Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.268

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.268.1

इत्युक्तः स तदा तेन तुलाधारेण धीमता ।
प्रोवाच वचनं धीमाञ्जाजलिर्जपतांवरः ॥ १२.२६८.१ ॥

当时,这位智慧的秤手如此回答后,诵经者中最优秀的智者惊陀梨(Jājali)合掌说道。

12.268.2

विक्रीणतः सर्वरसान्सर्वगन्धांश्च वाणिज ।
वनस्पतीनोषधीश्च तेषां मूलफलानि च ॥ १२.२६८.२ ॥

商人啊,你售卖各种汁液、各种香料,以及树木、草药及其根与果实。

12.268.3

अग्र्या सा नैष्ठिकी बुद्धिः कुतस्त्वामियमागता ।
एतदाचक्ष्व मे सर्वं निखिलेन महामते ॥ १२.२६८.३ ॥

这至高而坚定的智慧从何而来?啊,大智者,请把一切完整地告诉我。

12.268.4

एवमुक्तस्तुलाधारो ब्राह्मणेन यशस्विना ।
उवाच धर्मसूक्ष्माणि वैश्यो धर्मार्थतत्त्ववित् ॥ १२.२६८.४ ॥

这位著名的婆罗门如此相问后,精通法与利之真谛的吠舍(商人)图拉陀罗(Tulādhāra)讲述了法的微妙之处。

12.268.5

वेदाहं जाजले धर्मं सरहस्यं सनातनम् ।
सर्वभूतहितं मैत्रं पुराणं यं जना विदुः ॥ १२.२६८.५ ॥

啊,惊陀梨,我知晓那连同其秘密的永恒之法。它利益一切众生,慈爱友善,古老悠久,世人皆知。

12.268.6

अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः ।
या वृत्तिः स परो धर्मस्तेन जीवामि जाजले ॥ १२.२६८.६ ॥

不伤害众生,或仅有极小伤害的谋生之道,便是至高之法;我正是依此而生活,啊,惊陀梨。

12.268.7

परिच्छिन्नैः काष्ठतृणैर्मयेदं शरणं कृतम् ।
अलक्तं पद्मकं तुङ्गं गन्धांश्चोच्चावचांस्तथा ॥ १२.२६८.७ ॥

我以砍下的木材和草搭建了此处的住所;漆、莲花木、高大的木材以及各式香料(我售卖)。

12.268.8

रसांश्च तांस्तान्विप्रर्षे मद्यवर्ज्यान्बहूनहम् ।
क्रीत्वा वै प्रतिविक्रीणे परहस्तादमायया ॥ १२.२६८.८ ॥

婆罗门中最优秀者啊,除了酒,我从他人手中购买许多种汁液,然后不欺诈地转卖。

12.268.9

सर्वेषां यः सुहृन्नित्यं सर्वेषां च हिते रतः ।
कर्मणा मनसा वाचा स धर्मं वेद जाजले ॥ १२.२६८.९ ॥

常与一切众生为友、乐于一切众生之利益者,以行为、心意与言语——他才懂得法,哦,阇阇利。

12.268.10

नानुरुध्ये विरुध्ये वा न द्वेष्मि न च कामये ।
समोऽहं सर्वभूतेषु पश्य मे जाजले व्रतम्।
तुला मे सर्वभूतेषु समा तिष्ठति जाजले ॥ १२.२६८.१० ॥

我不偏向,不反对,不憎恨,也不贪求。我对一切众生平等;哦,阇阇利,请看我的誓愿。哦,阇阇利,我的天平对一切众生保持平衡。

12.268.11

नाहं परेषां कृत्यानि प्रशंसामि न गर्हये ।
आकाशस्येव विप्रेन्द्र पश्यँल्लोकस्य चित्रताम् ॥ १२.२६८.११ ॥

