摩诃婆罗多 · 章 12.306
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.306.1
साङ्ख्ये योगे च मे तात विशेषं वक्तुमर्हसि ।
तव धर्मज्ञ सर्वं हि विदितं कुरुसत्तम ॥ १२.३०६.१ ॥
亲爱的祖父,请您为我解说数论与瑜伽的区别。精通法者、俱卢之最,这一切您都已知晓。
12.306.2
साङ्ख्याः साङ्ख्यं प्रशंसन्ति योगा योगं द्विजातयः ।
वदन्ति कारणं श्रेष्ठं स्वपक्षोद्भावनाय वै ॥ १२.३०६.२ ॥
数论的信徒赞美数论,瑜伽的信徒赞美瑜伽;再生者们为了确立自己的观点,各自陈述最优的理由。
12.306.3
अनीश्वरः कथं मुच्येदित्येवं शत्रुसूदन ।
वदन्ति कारणश्रैष्ठ्यं योगाः सम्यङ्भनीषिणः ॥ १२.३०६.३ ॥
灭敌者啊,无自主者如何得解脱?对此,真正有智慧的瑜伽行者宣说其理的优越。
12.306.4
वदन्ति कारणं चेदं साङ्ख्याः सम्यग्द्विजातयः ।
विज्ञायेह गतीः सर्वा विरक्तो विषयेषु यः ॥ १२.३०६.४ ॥
数论的再生者正确地宣说此因:凡在此洞悉一切趣向、远离诸境者。
12.306.5
ऊर्ध्वं च देहात्सुव्यक्तं विमुच्येदिति नान्यथा ।
एतदाहुर्महाप्राज्ञाः साङ्ख्यं वै मोक्षदर्शनम् ॥ १२.३०६.५ ॥
从身体向上超脱,便清楚地得解脱,并非他途;大智者如是说。数论实为解脱之见。
12.306.6
स्वपक्षे कारणं ग्राह्यं समर्थं वचनं हितम् ।
शिष्टानां हि मतं ग्राह्यं त्वद्विधैः शिष्टसंमतैः ॥ १२.३०६.६ ॥
在自己的立场中,应当采纳有力而有益的论据;有学之士的意见值得采纳,尤其是像你这样的学者所认可的意见。
12.306.7
प्रत्यक्षहेतवो योगाः साङ्ख्याः शास्त्रविनिश्चयाः ।
उभे चैते मते तत्त्वे मम तात युधिष्ठिर ॥ १२.३०६.७ ॥
以直接感知为依据的瑜伽与数论,以及经典确立的结论——亲爱的儿子坚战,在我看来,这两者都是真正的原理。
12.306.8
उभे चैते मते ज्ञाने नृपते शिष्टसंमते ।
अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम् ॥ १२.३०६.८ ॥
国王啊,这两者都被视为智慧,为贤者所认可;若依照经典修行,它们便能引向最高的归宿。
12.306.9
तुल्यं शौचं तयोरेकं दया भूतेषु चानघ ।
व्रतानां धारणं तुल्यं दर्शनं न समं तयोः।
तयोस्तु दर्शनं सम्यक्सूक्ष्माभावे प्रसज्यते ॥ १२.३०६.९ ॥
两者的清净相同,对众生的慈悲也相同,无垢者啊;持守誓戒也相等。但他们的见解并不相同。他们的正确见解只在缺乏精微之时才会显现。
12.306.10
यदि तुल्यं व्रतं शौचं दया चात्र फलं तथा ।
न तुल्यं दर्शनं कस्मात्तन्मे ब्रूहि पितामह ॥ १२.३०६.१० ॥
若誓戒、清净与慈悲,以及它们的果报在此都相等,那么见解为何不相等?祖父啊,请告诉我。
12.306.11
रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम् ।
योगाच्छित्त्वा ततो दोषान्पञ्चैतान्प्राप्नुवन्ति ते ॥ १२.३०६.११ ॥
借瑜伽彻底斩断这五种过失——贪著、迷妄,以及爱恋、欲望与愤怒——他们便能证得那境界。
12.306.12
यथा चानिमिषाः स्थूला जालं छित्त्वा पुनर्जलम् ।
