Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.301

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.301.1

एष धर्मविधिस्तात गृहस्थस्य प्रकीर्तितः ।
तपोविधिं तु वक्ष्यामि तन्मे निगदतः शृणु ॥ १२.३०१.१ ॥

孩子啊,这是已宣说的居家者法则。现在我将讲述苦行的法则,你听我说。

12.301.2

प्रायेण च गृहस्थस्य ममत्वं नाम जायते ।
सङ्गागतं नरश्रेष्ठ भावै राजसतामसैः ॥ १२.३०१.२ ॥

人中最优秀者啊,居家者通常会生起'我的'这种执着;它来自贪著,由激情与愚昧的状态而生。

12.301.3

गृहाण्याश्रित्य गावश्च क्षेत्राणि च धनानि च ।
दाराः पुत्राश्च भृत्याश्च भवन्तीह नरस्य वै ॥ १२.३०१.३ ॥

房屋、牛群、田地与财富,妻室、儿子与仆役——这一切都依托于人而在此出现。

12.301.4

एवं तस्य प्रवृत्तस्य नित्यमेवानुपश्यतः ।
रागद्वेषौ विवर्धेते ह्यनित्यत्वमपश्यतः ॥ १२.३०१.४ ॥

如此,对于投身世俗、时时观看的人,贪爱与憎恶增长,因为他看不到无常。

12.301.5

रागद्वेषाभिभूतं च नरं द्रव्यवशानुगम् ।
मोहजस्तारतिर्नाम समुपैति नराधिप ॥ १२.३०१.५ ॥

人主啊,被贪爱与憎恶所征服、随从财物之力的人,会遭遇由迷惑所生、名为'星辰之喜'(tārārati)的执着。

12.301.6

कृतार्थ भोगिनं मत्वा सर्वो रतिपरायणः ।
लाभं प्रात्यसुखादन्यं रतितो नानुपश्यति ॥ १२.३०१.६ ॥

人人自以为已成就、已享受,沉溺于欢愉者,除了快乐之外,看不到别的利益。

12.301.7

ततो लोभाभिभूतात्मा सङ्गाद्वधर्यते जनम् ।
दुष्टार्थं चैव तस्येह जनस्यार्थं चिकीर्षति ॥ १२.३०१.७ ॥

那被贪欲征服了自我的人,因执着而束缚众人,并在此欲以邪恶的目的夺取他人的财富。

12.301.8

स जानत्रपि चाकार्यमर्थार्थं सेवते नरः ।
बालस्नेहपरीतात्मा तत्क्षयाच्चानुतप्यते ॥ १२.३०१.८ ॥

他虽知道不该做,却为财富而去追求;心被对子女的爱所包围,因他们的失去而悔恨。

12.301.9

ततो दानेन संपन्नो रक्षन्नात्मपराजयम् ।
करोति येन भोनी स्यामिति तस्माद्विनश्यति ॥ १२.३०१.९ ॥

然后,他虽有布施之德,却为护持自我不致败落,而这样做,愿自己成为享受者;因此他毁灭了。

12.301.10

तद्यदि वुद्धियुक्तानां शाश्वतं ब्रह्मवादिनाम् ।
अभिच्छतां शुभं कर्म नराणां त्यजतां सुखम् ॥ १२.३०१.१० ॥

因此,若此对于具足智慧、宣说永恒梵者、欲求吉祥之业而舍弃快乐的人而言(成立)……

12.301.11

लोकायतननाशाच्च धननाशाच्च पार्थिव ।
आधिव्याधिप्रतापाच्च निर्वेदमुपगच्छति ॥ १२.३०१.११ ॥

君王啊,由于世界依托的毁灭,由于财富的丧失,以及身心苦恼的煎熬,他便生起厌离。

12.301.12

निर्वेदादात्मसंबोधः संबोधादात्मदर्शनम् ।
शास्त्रार्थदर्शनाद्राजसंस्तप एवानुपश्यति ॥ १२.३०१.१२ ॥

由厌离而生自觉,由自觉而见自我;由见经论之义,王啊,他便看到苦行本身。

12.301.13

दुर्लभो हि मनुष्येन्द्र नरः प्रत्यवमर्शवान् ।
यो वै प्रियसुखे क्षीणे तपः कर्तुं व्यवस्यति ॥ १२.३०१.१३ ॥

