Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.253

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.253.1

अध्यात्मं विस्तरेणेह पुनरेव वदस्व मे ।
यदध्यात्मं यथा वेद भगवन्नृषिसत्तम ॥ १२.२५३.१ ॥

请你在此再次详细地为我讲述内在自我(adhyātma),正如你所知道的那样,尊贵的人,圣者中最优秀的。

12.253.2

अध्यात्मं यदिदं तात पुरुषस्येह विद्यते ।
तत्तेऽहं वर्तयिष्यामि तस्य व्याख्यामिमां शृणु ॥ १२.२५३.२ ॥

亲爱的孩子,人身上此处存在的内在自我(adhyātma),我将为你讲述;听这番阐释。

12.253.3

भूमिरापस्तथा ज्योतिर्वायुराकाश एव च ।
महाभूतानि भूतानां सागरस्योर्मयो यथा ॥ १२.२५३.३ ॥

地、水,以及光明(火)、风、空,这些是大种(mahābhūta),如同大海的波浪。

12.253.4

प्रसार्येह यथाऽङ्गानि कूर्मः संहरते पुनः ।
तद्वन्महान्ति भूतानि यवीयःसु विकुर्वते ॥ १२.२५३.४ ॥

如同龟伸出肢体,又再收回,大种也在较小的生灵之中产生变化。

12.253.5

इति तन्मयमेवेदं सर्वं स्थावरजङ्गमम् ।
सर्गे च प्रलये चैव तस्मिन्निर्दिश्यते तथा ॥ १२.२५३.५ ॥

如此,这一切不动与动的世界都由它们构成;在创造与毁灭中,它也被宣说为存在于它们之中。

12.253.6

महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत् ।
अकरोत्तात वैषम्यं यस्मिन्यदनुपश्यति ॥ १२.२५३.६ ॥

五大种,在一切众生之中,造化众生者,亲爱的孩子,造成了差异;在其中,人所看见的即是所见。

12.253.7

अकरोद्यच्छरीरेषु कथं तदुपलक्षयेत् ।
इन्द्रियाणि गुणाः केचित्कथं तानुपलक्षयेत् ॥ १२.२५३.७ ॥

如何察知他在身体中所造之物?如何察知诸根与某些属性?

12.253.8

एतत्ते वर्तयिष्यामि यथावदनुपूर्वकः ।
शृणु तत्त्वमिहैकाग्रो यथा तत्त्वं यथा च तत् ॥ १२.२५३.८ ॥

我将依次如实地为你讲述。请专心在此聆听真理,如其所是,如其所以。

12.253.9

शब्दः श्रोत्रं तथा खानि त्रयमाकाशसंभवम् ।
प्राणश्रेष्टा तथा स्पर्श एते वायुगुणास्त्रयः ॥ १२.२५३.९ ॥

声、耳及身体的孔窍,这三者生于虚空。气息的活动与触觉,这三者是风的属性。

12.253.10

रूपं चक्षुर्विपाकश्च त्रिधा ज्योतिर्विधीयते ।
रसोऽथ रसनं स्नेहो गुणास्त्वेते त्रयोऽम्भसः ॥ १२.२५३.१० ॥

色、眼与变化,光明有三种安立。味、舌与润泽,这三者是水的属性。

12.253.11

घ्रेयं घ्राणं शरीरं च भूमेरेते गुणास्त्रयः ।
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी ॥ १२.२५३.११ ॥

香、嗅觉与身体,这三者是地的属性。耳、皮肤、双眼、舌与鼻,以及第五者。

12.253.12

एतावानिन्द्रियग्रामो व्याख्यातः पाञ्चभौतिकः ।
वायोः स्पर्शो रसोऽद्भ्यश्च ज्योतिषो रुपमुच्यते।
आकाशप्रभवः शब्दो गन्धो भूमिगुणः स्मृतः ॥ १२.२५३.१२ ॥

如此,由五大所成的诸根已被阐明:触由风生,味由水生,色由光生。声生于虚空,香为地之属性,应当如此记取。

12.253.13

मनो बुद्धिः स्वभावश्च त्रय एते मनोमयाः ।
न गुणानतिवर्तन्ते गुणेभ्यः परमागताः ॥ १२.२५३.१३ ॥

