Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.279

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.279.1

कथं भवति पापात्मा कथं धर्मं करोति वा ।
केन निर्वेदमादत्ते मोक्षं वा केन गच्छति ॥ १२.२७९.१ ॥

心怀罪恶之人如何形成?或他如何行法(dharma)?他借何而生出厌离之心,或借何而得解脱(mokṣa)?

12.279.2

विदिताः सर्वधर्मास्ते स्थित्यर्थमनुपृच्छसि ।
शृणु मोक्षं सनिर्वेदं पापं धर्मं च मूलतः ॥ १२.२७९.२ ॥

你已知晓一切法(dharma),却仍为求安定而发问。请听解脱与厌离之说,并从根本听罪与法。

12.279.3

विज्ञानार्थं हि पञ्चानामिच्छापूर्वं प्रवर्तते ।
प्राप्यतां वर्तते कामो द्वेषो वा भरतर्षभ ॥ १२.२७९.३ ॥

为了认知五根,行动依欲望而先行发生。婆罗多中的雄牛啊,对于所欲获得之物,便生起贪爱或嫌恶。

12.279.4

ततस्तदर्थं यतते कर्म चारभते महत् ।
इष्टानां रूपगन्धानामभ्यासं च चिकीर्षति ॥ १२.२७९.४ ॥

于是他为此而努力,发起大业,并想要反复享受所喜爱的色相与香气。

12.279.5

ततो रागः प्रभवति द्वेषश्च तदनन्तरम् ।
ततो लोभः प्रभवति मोहश्च तदनन्तरम् ॥ १२.२७९.५ ॥

由此生起贪欲,随即生起嫌恶;由此生起贪婪,随即生起迷妄。

12.279.6

लोभमोहाभिभूतस्य रागद्वेषान्वितस्य च ।
न धर्मे जायते बुद्धिर्व्याजाद्धर्मं करोति च ॥ १२.२७९.६ ॥

被贪与痴所压倒、充满贪爱与嫌恶之人,其心不生于法;他以虚伪行法。

12.279.7

व्याजेन चरते धर्ममर्थं व्याजेन रोचते ।
व्याजेन सिद्ध्यमानेषु धर्मेषु कुरुनन्दन ॥ १२.२७९.७ ॥

人以欺诈行法,以欺诈求财。俱卢之喜,若法事借欺诈而成,便显得可欲。

12.279.8

तत्रैव कुरुते बुद्धिं ततः पापं चिकीर्षति ।
सुहृद्भिर्वार्यमाणोऽपि पण्डितैश्चापि भारत ॥ १२.२७९.८ ॥

他便将心念专注于此,继而欲行恶事,即便朋友与智者加以阻止。婆罗多之子啊。

12.279.9

उत्तरं न्यायसंबद्धं ब्रवीति विधिचोदितम् ।
अधर्मस्त्रिविधस्तस्य वर्धते रागमोहजः ॥ १२.२७९.९ ॥

他说出看似合乎道理、合于规则的回答,而由贪爱与迷惑所生的三重非法却在他心中增长。

12.279.10

पापं चिन्तयते कर्म प्रब्रवीति करोति च ।
तस्याधर्मप्रवृत्तस्य दोषान्पश्यन्ति साधवः ॥ १२.२७९.१० ॥

他思念恶行,宣扬恶行,也付诸实行。那陷入非法的人,其过失为善人所见。

12.279.11

एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः ।
स नेह सुखमाप्नोति कुत एव परत्र वै ॥ १२.२७९.११ ॥

同性情的作恶者结为朋友。他在此世尚不得乐,何况于彼世又从何得乐呢?

