マハーバーラタ · 章 12.294
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.294.1
कथं नु युक्तः पृथिवीं चरेदस्मद्विधो नृपः ।
नित्यं कैश्च गुणैर्युक्तः सङ्गपाशाद्विमुच्यते ॥ १२.२९४.१ ॥
我々のような王は大地をどのように歩むべきか、いかなる徳を備えれば執着の縄から解放されるのか。
12.294.2
अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् ।
अरिष्टनेमिना प्रोक्तं सगरायानुपृच्छते ॥ १२.२९४.२ ॥
ここで私はあなたに古い物語を語ろう。それはサガラの問いに答えてアリシュタネーミが語ったものだ。
12.294.3
किं श्रेयः परमं ब्रह्मन्कृत्वेह सुखमश्नुते ।
कथं न शोचेन्न क्षुभ्येदेतदिच्छामि वेदितुम् ॥ १२.२९४.३ ॥
ブラーフマナよ、至高の善とは何か。人はこの世で何をなして幸福を得るのか。どうすれば悲しまず動揺しないのか。私はそれを知りたい。
12.294.4
एवमुक्तस्तदा तार्क्ष्यः सर्वशास्त्रविदां वरः ।
विबुध्य संपदं चाग्र्यां सद्वाक्यमिदमब्रवीत् ॥ १२.२९४.४ ॥
サガラがこのように問うと、諸々の聖典に通じた最上の人タールクシャは、至上の富を悟って、このような善き言葉を語った。
12.294.5
सुखं मोक्षसुखं लोके न च मूढोऽवगच्छति ।
प्रसक्तः पुत्रपशुषु धनधान्यसमाकुलः ॥ १२.२९४.५ ॥
世には解脱の幸福がある。しかし愚者はそれを理解しない。息子や家畜に執着し、財産と穀物に心を奪われているのだ。
12.294.6
सक्तबुद्धिरशान्तात्मा स न शक्यश्चिकित्सितुम् ।
स्नेहपाशसितो मूढो न स मोक्षाय कल्पते ॥ १२.२९४.६ ॥
心が執着し、自己が静まらぬ者は癒すことができない。愛着の縄に縛られた愚者は解脱にふさわしくない。
12.294.7
स्नेहजानिह ते पाशान्वक्ष्यामि शृणु तान्मम ।
सकर्णकेन शिरसा शक्याश्छेत्तुं विजानता ॥ १२.२९४.७ ॥
ここで私は愛情から生じる絆についてあなたに語ります。私から聞きなさい。知る者は、棘ごと頭でそれを断ち切ることができます。
12.294.8
संभाव्य पुत्रान्कालेन यौवनस्थान्निवेश्य च ।
समर्थाज्जीवने ज्ञात्वा मुक्तश्चर यथासुखम् ॥ १२.२९४.८ ॥
時が来て息子たちを養い、青年期に身を立てさせ、彼らが生計を立てられると知ったなら、解放されて思いのままに歩みなさい。
12.294.9
भार्यां पुत्रवतीं वृद्धां लालितां पुत्रवत्सलाम् ।
ज्ञात्वा प्रजहि कालेन परार्थमनुदृश्य च ॥ १२.२९४.९ ॥
妻が息子を持ち、年老い、可愛がられ、息子を慈しむと知ったなら、時が来て至高の目的を見据えて彼女を捨てなさい。
12.294.10
सापत्यो निरपत्यो वा मुक्तश्चर यथासुखम् ।
इन्द्रियैरिन्द्रियार्थांस्त्वमनुभूय यथाविधि ॥ १२.२९४.१० ॥
子があろうとなかろうと、解放されて思いのままに歩みなさい。感覚によって感覚の対象を規定どおりに味わったうえで。
12.294.11
कृतकौन्तूहलस्तेषु मुक्तश्चर यथासुखम् ।
उपपत्त्योपलब्धेषु लोकेषु च समो भव ॥ १२.२९४.११ ॥
それらへの好奇心を満たしたなら、解放されて思いのままに歩みなさい。論理によって得られる諸世界にも平等心であれ。
12.294.12
