Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.247

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.247.1

यदिदं वेदवचनं कुरु कर्म त्यजेति च ।
कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा ॥ १२.२४७.१ ॥

吠陀所说“行业”与“舍业”是什么意思?以知识所往何方?以业所至何处?

12.247.2

एतद्वै श्रोतुमिच्छामि तद्भवान्प्रब्रवीतु मे ।
एतच्चान्योन्यवैरूप्ये वर्तेते प्रतिकूलतः ॥ १२.२४७.२ ॥

这正是我想听的;请您为我讲解。这两者相互矛盾,彼此对立而存在。

12.247.3

इत्युक्तः प्रत्युवाचेदं पराशरसुतः सुतम् ।
कर्मविद्यामयावेतौ व्याख्यास्यामि क्षराक्षरौ ॥ १२.२४७.३ ॥

如此被问,波罗舍罗之子对其子说:“这两者,由业与知识构成,即可灭与不灭,我将为你解说。”

12.247.4

यां दिशं विद्यया यान्ति यां च गच्छन्ति कर्मणा ।
शृणुष्वैकमना वत्स गह्वरं ह्येतदन्तरम् ॥ १२.२४७.४ ॥

孩子,请专心听:以知识所往的方向,以业所到的境界;这正是二者之间深邃的鸿沟。

12.247.5

अस्ति धर्म इति ह्युक्त्वा नास्तीत्यत्रैव यो वदेत् ।
तस्य पक्षस्य सदृशमिदं मम भवेदथ ॥ १२.२४७.५ ॥

说“有法”,却又在此说“无法”之人,我这番话也会与其立场相似。

12.247.6

द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः ।
प्रवृत्तिलक्षणो धर्मो निवृत्तौ च व्यवस्थितः ॥ १२.२४७.६ ॥

如今有两条道路,吠陀立于其上:以投入为特征的法(进行),以及立于退离之中的法(止息)。

12.247.7

कर्मणा बध्यते जन्तुर्विद्यया तु प्रमुच्यते ।
तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥ १२.२४७.७ ॥

众生因业而被束缚,因智慧而得解脱。因此,见到彼岸的苦行者不作业。

12.247.8

कर्मणा जायते प्रेत्य मूर्तिमान्षोडशात्मकः ।
विद्यया जायते नित्यमव्ययो ह्यक्षरात्मकः ॥ १२.२४७.८ ॥

因业,死后生出具十六分的有形者;因智慧,生出永恒、不灭、以不灭为体者。

12.247.9

कर्म त्वेके प्रशंसन्ति स्वल्पबुद्धितया नराः ।
तेन ते देहजालानि रमयन्त उपासते ॥ १२.२४७.९ ॥

然而有些人因智识浅薄而赞叹作业;因此他们沉溺于身体的罗网中,并崇拜它们。

12.247.10

ये स्म बुद्धिं परां प्राप्ता धमैर्नपुण्यदर्शिनः ।
न ते कर्म प्रशंसन्ति कूपं नद्यां पिबन्निव ॥ १२.२४७.१० ॥

已得至上智慧、不以法而见福德的人,不赞叹作业——就像身在河中却饮井水的人。

12.247.11

कर्मणः फलमाप्नोति सुखदुःखे भवाभवौ ।
विद्यया तदवाप्नोति यत्र गत्वा न शोचति ॥ १२.२४७.११ ॥

从作业得到果报:苦乐、有无生灭;以智慧得到那境界,到达那里便不再忧愁。

12.247.12

यत्र गत्वा न म्रियते यत्र गत्वा न जायते ।
न जीर्यते यत्र गत्वा यत्र गत्वा न वर्धते ॥ १२.२४७.१२ ॥

到达那里便不死;到达那里便不生;到达那里便不老;到达那里便不增长。

12.247.13

यत्र तद्ब्रह्म परममव्यक्तमचलं ध्रवम् ।
अव्याहतमनायासममृतं चावियोगि च ॥ १२.२४७.१३ ॥

那至高的梵所在之处——不显现、不动摇、恒定、无碍、无劳、不死、不离。

12.247.14

द्वन्द्वैर्न यत्र बाध्यन्ते मानसेन च कर्मणा ।
समाः सर्वत्र मैत्राश्च सर्वभूतहिते रताः ॥ १२.२४७.१४ ॥

在那里,不为对立二元、心意或业行所扰;他们处处平等、友善,喜乐于一切众生的福祉。

12.247.15

विद्यामयोऽन्यः पुरुषस्तात कर्ममयोऽपरः ।
विद्धि चन्द्रमसं दर्शे सूक्ष्मया कलया स्थितम्।
विद्यामयं तं पुरुषं नित्यं ज्ञानगुणात्मकम् ॥ १२.२४७.१५ ॥

亲爱的,一个人由智慧构成,另一个人由业行构成。当知新月之日那细微之相中的月亮;当知那由智慧构成、以知识之德为本性的永恒补鲁沙。

12.247.16

तदेतदृषिणा प्रोक्तं विस्तरेणानुमीयते ।
नवं तु शशिनं दृष्ट्वा वक्रतन्तुमिवाम्बरे ॥ १२.२४७.१६ ॥

此事由仙人详细宣说,可以推知,正如见天空中的新月而推知一根弯曲的线。

12.247.17

एकादशविकारात्मा कलासंभारसंभृतः ।
मृर्तिमानिति तं विद्धि तात कर्म गुणात्मकम् ॥ १२.२४७.१७ ॥

当知他是具身者,以十一种变化为自我,由诸分之聚而成;亲爱的,当知他以业德为本性。

12.247.18

तस्मिन्यः संस्थितो ह्यग्निर्नित्यंस्थाल्यामिवाहितः ।
आत्मानं तं विजानीहि नित्यं त्यागजितात्मकं ॥ १२.२४७.१८ ॥

那常驻其中之火,如同置于陶器之中——当知此即自我;当知其为永恒,以舍离所胜之性为本。

12.247.19

देवो यः संश्रितस्तस्मिन्नब्विन्दुरिव पुष्करे ।
क्षेत्रज्ञं तं विजानीयान्नित्यं योगजितात्मकम् ॥ १२.२४७.१९ ॥

那寓居于其中的神,如莲叶上的水滴,应当被认作田之知者(刹埵阇),其本性始终由瑜伽所征服。

12.247.20

तमोरजश्च सत्त्वं च विद्धि जीवगुणात्मकम् ।
जीवमात्मगुणं विद्यादात्मानं प…नः ॥ १२.२४७.२० ॥

应知暗性、激性与善性皆属于生命之德的本性。应将生命体认作自我之德,而将自我认作……

12.247.21

अचेतनं जीवगुणं वदन्ति ।
स चेष्टते चेष्टयते च सर्वम्
ततः परं क्षेत्रविदो वदन्ति ।
प्राकल्पयद्यो भुवनानि सप्त ॥ १२.२४७.२१ ॥

人们称无意识为生命的德性。他行动,并使一切行动。在其之上,田之知者所言,乃是安立七界之主。