Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.307

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.307.1

सम्पक्त्वयाऽयं नृपते वर्णितः शिष्टसंमतः ।
योगमार्गो यथान्यायं शिष्यायेह हितैषिणा ॥ १२.३०७.१ ॥

大王啊,你如理地阐述了这条为智者所认可的瑜伽之道,正如一位善意的导师在此教授给弟子。

12.307.2

साङ्ख्ये त्विदानीं कार्त्स्न्येन विधिं प्रब्रूहि पृच्छते ।
त्रिषु लोकेषु यज्ज्ञानं सर्वं तद्विदितं हि ते ॥ १२.३०७.२ ॥

现在请完整地为我这提问者讲说数论的方法;三界中存在的一切知识,你都已了然。

12.307.3

शृणु मे त्वमिदं कृत्स्नं साङ्ख्यानां विदितात्मनाम् ।
विदितं यतिभिः सर्वैः कपिलादिभिरीश्वरैः ॥ १२.३०७.३ ॥

请你从我这里听取这全部的数论教义,它是已悟自我的数论派的;所有苦行者以及如迦毗罗等主宰者都已通晓。

12.307.4

यस्मिन्नविभ्रमाः केचिद्दृश्यन्ते मनुजर्षभ ।
गुणाश्च यस्मिन्बहवो दोषहानिश्च केवला ॥ १२.३०७.४ ॥

人中之牛啊,在此中可见某些人没有迷乱,其中有许多德性,且过失被彻底去除。

12.307.5

ज्ञानेन परिसङ्ख्याय सदोषान्विषयान्नृप ।
मानुषान्दुर्जयान्कृत्स्नान्पैशाचान्विषयांस्तथा ॥ १२.३०७.५ ॥

大王啊,以智慧完整列举有过失的诸境,包括难以战胜的人间之境,以及鬼魅之境。

12.307.6

राक्षसान्विषयाञ्ज्ञात्वा यक्षाणां विषयांस्तथा ।
विषयानौरगाञ्ज्ञात्वा गान्धर्वविषयांस्तथा ॥ १२.३०७.६ ॥

了知罗刹之境,同样也了知夜叉之境;了知蛇之境,也了知乾闼婆之境。

12.307.7

पितृणां विषयाञ्ज्ञात्वा तिर्यक्षु चरतां नृप ।
सुपर्णविषयाञ्ज्ञात्वा मरुतां विषयांस्तथा ॥ १२.३०७.७ ॥

君王啊,知晓祖先的世界与在畜生中流转者的世界,知晓金翅鸟(苏波那)的世界,也知晓风神(摩路多)的世界。

12.307.8

राजर्षिविषयाञ्ज्ञात्वा ब्रह्मर्षिविषयांस्तथा ।
आसुरान्विषयाञ्ज्ञात्वा वैश्वदेवांस्तथैव च ॥ १२.३०७.८ ॥

知晓王仙的世界与梵仙的世界,知晓阿修罗的世界,也知晓诸大神(毗首提婆)的世界。

12.307.9

देवर्षिविषयाञ्ज्ञात्वा योगानामपि चेश्वरान् ।
प्रजापतीनां विषयान्ब्रह्मणो विषयांस्तथा ॥ १२.३०७.९ ॥

知晓天仙的世界与瑜伽的主宰,知晓生主(补罗阇钵提)的世界,也知晓梵天的世界。

12.307.10

आयुषश्च परं कालं लोके विज्ञाय तत्त्वतः ।
सुखस्य च परं तत्त्वं विज्ञाय वदतां वर ॥ १२.३०७.१० ॥

在世间真实地知晓寿命的最长时限,又知晓幸福的最高真理,言者中的最上者啊。

12.307.11

प्राप्ते काले च यद्दुःखं सततं विषयैषिणाम् ।
तिर्यक्षु पततां दुःखं पततां नरके च यत् ॥ १२.३०७.११ ॥