我不称赞他人的行为,也不非议;哦,婆罗门之主,我像天空一样观看世界的多样。

12.268.12

कृपा मे सर्वभूतेषु समा तिष्ठति जाजले ।
इष्टानिष्टनियुक्तस्य प्रियद्वेषौ बहिष्कृतौ ॥ १२.२६८.१२ ॥

哦,阇阇利,我的慈悲对一切众生保持平等。被系缚于可欲与不可欲之中者的爱与憎,已被我舍弃。

12.268.13

इति मां त्वं विजानीहि सर्वलोकस्य जाजले ।
समं मतिमतां श्रेष्ठ समलोष्टाश्मकाञ्चनम् ॥ १२.२६८.१३ ॥

贾阇利啊,你应当这样认识我:我对整个世界一视同仁。智者中最优秀的人啊,对我而言,土块、石头与黄金都是一样的。

12.268.14

यथाऽन्धबधिरोत्मत्ता उच्छ्वासपरमाः सदा ।
देवैरपिहितद्वाराः सोपमा पश्यतो मम ॥ १२.२६८.१४ ॥

如同盲人、聋人和疯人,他们始终只专注于呼吸,诸神已关闭了他们的门户——这样的比喻在我身上可以看到。

12.268.15

यथा वृद्धातुरकृशा निस्पृहा विषयान्प्रति ।
तथाऽर्थकामभोगेषु ममापि विगता स्पृहा ॥ १२.२६८.१५ ॥

如同老者、病人和羸弱之人对感官对象不再有渴望,我对财富、欲望与享受的渴望也已消失。

12.268.16

यदा चायं न बिभेति यदा चास्मान्न बिभ्यति ।
यदा नेच्छति न द्वेष्टि तदा सिद्ध्यति वै द्विज ॥ १२.२६८.१६ ॥

当他不惧怕任何人,也没有任何人惧怕他,当他既不渴求也不憎恨时,婆罗门啊,那时他必定获得成就。

12.268.17

यदा न कुरुते भावं सर्वभूतेषु पापकम् ।
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥ १२.२६८.१७ ॥

当一个人对一切众生,无论身、心或言,都不生起恶念时,那时他便证得梵。

12.268.18

न भूतो न भविष्योऽस्ति न च धर्मोस्ति कश्चन ।
योऽभयः सर्वभूतानां स प्राप्नोत्यभयं पदम् ॥ १२.२६८.१८ ॥

无论过去还是未来,都没有比这更高的法:对一切众生无所畏惧的人,便得到无畏之境。

12.268.19

यस्मादुद्विजते लोकः सर्वो मृत्युमुखादिव ।
वाक्क्रूराद्दण्डपरुषात्स प्राप्नोति महद्भयम् ॥ १२.२६८.१९ ॥

因为众生如同面对死亡之口般惊惧;以残酷之言和严厉之罚恐吓他人者,必得大恐惧。

12.268.20

यथावद्वर्तमानानां वृद्धानां पुत्रपौत्रिणाम् ।
अनुवर्तामहे वृत्तमहिंस्त्राणां महात्मनाम् ॥ १२.२६८.२० ॥

我们效法那些行为端正、有子有孙的长者之行,也效法那些不伤害他人的大德之人之行。

12.268.21

प्रनष्टः शाश्वतो धर्मः सदाचारेण मोहितः ।
तेन वैद्यस्तपस्वी वा बलवान्वा विमुह्यते ॥ १२.२६८.२१ ॥

永恒的法因恶行而失坠、为迷惑所蔽;法一旦败坏,医者、苦行者或强者也因此陷入迷惘。

12.268.22

आचाराज्जाजले प्राज्ञः क्षिप्रं धर्ममवाप्नुयात् ।
एवं यः साधुभिर्दान्तश्चरेदद्रोहचेतसा ॥ १२.२६८.२२ ॥

哦,闍遮利,智者以善行可以迅速获得法;如此,被善人所调伏,以无恶意之心而行事者,也能得法。

12.268.23

नद्यां चेह यथा काष्ठमुह्यमानं यदृच्छया ।
यदृच्छयैव काष्ठेन सन्धि गच्छेत केनचित् ॥ १२.२६८.२३ ॥

