन्द्वसृष्टानि भूरिशः ॥ १२.२४४.२० ॥

这也就是众生的起源、居所与约束,即阎摩;由对立二元所生者,依其自性而以千万种方式运行。

12.244.21

सर्गः कालो धृतिर्वेदाः कर्ता कार्यं क्रियाफलम् ।
एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि ॥ १२.२४४.२१ ॥

创造、时间、持守、吠陀、作者、作业与业果——孩子,你所问我的,这一切我都已经告诉了你。