Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.251

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.251.1

वर्तमानस्तयेवात्र वानप्रस्थाश्रमे यथा ।
योक्तव्योऽऽत्मा कथं शक्त्या परं वै काङ्क्षता पदम् ॥ १२.२५१.१ ॥

住于林栖期之人,渴求至高境界者,应如何以自身之力修持自我于瑜伽之中?

12.251.2

प्राप्य संस्कारमेताभ्यामाश्रमाभ्यां ततः परम् ।
यत्कार्यं परमार्थार्थं तदिहैकमनाः शृणु ॥ १२.२५१.२ ॥

经此二林期与家住期而得净化之后,为至高之义所应做的,请以专一之心在此听闻。

12.251.3

कषायं पाचयित्वाऽऽशु श्रेणिस्थानेषु च त्रिषु ।
प्रव्रजेच्च परं स्थानं पारिव्राज्यमनुत्तमम् ॥ १२.२५१.३ ॥

迅速使赭色衣修炼成熟,经过三个上升的阶段,应当出家走向至高之境,即无上的游方遁世生活。

12.251.4

यद्भवानेवमभ्यस्य वर्ततां श्रूयतां तथा ।
एक एव चरेद्धर्मं सिद्ध्यर्थमसहायवान् ॥ १२.२५१.४ ॥

你既如此修习而行,且听之:为求成就,应独自行持法义,不借助他人。

12.251.5

एकश्चरतिः यः पश्यन्न जहाति न हीयते ।
अनग्निरनिकेतश्च ग्राममन्नार्थमाश्रयेत् ॥ १२.२५१.५ ॥

独行者,观照而不舍弃,亦不损减;无火无居,为求食物,应依靠村落。

12.251.6

अश्वस्तनविधाता स्यान्मुनिर्भावसमन्वितः ।
लघ्वाशी नियताहारः सकृदन्ननिषेविता ॥ १२.२५१.६ ॥

应为具足定心的牟尼,遵行一日之食的规则,少食,饮食有节,一次进食。

12.251.7

णलं वृक्षमलानि कुचेलमसदृ… ।
उपक्षा सर्वभूतानामेतावद्भिक्षुलक्षणाम् ॥ १२.२५१.७ ॥

一棵树、弃置的装饰、破烂的衣裳……对一切众生的漠然,这便是比丘的标志。

12.251.8

यस्मिन्वाचा प्राविशन्ति कूपे प्राप्ताः शिलाइव ।
न वक्तारं पुनर्यान्ति स कैवल्याश्रमे वसेत् ॥ १२.२५१.८ ॥

若言语说出后如石落深井,沉入其中,永不回到说者身边——此人应住在解脱的静修处。

12.251.9

नैव पश्येन्न शृणुयादवाच्यं जातु कस्यचित् ।
ब्राह्मणानां विशेषेण नैव ब्रूयात्कथंचन ॥ १२.२५१.९ ॥

对于不应言说之事,人绝不应看见、听闻,更不可以任何方式说出——尤其是关于婆罗门。

12.251.10

बद्ब्राह्मणस्य कुशलं तदेव सततं वदेत् ।
तूष्णीमासीत निन्दायां कुर्वन्भैषज्यमात्मनः ॥ १२.२५१.१० ॥

应当常说婆罗门的福祉;遇到诽谤时便保持沉默,以此作为自己的良药。

12.251.11

येन पूर्णमिवाकाशं भवत्येकेन सर्वदा ।
शून्यं येन जनाकीर्णं तं देवा ब्राह्मणं विदुः ॥ १२.२५१.११ ॥

若一人独处,天空便常觉充盈;若人群拥挤,此人在其中却觉空虚——诸神称此人为婆罗门。

12.251.12

येनकेन चिदाच्छन्नो येनकेनचिदाशितः ।
यत्र क्वचन शायी च तं देवा ब्राह्मणं विदुः ॥ १२.२५१.१२ ॥

以随便得来的衣服遮体,以随便得来的食物充饥,无论在何处躺卧——诸神称此人为婆罗门。

12.251.13

अहेरिव गणाद्भीतः सन्मानान्मरणादिव ।
कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः ॥ १२.२५१.१३ ॥

畏惧如畏蛇、畏群众、畏荣誉、畏死亡、畏尸体、畏女人的人,诸神称他为婆罗门。

12.251.14

न कुद्ध्येन्न प्रहृष्येच्च मानितोऽमानितश्च यः ।
सर्वभूतेष्वभयदस्तं देवा ब्राह्मणं विदुः ॥ १२.२५१.१४ ॥

