摩诃婆罗多 · 章 12.245
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.245.1
इत्युक्तोऽभिप्रशस्यैतत्परमर्षेस्तु शासनम् ।
मोक्षधर्मार्थसंयुक्तमिदं प्रष्टुं प्रचक्रमे ॥ १२.२४५.१ ॥
听他如此说后,他赞叹这位至高仙人的教导,开始询问这关乎解脱、法与利的问题。
12.245.2
प्रजावाञ्श्रोत्रियो यज्वा कृतप्रज्ञोऽनसूयकः ।
अनागतमनैतिह्यं कथं ब्रह्माधिगच्छति ॥ १२.२४५.२ ॥
一个有子嗣、精通吠陀、行祭祀、智慧成熟且无嫉妒的人,如何获得那尚未到来、并非源自传承的梵?
12.245.3
तपसा ब्रह्मचर्येण सर्वत्यागेन मेधया ।
साङ्ख्ये वा यदि वा योग एतत्पृष्टो वदस्व मे ॥ १२.२४५.३ ॥
无论是通过苦行、梵行、舍弃一切或智慧,无论是在数论还是瑜伽中——既然我这样问,请告诉我。
12.245.4
मनसश्चेन्द्रियाणां च यथैकाग्र्यमवाप्यते ।
येनोपायेन पुरुषैस्तत्त्वं व्याख्यातुमर्हसि ॥ १२.२४५.४ ॥
通过什么方法才能获得心与诸根的专一?人们又凭借什么方法来阐明真理?您应当为我解说。
12.245.5
नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रियनिग्रहात् ।
नान्यत्र लोभसंत्यागात्सिद्धिं विन्दति कश्चन ॥ १२.२४५.५ ॥
除了通过知识与苦行,除了通过制御诸根,除了舍弃贪欲,无人能获得成就。
12.245.6
महाभूतानि सर्वाणि पूर्वसृष्टिः स्वयंभुवः ।
भूयिष्ठं प्राणभृत्काये निविष्टानि शरीरिषु ॥ १२.२४५.६ ॥
一切大种,即自生者的最初创造,大多已进入有身众生的身体之中。
12.245.7
भूमेर्देहो जलास्त्रोतो ज्योतिषश्चक्षुषी स्मृते ।
प्राणापानाश्रयो वायुः स्वेष्वाकाशं शरीरिणाम् ॥ १२.२४५.७ ॥
身体属于地,水的通道是其流脉,两只眼睛被认为属于光。风是呼吸与下行气的依托,在有身之众生中,虚空各居其位。
12.245.8
क्रान्ते विष्णुर्बले शक्रः कोष्ठेऽग्निर्भोक्तुमिच्छति ।
कर्णयोः प्रदिशः श्रोत्रे जिह्वायां वाक् सरस्वती ॥ १२.२४५.८ ॥
迈步之时为毗湿奴;力量之中为因陀罗;腹中为欲食之火(阿耆尼)。双耳为诸方,听觉为诸方;舌中为言语,即萨罗室伐底。
12.245.9
कर्णौ त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी ।
दश तानीन्द्रियोक्तानि द्वाराण्याहारसिद्धये ॥ १२.२४५.९ ॥
双耳、皮肤、双眼、舌,第五为鼻:这十者被称为诸根,是成就摄取的门户。
12.245.10
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः ।
इन्द्रियाणि पृथक्स्वार्थान्मनसा दर्शयन्त्युत ॥ १२.२४५.१० ॥
声、触,如是色、味,第五为香:诸根各自分别地以意显示其境。
12.245.11
इन्द्रियाणि मनो युङ्क्ते वश्यान्यन्तेव वाजिनः ।
मनश्चापि सदा भुक्ते भूतात्मा हृदयाश्रितः ॥ १२.२४५.११ ॥
意如驾驭驯服之马般驾驭诸根;而居于心中的众生之我,常常受用。
12.245.12
इन्द्रियाणां तथैवैषां सर्वेषामीश्वरं मनः ।
नियमे च विसर्गे च भूतात्मा मानसस्तथा ॥ १२.२४५.१२ ॥
意为诸根之主,亦为一切诸根之主;在约束与舍放之中,众生之我亦属于意,如是。
12.245.13
इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः ।
प्राणापानौ च जीवश्च नित्यं देहेषु देहिनाम् ॥ १२.२४५.१३ ॥
诸根、诸根之境、自性、觉知、意、气息与下行气,以及命我——它们永远居于有身众生的身中。
12.245.14
आश्रयो नास्ति सत्वस्य गुणः सत्त्वस्य चेतना ।
सत्वं हि तेजः सृजति न गुणान्वै कथंचन ॥ १२.२४५.१४ ॥
悉多没有依托;觉知是悉多的属性。悉多确实生起光明,却绝不生起诸德。
12.245.15
एवं सप्तदशं देहे वृतं षोडशभिर्गुणैः ।
मनीषीमनसा विप्रः पश्यत्यात्मानमात्मनि ॥ १२.२४५.१५ ॥
如是,第十七者(我)为十六德所包裹于身中。智慧的婆罗门以意在自我之中见到自我。
12.245.16
न ह्ययं चक्षुषा दृश्यो न च सर्वैरपीन्द्रियैः ।
मनसा दीपभूतेन महानात्मा प्रकाशते ॥ १२.२४५.१६ ॥
此我不为眼所见,亦非一切诸根所见;以成为灯的意,伟大的自我得以照耀。
12.245.17
अशब्दस्पर्शरूपं तदरसागन्धमव्ययम् ।