譬如河中漂流的一根木头,偶然地与另一根木头相遇。

12.268.24

तत्रापराणि दारूणि संसृज्यन्ते ततस्ततः ।
तृणकाष्ठकरीपाणि कदाचिन्न समीक्षया ॥ १२.२६८.२४ ॥

在那里,其他木块、草、树枝与牛粪饼,在这里那里相互聚合,从不是出于深思熟虑。

12.268.25

यस्मान्नोद्विजते भूतं जातु किंचित्कथंचन ।
अभयं सर्वभूतेभ्यः स प्राप्नोति सदा मुने ॥ १२.२६८.२५ ॥

因为没有任何众生会以任何方式感到恐惧,他总能从一切众生那里获得无畏,哦智者。

12.268.26

यस्मादुद्विजते विद्वन्सर्वलोको वृकादिव ।
क्रोशतस्तीरमासाद्य यथा सर्वे जलेचराः ॥ १२.२६८.२६ ॥

因为,哦学者,整个世界都像害怕狼一样感到恐惧,就如同所有到达岸边而哀号的水生生物一样。

12.268.27

एवमेवायमाचारः प्रादुर्भूतो यतस्ततः ।
सहायवान्द्रव्यवान्यः सुभगोऽथ परस्तथा ॥ १२.२६८.२७ ॥

同样,这种行为从四面八方产生:拥有助手和财富的人是幸运的,另一个人也同样如此。

12.268.28

ततस्तानेव कवयः शास्त्रेषु प्रवदन्त्युत ।
कीर्त्यर्थमल्पहृल्लेखाः पटवः कृत्स्ननिर्णयाः ॥ १२.२६८.२८ ॥

于是,诗人们在论著中正是宣扬这些人,为了名声——那些心中少有文字、灵巧、具有完整定论的人。

12.268.29

तपोभिर्यज्ञदानैश्च वाक्यैः प्रज्ञाश्रितैस्तथा ।
प्राप्नोत्यभयदानस्य यद्यत्फलमिहाश्नुते ॥ १२.२६८.२९ ॥

通过苦行、祭祀与布施,以及同样依托智慧的言语,人享受他在此所获得的无畏布施的任何果报。

12.268.30

लोके यः सर्वभूतेभ्यो ददात्यभयदक्षिणाम् ।
स सत्ययज्ञैरीजानः प्राप्नोत्यभयदक्षिणाम् ॥ १२.२६८.३० ॥

在世间向一切众生布施无畏之酬的人,以真实的祭祀行祭,便能获得无畏之酬。

12.268.31

न भूतानामहिंसाया ज्यायान्धर्मोऽस्ति कश्चन ।
यस्मान्नोद्विजते भूतं जातु किंचित्कथंचन।
सोऽभयं सर्वभूतेभ्यः संप्राप्नोति महामुने ॥ १२.२६८.३१ ॥

对众生不伤害,没有比这更高的法。因为没有任何众生会以任何方式害怕。他从一切众生那里获得无畏,大仙啊。

12.268.32

यस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव ।
न स धर्ममवाप्नोति इह लोके परत्र च ॥ १२.२६८.३२ ॥

世间畏惧他,如同畏惧进入屋中的毒蛇;他在此世和来世都得不到法。

12.268.33

सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः ।
देवाऽपि मार्गे मुह्यन्ति ह्यपदस्य पदैपिणः ॥ १२.२६८.३३ ॥

对于成为一切众生之我、并看见一切众生的人之道,即便寻求那无迹可寻之境的诸神也会迷惑。

12.268.34

दानं भूताभयस्याहुः सर्वदानेभ्य उत्तमम् ।
ब्रवीमि ते सत्यमिदं श्रद्धत्स्व मम जाजले ॥ १२.२६८.३४ ॥