意、智与自性,这三者皆由意所成。已达至上之境、超越诸德的人,不会超出诸德。

12.253.14

यथा कूर्म इहाङ्गानि प्रसार्य विनियच्छति ।
एवमेवेन्द्रियग्रामं बुद्धिः सृष्ट्वा नियच्छति ॥ १२.२५३.१४ ॥

如龟伸展肢体后又收回,智慧亦是如此:创生诸根之后,又加以约束。

12.253.15

यदूर्ध्वं पादतलयोरवाङ्भूर्ध्नश्च पश्यति ।
एतस्मिन्नेव कृत्ये तु वर्तते बुद्धिरुत्तमा ॥ १२.२५३.१५ ॥

从足底向上、从头顶向下而观看者——高超的智慧正致力于此事。

12.253.16

गुणान्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि ।
मनः षष्ठानि सर्वाणि बुद्ध्य भावे कृतो गुणाः ॥ १२.२५३.१६ ॥

智慧受诸德引导,诸根亦由智慧所引;意为第六。若无智慧,诸德皆归于无作。

12.253.17

इन्द्रियाणि नरे पञ्च षष्ठं तु मन उच्यते ।
सप्तमीं बुद्धिमेवाहुः क्षेत्रज्ञं पुनरष्टमम् ॥ १२.२५३.१७ ॥

人身有五根;第六称为意。第七他们说即是智慧,第八则是知田者。

12.253.18

चक्षुरालोचनायैव संशयं कुरुते मनः ।
बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते ॥ १२.२५३.१८ ॥

眼只为观看,而意却生起疑惑;智慧用以决断;见证者则称为知田者。

12.253.19

रजस्तमश्च सत्वं च त्रय एते स्वयोनिजाः ।
समाः सर्वेषु भूतेषु तान्गुणानुपलक्षयेत् ॥ १२.२५३.१९ ॥

羅闍、答摩與悉陀——這三者各由其本源所生,平等地存在於一切眾生之中;應當辨識這些德性。

12.253.20

तत्र यत्प्रीतिसंयुक्तं किंचिदात्मनि लक्षयेत् ।
प्रशान्तमिव संशुद्धं सत्वं तदुपधारयेत् ॥ १२.२५३.२० ॥

在自我之中,與喜悅相連、看似寂靜而清淨者,應當領會為悉陀(善性)。

12.253.21

यत्तु संतापसंयुक्तं काये मनसि वा भवेत् ।
प्रवृत्तं रज इत्येवं तत्र चाप्युपलक्षयेत् ॥ १२.२५३.२१ ॥

然而身或心中與憂惱相連、奔動而行者,是羅闍;在那裡也應辨識它。

12.253.22

यत्तु संमोहसंयुक्तमव्यक्तविषयं भवेत् ।
अप्रतर्क्यमविज्ञेयं तमस्तदुपधार्यताम् ॥ १२.२५३.२२ ॥

然而與迷惑相連、以不顯現者為對象、超越思辨且不可知者,應當理解為答摩(暗性)。

12.253.23

प्रहर्षः प्रीतिरानन्दः साम्यं स्वस्थात्मचित्तता ।
अकस्माद्यदि वा कस्माद्वर्तन्ते सात्विका गुणाः ॥ १२.२५३.२३ ॥

喜悅、欣悅、歡樂、平等,以及自我安住的心境——無論突然生起還是由某種原因而生——這些便是善性之德。

12.253.24

अभिमानो मृषावादो लोभो मोहस्तथाऽक्षमा ।
लिङ्गानि रजसस्तानि वर्तन्ते हेत्वहेतुतः ॥ १२.२५३.२४ ॥

傲慢、妄語、貪婪、迷惑與不忍——這些是羅闍的標誌,無論有因或無因而存在。

12.253.25

तथा मोहः प्रमादश्च निद्रा तन्द्रा प्रबोधिता ।
कथंचिदभिवर्तन्ते विज्ञेयास्तामसा गुणाः ॥ १२.२५३.२५ ॥

同样,迷惑、放逸、睡眠与昏沉,一旦被唤起,便以某种方式生起;应当知道这些是暗性(tamas)的德性。