摩诃婆罗多 · 章 12.300
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.300.1
प्रतिग्रहार्जिता विप्रे क्षत्रिये युधि निर्जिताः ।
वैश्ये न्यायार्जिताश्चैव शूद्रे शुश्रूषयार्जिताः ॥ १२.३००.१ ॥
对婆罗门而言,所得之财来自受施;对刹帝利而言,所得之财来自战争所胜;对吠舍而言,所得之财来自正当营生;对首陀罗而言,所得之财来自侍奉。
12.300.2
स्वल्पाऽप्यर्थाः प्रशस्यन्ते धर्मस्यार्थे महाफलाः ।
नित्यं त्रयाणां वर्णानां शुश्रूषुः शूद्र उच्यते ॥ १२.३००.२ ॥
若为法而用,即使少量财富也值得称赞,因其果报甚大。常年侍奉三种种姓者,被称为首陀罗。
12.300.3
क्षत्रधर्मा वैश्यधर्मा नावृत्तिः पतते द्विजः ।
शूद्रधर्मा यदा तु स्यात्तदा पतति वै द्विजः ॥ १२.३००.३ ॥
若刹帝利或吠舍之业无法维持生计,再生者不会堕落;但若其所行之业成为首陀罗之业,再生者必定堕落。
12.300.4
वाणिज्यं पाशुपाल्यं च तथा शिल्पोपजिवनम् ।
सूद्रस्यापि विधीयन्ते यदा वृत्तिर्न जायते ॥ १२.३००.४ ॥
当无其他生计之时,经商、牧畜和以技艺谋生,也为首陀罗所规定。
12.300.5
रङ्गावतरणं चैव तथा रूपोपजीवनम् ।
मद्यमांसोपजीव्यं च विक्रयं लोहचर्मणोः ॥ १२.३००.५ ॥
染布、以形相谋生(表演或杂耍)、以酒肉谋生,以及贩卖铁和皮革,皆被禁止。
12.300.6
अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितम् ।
कृतपूर्विणस्तु त्यजतो महान्धर्म इति श्रूतिः ॥ १२.३००.६ ॥
未曾从事之人,不应在世间从事受人鄙弃之业;而先前从事者若能舍弃,则此为大法,圣典如是说。
12.300.7
संसिद्धः पुरुषो लोके यदाचरति पापकम् ।
मदेनाभिप्लुतमनास्तच्च न ग्राह्यमुच्यते ॥ १२.३००.७ ॥
世间圆满之人若因醉迷而心被淹没,行其恶行,则此行不可取,据说如此。
12.300.8
श्रूयन्ते हि पुराणेषु प्रजा धिग्दण्डशासनाः ।
दान्ता धर्मप्रधानाश्च न्यायधर्मानुवृत्तिकाः ॥ १२.३००.८ ॥
据古史所载,民众受责罚之制约束;他们自制,以法为首,遵循公正之法。
12.300.9
धर्म एव सदा नॄणामिह राजन्प्रशस्यते ।
धर्मवृद्धा गुणानेव सेवन्ते हि नरा भुवि ॥ १२.३००.९ ॥
大王,在此世间,人们始终只赞美法;在法中成长的人,于世上只修习善德。
12.300.10
तं धर्ममसुरास्तात नामृष्यन्त नराधिप ।
विवर्धमानाः क्रमशस्तत्र तेऽन्वाविशन्प्रजाः ॥ १२.३००.१० ॥
孩子,人主啊,阿修罗不能容忍那法;他们逐渐增长,便进入那里的民众之中。
12.300.11
तासां दर्पः समभवत्प्रजानां धर्मनाशनः ।
दर्पात्मनां ततः पश्चात्क्रोधस्तासामजायत ॥ १२.३००.११ ॥
那些民众中生起了毁灭法的傲慢;由于傲慢,他们之中随后生起了愤怒。
12.300.12
ततः क्रोधाभिभूतानां वृत्तं लज्जासमन्वितम् ।
ह्रीश्चैवाप्यनशद्राजंस्ततो मोहो व्यजायत ॥ १२.३००.१२ ॥
于是被愤怒所压倒的人,其知耻之行消失了;大王,他们的羞耻心也灭失了,随后迷惑便生起了。
12.300.13
ततो मोहपरीतास्ता नापश्यन्त यथा पुरा ।
परस्परावमर्देन वर्धयन्त्यो यथासुखम् ॥ १२.३००.१३ ॥
于是被迷惑所笼罩,她们不再像从前那样看见;彼此压迫,随心所欲地增长。
12.300.14
ताः प्राप्य तु स धिग्दण्डो न कारणमतो भवत् ।
ततोऽभ्यगच्छन्देवांश्च ब्राह्मणांश्चावमन्य ह ॥ १२.३००.१४ ॥
得到她们之后,那种斥责之罚也并未成为缘由;于是他们轻慢诸神与婆罗门,便去到他们那里。
12.300.15
एतस्मिन्नेव काले तु देवा देववरं शिवम् ।
अगच्छञ्शरणं धीरं बहुरूपं गुणाधिकम् ॥ १२.३००.१५ ॥
就在此时,诸神前往寻求湿婆的庇护——湿婆是众神中最尊贵者,坚毅,具有多种形态,德性超群。
12.300.16
