Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.304

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.304.1

पुनरेव तु पप्रच्छ जनको मिथिलाधिपः ।
पराशरं महात्मानं धर्मे परमनिश्चयम् ॥ १२.३०४.१ ॥

米提拉之王遮那迦再次向大德波罗奢罗询问法中的究竟确定。

12.304.2

किं श्रेयः का गतिर्ब्रह्मन्किं कृतं न विनश्यति ।
क्व गतो न निवर्तेत तन्मे ब्रूहि महामते ॥ १२.३०४.२ ॥

婆罗门啊,何者是至善,何者是归宿,何种所作不会毁灭,到何处去便不再返回?大智者啊,请告诉我。

12.304.3

असङ्गः श्रेयसो मूलं ज्ञानं ज्ञानगतिः परा ।
चीर्णं तपो न प्रणश्येद्वापः क्षेत्रे न नश्यति ॥ १२.३०४.३ ॥

无执着是至善之根,智慧及智慧的究竟之道。修行之苦行不会失去,如播种于田中的种子不会灭失。

12.304.4

छित्त्वाऽधर्ममयं पाशं यदा धर्मेऽभिरज्यते ।
दत्त्वाऽभयकृतं दानं तदा सिद्धिमवाप्नुते ॥ १२.३०४.४ ॥

若斩断由非法所成的绳索,欢喜于法,并施予令人无畏的布施,则便能获得成就。

12.304.5

यो ददाति सहस्राणि गवामश्वशतानि च ।
अभयं सर्वभूतेभ्यः सदा तमभिवर्तते ॥ १२.३०४.५ ॥

若有人布施千头牛、百匹马,却能对一切众生施予无畏,此人便永远得到它。

12.304.6

वसन्विषयमध्येऽपि न वसत्येव बुद्धिमान् ।
संवसत्येव दुर्बुद्धिरसत्सु विषयेष्वपि ॥ १२.३०४.६ ॥

智者即使居于诸境之中,实际上并不住于其中;而愚昧者即使在虚妄之境中也执着而住。

12.304.7

नाधर्मः श्लिष्यते प्राज्ञं पयः पुष्करपर्णवत् ।
अप्राज्ञमधिकं पापं श्लिष्यते जतुकाष्ठवत् ॥ १२.३०४.७ ॥

不法不沾染智者,如水不沾荷叶;而无智者则大罪附着,如漆沾木。

12.304.8

नाधर्मः कारणापेक्षी कर्तारमभिमुञ्चति ।
कर्ता खलु यथाकालं ततः समभिपद्यते ॥ १२.३०४.८ ॥

不法依赖其因,不离作者;作者自己在适当的时候遭遇它。

12.304.9

न भिद्यन्ते कृतात्मान आत्मप्रत्ययदर्शिनः ।
बुद्धिकर्मेन्द्रियाणां हि प्रमत्तो यो न बुध्यते।
शुभाशुभे प्रसक्तात्मा प्राप्नोति सुमहद्भयम् ॥ १२.३०४.९ ॥

自我调伏、以自知而观照者不会分裂。那放逸、不了知智根与业根、心执着于善恶的人,将遭遇极大的恐惧。

12.304.10

वीतरागो जितक्रोधः सम्यग्भवति यः सदा ।
विषये वर्तमानोऽपि न स पापेन युज्यते ॥ १२.३०४.१० ॥

离欲、胜怒、常善处者,虽处于诸境之中,也不与罪相连。

12.304.11

मर्यादायां वर्तमानोऽपि नावसीदति ।
पुष्टस्रोत इवासक्तः स्फीतो भवति संचयः ॥ १२.३०४.११ ॥

即便安住于规矩之内,也不会衰落;如同水源充足而无所执着的河流,他的积聚膨胀增长。

12.304.12

यथा भानुगतं तेजो मणिः शुद्धः समाधिना ।
आदत्ते राजशार्दूल तथा योगः प्रवर्तते ॥ १२.३०४.१२ ॥

如清净宝珠以三昧摄取日中之光,王中虎啊,瑜伽也便如此展开。

12.304.13

यथा तिलानामिह पुण्यसंश्रया ।
त्पृथक्पृथग्याति गुणोऽतिसाम्यताम्।
तथा नराणां भुवि भावितात्मनां ।
यथाश्रयं सत्वगुणः प्रवर्तते ॥ १२.३०४.१३ ॥