时候到来时,那些不断追求诸欲者所遭受的苦,堕落于畜生中者的苦,以及堕入地狱者所遭受的苦。

12.307.12

स्वर्गस्य च गुणान्कृत्स्नान्दोषान्सर्वांश्च भारत ।
परिसंख्यानसंख्यानं सत्वं सांख्यगुणात्मकम्।
वेदवादे येऽपि दोषा गुणा ये चापि वैदिकाः ॥ १२.३०७.१२ ॥

婆罗多啊,天界的一切功德与一切过失,列举与计数,由数论诸德构成的萨埵,吠陀学说中所有的过失与功德,以及吠陀所说的善德。

12.307.13

ज्ञानयोगे च ये दोषा गुणा योगे च ये नृप ।
साङ्ख्यज्ञाने च ये दोषास्तथैव च गुणा नृप।
इतरेषु च ये दोषा गुणास्तेषु च भारत ॥ १२.३०७.१३ ॥

君王啊,在智慧之道与瑜伽中所有的过失与美德;在数论知识中的过失,同样的美德,君王啊;以及在其他道路中的过失与美德,婆罗多的后裔啊。

12.307.14

सत्वं दशगुणं ज्ञात्वा रजो नवगुणं तथा ।
तमश्चाष्टगुणं ज्ञात्वा वृद्धिं सप्तगुणां तथा ॥ १२.३०७.१४ ॥

知萨埵为十倍,罗阇为九倍,答磨为八倍,并知增长为七倍,同样如此。

12.307.15

षङ्गुणं च मनो ज्ञात्वा नभः पञ्चगुणं तथा ।
बुद्धिं चतुर्गुणां ज्ञात्वा तमश्च त्रिगुणं तथा ॥ १२.३०७.१५ ॥

知心为六倍,虚空为五倍,同样如此;知觉为四倍,答磨为三倍,同样如此。

12.307.16

द्विगुणं च रजो ज्ञात्वा सत्वमेकगुणं पुनः ।
सर्गं विज्ञाय तत्त्वेन प्रलये प्रेक्ष्य चात्मनः ॥ १२.३०७.१६ ॥

知罗阇为两倍,萨埵复为一倍;如实了知创造,并在毁灭时观见自我。

12.307.17

ज्ञानविज्ञानसंपन्नाः कारणैर्भाविताः शुभाः ।
प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इव नभः परम् ॥ १२.३०७.१७ ॥

具备智慧与明辨、受因缘熏习的善人,化为如虚空般微细,便证得殊胜的吉祥解脱。

12.307.18

रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च ।
शब्दे सक्तं तथा श्रोत्रं जिह्वा रसगुणेषु च ॥ १२.३०७.१८ ॥

视觉与色相相连,嗅觉与香之德相连;听觉执着于声,舌根亦执着于味之德。

12.307.19

त्वचं स्पर्शे तथा सक्तां वायुं नभसि चाश्रितम् ।
मोहं तमसि संयुक्तं लोभमर्थेषु संश्रितम् ॥ १२.३०७.१९ ॥

皮肤依附于触觉,风依托于虚空。迷惑与暗黑相连,贪欲依托于财物。

12.307.20

विष्णौ क्रान्तं बलं शक्रे कोष्ठे सक्तं तथाऽनलम् ।
अप्सु देवीं समासक्तामपस्तेजसि संश्रिताः ॥ १२.३०७.२० ॥

力量遍布于毗湿奴与因陀罗;火依附于腹中。女神全然依附于水,水依托于光明。

12.307.21

तेजः सूक्ष्मे च संयुक्तं वायुं नभसि चाश्रितम् ।
नभो महति संयुक्तं महद्बुद्धौ च संश्रितम् ॥ १२.३०७.२१ ॥

光明与微细相连,风依托于虚空。虚空与大相连,大依托于大觉之智。

12.307.22

बुद्धिं तमसि संसक्तां तमो रजसि संश्रितम् ।
रजः सत्वे तथा सक्तं सत्वं सक्तं तथाऽऽत्मनि ॥ १२.३०७.२२ ॥

