Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.305

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.305.1

सत्यं दमं क्षमां प्रज्ञां प्रशंसन्ति पितामह ।
विद्वांसो मनुजा लोके कथमेतन्मतं तव ॥ १२.३०५.१ ॥

祖父啊,世间的智者都赞美真实、克制、忍耐与智慧;您的看法为何与此不同?

12.305.2

अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् ।
साध्यानामिह संवादं हंसस्य च युधिष्ठिर ॥ १२.३०५.२ ॥

般度之子啊,关于此事,我将为你讲述一段古老的故事,即萨底亚神众与天鹅之间的对话。

12.305.3

हंसो भूत्वाऽथ सौवर्णस्त्वजो नित्यः प्रजापतिः ।
स वै पर्येति लोकांस्त्रीनथ साध्यानुपागमत् ॥ १२.३०५.३ ॥

那位金色、无生、永恒的众生之主化为天鹅,遍历三界,然后来到萨底亚神众之处。

12.305.4

शकुने वयं स्म देवा वै साध्यास्त्वामनुयुङ्क्ष्महे ।
पृच्छामस्त्वां मोक्षधर्मं भवांश्च किल मोक्षवित् ॥ १२.३०५.४ ॥

鸟啊,我们是萨底亚诸神;我们向你请教解脱之法,因为你确实通晓解脱。

12.305.5

श्रुतोसि नः पण्डितो धीरवादी ।
साधुः शब्दश्चरते ते पतत्रिन्।
किं मन्यसे श्रेष्ठतमं द्विज त्वं ।
कस्मिन्मनस्ते रमते महात्मन् ॥ १२.३०५.५ ॥

我们听说你博学而言辞坚定,你的话语很好。再生者啊,你以什么为最高?大德之人啊,你的心意喜欢什么?

12.305.6

तन्नः कार्यं पक्षिवर प्रशाधि ।
यत्कार्याणां मन्यसे श्रेष्ठमेकम्।
यत्कृत्वा वै पुरुषः सर्वबन्धै ।
र्विमुच्यते विहगेन्द्रेह शीघ्रम् ॥ १२.३०५.६ ॥

鸟中之最,请教导我们那唯一你认为在一切事务中最殊胜的事,人若行之,便能在此世迅速脱离一切束缚,鸟中之王啊。

12.305.7

इदं कार्यममृताशाः शृणुध्वं ।
तपो दमः सत्यमात्माभिगुप्तिः।
ग्रन्थीन्विमुच्य हृदयस्य सर्वा ।
न्प्रियाप्रिये स्वं वशमानयीत ॥ १२.३०५.७ ॥

诸求不死者,听此职责:苦行、克制、真实,守护自我。解开心中一切结扣,使喜与恶皆归于自己的掌控。

12.305.8

नारुतुदः स्यान्न नृशंसवादी ।
न हीनतः परमभ्याददीत।
ययाऽस्य वाचा पर उद्विजेत ।
न तां वदेदुशतिं पापलोक्याम् ॥ १२.३०५.८ ॥

不可以言语伤人,不可说残酷之言。不可接受卑劣者的任何东西。那使他人惊扰、导向罪恶世界的恶言,不可说出。

12.305.9

वाक्सायका वदनान्निष्यतन्ति ।
यैराहतः शोचति रात्र्यहानि।
परस्य नामर्मसु ते पतन्ति ।
तान्पण्डितो नावसृजेत्परेषु ॥ १२.३०५.९ ॥

言语之箭从口中射出;被其所伤者日夜悲伤。它们落在他人的要害之处。智者不向他人射出这些箭。

12.305.10

परश्चेदेनमतिवादवाणै ।
र्भृशं विध्येच्छम एवेह कार्यः।
संरोष्यमाणः प्रतिहृष्यते यः ।
स आदत्ते सुकृतं वै परस्य ॥ १२.३०५.१० ॥

若他人以粗暴言语之箭猛烈刺伤他,此处应当修持平静。那因愤怒而以反击为乐者,便夺取了他人的功德。

12.305.11

क्षेपायमाणमभिषङ्गव्यलीकं ।
निगृह्णाति ज्वलितं यश्च मन्युम्।
अदुष्टचेता मुदितोऽनसूयुः ।
स आदत्ते सुकृतं वै परेषाम् ॥ १२.३०५.११ ॥

能忍受诽谤、攻击与虚妄指责,压制燃烧的愤怒,心地纯净、欢喜而无嫉妒者,便夺取了他人的功德。

12.305.12

आक्रुश्यमानो न वदामि किंचि ।
त्क्षमाम्यहं ताड्यमानश्च नित्यम्।
श्रेष्ठं ह्येतद्यत्क्षमामाहुरार्याः ।
सत्यं तथैवार्जवमानृशंस्यम् ॥ १२.३०५.१२ ॥