正如依附于善的芝麻,其各自的性质虽各不相同,却达到完全的平等;同样,大地上修养自我的人们之中,依其所依而生起善性。

12.304.14

जहाति दारान्विविधाश्च संपदः ।
पदं च यानं विविधाश्च सत्क्रियाः।
त्रिविष्टपे जातमतिर्यदा नर ।
स्तदाऽस्य बुद्धिर्विषयेषु भिद्यते ॥ १२.३०४.१४ ॥

当人的心智在三界中觉醒时,他便舍弃妻子、种种财富、地位、车乘以及各种善行;那时他的智慧便从感官对象中转离。

12.304.15

प्रसक्तबुद्धिर्विषयेषु यो नरो ।
न बुध्यते ह्यात्महितं कथंचन।
स सर्वभावानुगतेन चेतसा ।
नृपाऽऽमिषेणेव झषो विकृष्यते ॥ १२.३०४.१५ ॥

心智执著于感官对象的人,无论如何也不能认识自己的利益;他以随顺一切境界的心,啊,国王,就像鱼被诱饵拉走一样被拖去。

12.304.16

संघातवन्मर्त्यलोकः परस्परमपाश्रितः ।
कदलीगर्भनिःसारो नौरिवाप्सु निमज्जति ॥ १२.३०४.१६ ॥

这个凡世如同聚合之物,彼此相依;如同芭蕉之心般无实,如同船只在水中沉没一样沉没下去。

12.304.17

न धर्मकालः पुरुषस्य निश्चितो ।
न चापि मृत्युः पुरुषं प्रतीक्षते।
सदा हि धर्मस्य क्रियैव शोभना ।
तदा नरो मृत्युमुखान्निवर्तते ॥ १२.३०४.१७ ॥

人的法行之时并非注定,死亡也不会等待人;所以唯有恒常行法才是善美的,那时人才能从死亡之口返回。

12.304.18

यथाऽन्धः स्वगृहे युक्तो ह्यभ्यासादेव गच्छति ।
तथा युक्तेन मनसा प्राज्ञो गच्छति तां गतिम् ॥ १२.३०४.१८ ॥

如同盲人凭借练习便能在自家中行走,有节制之心的智者也能抵达那一归宿。

12.304.19

मरणं जन्मनि प्रोक्तं जन्म वै मरणाश्रितम् ।
अविद्वान्मोक्षधर्मेषु बद्धो भ्रमति चक्रवत् ॥ १२.३०४.१९ ॥

据说生中有死,生也依于死。不通解脱之法的无知者被束缚,如车轮般不停旋转。

12.304.20

बुद्धिमार्गप्रयातस्य सुखं त्विह परत्र च ।
विस्तराः क्लेशसंयुक्ताः संक्षेपास्तु सुखावहाः।
परार्थं विस्तराः सर्वे त्यागमांत्महितं विदुः ॥ १२.३०४.२० ॥

行于智慧之道者,今生与来世都有幸福。繁复的教导充满烦恼,简明的教导带来快乐。一切繁复之说都为他人之利;他们知道舍弃才是自身的福祉。

12.304.21

यथा मृणालानुगतमाशु मुञ्चति कर्दमम् ।
तथाऽऽत्मा पुरुषस्येह मनसा परिमुच्यते ॥ १२.३०४.२१ ॥

如同攀附莲茎者迅速脱离淤泥,人的自我在此借心念而完全解脱。

12.304.22

मनः प्रणयतेऽऽत्मानं स एनमभियुञ्जति ।
युक्तो यदा स भवति तदा तं पश्यते परम् ॥ १२.३०४.२२ ॥

心引导自我,他使之与瑜伽相合。当他达到合一时,便见到那至高者。

12.304.23

परार्थे वर्तमानस्तु स्वं कार्यं योऽभिमन्यते ।
इन्द्रियार्थेषु सक्तः स स्वकार्यात्परिहीयते ॥ १२.३०४.२३ ॥

若有人虽从事于他人之利,却视为己事,且执着于感官之境,便会离弃自己的职分。

12.304.24

अधस्तिर्यग्गतिं चैव स्वर्गे चैव परां गतिम् ।
प्राप्नोति सुकृतैरात्मा प्राज्ञस्येहेतरस्य च ॥ १२.३०४.२४ ॥