तेन स्म ते गगनगाः सपुराः पातिताः क्षितौ ।
त्रिधाऽप्येकेन बाणेन देवाप्यायिततेजसा ॥ १२.३००.१६ ॥
他们这些遨游于天空者,连同其城池,都被他打落在地——甚至一箭便将其劈为三截,那位光辉增长的神所为。
12.300.17
तेषामधिपतिस्त्वासीद्भीमो भीमपराक्रमः ।
देवतानां भयकरः स हतः शूलपाणिना ॥ १२.३००.१७ ॥
他们的统领是婆摩(Bhīma),勇猛可畏,令诸神恐惧;他被持三叉戟者所杀。
12.300.18
तस्मिन्हतेऽथ स्वं भावं प्रत्यपद्यन्त मानवाः ।
प्रावर्तन्त च वै वेदाः शास्त्राणि च यथा पुरा ॥ १२.३००.१८ ॥
他被杀之后,人类恢复了自己的本性,吠陀与典籍也如从前一般重新兴起。
12.300.19
ततोऽभिषिच्य राज्येन देवानां दिवि वासवम् ।
सप्तर्षयश्चान्वयुञ्जन्नराणां दण्डधारणे ॥ १२.३००.१९ ॥
于是,在诸神的天界为婆薮(因陀罗)行灌顶王权之礼,七仙人便任命他执掌对众人的刑杖。
12.300.20
सप्तर्षीणामथोर्ध्वं च विपृथुर्नाम पार्थिवः ।
राजानः क्षत्रियाश्चैव मण्डलेषु पृथक्पृथक् ॥ १२.३००.२० ॥
七仙之后出现了名为毗波利图的国王,刹帝利诸王也各自分治于各个邦国。
12.300.21
महाकुलेषु ये जाता वृद्धाः पूर्वतराश्च ये ।
तेषामप्यासुरो भावो हृदयान्नापसर्पति ॥ १२.३००.२१ ॥
即便是生于大族、年长及更早时代的人,阿修罗之性也不会离开他们的心。
12.300.22
तस्मात्तेनैव भावेन सानुषङ्गेण पार्थिवाः ।
आसुराण्येव कर्माणि न्यसेवन्भीमविक्रमाः ॥ १२.३००.२२ ॥
因此,凭借同样的心性及其随之而来的种种,那些威猛异常的国王只行阿修罗之业。
12.300.23
प्रत्यतिष्ठंश्च तेष्वेव तान्येव स्थापयन्त्यपि ।
भजन्ते तानि चाद्यापि ये बालिशतरा नराः ॥ १२.३००.२३ ॥
他们立足于此,也将其树立;而那些最愚昧的人,至今仍遵从它们。
12.300.24
तस्मादहं ब्रवीमि त्वां राजन्संचिन्त्य शास्त्रतः ।
संसिद्धावागमं कुर्यात्कर्म हिंसात्मकं त्यजेत् ॥ १२.३००.२४ ॥
因此,大王,我依据经典仔细思量后对你说:在成就之时应遵循传统教诫,舍弃暴力的行为。
12.300.25
न संकरेण द्रविणं प्रचिन्वीयाद्विचक्षणः ।
धर्मार्थं न्यायमुत्सृज्य न तत्कल्याणमुच्यते ॥ १२.३००.२५ ॥
智者不应以混杂(不正当)的手段聚敛财富。为了法而舍弃正义,不能称之为善。
12.300.26
स त्वमेवंविधो दान्तः क्षत्रियः प्रियबान्धवः ।
प्रजा भृत्यांश्च पुत्रांश्च स्वधर्मेणानुपालय ॥ १२.३००.२६ ॥
你是这样一位自我克制的刹帝利,深受亲族喜爱。请依照你自己的法护佑臣民、仆从和诸子。
12.300.27
इष्टानिष्टसमायोगे वैरं सौहार्दमेव च ।
अथ जातिसहस्राणि बहूनि परिवर्तते ॥ १२.३००.२७ ॥
在可欲与不可欲的结合中,也会生出仇恨与友情。然后,成千上万的生死轮回不断运转。
12.300.28
तस्माद्गुणेषु रज्येथा मा दोषेषु कथंचन ।
निर्गुणोऽपि हि दुर्बुद्धिरात्मनः सोतिरिच्यते ॥ १२.३००.२८ ॥
因此应乐于德行,切不可以任何方式沉迷过失。即使无德、心智愚昧的人,对自己而言也更加(有害)。
12.300.29
मानुषेषु महाराज धर्माधर्मौ प्रवर्ततः ।
न तथाऽन्येषु भूतेषु मनुष्यरहितेष्विह ॥ १२.३००.२९ ॥
大王啊,法与非法只在人类之中运行;在此处无人类的其他众生之中则不然。
12.300.30
धर्मशीलो नरो विद्वानीहकोऽनीहकोपि वा ।
आत्मभूतः सदा लोके चरेद्भूतान्यहिंसया ॥ १२.३००.३० ॥
有德之人,博学之士,无论是否从事行动,都应始终以不伤害之心行于世间,视众生如同自身。
12.300.31
यदा व्यपेतहृल्लेखं मनो भवति तस्य वै ।
नानृतं चैव भवति तदा कल्याणमृच्छति ॥ १२.३००.३१ ॥
当一个人的心念摆脱了心中激动的痕迹,其中不再有虚妄时,他便得到善好。