觉智全然依附于暗性,暗性依托于激性;激性依附于善性,善性也依附于自我。

12.307.23

सक्तमात्मानमीशे च देवे नारायणे तथा ।
देवं मोक्षे च संसक्तं मोक्षं सक्तं तु न क्वचित् ॥ १२.३०७.२३ ॥

自我依附于主宰,神亦依附于那罗延。神全然依附于解脱,而解脱却不依附于任何事物。

12.307.24

ज्ञात्वा सत्वयुतं देहं वृतं षोडशभिर्गुणैः ।
स्वभावं चेतनां चैव ज्ञात्वा देहसमाश्रिते ॥ १२.३०७.२४ ॥

知晓那与善性相结合、被十六种德性所包裹的身体,并知晓住于身体中的本性与觉知。

12.307.25

मध्यस्थमेकमात्मानं पापं यस्मिन्न विद्यते ।
द्वितीयं कर्म विज्ञाय नृपते विषयैषिणाम् ॥ १२.३०७.२५ ॥

当知那位居于中央、其中无罪的唯一自我。王啊,对于追求感官对象者而言,第二者是行动;了知此理之后……

12.307.26

इन्द्रियाणीन्द्रियार्थांश्च सर्वानात्मनि संश्रितान् ।
दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् ॥ १२.३०७.२६ ॥

了知一切根与根之境,皆依于自我,又了知解脱之难得,依闻典而言……

12.307.27

प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः ।
आवहं चानिलं ज्ञात्वा प्रवहं चानिलं पुनः ॥ १२.३०७.२७ ॥

真实了知气息:命气、下气、等气、遍气、上气;又了知入息之风(阿婆诃)与出息之风(婆罗诃)……

12.307.28

सप्तवातांस्तथा शेषान्सप्तधा विहितान्पुनः ।
प्रजापतीनृषींश्चैव मार्गांश्चैव बहून्वरान् ॥ १२.३०७.२८ ॥

七风,及其余诸风以七种方式所设立者;又当知诸生主与仙人,以及众多殊胜之道……

12.307.29

सप्तर्षीश्च बहूञ्ज्ञात्वा राजर्षीश्च परंतप ।
सुरर्षीन्महतश्चान्यान्ब्रह्मर्षीन्सूर्यसन्निभान् ॥ १२.३०७.२९ ॥

了知七仙与众多仙人,啊,敌人的焚烧者;了知王仙、天仙、诸大仙,以及其他如太阳般的梵仙……

12.307.30

ऐश्वर्याच्च्यावितान्दृष्ट्वा कालेन महता नृप ।
महतां भूतसङ्घानां श्रुत्वा नाशं च पार्थिव ॥ १२.३०७.३० ॥

王啊,见到那些被大时光从权势中夺走者;啊,大地之主,听闻诸大众生的毁灭……

12.307.31

गतिं चाप्यशुभां ज्ञात्वा नृपते पापकर्मिणाम् ।
वैतरण्यां च यद्दुःखं पतितानां यमक्षये ॥ १२.३०७.३१ ॥

国王啊,知晓作恶者的不善去处,以及坠入阎摩之域者在吠多兰尼河中所受的苦难。

12.307.32

योनीषु च विचित्रासु संसारानशुभांस्तथा ।
जठरे चाशुभे वासं शोणितोदकभाजने ॥ १२.३०७.३२ ॥

以及在种种胎藏中的不吉轮回,和居于如血水之器般不净的母腹之中。

12.307.33

श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते ।
शुक्रशोणितसंघाते मज्जास्नायुपरिग्रहे ॥ १२.३०७.३३ ॥

在散发刺鼻恶臭的痰、尿与粪便之中,在精血聚合之处,骨髓与筋腱在此聚集。

12.307.34

सिराशतसमाकीर्णे नवद्वारे पुरेऽशुचौ ।
विज्ञायाहितमात्मानं योगांश्च विविधान्नृप ॥ १२.३०७.३४ ॥