प्राप्नुवन्ति तथा योगास्तत्पदं वीतकल्मषाः ॥ १२.३०६.१२ ॥
如大鱼割断网罟后重返水中,无垢的瑜伽行者也这样抵达那一境界。
12.306.13
तथैव वागुरां छित्त्वा बलवन्तो यथा मृगाः ।
प्राप्नुयुर्विमलं मार्गं विमुक्ताः सर्वबन्धनैः ॥ १२.३०६.१३ ॥
同样,强壮的鹿割断罗网,摆脱一切束缚,便能抵达清净之道。
12.306.14
लोभजानि तथा राजन्बन्धनानि बलान्विताः ।
छित्त्वा योगात्परं मार्गं गच्छन्ति विमलं शिवम् ॥ १२.३०६.१४ ॥
大王,同样,强者割断由贪欲所生的束缚,依靠瑜伽走向至高、清净、吉祥之道。
12.306.15
अबलाश्च मृगा राजन्वागुरासु यथा परे ।
विनश्यन्ति न संदेहस्तद्वद्योगबलादृते ॥ १२.३०६.१५ ॥
大王,正如弱鹿及其他动物陷入罗网而死,毫无疑问,离开瑜伽之力,人也同样毁灭。
12.306.16
बलहीनाश्च कौन्तेय यथा जालं गता झषाः ।
अन्तं गच्छन्ति राजेन्द्र योगास्तद्वत्सुदुर्बलाः ॥ १२.३०६.१६ ॥
鞠陀之子啊,弱鱼落入网中便走向终结;同样,极其薄弱的瑜伽,王中之王啊,也会走向终结。
12.306.17
यथा च शकुनाः सूक्ष्मं प्राप्य जालमरिंदम ।
तत्र सक्ता विपद्यन्ते मुच्यन्ते च बलान्विताः ॥ १२.३०६.१७ ॥
降服敌人者啊,如鸟儿落入细密的罗网,陷在其中而死,而强者得以解脱。
12.306.18
कर्मजैर्बन्धनैर्बद्धास्तद्वद्योगाः परंतप ।
अबला वै विनश्यन्ति मुच्यन्ते च बलान्विताः ॥ १२.३०६.१८ ॥
折磨敌人者啊,同样,被业所生束缚所缚的瑜伽亦是如此:弱者确实毁灭,而强者得以解脱。
12.306.19
अल्पकश्च यथा राजन्वह्निः शाम्यति दुर्बलः ।
आक्रान्त इन्धनैः स्थूलैस्तद्वद्योगो बलः प्रभो ॥ १२.३०६.१९ ॥
君王啊,正如弱小的火被粗大的柴薪压住便会熄灭,同样,力量薄弱的瑜伽也会平息,主啊。
12.306.20
स एव च यदा राजन्वह्निर्जातबलः पुनः ।
समीरणयुतः क्षिप्रं दहेत्कृत्स्नां महीमपि ॥ १२.३०६.२० ॥
君王啊,当那火再次获得力量并与风相合时,便能迅速焚烧整个大地。
12.306.21
तद्वज्जातबलो योगी दीप्ततेजा महाबलः ।
अन्तकाल इवादित्यः कृत्स्नं संशोषयेज्जगत् ॥ १२.३०६.२१ ॥
同样,获得力量、光辉灼灼、大力无比的瑜伽士,能够像末劫时的太阳那样晒干整个世界。
12.306.22
दुर्बलश्च यथा राजन्स्रोतसा हियते नरः ।
बलहीनस्तथा योगो विषयैर्ह्रियतेऽवशः ॥ १२.३०६.२२ ॥
君王啊,正如弱者被急流冲走,缺乏力量的瑜伽也会无助地被感官对象所卷走。
12.306.23
तदेव च महास्रोतो विष्टम्भयति वारणः ।
तद्वद्योगबलं लब्ध्वा व्यूहते विषयान्बहून् ॥ १२.३०६.२३ ॥
正如大象阻挡那大河的急流,同样,获得瑜伽之力的瑜伽士便能约束众多感官对象。
12.306.24
विशन्ति चावशाः पार्थ योगाद्योगबलान्विताः ।
प्रजापतीनृषीन्देवान्महाभूतानि चेश्वराः ॥ १२.३०६.२४ ॥
啊,普利塔之子,那些具有瑜伽之力、因瑜伽而成为主宰的人,进入众生之主、仙人、天神和大元素之中。
12.306.25
न यमो नान्तकः क्रुद्धो न नृत्युर्भीमविक्रमः ।
ईशते नृपते सर्वे योगस्यामिततेजसः ॥ १२.३०६.२५ ॥