灵魂因善行而获得下趣、畜生之道,以及天界中的至高归宿——此处,无论智者还是他人。

12.304.25

मृन्मये भाजने पक्वे यथा वै नश्यति द्रवः ।
तथा शरीरं तपसा तप्तं विषयमश्नुते ॥ १२.३०४.२५ ॥

如同液体从烧成的陶器中流失,经苦行熏炼之身也会享受诸根之境。

12.304.26

विषयानश्नुते यस्तु न स भोक्ष्यत्यसंशयम् ।
यस्तु भोगांस्त्यजेदात्मा स वै भोक्तुं व्यवस्यति ॥ १२.३०४.२६ ॥

沉溺于诸根之境者,无疑将不能享受;舍弃诸欲的自我,才真正决意去享受。

12.304.27

नीहारेण हि संवीतः शिश्नोदरपरायणः ।
जात्यन्ध इव पन्थानमावृतात्मा न बुध्यते ॥ १२.३०४.२७ ॥

被迷雾笼罩,专注于生殖与腹欲,如同生来的盲人,被遮蔽的自我不识道路。

12.304.28

वणिग्यथा समुद्राद्वै यथार्थं लभते धनम् ।
तथा मर्त्यार्णवाज्जन्तोः कर्मविज्ञानतो गतिः ॥ १२.३०४.२८ ॥

如同商人从海中获得真正的财富,众生从生死之海中的去向,乃由通达业的知识而来。

12.304.29

अहोरात्रमये लोके जरारूपेण संचरन् ।
मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा ॥ १२.३०४.२९ ॥

在这由昼夜构成的世界中,死亡以衰老之形游走,吞噬众生,如蛇吞风。

12.304.30

स्वयं कृतानि कर्माणि जातो जन्तुः प्रपद्यते ।
नाकृतं लभते कश्चित्किंचिदत्र प्रियाप्रियम् ॥ १२.३०४.३० ॥

生而为生灵者,承受自己所作之业的果报。在此世间,无人得到自己未曾所作的任何东西,无论可爱或不可爱。

12.304.31

सयानं यान्तमासीनं प्रवृत्तं विषयेषु च ।
शुभाशुभानि कर्माणि प्रपद्यन्ते नरं सदा ॥ १२.३०४.३१ ॥

无论行走、前往、坐着,或沉溺于诸根之境的人,善业与恶业总会追随于他。

12.304.32

न ह्यन्यत्तीरमासाद्य पुनस्तर्तुं व्यवस्यति ।
दुर्लभो दृश्यते ह्यस्य विनिपातो महार्णवे ॥ १२.३०४.३२ ॥

已抵达彼岸者,不会再去渡过。在大海中,此人的沉没是罕见的。

12.304.33

यथा भावावसन्ना हि नौर्महाम्भसि तन्तुना ।
यथा मनोभियोगाद्वै शरीरं प्रचिकीर्षति ॥ १२.३०४.३३ ॥

如同大海之中的船,因其状态沉没、被绳索所系,身体也因心的努力而被驱使行动。

12.304.34

यथा समुद्रमभितः संश्रिताः सरितोऽपराः ।
तथाऽन्याप्रकृतिर्योगादभिसंश्रियते सदा ॥ १२.३०४.३४ ॥

犹如其他河流从四面八方汇入大海,异类之性因结合而常常依附于它。

12.304.35

स्नेहपाशैर्बहुविधैरासक्तमनसो नराः ।
प्रकृतिस्था विषीदन्ति जले सैकतवेश्मवत् ॥ १२.३०४.३५ ॥

人心被种种恩爱之索所系,安居于自然之中,便如水中沙屋般忧愁沉没。

12.304.36

शरीरगृहसंस्थस्य शौचतीर्थस्य देहिनः ।
बुद्धिमार्गप्रयातस्य सुखं त्विह परत्र च ॥ १२.३०४.३६ ॥

对于居住在身体之屋中、以清净为圣地、行走于智慧之道的有身者,此世与来世都有幸福。

12.304.37

विस्तराः क्लेशसंयुक्ताः संक्षेपास्तु सुखावहाः ।
परार्थं विस्तराः सर्वे त्यागमात्महितं विदुः ॥ १२.३०४.३७ ॥