एष तावत्समासेन तव संकीर्तितो मया ।
मोक्षार्थो विस्तरेणाथ भूयो वक्ष्यामि तच्छृणु ॥ १२.२९४.१२ ॥
これはあなたに、解脱の目的を簡潔に語ったものです。今度は詳しく再び語るので、それを聞きなさい。
12.294.13
मुक्ता वीतभया लोके चरन्ति सुखिनो नराः ।
सक्तभावा विनश्यन्ति नरास्तत्र न संशयः ॥ १२.२९४.१३ ॥
世間で解脱し恐れなく歩む人々は幸せである。執着の心をもつ人々は滅びる、それに疑いはない。
12.294.14
आहारसंचये सक्ता यथा कीटपिपीलिकाः ।
असक्ताः सुखिनो लोके सक्ताश्चैव विनाशिनः ॥ १२.२९४.१४ ॥
虫や蟻が食物の蓄えに執着するように、世間で無執着な者は幸せであり、執着する者は滅びる。
12.294.15
स्वजने न च ते चिन्ता कर्तव्या मोक्षबुद्धिना ।
इमे मया विनाभूता भविष्यन्ति कथं त्विति ॥ १२.२९४.१५ ॥
解脱を志す者は親族のことを心配すべきではなく、「私がいなければ彼らはどうなるのか」と考えてはならない。
12.294.16
स्वयमुत्पद्यते जन्तुः स्वयमेव विवर्धते ।
सुखदुःखे तथा मृत्युं स्वयमेवाधिगच्छति ॥ १२.२९४.१६ ॥
生き物は自ずから生まれ、自ずから成長する。同様に、苦楽と死もまた自ら迎えるのである。
12.294.17
भोजनाच्छादने चैव मात्रा पित्रा च संग्रहम् ।
स्वकृते नाधिगच्छन्ति लोके नास्त्यकृतं पुरा ॥ १२.२९४.१७ ॥
食べ物も衣服も、人は母や父の蓄えによってではなく、自らの行為によって得る。世にはかつて行わなかったものは何もない。
12.294.18
धात्रा विहितभक्ष्याणि सर्वभूतानि मेदिनीम् ।
लोके विपरिधावन्ति रक्षितानि स्वकर्मभिः ॥ १२.२९४.१८ ॥
創造主が食べ物を定めたすべての生き物は、世界の大地を走り回る。彼らは自らの行為によって守られている。
12.294.19
स्वयं मृत्पिण्डभूतस्य परतन्त्रस्य सर्वदा ।
को हेतुः स्वजनं द्वेष्टुं रक्षितं वाऽदृढात्मनः ॥ १२.२९४.१९ ॥
自らが泥の塊のようで、常に他者に依存し、心の定まらぬ者が、自分の身内を憎んだり守ったりする理由は何か。
12.294.20
स्वजनं हि यदा मृत्युर्हन्त्येव भुवि पश्यतः ।
कृतेऽपि यत्ने महति तत्र बोद्धव्यमात्मना ॥ १२.२९४.२० ॥
地上で見守る中、死が自らの身内を打ち倒すとき、大いに努力をしたとしても、そこでは自分自身でそれを悟らねばならない。
12.294.21
जीवन्तमपि चैवैनं भरणे रक्षणे तथा ।
असमाप्ते परित्यज्य पश्चादपि मरिष्यसि ॥ १२.२९४.२१ ॥
生きている間にも、彼を養い守る務めを成し遂げずに捨て去れば、後であなた自身も死ぬだろう。
12.294.22
यदा मृतं च स्वजनं न ज्ञास्यसि कथंचन ।
सुखितं दुःखितं वाऽपि ननु बोद्धव्यमात्मना ॥ १२.२९४.२२ ॥
身内が死んだなら、彼が幸せなのか悲しんでいるのか、あなたは決して知ることができない。そのこともまた自分自身で悟るべきである。
12.294.23
मृते वा त्वयि जीवे वा यदा भोक्ष्यति वै जनः ।
स्वकृतं ननु बुद्ध्वैवं कर्तव्यं हितमात्मनः ॥ १२.२९४.२३ ॥
あなたが死のうと生きようと、人々は自らの行為の果報を受けるだろう。このように悟って、自分の利益となることを行うべきである。