即使被辱骂,我也不说什么;即使被击打,我也始终忍让。贤者称此忍耐为最高,真实、正直与仁慈亦然。

12.305.13

वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः ।
दमस्योपनिषन्मोक्ष एतत्सर्वानुशासनम् ॥ १२.३०५.१३ ॥

吠陀的精髓是真实;真实的精髓是克制;克制的精髓是解脱。这便是全部教导。

12.305.14

वाचो वेगं मनसः क्रोधवेगं ।
विधित्सावेगमुदरोपस्थवेगम्।
एतान्वेगान्यो विषहेदुदीर्णां ।
स्तं मन्येऽहं ब्राह्मणं वै मुनिं च ॥ १२.३०५.१४ ॥

能忍受这些涌起之冲动——言语之冲动、心意之冲动、愤怒之冲动、报复之冲动、腹欲与性欲之冲动——的人,我便认为他是婆罗门,是圣人。

12.305.15

अक्रोधनः क्रुध्यतां वै विशिष्ट ।
स्तथा तितिक्षुरतितिक्षोर्विशिष्टः।
अमानुषान्मानुषो वै विशिष्ट ।
स्तथाऽज्ञानाज्ज्ञानवान्वै विशिष्टः ॥ १२.३०५.१५ ॥

不生气者胜过生气者;忍耐者胜过不能忍耐者;人胜过非人;有智慧者胜过无知者。

12.305.16

आक्रुश्यमानो नाक्रोशेन्मन्युरेवं तितिक्षतः ।
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥ १२.३०५.१६ ॥

被辱骂却不回骂之人——忍耐者的怒气焚烧辱骂者,而他自己获得对方的功德。

12.305.17

यो नायुक्तः प्राह रूक्षं प्रियं वा ।
यो वा हतो न प्रतिहन्ति धैर्यात्।
पापं च यो नेच्छति तस्य हन्तु ।
स्तस्येह देवाः स्पृहयन्ति नित्यम् ॥ १२.३०५.१७ ॥

不妄发粗鲁或悦耳之言、受击时以坚忍不还手、且不贪求罪恶的人——诸神在此总是渴望他。

12.305.18

पापीयसः क्षमेतैव श्रेयसः सदृशस्य च ।
विमानितो हतोक्रुष्ट एवं सिद्धिं गमिष्यति ॥ १२.३०५.१८ ॥

对卑劣者、高贵者与同等者都应宽恕;受到侮辱、殴打与咒骂的人,这样便会达到成就。

12.305.19

सदाऽहमार्यान्निभृतोप्युपासे ।
न मे विधित्सोत्सहते न रोषः।
न चाप्यहं लिप्समानः परैमि ।
न चैव किंचिद्विषमेण यामि ॥ १२.३०५.१९ ॥

我常以谦卑服侍贤者;心中不生害人之念,也无愤怒;我不因贪求利益而去求于他人,也不以不正当的方式谋取任何东西。

12.305.20

नाहं शप्तः प्रतिशपामि कंचि ।
द्दमं द्वारं ह्यमृतस्येह वेद्मि।
गुह्यं ब्रह्म तदिदं ब्रवीमि ।
न मानुषाच्छ्रेष्ठतरं हि किंचित् ॥ १२.३०५.२० ॥

即使被诅咒,我也不以诅咒回报任何人;我在此知道,克制便是不死的门户。我宣说这秘密的梵知:没有比人更高的存在。

12.305.21

निर्मुच्यमानः पापेभ्यो घनेभ्य इव चन्द्रमाः ।
विरजाः कालमाकाङ्क्षन्धीरो धैर्येण सिध्यति ॥ १२.३०५.२१ ॥

如月亮脱离云翳,脱离罪恶,纯净无染,静候时机,坚定之人凭借坚忍而得成就。

12.305.22

यः सर्वेषां भवति ह्यर्चनीय ।
उत्सेचने स्तम्भ इवाभिजातः।
यस्मै वाचं सुप्रसन्नां वदन्ति ।
स वै देवान्गच्छति संयतात्मा ॥ १२.३०५.२२ ॥

受所有人尊敬,如秋千上高贵的柱子;人们对他说最温和的话,这位心意自制的人便能抵达诸神。

12.305.23

न तथा वक्तुमिच्छन्ति कल्याणान्पुरुषे गुणान् ।
यथैषां वक्तुमिच्छन्ति नैर्गुण्यमनुयुञ्जकाः ॥ १२.३०५.२३ ॥