人们说,给予众生无畏之施,是一切布施中最殊胜的。哦,遮罗利,我把这真理告诉你,请对它生起信心。

12.268.35

स एव सुभगो भूत्वा पुनर्भवति दुर्भगः ।
व्यापत्तिं कर्मणां दृष्ट्वा जुगुप्सन्ति जनाः सदा ॥ १२.२६८.३५ ॥

这同一个人,成为有福之人后,又变成不幸之人;见到他的业行遭受毁灭,人们便常常鄙视他。

12.268.36

अकारणो हि नैवास्ति धर्मः सूक्ष्मो हि जाजले ।
भूतभव्यार्थमेवेह धर्मप्रवचनं कृतम् ॥ १२.२६८.३६ ॥

哦,遮罗利,法并非无因,法是微妙的。这里宣说法,只是为了现在与未来众生的福祉。

12.268.37

सूक्ष्मत्वान्न स विज्ञातुं शक्यते बहुनिह्नवः ।
उपलभ्यान्तरा चान्यानाचारानवबुध्यते ॥ १२.२६८.३७ ॥

因为法微妙,不易被认识,因为隐瞒它的人很多。通过观察他人的行为而有所领悟的人,才能理解它。

12.268.38

ये च च्छिन्दन्ति वृषणान्ये च भिन्दन्ति नस्तकान् ।
वहन्ति महतो भारान्बध्नन्ति दमयन्ति च।
हत्वा सत्वानि खादन्ति तान्कथं न विगर्हसे ॥ १२.२६८.३८ ॥

那些割去动物睾丸、穿透它们鼻子、让它们负重、捆绑驯服、杀害生灵来食用的人,你为何不谴责他们?

12.268.39

मानुषा मानुपानेव दासभोगेन भुञ्जते ।
वधबन्धनिरोधेन कारयन्ति दिवानिशम् ॥ १२.२६८.३९ ॥

人类把其他人变为奴仆,借他们来享乐;以杀戮、捆绑和囚禁,使他们日夜劳作。

12.268.40

आत्मनश्चापि जानाति यद्दुःखं वधबन्धने ।
पञ्चेन्द्रियेषु भूतेषु सर्वं वसति दैवतम् ॥ १२.२६८.४० ॥

自己知道被杀与被缚之痛的人,便知道神性完整地居于一切具有五根的众生之中。

12.268.41

आदित्यश्चन्द्रमा वायुर्ब्रह्मा प्राणः क्रतुर्यमः ।
तानि जीवानि विक्रीय का मृतेषु विचारणा ॥ १२.२६८.४१ ॥

太阳、月亮、风、梵天、气息、祭祀仪式与阎摩,都是有生命之物。既然把它们卖掉了,还有什么可考虑关于死者的事呢?

12.268.42

अजोऽग्निर्वरुणो मेपः सूर्योऽश्वः पृथिवी विराट् ।
धेनुर्वत्सश्च सोमो वै विक्रीयैतन्न सिध्यति ॥ १२.२६८.४२ ॥

山羊、火、伐楼那、公羊、太阳、马、大地、毗罗阇、母牛、牛犊与月神苏摩——即便把这一切都卖掉,此事也无法成就。

12.268.43

का तैले का धृते ब्रह्मन्मधुन्यप्स्वोषधीषु वा ॥ १२.२६८.४३ ॥

婆罗门啊,油中、酥中、蜜中、水中或草药中,(是什么)?