12.294.24
एवं विजानँल्लोकेऽस्मिन्कः कस्येत्यभिनिश्चितः ।
मोक्षे निवेशय मनो भूयश्चाप्युपधारय ॥ १२.२९४.२४ ॥
この世のことをこのように知り、『誰が誰のものか』と固く定めて、心を解脱に向けよ。そして何度でもこれを思い巡らせよ。
12.294.25
क्षुत्पिपासादयो भावा जिता यस्येह देहिनः ।
क्रोधो लोभस्तथा मोहः सत्ववान्मुक्त एव सः ॥ १२.२९४.२५ ॥
この世で、飢えや渇きといった状態、そして怒り、貪欲、迷妄に打ち勝ち、サットヴァを備えた身を持つ者こそ、まことに解脱した者である。
12.294.26
द्यूते पाने तथा स्त्रीषु मृगयायां च यो नरः ।
न प्रमाद्यति संमोहात्सततं मुक्त एव सः ॥ १२.२९४.२६ ॥
迷いのために、博打、酒、女、狩猟において常に怠ることのない人こそ、まことに解脱した者である。
12.294.27
दिवसेदिवसे नाम रात्रौरात्रौ पुमान्सदा ।
भोक्तव्यमिति यः स्विन्नो दोषबुद्धिः स उच्यते ॥ १२.२९४.२७ ॥
日々、夜々に「まだ享受しなければならない」と思い悩み続ける人は、欠点を見る心の持ち主と呼ばれる。
12.294.28
आत्मभावं तथा स्त्रीषु सक्तमेव पुनः पुनः ।
यः पश्यति सदा युक्तो यथावन्मुक्त एव सः ॥ १२.२९४.२८ ॥
女性に執着した自らの我を繰り返し見つめ、常にヨーガに安住して、それを如実に見る者こそ、まことに解脱した者である。
12.294.29
संभवं च विनाशं च भूतानां चेष्टितं तथा ।
यस्तत्त्वतो विजानाति लोकेऽस्मिन्मुक्त एव सः ॥ १२.२९४.२९ ॥
生き物の生起と消滅、そしてその営みを真実に知る者こそ、この世において、まことに解脱した者である。
12.294.30
प्रस्थं वाहसहस्रेषु यात्रार्थं चैव कोटिषु ।
प्रासादे मञ्चकं स्थानं यः पश्यति स मुच्यते ॥ १२.२९४.३० ॥
千台の車の積み荷と、旅のための幾千万もの品々の重みを見、宮殿の寝台の置かれた場所を見る者は、解放される。
12.294.31
मृत्युनाऽभ्याहतं लोकं व्याधिभिश्चोपपीडितम् ।
अवृत्तिकर्शितं चैव यः पश्यति स मुच्यते ॥ १२.२९४.३१ ॥
死に打たれ、病に苦しめられ、生計の欠乏に衰えたこの世界を見る者は解脱する。
12.294.32
यः पश्यति स संतुष्टो नपश्यंश्च विहन्यते ।
यश्चाप्यल्पेन संतुष्टो लोकेऽस्मिन्मुक्त एव सः ॥ १२.२९४.३२ ॥
見る者は満足し、見ない者は滅びる。わずかなものにさえ満足する者こそ、この世で真に解脱している。
12.294.33
अग्नीषोमाविदं सर्वमिति यश्चानुपश्यति ।
न च संस्पृश्यते भावैरद्भुतैर्मुक्त एव सः ॥ १२.२९४.३३ ॥
これらすべてが火と月神(ソーマ)であると見て、不思議な状態に触れられない者は、まことに解脱している。
12.294.34
पर्यङ्कशय्या भूमिश्च सामने यस्य देहिनः ।
शाल्यन्नं च कदन्नं च यस्य स्यान्मुक्त एव सः ॥ १२.२९४.३४ ॥
寝台と地面が等しく、上等の米飯と粗末な食べ物が等しい者、そのような者こそまことに解脱している。
12.294.35
क्षौमं च कुशचीरं च कौशेयं वल्कलानि च ।
आविकं चर्म च समं यस्य स्यान्मुक्त एव सः ॥ १२.२९४.३५ ॥
麻布とクシャ草の衣、絹と樹皮の衣、毛織物と皮革が等しい者、そのような者こそまことに解脱している。