人主啊,有辨别思虑的人实属罕见;而在可爱的快乐消逝之后,决意修行苦行者,更是罕见。

12.301.14

तपः सर्वगतं तात हीनस्यापि विधीयते ।
जितेन्द्रियस्य दान्तस्य स्वर्गमार्गप्रवर्तकम् ॥ १२.३०१.१४ ॥

孩子啊,苦行遍及一切,即使卑微者也被规定修习;对于能克制诸根、自我调伏者,它引导人走上天国之路。

12.301.15

प्रजापतिः प्रजाः पूर्वमसृजत्तपसा विभुः ।
क्वचित्क्वचिद्ब्रतपरो व्रतान्यास्थाय पार्थिव ॥ १२.३०१.१५ ॥

起初,全能的生主以苦行创造众生;国王啊,他时而在此,时而在彼,专心于誓戒,奉行种种誓愿。

12.301.16

आदित्या वसवो रुद्रास्तथैवाग्न्यश्विमारुताः ।
विश्वेदेवास्तथा साध्याः पितरोऽथ मरुद्गणाः ॥ १२.३०१.१६ ॥

阿底提耶、婆苏和楼陀罗,同样还有火神、双马童和风神,以及毗湿伐提婆、萨底耶、祖先和风神众。

12.301.17

यक्षराक्षसगन्धर्वाः सिद्धाश्चान्ये दिवौकसः ।
संसिद्धास्तपसा तात ये चान्ये स्वर्गवासिनः ॥ १२.३०१.१७ ॥

夜叉、罗刹、乾闼婆、悉陀以及其他天界居民,孩子啊,都是凭苦行而得成就的;其余住在天国的人也是如此。

12.301.18

ये चादौ ब्राह्मणाः सृष्टा ब्रह्मणा तपसा पुरा ।
ते भावयन्तः पृथिवीं विचरन्ति दिवं तथा ॥ १२.३०१.१८ ॥

当初梵天以苦行所创造的婆罗门,护持大地,既在大地上行走,也在天界游历。

12.301.19

मर्त्यलोके च राजानो ये चान्ये गृहमेधिनः ।
महाकुलेषु दृश्यन्ते तत्सर्वं तपसः फलम् ॥ १२.३०१.१९ ॥

凡世中的国王及其他居家者,见于大族之中,这一切都是苦行的果报。

12.301.20

कौशेयानि च वस्त्राणि शुभान्याभरणानि च ।
वाहनासनपानानि तत्सर्वं तपसः फलम् ॥ १२.३०१.२० ॥

丝绸衣服、美好的饰物、车乘、坐席与饮料,这一切都是苦行的果报。

12.301.21

मनोनुकूलाः प्रमदा रूपवत्यः सहस्रशः ।
वासः प्रासादपृष्ठे च तत्सर्वं तपसः फलम् ॥ १२.३०१.२१ ॥

成千上万称心如意的美丽女子,以及居于宫殿高台之上,这一切都是苦行的果报。

12.301.22

शयनानि च मुख्यानि भोज्यानि विविधानि च ।
अभिप्रेतानि सर्वाणि भवन्ति शुभकर्मिणाम् ॥ १२.३०१.२२ ॥

上好的床榻与各色饮食,对于行善之人,一切所愿皆能成就。

12.301.23

नाप्राप्यं तपसः किंचिन्त्रैलोक्येऽपि परंतप ।
उपभोगपरित्यागः फलान्यकृतकर्मणाम् ॥ १२.३०१.२३ ॥

敌人的烧灼者啊,三界之中,没有什么是苦行所不能得到的;对于未曾行苦行者,其果报便是舍弃享受。

12.301.24

सुखितो दुःखितो वाऽपि नरो लोभं परित्यजेत् ।
अवेक्ष्य मनसा शास्त्रं बुद्ध्या च नृपसत्तम ॥ १२.३०१.२४ ॥

无论快乐还是痛苦,人都应舍弃贪欲;诸王中最优秀的啊,应以心与智慧审视经典。

12.301.25

असंतोषोऽसुखथायेति लोभादिन्द्रियविभ्रमः ।
ततोऽस्य नश्यति प्रज्ञा विद्येवाभ्यासवर्जिता ॥ १२.३०१.२५ ॥

不知足导致不幸;由贪欲生出感官的迷乱。于是他的智慧毁灭,如同缺乏练习的学识。

12.301.26

नष्टप्रज्ञो यदा तु स्यात्तदा न्यायं न पश्यति ।
तस्मात्सुखक्षये प्राप्ते पुमानुग्रतपश्चरेत् ॥ १२.३०१.२६ ॥