国王啊,无论阎摩、愤怒的死神安塔卡,还是勇猛可畏的死亡,皆受无量光明瑜伽行者所支配。
12.306.26
आत्मनां च सहस्राणि बहूनि भरतर्षभ ।
योगः कुर्याद्बलं प्राप्य तैश्च सर्वैर्महीं चरेत् ॥ १२.३०६.२६ ॥
婆罗多族的雄牛啊,瑜伽行者获得力量后,可以化出许多千个自我,并与他们全部一同行走大地。
12.306.27
प्राप्नुयाद्विषयान्कश्चित्पुनश्चोग्रं तपश्चरेत् ।
संक्षिपेच्च पुनस्तात सूर्यस्तेतोगुणानिव ॥ १२.३०६.२७ ॥
有人可以获得感官之境,又可以再行苦行;孩子啊,正如太阳收敛它的光芒,他也能再次将它们收敛。
12.306.28
बलस्थस्य हि योगस्य बन्धनेशस्य पार्थिव ।
विमोक्षे प्रभविष्णुत्वमुपपन्नमसंशयम् ॥ १२.३०६.२८ ॥
国王啊,对于立足于力量的瑜伽,以及束缚之主而言,在解脱中具有主宰之力,无疑是恰当的。
12.306.29
बलानि योगप्राप्तानि मयैतानि विशांपते ।
निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनस्तव ॥ १२.३०६.२९ ॥
人主啊,我已经向你讲述了通过瑜伽获得的这些力量;为了说明,我还要再向你讲述更微妙的事情。
12.306.30
आत्मनश्च समाधाने धारणां प्रति वा विभो ।
निदर्शनानि सूक्ष्माणि शृणु मे भरतर्षभ ॥ १२.३०६.३० ॥
威严的君主啊,婆罗多族的雄牛啊,请听我讲述关于自我专注与持守的微妙譬喻。
12.306.31
अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः ।
युक्तः सम्यक्तथा योगी मोक्षं प्राप्नोत्यसशयम् ॥ १२.३०६.३१ ॥
如同警觉专注的射手命中目标,善于修行的瑜伽行者无疑将获得解脱。
12.306.32
स्नेहपूर्णे यथा पात्रे मन आधाय निश्चलम् ।
पुरुषो युक्त आरोहेत्सोपानं युक्तमानसः ॥ १२.३०६.३२ ॥
如同心意专一的人,将心神稳定地放在盛满油的器皿上,攀登台阶一般。
12.306.33
युक्तस्तथाऽयमात्मानं योगः षार्थिव निश्चलम् ।
करोत्यमलमात्मानं भास्करोपमदर्शनम् ॥ १२.३०६.३३ ॥
同样,国王啊,这位修行的瑜伽行者使自身安定,使无垢的自我如太阳般光辉。
12.306.34
यथा च नावं कौन्तेय कर्णधारः समाहितः ।
महार्णवगतां शीघ्रं नयेत्पार्थिव पत्तनम् ॥ १२.३०६.३४ ॥
就像专心的舵手,迅速将驶入大海的船只引向港口,国王啊,贡提之子。
12.306.35
तद्वदात्मसमाधानं युक्त्वा योगेन तत्ववित् ।
दुर्गमं स्थानमाप्नोति हित्वा देहमिमं नृप ॥ १२.३०६.३५ ॥
同样,知真理者与瑜伽相应,自我安定,国王啊,舍弃此身后便到达难以企及的境界。
12.306.36
सारथिश्च यथा युक्त्वा सदश्वान्सुसमाहितः ।
देशमिष्टं नयत्याशु धन्विनं पुरुषर्षभ ॥ १२.३०६.३६ ॥
就像驭者套上良马并极其专注,迅速将弓箭手带往所向往的国土,人中之牛啊。
12.306.37
तथैव नृपते योगी धारणासु समाहितः ।
प्राप्नोत्याशु परं स्थानं लक्षं मुक्त इवाशुगः ॥ १२.३०६.३७ ॥
同样,国王啊,专注于执持(dhāraṇā)修行的瑜伽行者,迅速达到至高之境,如同离弦的疾箭射向目标。
12.306.38
आवेश्यात्मनि चात्मानं योगी तिष्ठति योचलः ।
पापं हन्ति पुनीतानां पदमाप्नोति सोऽजरम् ॥ १२.३०६.३८ ॥
