摩诃婆罗多 · 章 12.281
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.281.1
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
नारदस्य च संवादं देवलस्यासितस्य च ॥ १२.२८१.१ ॥
此处讲述这段古老的历史:那罗陀与提婆罗、阿私多的对话。
12.281.2
आसीनं देवलं वृद्धं बुद्ध्वा बुद्धिमतां वरम् ।
नारदः परिपप्रच्छ भूतानां प्रभवाप्ययम् ॥ १२.२८१.२ ॥
那罗陀见年迈的提婆罗坐着,他是智者中最杰出的,便询问众生的生起与灭尽。
12.281.3
कुतः सृष्टमिदं विश्वं ब्रह्मन्स्थावरजङ्गमम् ।
प्रलये च कमभ्येति तद्भवान्प्रब्रवीतु मे ॥ १२.२८१.३ ॥
婆罗门啊,这不动与动的宇宙从何而造?在劫灭时又归于何处?请您告诉我。
12.281.4
येभ्यः सृजति भूतानि कालो भावप्रचोदितः ।
महाभूतानि पञ्चेति तान्याहुर्भूतचिन्तकाः ॥ १२.२८१.४ ॥
时间受存在所驱动,从之创造众生者,即五大元素,研究众生者如是说。
12.281.5
तेभ्यः सृजति भूतानि काल आत्मप्रचोदितः ।
एतेभ्यो यः परं ब्रूयादसद्ब्रूयादसंशयम् ॥ १२.२८१.५ ॥
时间自我驱动,从这些之中创造众生。若有人说超越这些的话,那无疑是说谎。
12.281.6
विद्धि नारद पञ्चैताञ्शाश्वतानचलान्ध्रुवान् ।
महतस्तेजसो राशीन्कालषष्ठान्स्वभावतः ॥ १२.२८१.६ ॥
那罗陀啊,应知这五者是永恒、不动、坚固的,是大光明之聚,以时间为第六,本性如此。
12.281.7
आपश्चैवान्तरिक्षं च पृथिवी वायुपावकौ ।
असिद्धिः परमेतेभ्यो भूतेभ्यो मुक्तसंशयम् ॥ १२.२८१.७ ॥
水、虚空、地、风与火——超越这些元素,至高的成就尚未达成,此事无疑。
12.281.8
नोपपत्त्या न वा युक्त्या त्वसद्ब्रूयादसंशयम् ।
वेत्थैतानभिनिर्वृत्तान्षडेते यस्य राशयः ॥ १२.२८१.८ ॥
不以推理与论证而无疑地言说虚妄。你知道这些从中生起的六种聚集。
12.281.9
पञ्चैव तानि कालश्च भावाभावौ च केवलौ ।
अष्टौ भूतानि भूतानां शाश्वतानि भवाव्ययौ ॥ १२.२८१.९ ॥
它们即是五者;还有时间,以及有与无这两种独立者。众生的八种元素是永恒的,不生不灭。
12.281.10
अभावभावितेष्वेव तेभ्यश्च प्रभवन्त्यपि ।
विनष्टोऽप्यनुतान्येव जन्तुर्भवति पञ्चधा ॥ १२.२८१.१० ॥
由无而生起者,便从它们中生起;即便毁灭,也复归于它们。众生以五种方式而成。
12.281.11
तस्य भूमिमयो देहः श्रोत्रमाकाशसंभवम् ।
सूर्याच्चक्षुरसुर्वायोरद्भ्यस्तु खलु शोणितम् ॥ १२.२८१.११ ॥
他的身体由地而成;听觉生于虚空;视觉来自太阳;气息来自风;而血液确实来自水。
12.281.12
चक्षुषी नासिकाकर्णौ त्वक् जिह्वेति च पञ्चमी ।
इन्द्रियाणीन्द्रियार्थानां ज्ञानानि कवयो विदुः ॥ १२.२८१.१२ ॥
两眼、鼻与耳、皮肤,以及第五的舌——这些是诸根;智者知道诸根所对境的认知。
12.281.13
दर्शनं श्रवणं घ्राणं स्पर्शनं रसनं तथा ।
उपपत्त्या गुणान्विद्धि पञ्च पञ्चसु धातुषु ॥ १२.२८१.१३ ॥