繁多的延伸伴随苦恼,简约的收敛则带来快乐。一切延伸都为他人;智者知道舍弃才是自身的利益。

12.304.38

संकल्पजो मित्रवर्गो ज्ञातयः कारणात्मकाः ।
भार्या पुत्रश्च दासश्च स्वमर्थमनुयुञ्जते ॥ १२.३०४.३८ ॥

由欲望所生的朋友与亲属,本质是以因缘为基础的。妻子、儿子和仆人也都追求自己的利益。

12.304.39

न माता न पिता किंचित्कस्यचित्प्रतिपद्यते ।
दानपथ्यौदनो जन्तु स्वकर्मफलमश्नुते ॥ १२.३०४.३९ ॥

母亲与父亲都不会为他人承受任何东西。以布施为合宜食物的众生,自己享受自己业的果报。

12.304.40

माता पुत्रः पिता भ्राता भार्या मित्रजनस्तथा ।
अष्टापदपदस्थाने लाक्षामुद्रेव लक्ष्यते ॥ १२.३०४.४० ॥

母亲、儿子、父亲、兄弟、妻子与朋友也是如此——在八足印记之处,犹如漆印一般显现出来。

12.304.41

सर्वाणि कर्माणि पुराकृतानि ।
शुभाशुभान्यात्मनो यान्ति जन्तोः।
उपस्थितं कर्मफलं विदित्वा ।
बुद्धिं तथा चोदयतेऽन्तरात्मा ॥ १२.३०४.४१ ॥

过去所作的一切业,无论善恶,都属于自我,随有情而去。内在的我知道已现前的业果,于是相应地驱动智慧。

12.304.42

व्यवसायं समाश्रित्य सहायान्योऽधिगच्छति ।
न तस्य कश्चिदारम्भः कदाचिदवसीदति ॥ १२.३०४.४२ ॥

凭借坚定的努力而获得助手的人,他的任何事业都不会中途衰败。

12.304.43

अद्वैधमनसं युक्तं शूरं धीरं विपश्चितम् ।
न श्रीः संत्यजते नित्यमादित्यमिव रश्मयः ॥ १२.३०४.४३ ॥

吉祥女神永不抛弃心志专一、克制、勇敢、坚定而有智慧的人,正如光线永不离开太阳。

12.304.44

आस्तिक्यव्यवसायाभ्यामुपायान्वितया धिया ।
य आरभत्यनिन्द्यात्मा न सोऽर्थात्परिसीदति ॥ १२.३०४.४४ ॥

以信仰与坚定的努力,以善用方法的智慧,并以无瑕的心念开始事业的人,不会偏离他的目标。

12.304.45

सर्वःस्वानि शुभाशुभानि नियतं कर्माणि जन्तुःस्वयं ।
गर्भात्संप्रतिपद्यते तदुभयं यत्तेन पूर्वं कृतम्।
मृत्युश्चापरिहारवान्समगतिः कालेन विच्छेदिना ।
दारोश्चूर्णमिवाश्मसारविहितं कर्मान्तिकं प्रापयेत् ॥ १२.३०४.४५ ॥

每个生灵从母胎起便自行获得其前世所作、已定的善恶业果。死亡无法避免;时间平等地斩断一切,带来业行的终结,正如铁器把木头碾成粉末。

12.304.46

स्वरूपतामात्मकृतं च विस्तरं ।
कुलान्वयं द्रव्यसमृद्धिसंचयम्।
नरो हि सर्वो भलते यथाकृतं ।
शुभाशुभेनात्मकृतेन कर्मणा ॥ १२.३०४.४६ ॥

人依其所作而得其形貌、其广延、其家系以及丰饶财富的积聚。每个人都依自己的善恶之业,得其所作的果报。

12.304.47

इत्युक्तो जनको राजन्याथातथ्यं मनीषिणा ।
श्रुत्वा धर्मविदां श्रेष्ठः परां मुदमवाप ह ॥ १२.३०४.४७ ॥

国王啊,智者如此向遵循法的人中最优秀的遮那迦讲明了真相。他听后,获得了无上的喜悦。