अशरीरं शरीरेषु निरीक्षते निरिन्द्रियम् ॥ १२.२४५.१७ ॥
彼自我无声、无触、无色、无味、无香,不朽;在诸身中却无身、无根而观照。
12.245.18
अव्यक्तं सर्वदेहेषु मर्त्येष्वमृतमाहितम् ।
योऽनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयसे ॥ १२.२४५.१८ ॥
若有人见到遍在于一切身中、住于凡人之中的不显现不死者,他死后便堪能得入梵的境界。
12.245.19
विद्याभिजनसंपन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ १२.२४५.१९ ॥
具足学识与高贵出身的婆罗门、牛、象、狗,乃至贱民旃陀罗,智者以平等之眼视之。
12.245.20
स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च ।
वसत्येको महानात्मा येन सर्वमिदं ततम् ॥ १२.२४५.२० ॥
那唯一的大我住于一切众生之中,无论动者或不动者;此一切皆由他所遍满。
12.245.21
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
यदा पश्यति भूतात्मा ब्रह्म संपद्यते तदा ॥ १२.२४५.२१ ॥
当众生之灵见自我在一切众生中,一切众生在自我中,那时他便与梵合而为一。
12.245.22
यावानात्मनि मे ह्यात्मा तावानात्मा परात्मनि ।
य एवं सततं वेद सोऽमृतत्वाय कल्पते ॥ १२.२४५.२२ ॥
我之自我有多少,至上自我中便有多少。若人如是恒常了知,便堪得不死。
12.245.23
सर्वभूतात्मभूतस्य सर्वभूतहितस्य च ।
देवाऽपि मार्गे मुह्यन्ति अपदस्य पदैषिणः ॥ १२.२४५.२३ ॥
已成为一切众生之自我、一切众生之福祉者,无处可居之道,即便寻求安位之诸天亦为之迷惑。
12.245.24
शकुन्तानामिवाकाशे मत्स्यानामिव चोदके ।
यथा गतिर्न दृश्येत तथा ज्ञानविदां गतिः ॥ १२.२४५.२४ ॥
如鸟在空中、鱼在水中,其行迹不可见;知者之行迹亦复如是,不可见。
12.245.25
कालः पचति भूतानि सर्वाण्येवात्मनाऽऽत्मनि ।
यस्मिंस्तु पच्यते कालस्तं वेदेह न कश्चन ॥ १२.२४५.२५ ॥
时间以自身在自身之中烹煮一切众生。哦,毗提诃王,那使时间本身被烹煮的,无人能知。
12.245.26
न स ऊर्ध्वं न तिर्यक्च नाधश्चरति यः पुनः ।
न मध्ये प्रतिगृह्णीते नैव किंचित्कुतश्चन ॥ १२.२४५.२६ ॥
他既不向上,也不横向,也不向下运行;在中间他也不接受任何东西,也从任何地方都不取得任何东西。
12.245.27
सर्वेऽन्तस्था इमे लोका बाह्यमेषां न किंचन ।
यः सहस्र समा गच्छेद्यथा बाणो गुणच्युतः ॥ १२.२४५.२७ ॥
这些世界都在他之内,它们之外没有任何东西。即使有人走上千年,也如同脱离弓弦的箭一般。
12.245.28
नैवान्तं कारणस्येयाद्यद्यपि स्यान्मनोजवः ।
तस्मात्सूक्ष्मात्सूक्ष्मतरं नास्ति स्थूलतरं ततः ॥ १२.२४५.२८ ॥
即使如心一般迅速,也无法到达因的尽头。因此,没有比微妙更微妙的,也没有比那更粗大的。
12.245.29
सर्वतः पाणिपादं तत्सर्वतोक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृरत्य तिष्ठति ॥ १२.२४५.२९ ॥
它到处都有手和脚,到处都有眼、头和面;在世界上到处都有耳朵。它包裹着一切而存在。
12.245.30
तदेवाणोरणुतरं तन्महद्भ्यो महत्तरम् ।
तदन्तः सर्वभूतानां ध्रुवं तिष्ठन्न दृश्यते ॥ १२.२४५.३० ॥
它本身比原子更小,比伟大者更伟大。它稳固地存在于一切众生之中,却不可见。
12.245.31
अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः ।
क्षरः सर्वेषु भूतेषु दिवि ह्यमृतमक्षरम् ॥ १२.२४५.३१ ॥
不灭与可灭,这是自我的二重性。在一切众生中是可灭者;在天界是不死的不灭者。
12.245.32
नवद्वारं पुरं गत्वा हंसो हि नियतो वशी ।
ईशः सर्वस्य भूतस्य स्थावरस्य चरस्य च ॥ १२.२४५.३२ ॥
进入九门之城后,这只天鹅——自制而克己——是一切静止与运动众生的主宰。
12.245.33
हानिभङ्गविकल्पानां नवानां संचयेन च ।
शरीराणामजस्याहुर्हंसत्वं पारदर्शिनः ॥ १२.२४५.३३ ॥
由损失、毁坏及其种种变化,以及九身的积聚,洞见彼岸者称无生者为天鹅之性。
12.245.34
हंसोक्तं चाक्षरं चैव कूटस्थं यत्तदक्षरम् ।
तद्विद्वानक्षरं प्राप्य जहाति प्राणजन्मनी ॥ १२.२४५.३४ ॥
天鹅所说的不灭者,以及那不动不变的不灭者,正是此者。智者证得此不灭者后,便舍弃气息与生死之生。