12.279.12

एवं भवति पापात्मा धर्मात्मानं तु मे शृणु ।
यथा कुशलधर्मा स कुशलं प्रतिपद्यते ॥ १२.२७९.१२ ॥

如此,人便成为心怀罪恶之人。现在听我说那心怀正法之人:行善法者如何得到善果。

12.279.13

कुशलेनैव धर्मेण गतिमिष्टां प्रपद्यते ।
य एतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति ॥ १२.२७९.१३ ॥

唯有以善巧的法,人才能抵达所愿之境;那先以智慧看清这些过失的人。

12.279.14

कुशलस्तु सुखार्थाय साधूंश्चाप्युपसेवते ।
तस्य साधुसमाचारादभ्यासाच्चैव वर्धते ॥ १२.२७९.१४ ॥

善巧之人为了幸福,也侍奉善人;由于善人的行为与修习,他便真正增长。

12.279.15

प्राज्ञो धर्मे च रमते धर्मं चैवोपजीवति ।
सोऽथ धर्मादवाप्तेषु धनेषु कुरुनन्दन ॥ १२.२७९.१५ ॥

智者喜好法,并只依靠法生活;然后,在由法所得的财富之中,哦,库鲁之喜。

12.279.16

तस्यैव सिञ्चते मूलं गुणान्पश्यति यत्र वै ।
धर्मात्मा भवति ह्येवं मित्रं च लभते शुभम् ॥ १२.२७९.१६ ॥

他正是在见到德性之处灌溉那根本;如此他成为法心之人,并得到善良的朋友。

12.279.17

स मित्रधनलाभात्तु प्रेत्य चेह च नन्दति ।
शब्दे स्पर्शे रसे रूपे तथा गन्धे च भारत ॥ १२.२७९.१७ ॥

他因获得朋友与财富,无论死后还是此生都感到欢喜;婆罗多之子啊,于声、触、味、色,以及香中也是如此。

12.279.18

प्रभुत्वं लभते जन्तुर्धर्मस्यैतत्फलं विदुः ।
स तु धर्मफलं लब्ध्वा न तृष्यति युधिष्ठिर ॥ १२.२७९.१८ ॥

众生获得主宰之位;人们知道这正是法的果报。然而他即便得到了法的果报,哦,坚战,也不会满足。

12.279.19

धर्मे स्थितानां कौन्तेय सर्वभोगक्रियासु च ।
अतृप्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा।
प्रज्ञाचक्षुर्यदा कामे दोषमेवानुपश्यति ॥ १२.२७९.१९ ॥

俱盧之子啊,安住于法、对一切享受之事永不满足的人,以智慧之眼生起离欲;当以慧眼者在欲望中只见其过失时。

12.279.20

शब्दे स्पर्शे तथा रूपे न च भावयते मनः ।
विमुच्यते तदा कामान्न च धर्मं विमुञ्चति ॥ १२.२७९.२० ॥

心不专注于声、触与色者,便从欲望中解脱,且不舍弃法。

12.279.21

सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम् ।
ततो मोक्षाय यतते नानुपायादुपायतः ॥ १२.२७९.२१ ॥

见世界本性归于败坏,便努力舍弃一切;随后以正当之方便求解脱,而非以不当之方便。

12.279.22

शनैर्निर्वेदमादत्ते पापं कर्म जहाति च ।
धर्मात्मा चैव भवति मोक्षं च लभते परम् ॥ १२.२७९.२२ ॥

渐渐生起离欲,舍弃恶行,成为真正的守法者,并证得至上解脱。

12.279.23

एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि ।
पापं धर्मस्तथा मोक्षो निर्वेदश्चैव भारत ॥ १२.२७९.२३ ॥

孩子,你所问我的,已为你说明:罪、法、解脱与离欲,婆罗多之后裔啊。

12.279.24

तस्माद्धर्मे प्रवर्तेथाः सर्वावस्थं युधिष्ठिर ।
धर्मे स्थितानां कौन्तेय सिद्धिर्भवति शाश्वती ॥ १२.२७९.२४ ॥

因此,般遮罗之子坚战啊,于一切境况中都应专心行法。俱盧之子啊,安住于法者,其成就便成为永恒。