智慧丧失之人便不见正理。因此,当幸福消逝时,人应当修持严苛的苦行。

12.301.27

यदिष्टं तत्सुखं प्राहुर्द्वेष्यं दुःखमिहेष्यते ।
कृताकृतस्य तपसः फलं पश्यस्व यादृशम् ॥ १२.३०१.२७ ॥

人们称所欲之物为幸福,所憎之物为痛苦;然而此世所求的正是前者。请看已行与未行的苦行,其果报如何。

12.301.28

नित्यं भद्राणि पश्यन्ति विषयांश्चोपभुञ्जते ।
प्राकाश्यं चैवं गच्छन्ति कृत्वा निष्कल्मषं तपः ॥ १२.३०१.२८ ॥

他们常见吉祥之事,享受感官之境;行无垢的苦行之后,便如此达到光明。

12.301.29

अप्रियाण्यवमानाश्च दुःखं बहुविधात्मकम् ।
फलार्थी सत्पथं त्यक्त्वा प्राप्नोति विषयात्मकम् ॥ १२.३०१.२९ ॥

令人不悦之事、屈辱与种种苦难:求果之人舍弃善道,所得之果系于感官之欲。

12.301.30

धर्मे तपसि दाने च विचिकित्साऽस्य जायते ।
स कृत्वा पापकान्येव निरयं प्रतिपद्यते ॥ १२.३०१.३० ॥

他对法、苦行与布施心生疑惑;造作恶业之后,便堕入地狱。

12.301.31

सुखे तु वर्तमानो वै दुःखे वाऽपि नरोत्तम् ।
सुवृत्ताद्यो न चलते शास्त्रचक्षुः स मानवः ॥ १२.३०१.३१ ॥

人中之尊啊,无论处于快乐还是痛苦之中,善于德行、以经典为眼的人,不会动摇。

12.301.32

इषुप्रपातमात्रं हि स्पर्शयोगे रतिः स्मृता ।
रसने दर्शने घ्राणे श्रवणे च विशांपते ॥ १२.३०१.३२ ॥

人主啊,据说触觉接触中的快乐只持续一箭射程那么久;味、见、嗅、听亦复如此。

12.301.33

ततोऽस्य जायते तीव्रा वेदना तत्क्षयात्पुनः ।
बुधा ये न प्रशंसन्ति मोक्षं सुखमनुत्तमम् ॥ १२.३०१.३३ ॥

于是他心中生起剧烈的痛苦;待其灭尽,又会再生。智者不赞美解脱为无上的快乐。

12.301.34

ततः फलार्थं सर्वस्य भवन्ति ज्यायसे गुणाः ।
धर्मवृद्ध्या च सततं कामार्थाभ्यां न हीयते ॥ १२.३०१.३४ ॥

因此,这些德性为众人之果实而设,为更优者而有;因法的增长,并常以欲与利,他不会减损。

12.301.35

अप्रयत्नागताः सेव्या गृहस्थैर्विषयाः सदा ।
प्रयत्नेनोपगम्यश्च स्वधर्म इति मे मतिः ॥ १२.३०१.३५ ॥

居家者应当始终享用不费力而来的诸境,并亲近需努力才能得到的诸境——这是我的看法,这就是自己的法。

12.301.36

मानिनां कुलजातानां नित्यं शास्त्रार्थचक्षुषाम् ।
क्रियाधर्मविमुक्तानामशक्त्या संवृतात्मनाम् ॥ १२.३०१.३६ ॥

对于高傲之人、出身贵族、常以经典之义为眼、脱离祭祀之法、因无力而约束自我者……

12.301.37

क्रियमाणं यदा कर्म नाशं गच्छति मानुषम् ।
तेषां नान्यदृते लोके तपसः कर्म विद्यते ॥ १२.३०१.३७ ॥

当人所作之业毁灭时,世间对他们而言别无其他业,唯有苦行。

12.301.38

सर्वात्मनाऽनुकुर्वीत गृहस्थः कर्मनिश्चयम् ।
दाक्ष्येण हव्यकव्यार्थं स्वधर्मे विचरन्नृप ॥ १२.३०१.३८ ॥

国王啊,居家者应以全部自我遵循业的坚定决断,为诸神与祖先的供物之故,熟练地行于自己的本分之中。

12.301.39

यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् ।
एवमाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥ १२.३०१.३९ ॥

如同一切河流与溪流都归于大海而安定,一切处于各生活期的人都在居家者中得到安定。