12.268.44

अदंशमशके देशे सुखसंवर्धितान्पशून् ।
तांश्च मातुः प्रियाञ्जानन्नाक्रम्य बहुधा नराः ॥ १२.२६८.४४ ॥

人们虽知在无蚊蝇之地被安逸养育的牲畜是母牛所爱,仍以种种方式加以侵害……

12.268.45

बहुदंशाकुलान्देशान्नयन्ति बहुकर्दमान् ।
वाहसंपीडिता धुर्याः सीदन्त्यविधिना परे ॥ १२.२६८.४५ ॥

他们把牲畜带往蚊虫众多、泥泞不堪的地方;被轭所困的驮负牲畜,以及其他的,无理地陷身泥中。

12.268.46

न मन्ये भ्रूणहत्याऽपि विशिष्टा तेन कर्मणा ।
कृपिं साध्विति मन्यन्ते सा च वृत्तिः सुदारुणा ॥ १२.२६८.४६ ॥

我不认为即使杀害胎儿也比这种行为更为恶劣;然而人们认为耕作为善,而这种谋生方式极为残酷。

12.268.47

भूमिं भूमिशयांश्चैव हन्ति काष्ठैरयोमुखैः ।
तथैवानडुहो युक्तान्क्षुत्तृष्णाश्रमकर्शितान् ॥ १२.२६८.४७ ॥

他用铁尖的棍棒击打土地和卧于地上的生灵,也击打被轭所缚、因饥渴劳累而瘦弱的牛。

12.268.48

अध्न्या इति गवां नाम क एता हन्तुमर्हति ।
महच्चकाराकुशलं वृथा यो गां निहन्ति ह ॥ १२.२६८.४८ ॥

“不可杀”是母牛的名称;谁配杀害它们?无故杀牛者,便是造下了大大的恶业。

12.268.49

ऋपयो यतयो ह्येतन्नहुपे प्रत्यवेदयन् ।
गां मातरं चाप्यवधीर्वृपभं च प्रजापतिम्।
अकार्यं नहुपाकापींर्लप्स्यामस्त्वत्कृते व्यथाम् ॥ १२.२६८.४९ ॥

诸仙人与苦行者告诉那诃沙:你杀了母牛、母亲和众生之主的公牛。这是不当之举;因你,我们将遭受苦恼。

12.268.50

शतं चैकं च रोगाणां सर्वभूतेष्वपातयन् ।
ऋपयस्ते महाभागाः प्रशस्तास्ते च जाजले ॥ १२.२६८.५० ॥

哦,阇萨利!那些大福德的仙人使一百零一种疾病降于一切众生;他们受到赞扬。

12.268.51

भ्रृणहं नहुषं त्वाहुर्न तं भोक्ष्यामहे वयम् ।
इत्युक्त्वा ते महात्मानः सर्वे तत्त्वार्थदर्शिनः।
ऋषयो यतयः शान्तास्तपसा प्रत्येषधयन् ॥ १२.२६८.५१ ॥

他们说:“人称你为杀胎者那诃沙;我们不食他的食物。”说完,那些了悟真义、心境平静的大心仙人与苦行者,以苦行将他驱逐。

12.268.52

ईदृशानशिवान्घोरानाचारानिह जाजले ।
केवलाचरितत्वात्तु निपुणो नावबुध्यसे ॥ १२.२६८.५२ ॥

哦,阇萨利!你因只顾自己的行为,故不能察知这世间如此不吉祥、可怕的行为,尽管你精明。

12.268.53

कारणाद्धर्ममन्विच्छन्न लोकं विरसं चरेत् ॥ १२.२६८.५३ ॥

若为某种缘故而求法,则不应使世界变得枯燥而生活。

12.268.54

यो हन्याद्यश्च मां स्तौति तत्रापि शृणु जाजले ।
समौ तावपि मे स्थातां न हि मे स्तः प्रियाप्रिये।
एतदीदृशकं धर्मं प्रशंसन्ति मनीषिणः ॥ १२.२६८.५४ ॥

哦,阇萨利!关于杀我的人和赞美我的人,也请听:愿他们二者对我而言都是一样的;对我来说没有可爱者,也没有不可爱者。智者称赞这样的法。

12.268.55

उपपत्त्या हि संपन्नो यतिभिश्चैव सेव्यते ।
सततं धर्मशीलैश्च निपुणेनोपलक्षितः ॥ १२.२६८.५५ ॥

具备理性领悟者,为苦行者所修习;为具有德行之人所恒常奉行,并为明智者所识别。