受尊敬或受轻慢时不怒不喜,并给予一切众生无畏者,诸神称他为婆罗门。

12.251.15

नाभिनन्देत मरणं नाभिनन्देत जीवितम् ।
कालमेव प्रतीक्षेत निदेशं भृतको यथा ॥ १२.२५१.१५ ॥

不应欢迎死亡,也不应欢迎生存;只应等待时机,如同受雇的仆人等待主人的命令。

12.251.16

अनभ्याहतचित्तः स्यादनभ्याहतवाग्भवेत् ।
निर्मुक्तः सर्वपापेभ्यो निरमित्रस्य किं भयम् ॥ १२.२५१.१६ ॥

其心不被扰乱,其言不伤人;解脱一切罪恶、无有敌人之人,还有什么可怕的呢?

12.251.17

अभयं सर्वभूतेभ्यो भूतानामभयं यतः ।
तस्य मोहाद्विमुक्तस्य भयं नास्ति कुतश्चन ॥ १२.२५१.१७ ॥

众生因他而得无畏,他因众生而得无畏;从迷惑中解脱者,从任何地方都无所畏惧。

12.251.18

यथा नागपदेऽन्यानि पदानि पदगामिनाम् ।
सर्वाण्येवापिलीयन्ते पदजातानि कौञ्जरे ॥ १२.२५१.१८ ॥

如同象迹之中,其他行走众生的足迹全都被包含其中,它们都归于一处。

12.251.19

एवं सर्वमहिंसायां धर्मार्थमभिधीयते ।
अमृतः स नित्यं भवति यो हिंसां न प्रपद्यते ॥ १२.२५१.१९ ॥

如此,一切皆为法而在不害中宣说。不诉诸暴力者,恒成不死。

12.251.20

अहिसंकः समः सत्यो धृतिमान्नियतेन्द्रियः ।
शरण्यः सर्वभूतानां गतिमाप्नोत्यनुत्तमाम् ॥ १२.२५१.२० ॥

不害、平等、诚实、坚定、制御诸根者,为一切众生之所依,得至上之归宿。

12.251.21

एवं प्रज्ञानतृप्तस्य निर्भयस्य निराशिषः ।
न मृत्युरतिगो भावः स मृत्युं नाधिगच्छति ॥ १२.२५१.२१ ॥

如是于智满足、无畏、无所求者,死非其阻;彼不遇死。

12.251.22

विमुक्तं सर्वसङ्गेभ्यो मुनिमाकाशवत्स्थितम् ।
अस्वमेकचरं शान्तं तं देवा ब्राह्मणं विदुः ॥ १२.२५१.२२ ॥

离诸执著,安住如虚空,为牟尼,无所有,独行而寂静者,诸天称之为婆罗门。

12.251.23

जीवितं यस्य धर्मार्थं धर्मो हर्यर्थमेव च ।
अहोरात्राश्च पुण्यार्थं तं देवा ब्राह्मणं विदुः ॥ १२.२५१.२३ ॥

其生为法,法为求吉祥之主,昼夜为福德者,诸天称之为婆罗门。

12.251.24

निराशिषमनारम्भं निर्नमस्कारमस्तुतिम् ।
निर्मुक्ते बन्धनैः सर्वैस्तं देवा ब्राह्मणं विदुः ॥ १२.२५१.२४ ॥

无求福、无所作,不礼拜、不赞颂,解脱一切缚者,诸天称之为婆罗门。

12.251.25

सर्वाणि भूतानि सुखे रमन्ते ।
सर्वाणि दुःखस्य भृशं त्रसन्ते।
तेषां भयोत्पादनजातखेदः ।
कुर्यान्न कर्माणि हि श्रद्दधानः ॥ १२.२५१.२५ ॥

一切众生喜乐于安乐,一切众生极度畏惧苦难。使他们生起恐惧、引发忧苦的行为,有信心的人不应去做。

12.251.26

दानं हि भूताभयदक्षिणायाः ।
सर्वाणि दानान्यधितिष्ठतीह।
तीक्ष्णां तनुं यः प्रथमं जहाति ।
सोऽनन्तमाप्नोत्यभयं प्रजाभ्यः ॥ १२.२५१.२६ ॥

此处,以使众生无畏为布施之酬的施舍,乃是一切布施的根基。首先舍弃对身体的执着者,能为众生获得无尽的无畏。

12.251.27

स दत्तमास्येन हविर्जुहोति ।
लोकस्य नाभिर्जगतः प्रतिष्ठा।
तस्याङ्गमङ्गानि कृताकृतं च ।
वैश्वानरः सर्वमिदं प्रपेदे ॥ १२.२५१.२७ ॥