12.294.36
पञ्चभूतसमुद्भूतं लोकं यश्चानुपश्यति ।
तथाच वर्तते दृष्ट्वा लोकेऽस्मिन्मुक्त एव सः ॥ १२.२९४.३६ ॥
五大元素から生じたこの世界を見て、見たとおりに振る舞う者は、この世でまことに解脱している。
12.294.37
सुखदुःखे समे यस्य लाभालाभौ जयाजयौ ।
इच्छाद्वेषौ भयोद्वेगौ सर्वथा मुक्त एव सः ॥ १२.२९४.३७ ॥
楽と苦、得と失、勝利と敗北を等しく見て、欲と憎しみ、恐れと動揺をまったく離れた者こそ、まことに解脱した者である。
12.294.38
रक्तमूत्रपुरीषाणां दोषाणां संचयांस्तथा ।
शरीरं दोषबहुलं दृष्ट्वा चैव विमुच्यते ॥ १२.२९४.३८ ॥
血・尿・糞という不浄の蓄積と、不浄に満ちた身体を見れば、人は解放される。
12.294.39
वलीपलितसंयोगं कार्श्यं वैवर्ण्यमेव च ।
कुजभावं च जरयाः यः पश्यति स मुच्यतेत ॥ १२.२९४.३९ ॥
皺と白髪が混じり合うこと、痩せ衰えること、顔色の衰え、老いによって背が曲がることを見る者は、解放される。
12.294.40
पुंस्त्वोपघातं कालेन दर्शनोपरमं तथा ।
बाधिर्यं प्राणमन्दत्वं यः पश्यति स मुच्यते ॥ १२.२९४.४० ॥
時とともに男性の力が衰え、視力が失われ、耳が聞こえなくなり、命の息が鈍くなるのを見る者は、解放される。
12.294.41
गतानृषींस्तथा देवानसुरांश्च तथा गतान् ।
लोकादस्मात्परं लोकं यः पश्यति स मुच्यते ॥ १२.२९४.४१ ॥
この世から彼岸の世界へ去った聖仙・神々・アスラを見る者は、解放される。
12.294.42
प्रभावैरन्वितास्तैस्तैः पार्थिवेन्द्राः सहस्रशः ।
ये गताः पृथिवीं त्यक्त्वा इति ज्ञात्वा विमुच्यते ॥ १२.२९४.४२ ॥
それぞれの威光を備えた幾千もの王たちが大地を去って行った。このことを知る者は解放される。
12.294.43
अर्थांश्च दुर्लभाँल्लोके क्लेशांश्च सुलभांस्तथा ।
दुःखं चैव कुटुम्बार्थे यः पश्यति स मुच्यते ॥ १२.२९४.४३ ॥
世の中では富は得がたく、苦悩は容易に訪れ、家族のために苦しみが生じる。これを見る者は解放される。
12.294.44
अपत्यानां च वैगुण्यं जनं विगुणमेव च ।
पश्यन्भूयिष्ठशो लोके को मोक्षं नाभिपूजयेत् ॥ १२.२९४.४४ ॥
世の中では子らの欠点や人々の徳のなさを多く見ている。誰が解脱を願わないだろうか。
12.294.45
शास्त्राल्लोकाच्च यो बुद्धः सर्वं पश्यति मानवः ।
असारमिव मानुष्यं सर्वथा मुक्ता एव सः ॥ १२.२९४.४५ ॥
聖典と世間によって目覚め、すべてを見て、人の生を実体のないものと見る人は、まさに完全に解脱している。
12.294.46
एतच्छ्रुत्वा मम वचो भवांश्चरतु मुक्तवत् ।
गार्हस्थ्याद्यदि ते मोक्षे कृता बुद्धिरविक्लवा ॥ १२.२९४.४६ ॥
私のこの言葉を聞いて、家住から解脱へのあなたの決意が揺るがないなら、解脱した者のように振る舞いなさい。
12.294.47
तत्तस्य वचनं श्रुत्वा सम्यक्स पृथिवीपतिः ।
मोक्षजैश्च गुणैर्युक्तः पालयामास च प्रजाः ॥ १२.२९४.४७ ॥
彼の言葉を正しく聞き、解脱から生じた徳を備えたその王は、臣民を守り続けた。