视、听、嗅、触、味——以理推之,当知为五大之德,五五相配。
12.281.14
रूपं गन्धो रसः स्पर्शः शब्दश्चैवाथ तद्गुणाः ।
इन्द्रियैरुपलभ्यन्ते पञ्चधा पञ्च पञ्चभिः ॥ १२.२८१.१४ ॥
色、香、味、触、声,乃其德;由诸根以五种方式所觉知,五五相配。
12.281.15
रूपं गन्धं रसं स्पर्शं शब्दं चैवाथ तद्गुणान् ।
इन्द्रियाणि न बुध्यन्ते क्षेत्रज्ञस्तैस्तु बुध्यते ॥ १२.२८१.१५ ॥
色、香、味、触、声及其德,诸根不能知;知场者以之而知。
12.281.16
चित्तमिन्द्रियसंघातात्परं तस्मात्परं मनः ।
मनसस्तु परा बुद्धिः क्षेत्रज्ञो बुद्धितः परः ॥ १२.२८१.१६ ॥
心高于诸根之集;高于心者为意;高于意者为觉;而知场者高于觉。
12.281.17
पूर्वं चेतयते जन्तुरिन्द्रियैर्विषयान्पृथक् ।
विचार्य मनसा पश्चादथ बुद्ध्या व्यवस्यति।
इन्द्रियैरुपसृष्टार्थान्मत्वा यस्त्वध्यवस्यति ॥ १२.२८१.१७ ॥
众生先以诸根各别觉知诸境;随后以意审察,再以觉而决定。若人思已诸根所呈之境而决定者……
12.281.18
चित्तमिन्द्रियसंघातं मनो बुद्धिस्तथाऽष्टमी ।
अष्टौ ज्ञानेन्द्रियाण्याहुरेतान्यध्यात्मचिन्तकाः ॥ १२.२८१.१८ ॥
心、诸根之集、意、觉,以之为第八;此八者,修习自我者称之为知根。
12.281.19
पाणिं पादं च पायुं च मेहनं पञ्चमं मुखम् ।
इति संशब्द्यमानानि शृणु कर्मेन्द्रियाण्यपि ॥ १२.२८१.१९ ॥
手、足、肛门、生殖器,第五是口:也请听那些被如此列举的作业根。
12.281.20
जल्पनाभ्यवहारार्थं मुखमिन्द्रियमुच्यते ।
गमनेन्द्रियं तथा पादौ कर्मणः करणे करौ ॥ १२.२८१.२० ॥
口被称为言语与饮食的根;两足是行走之根;两手是作业的工具。
12.281.21
पायूपस्थं विसर्गार्थमिन्द्रिये तुल्यकर्मणी ।
विसर्गे च पुरीषस्य विसर्गे चापि कामिके ॥ १२.२८१.२१ ॥
肛门与生殖器是排泄的两根,作用相同:在排出粪便时,也在因欲望而泄出时。
12.281.22
मनः षष्ठान्यथैतानि वाचा सम्यग्यथागमम् ।
ज्ञानचेष्टेन्द्रियगुणाः सर्वेषां शब्दिता मया ॥ १२.२८१.२२ ॥
意是第六;我依传统以言语正确地述说了这些:知根与作根的性质都已由我说明。
12.281.23
इन्द्रियाणां स्वकर्मभ्यः श्रमादुपरमो यदा ।
भवतीन्द्रियसंन्यासादथ स्वपिति वै नरः ॥ १२.२८१.२३ ॥
当因疲劳,诸根停止其自身的作用时,由于诸根的收摄,人便确实入睡。
12.281.24
इन्द्रियाणां व्युपरमे मनोऽव्युपरतं यदि ।
सेवते विषयानेव तं विद्यात्स्वप्नदर्शनम् ॥ १२.२८१.२४ ॥
诸根已止息,而意仍未止息,只是继续追逐诸境,应当知道那便是梦中所见。
12.281.25
सात्विकाश्चैव ये भावास्तथा राजसतामसाः ।
कर्मयुक्ताः प्रशंसन्ति सात्विकान्नेतरांस्तथा ॥ १२.२८१.२५ ॥
善性(sattva)之境,以及激情(rajas)与暗性(tamas)之境——从事行动者只赞美善性,而不赞美其他。
12.281.26
आनन्दः कर्मणां सिद्धिः प्रतिपत्तिः परा गतिः ।