他以口将所施之物作为祭品奉献。他是世界的肚脐,宇宙的根基。他的肢体,以及一切已作与未作之事,都进入了火神吠舍婆罗(Vaiśvānara)之中。

12.251.28

प्रादेशमात्रे हृदि निःसृतं य ।
त्तस्मिन्प्राणानात्मयाजी जुहोति।
तस्याग्निहोत्रं हुतमात्मसंस्थं ।
सर्वेषु लोकेषु सदैवतेषु ॥ १२.२५१.२८ ॥

在心中,那如一指宽大小显现之处,自我祭祀者将诸气息奉献其中。他安住于自我而行的火供,在一切世界中与诸神一同结出果实。

12.251.29

देवं त्रिधातुं त्रिवृतं सुपर्ण ।
ये विद्युरग्र्यां परमात्मतां च।
ते सर्वलोकेषु महीयमाना ।
देवाः समर्था अमृतं वहन्ति ॥ १२.२५१.२९ ॥

那些知晓安立于三界、三重的善翼之神,以及他最上的至高自性的人,在一切世界中受到尊崇。作为有能力的神,他们承载不死。

12.251.30

वेदांश्च वेद्यं तु विधिं च कृत्स्न ।
मथो निरुक्तं परमार्थतां च।
सर्वं शरीरात्मनि यः प्रवेद ।
तस्य स्म देवाः स्पृहयन्ति नित्यम् ॥ १२.२५१.३० ॥

谁完全通晓吠陀、应当知晓的规则、完整的尼卢克多、至高真理,以及身体与自我中的一切,诸神便时常渴望他。

12.251.31

भूमावसक्तं दिवि चाप्रमेयं ।
हिरण्मयं योऽण्डजमण्डमध्ये।
पतत्रिणं पक्षिणमन्तरिक्षे ।
यो वेद भोग्यात्मनि दीप्तरश्मिः ॥ १२.२५१.३१ ॥

谁知晓那依附大地、在天空中不可测量、在卵生之球中央金色、在空中为有翼之鸟、具有光辉光线、居于可享受之自我中的那一位。

12.251.32

आवर्तमानमजरं विवर्तनं ।
षण्णाभिकं द्वादशारं सुपर्व।
यस्येदमास्योपरि याति विश्वं ।
यत्कालचक्रं निहितं गुहायाम् ॥ १२.२५१.३२ ॥

那永恒旋转、不老、不断转动的时轮,有六个毂、十二根辐条和美妙的接合处,此宇宙在其口之上运行,那时轮被安置于洞穴之中。

12.251.33

यः संप्रजानञ्जगतः शरीरं ।
सर्वान्स लोकानधिगच्छतीह।
तस्मिन्हितं तर्पयतीह देवां ।
स्ते वै तृप्तास्तर्पयन्त्यास्यमस्य ॥ १२.२५१.३३ ॥

能够完全通晓世界之身者,在此获得一切世界。献于他的供品在此使诸神满足;诸神满足之后,也使他的口得到满足。

12.251.34

तेजोमयो नित्यमयः पुराणो ।
लोकाननन्तानभयानुपैति।
भूतानि यस्मान्न त्रसन्ते कदाचि ।
त्स भूतानां न त्रसते कदाचित् ॥ १२.२५१.३४ ॥

光明、本性永恒、古老的他,抵达无尽而无惧的诸世界。众生从不畏惧他,他也从不畏惧众生。

12.251.35

अगर्हणीयो न च गर्हतेऽन्या ।
न्स वै विप्रः परमात्मानमीक्षेत्।
विनीतमोहो व्यपनीतकल्मषो ।
न चेह नामुत्र च सोऽन्नमर्च्छति ॥ १२.२५१.३५ ॥

不可非议、也不非议他人的那位婆罗门,应当观见至上我。迷惑已除、罪垢已净者,无论此世或彼世,都不求食物。

12.251.36

अरोषमोहः समलोष्टकाञ्चनः ।
प्रहीणशोको गतसन्धिविग्रहः।
अपेतनिन्दास्तुतिरप्रियाप्रिय ।
श्चरन्नुदासीनवदेष भिक्षुकः ॥ १२.२५१.३६ ॥

无怒无痴,视土块与黄金齐同,离忧悲,超越和与战,离毁誉,于可爱与不可爱同等,如漠然者般游行,此即比丘。