将自我安置于自我之中,坚定不移的瑜伽行者安住其中;他消除罪恶,达到清净者那不朽的境界。
12.306.39
नाभ्यां कण्ठे च शीर्षे च हृदि वक्षसि पार्श्वयोः ।
दर्शने श्रवणे चापि घ्राणे चामितविक्रम ॥ १२.३०६.३९ ॥
在脐部、喉部与头部,在心、胸,在两侧;在视觉、听觉,也在嗅觉之中,啊,具无量威力者。
12.306.40
स्थानेष्वेतेषु यो योगी महाव्रतसमाहितः ।
आत्मना सूक्ष्ममात्मानं युङ्क्ते सम्यग्विशांपते ॥ १२.३०६.४० ॥
在这些部位,以大誓言专注的瑜伽行者,以自我将微细的自我正确地与自我相结合,啊,民众之主。
12.306.41
स शीघ्रमचलप्रख्यं कर्म दग्ध्या शुभाशुभम् ।
उत्तमं योगमास्थाय यदीच्छति विमुच्यते ॥ १२.३०६.४१ ॥
他迅速如不动之山,焚尽善与恶之业,依止至上瑜伽,若他愿意,便得解脱。
12.306.42
आहारान्कीदृशान्कृत्वा कानि जित्वा च भारत ।
योगी बलमवाप्नोति तद्भवान्वक्तुमर्हति ॥ १२.३०६.४२ ॥
婆罗多的后裔啊,瑜伽行者应当食用何种食物、征服何物,才能获得力量?这正是您应当宣说的。
12.306.43
कणानां भक्षणे युक्तः पिण्याकस्य च भारत ।
स्नेहानां वर्जने युक्तो योगी बलमवाप्नुयात् ॥ १२.३०६.४३ ॥
婆罗多之子啊,专心食用谷壳与油饼、戒除油脂的瑜伽士,便获得力量。
12.306.44
भुञ्जानो यावकं रूक्षं दीर्घकालमरिंदम् ।
एकाहारो विशुद्धात्मा योगी बलमवाप्नुयात् ॥ १२.३०६.४४ ॥
降伏敌人者啊,长期食用干燥大麦粥、每日只进一餐、心灵清净的瑜伽士,便获得力量。
12.306.45
पक्षान्मासानृतूंश्चैतान्संवत्सरानहस्तथा ।
अपः पीत्वा पयोमिश्रा योगी बलमवाप्नुयात् ॥ १२.३०६.४५ ॥
如此经历半月、月、季节与年岁地断食,只饮掺有牛奶的水,瑜伽士便获得力量。
12.306.46
अखण्डमपि वा मांसं सततं मनुजेश्वर ।
उपोष्य सम्यक्शुद्धात्मा योगी बलमवाप्नुयात् ॥ १२.३०६.४६ ॥
人主啊,瑜伽士即使常食完整的肉,并且守持斋戒,使心灵完全清净,便获得力量。
12.306.47
कामं जित्वा तथा क्रोधं शीतोष्णे वर्षमेव च ।
भयं शोकं तथा श्वासं पौरुषान्विषयांस्तथा ॥ १२.३०६.४७ ॥
征服欲望,同样地也征服愤怒、寒热、雨水、恐惧、忧愁、呼吸、勇力与感官对象。
12.306.48
अरतिं दुर्जयां चैव घोरां तृष्णां च पार्थिव ।
स्पर्शं निद्रां तथा तन्द्रीं दुर्जयां नृपसत्तम ॥ १२.३०६.४८ ॥
君王啊,难以战胜的厌倦与可怖的渴求,以及同样难以战胜的触感、睡眠与昏沉,人中之王啊。
12.306.49
दीपयन्ति महात्मानः सूक्ष्ममात्मानमात्मना ।
वीतरागा महाप्रज्ञा ध्यानाध्ययनसंपदा ॥ १२.३०६.४९ ॥
无欲而大智的大德之人,以禅修与学习的财富,借自身之力照亮其微妙的自我。
12.306.50
दुर्गस्त्वेप मतः पन्था ब्राह्मणानां विपश्चिताम् ।
न कश्चिद्व्रजति ह्यस्मिन्क्षेमेण भरतर्षभ ॥ १२.३०६.५० ॥
此路即使对有学问的婆罗门也被认为艰难;婆罗多之雄牛啊,无人能安然走过此路。
12.306.51
यथा कश्चिद्वनं घोरं बहुसर्पसरीसृपम् ।
श्वभ्रवत्तोयहीनं च दुर्गमं बहुकण्टकम् ॥ १२.३०६.५१ ॥