人们不愿像那些吹毛求疵者那样,去谈论一个人的善德,而是乐于谈论他的无德。

12.305.24

यस्य वाङ्भनसी गुप्ते सम्यक्प्रणिहिते सदा ।
वेदास्तपश्च त्यागश्च स इदं सर्वमाप्नुयात् ॥ १२.३०५.२४ ॥

言语与心意始终善加守护、完全专注的人,能获得这一切:吠陀、苦行与舍弃。

12.305.25

आक्रोशनविमानाभ्यां नाबुधान्बोधयेद्बुधः ।
तस्मान्न वर्धयेदन्यं न चात्मानं विहिंसयेंत् ॥ १२.३०५.२५ ॥

智者不应以辱骂和侮慢去教导愚人。因此不应助长他人,也不应伤害自己。

12.305.26

अमृतस्येव संतृप्येदवमानस्य पण्डितः ।
सुखं ह्यवमतः शेते योऽवमन्ता स नश्यति ॥ १२.३०५.२६ ॥

智者应当把轻慢当作甘露来满足。被轻慢的人安然入睡,而轻慢他人的人则必然毁灭。

12.305.27

यत्क्रोधनो यजति यद्ददाति ।
यद्वा तपस्तप्यति यज्जुहोति।
वैवस्वतस्तद्धरतेऽस्य सर्वं ।
मोघः श्रमो भवति हि क्रोधनस्य ॥ १२.३०५.२७ ॥

愤怒之人所行的祭祀、所施的布施、所修的苦行、所献的供物,这一切都被毗婆娑多(阎摩)夺去;愤怒者的辛劳确实归于徒然。

12.305.28

चत्वारि यस्य द्वाराणि सुगुप्तान्यमरोत्तमाः ।
उपस्थमुदरं हस्तौ वाक्चतुर्थी स धर्मवित् ॥ १२.३०५.२८ ॥

诸天中最优秀者啊!其四门——生殖器、腹、双手,以及第四的言语——皆被妥善守护者,他便是知法之人。

12.305.29

सत्यं दमं ह्यार्जवमानृशंस्यं ।
धृतिं तितिक्षामभिसेवमानः।
स्वाध्यायनित्योऽस्पृहयन्यरेषा ।
मेकान्तशील्यूर्ध्वगतिर्भवेत्सः ॥ १२.३०५.२९ ॥

修习真实、克制、正直、不残忍、坚定与忍耐,恒常精进于经典诵习,不贪求他人之物,喜好独处者,将得上升之道。

12.305.30

सर्वान्देदाननुचरन्वत्सवच्चतुरः स्तनान् ।
न पावनतमं किंचित्सत्याद्गध्यगमं क्वचित् ॥ १२.३०५.३० ॥

随从诸天,如犊子吮吸四乳(吠陀),再没有比真实更能净化的,也无处可得比它更值得获得的。

12.305.31

आचक्षेऽहं मनुष्येभ्यो देवेभ्यः प्रतिसंचरन् ।
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥ १२.३०५.३१ ॥

我往来于人与天神之间,宣告:真实是通往天堂的阶梯,如同渡过大海的船。

12.305.32

यादृशैः संविवदते यादृशांश्चोपसेवते ।
यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ॥ १२.३०५.३२ ॥

与什么样的人交往,侍奉什么样的人,希望成为什么样的人,人便成为那样的人。

12.305.33

यदि सन्तं सेवति यद्यसन्तं ।
तपस्विनं यदि वा स्तेनमेव।
वासो यथा रागवशं प्रयाति ।
तथा स तेषां वशमभ्युपैति ॥ १२.३०५.३३ ॥

无论他服侍善人、恶人、苦行者,还是盗贼,他都会如同布帛受染料之支配,受他们支配。

12.305.34

सदा देवाः साधुभिः संवदन्ते ।
न मानुषं विषयं यान्ति द्रष्टुम्।
नेन्दुः समः स्यादसमो हि वायु ।
रुच्चावचं विषयं यः स वेद ॥ १२.३०५.३४ ॥

诸神常与善人交谈,不去观看人间的领域。月亮不能平等,因为风是不平等的;唯有知晓高低之事的人才懂得这一点。

12.305.35

अदुष्टं वर्तमाने तु हृदयान्तरपूरुषे ।
तेनैव देवाः प्रीयन्ते सतां मार्गस्थितेन वै ॥ १२.३०५.३५ ॥