सात्विकस्य निमित्तानि भावान्संश्रयसे स्मृतिः ॥ १२.२८१.२६ ॥
喜乐、行为之成就、所得与至高归宿——这些是善性的征象;依托诸境与记忆。
12.281.27
जन्तुष्वेकतमेष्वेवं भावं यो वा समास्थितः ।
भावयोरीप्सितं नित्यं प्रत्यक्षं गमनं द्वयोः ॥ १२.२८१.२७ ॥
在任何一种众生之中,凡安住于此种境界者,或两境之恒所欲求的、显然的往来。
12.281.28
इन्द्रियाणि च भावाश्च गुणाः सप्तदश स्मृताः ।
तेषामष्टादशो देही यः शरीरे स शाश्वतः ॥ १२.२८१.२८ ॥
诸根、诸境与诸德,合称十七;其中第十八者是有身者,居于身中,他是永恒的。
12.281.29
अथवा सशरीरास्ते गुणाः सर्वे शरीरिणाम् ।
संश्रितास्तद्वियोगे हि सशरीरा न सन्ति ते ॥ १२.२८१.२९ ॥
或者,那些诸德皆依附于有身者与身体同在;一旦分离,它们便不与身体同存。
12.281.30
अथवा संविभागेन शरीरं पाञ्चभौतिकम् ।
एकश्च दश चाष्टौ च गुणाः सह शरीरिणाम्।
ऊष्मणा सह विशो वा संघातः पाञ्चभौतिकः ॥ १२.२८१.३० ॥
或者,依分别,身体由五大构成;一、十、八诸德与有身者同在;众生与暖热同在,或即五大之聚合。
12.281.31
महान्संधारयत्येतच्छरीरं वायुना सह ।
सत्यप्रभावयुक्तस्य निमित्तं देहभेदने ॥ १२.२८१.३१ ॥
大者以风维持此身;对于具有真实力量者,这便是身体分离的原因。
12.281.32
तथैवोत्पद्यते किंचित्पञ्चत्वं गच्छते तथा ।
पुण्यपापविनाशान्ते पुण्यपापसमीरितः।
देहं विशति कालेन ततोऽयं कर्मसंभवम् ॥ १२.२८१.३२ ॥
同样,某物生起并走向五重散灭;在功德与过失消尽之后,受功德与过失的驱使,它随时入于一身,于是它便由业而生。
12.281.33
हित्वाहित्वा ह्ययं प्रैति देहाद्देहं कृताश्रयः ।
कालसंचोदितः क्षेत्री विशीर्णाद्वा गृहाद्गृहम् ॥ १२.२८१.३३ ॥
一再舍弃,此者离开一身而入于另一身,依于其所托;被时间驱使的有身者,如从坍塌的房屋走入另一所房屋。
12.281.34
तं तु नैवानुतप्यन्ते प्राज्ञा निश्चितनिश्चयाः ।
कृपणास्त्वनुतप्यन्ते जनाः संबन्धिमानिनः ॥ १२.२८१.३४ ॥
有决定之念的智者不为他悲伤;而那些以亲属自傲的卑微之人却悲伤。
12.281.35
न ह्ययं कस्यचित्कश्चिन्नास्य कश्चन विद्यते ।
भवत्येको ह्ययं नित्यं शरीरे सुखदुःखकृत् ॥ १२.२८१.३५ ॥
此者不属于任何人,也无人属于他;他永远孑然独处,是身中苦乐的造作者。
12.281.36
नैव संजायते जन्तुर्न च जातु विपद्यते ।
याति देहमयं मुक्त्वा कदाचित्परमां गतिम् ॥ १२.२८१.३६ ॥
此有情实不生,亦从不灭;舍离此身之后,某时达到最高之境。
12.281.37
पुण्यपापमयं देहं क्षपयन्कर्मसंक्षयात् ।
क्षीणदेहः पुनर्देही ब्रह्मत्वमुपगच्छति ॥ १२.२८१.३७ ॥
以业之穷尽磨灭这由功德与罪过构成的身体,身体已衰的有身者,重又得至梵的境界。
12.281.38
पुण्यपापक्षयार्थं हि साङ्ख्यज्ञानं विधीयते ।
तत्क्षये हृदि पश्यन्ति ब्रह्मभावे परां गतिम् ॥ १२.२८१.३८ ॥
盖为灭除功德与罪过,方才规定了数论之知;待其灭尽,便在心中见到梵的境界中的至高归宿。