譬如有人进入一座可怖的森林,那里布满众多蛇类与爬行之物,犹如陷阱,无水,难以通行,荆棘遍布。
12.306.52
अभक्षमटवीप्रायं दावदग्धमहीरुहम् ।
पन्थानं तस्कराकीर्णं क्षेमेणाभिपतेद्युवा ॥ १२.३०६.५२ ॥
年轻人应当平安地走上一条无食物、多为荒野、大树被林火烧毁、盗贼遍布的道路。
12.306.53
योगमार्गं तथाऽऽसाद्य यः कश्चिद्व्रजते द्विजः ।
क्षेमेणोपरमेन्मार्गाद्बहुदोषो हि स स्मृतः ॥ १२.३०६.५३ ॥
若有再生者(婆罗门)到达瑜伽之道而行走其上,却平安地中途退出此道,则被视为大有过失。
12.306.54
सुस्थेयं क्षुरधारासु निशितासु महीपते ।
धारणासु तु योगस्य दुःस्थेयमकृतात्मभिः ॥ १२.३०६.५४ ॥
啊,地上之主,立于锋利的剃刀刃上尚可平稳;然而在瑜伽的执持修习中,自我未经调伏者却难以站稳。
12.306.55
विपन्ना धारणास्तात नयन्ति न शुभां गतिम् ।
नेतृहीना यथा नावः पुरुषानर्णवे नृप ॥ १२.३०६.५५ ॥
亲爱的孩子,失去的专注不会引向善道,正如没有舵手的船不能把人载过大海,哦国王。
12.306.56
यस्तु तिष्ठति कौन्तेय धारणासु यथाविधि ।
मरणं जन्म दुःखं च सुखं च स विमुञ्चति ॥ १२.३०६.५६ ॥
然而,昆蒂之子啊,依规则安住于专注之中者,便舍弃死亡与生、苦与乐。
12.306.57
नानाशास्त्रेषु निष्पन्नं योगेष्विदमुदाहृतम् ।
परं योगस्य यत्कृत्यं निश्चितं तद्द्विजातिषु ॥ १२.३०६.५७ ॥
此事见于诸般典籍,关于瑜伽已有宣示:瑜伽的最高职责对再生族是确定的。
12.306.58
परं हि तद्ब्रह्ममयं महात्म ।
न्ब्रह्माणमीशं वरदं च विष्णुम्।
भवं च धर्मं च ष़डाननं च ।
षट्ब्रह्मपुत्रांश्च महान्भावान् ॥ १२.३०६.५८ ॥
那至上者由梵构成:大梵天、主宰者、赐福的毗湿奴、婆婆(湿婆)与法、六面者、梵天的六个儿子以及诸大境界。
12.306.59
तमश्च कष्टं सुमहद्रजश्च ।
सत्वं विशुद्धं प्रकृतिं परां च।
सिद्धिं च देवीं वरुणस्य पत्नीं ।
तेजश्च कृत्स्नं सुमहच्च धैर्यम् ॥ १२.३०६.५९ ॥
黑暗与猛烈极大的激情、纯净的善性、至上的原初自性、成就、伐楼那之妻天女、全部光辉以及极大的坚忍。
12.306.60
ताराधिपं खे विमलं सतारं ।
विश्वांश्च देवानुरगान्पितृंश्च।
शैलांश्च कृत्स्नानुदधींश्च घोरा ।
न्नदीश्च सर्वाः सवनान्घनांश्च ॥ १२.३०६.६० ॥
天空中,清净的星主与众星;一切天神、蛇与祖先,整座群山,可怖的大海,所有河流,祭祀的献供与云朵。
12.306.61
नागान्नगान्यक्षगणान्दिशश्च ।
गन्धर्वसंघान्पुरुषान्स्त्रियश्च।
परात्परं प्राप्य महान्महात्मा ।
विशेत योगी नचिराद्विमुक्तः ॥ १२.३०६.६१ ॥
他看见龙蛇众、群山、夜叉众、诸方、乾闼婆众、男人与女人;大德瑜伽士从至上达到至上,不久即得解脱,而入于其中。
12.306.62
कथा च येयं नृपते प्रसक्ता ।
देवे महावीर्यतमौ शुभेयम्।
योगी स सर्वानभिभूय मर्त्या ।
न्नारायणात्मा कुरुते महात्मा ॥ १२.३०६.६२ ॥
国王啊,此故事与神(那罗延)相关,二位大勇士之中最为强大者,此乃吉祥之说。那位大德瑜伽士战胜一切凡人,使自我与那罗延合一。