当心中的内在之人保持无瑕时,诸神唯独因那位立于善人之道的人而欢喜。

12.305.36

विश्नोदरे ये निरताः सदैव ।
स्तेना नरा वाक्यरुषाश्च नित्यम्।
अपेतधर्मानिति तान्विदित्वा ।
दूराद्देवः संपरिवर्जयन्ति ॥ १२.३०५.३६ ॥

那些总是沉溺于口腹之欲的人、盗贼,以及总是言语暴戾的人——诸神知其无法,便远远地避开他们。

12.305.37

न वै देवा हीनसत्वेन तोष्याः ।
सर्वाशिना दुष्कृतकर्मणा वा।
सत्यव्रता ये तु नराः कृतज्ञा ।
धर्मे रतास्तैः सह संभजन्ते ॥ १२.३०५.३७ ॥

诸神不会因怯弱之人、贪食一切之人或作恶之人而欢喜;唯与那些守持真誓、知恩图报、乐于法的人交往。

12.305.38

अव्याहृतं व्याहृताच्छ्रेय आहुः ।
सत्यं वदेद्व्याहृतं तद्द्वितीयम्।
धर्म्यं वदेद्व्याहृतं तत्तृतीयं ।
प्रियं वदेद्व्याहृतं तच्चतुर्थम् ॥ १२.३०५.३८ ॥

人们说,不言胜于言语。应当说真实的话——这是第二;应当说合乎法的话——这是第三;应当说悦耳的话——这是第四。

12.305.39

केनायमावृतो लोकः केन वा न प्रकाशते ।
केन त्यजति मित्राणि केन स्वर्गं न गच्छति ॥ १२.३०५.३९ ॥

这个世界被什么所遮蔽,或被什么所不照亮?人因何而舍弃朋友,因何而不能升天?

12.305.40

अज्ञानेनावृतो लोको मात्सर्यान्न प्रकाशते ।
लोभात्त्यजति मित्राणि सङ्गात्स्वर्गं न गच्छति ॥ १२.३०५.४० ॥

世界被无知所遮蔽,因嫉妒而不被照亮。因贪婪人舍弃朋友,因执着而不升天。

12.305.41

कः स्विदेको रमते ब्राह्मणानां ।
कः स्विदेको बहुभिर्जोषमास्ते।
कः स्विदेको बलवान्दुर्बलोपि ।
कः स्विदेषां कलहं नान्ववैति ॥ १२.३०५.४१ ॥

谁独自在婆罗门中欢喜?谁独自在众人中沉默而坐?谁虽强大却独自软弱?谁不知晓他们的争执?

12.305.42

प्राज्ञ एको रमते ब्राह्मणानां ।
प्राज्ञश्चैको बहुभिर्जोषमास्ते
प्राज्ञ एको बलवान्दुर्बलोऽपि ।
प्राज्ञ एषां कलहं नान्वबैति ॥ १२.३०५.४२ ॥

智者独自在婆罗门中欢喜。智者独自在众人中沉默而坐。智者虽强大却独自示弱。智者不参与他们的争执。

12.305.43

किं ब्राह्मणानां देवत्वं किंच साधुत्वमुच्यते ।
असाधुत्वे च किं तेषां किमेषां मानुषं मतम् ॥ १२.३०५.४३ ॥

婆罗门的神性是什么,所谓的善又是什么?他们的不善在于何处,而他们的人性又被认为是什么?

12.305.44

स्वाध्याय एषां देवत्वं व्रतं साधुत्वमुच्यते ।
असाधुत्वं परीवादो मृत्युर्मानुष्यमुच्यते ॥ १२.३०५.४४ ॥

他们的神性是诵读吠陀;誓戒被称为他们的善。不善是诽谤;死亡被称为他们的人性。

12.305.45

इत्युक्त्वा परमो देवो भगवान्नित्य अव्ययः ।
साध्यैर्देवगणैः सार्धं दिवमेवारुरोह सः ॥ १२.३०५.४५ ॥

如此说罢,至上神、世尊、常住不灭者,与萨陀耶及众天神一同升上天界。

12.305.46

एतद्यशस्यमायुष्यं पुण्यं स्वर्गाय च ध्रुवम् ।
दर्शितं देवदेवेन परमेणाव्ययेन च ॥ १२.३०५.४६ ॥

此法能带来名望与长寿,有功德,必定通向天界;此乃众神之神、至上不灭者所示。

12.305.47

संवाद इत्ययं श्रेष्ठः साध्यानां परिकीर्तितः ।
क्षेत्रं वै कर्मणां योनिः सद्भावः सत्यमुच्यते ॥ १२.३०५.४७ ॥

此对话被萨陀耶们宣称为最殊胜者;它是诸业的田地与根源,而善良的心意被称为真实。