了知安置于充满百脉、九门的不净身城中的自我,王啊,还有种种瑜伽之法。

12.307.35

तामसानां च जन्तूनां रमणीयावृतात्मनाम् ।
सात्विकानां च जन्तूनां कुत्सितं भरतर्षभ ॥ १२.३०७.३५ ॥

耽于幻欲、自我为可爱之物所蔽的多暗性众生,以及具善性的众生,其状况皆可鄙,婆罗多族之雄啊。

12.307.36

गर्हितं महतामर्थे साङ्ख्यानां विदितात्मनाम् ।
उपप्लवांस्तथा घोराञ्शशिनस्तेजसस्तथा ॥ १२.३०७.३६ ॥

对于已了知自我的大数论者而言,这是可鄙的;月亮与光明的可怖扰乱也是如此。

12.307.37

ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम् ।
द्वन्द्वानां विप्रयोगं च विज्ञाय कृपण नृप ॥ १२.३०७.३७ ॥

见星辰坠落、星宿移位,知成对之物离散,哦,可怜的国王。

12.307.38

अन्योन्यभक्षणं दृष्ट्वा भूतानामपि चाशुभम् ।
बाल्ये मोहं च विज्ञाय क्षयं देहस्य चाशुभम् ॥ १२.३०७.३८ ॥

见众生相食及其不祥,知童年之迷惑、身体之败坏与不祥。

12.307.39

रागे मोहे च संप्राप्ते क्वचित्सत्वं समाश्रितम् ।
सहस्रेषु नरः कश्चिन्मोक्षबुद्धिं समाश्रितः ॥ १२.३०७.३९ ॥

即便贪爱与迷惑降临,某处仍有人依托于善性;千人之中,或许只有一人依托于解脱之智。

12.307.40

दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् ।
बहुमानमलब्धेषु लब्धे मध्यस्थतां पुनः ॥ १२.३०७.४० ॥

依据圣典知解脱之难得,于未得者生敬重,于已得者复保持中道。

12.307.41

विषयाणां च दौरात्म्यं विज्ञाय नृपते पुनः ।
गतासूनां च कौन्तेय देहान्दृष्ट्वा तथाऽशुभान् ॥ १२.३०७.४१ ॥

哦,国王,再次知晓诸境之恶性,哦,贡蒂之子,见死者不祥之身。

12.307.42

वासं कुलेषु जन्तूनां दुःखं विज्ञाय भारत ।
ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम् ॥ १२.३०७.४२ ॥

哦,婆罗多之后,知众生居于族类及其苦,知杀婆罗门者之去向与堕落者之极可怖之去向。

12.307.43

सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम् ।
गुरूदारप्रसक्तानां गतिं विज्ञाय चाशुभाम् ॥ १२.३०७.४३ ॥

知晓沉溺于烈酒的婆罗门、心怀恶念者以及贪恋师尊之妻者的不吉之途。

12.307.44

जननीषु च वर्तन्ते येन सम्यग्युधिष्ठिर ।
सदेवकेषु लोकेषु येन वर्तन्ति मानवाः ॥ १२.३०७.४४ ॥

还有,尤提斯提拉啊,众生由此在母胎中正常存在,人类也由此与诸神一同在诸世界中生活。

12.307.45

तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम् ।
तिर्यग्योनिगतानां च विज्ञाय च गतिं पृथक् ॥ १२.३०७.४५ ॥

凭借此知识,知晓行恶业者之途,并分别知晓入于畜生胎者之途。

12.307.46

वेदवादांस्तथा चित्रानृतूनां पर्ययांस्तथा ।
क्षयं संवत्सराणां च मासानां च क्षयं तथा ॥ १२.३०७.४६ ॥

吠陀的言说,季节的种种轮转,年岁的衰减,以及月份的衰减。

12.307.47

पक्षक्षयं तथा दृष्ट्वा दिवसानां च संक्षयम् ।
क्षयं वृद्धिं च चन्द्रस्य दृष्ट्वा प्रत्यक्षतस्तथा ॥ १२.३०७.४७ ॥

既见半月之衰减与日子之减少,又亲眼见到月亮的盈亏。

12.307.48

वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः ।
क्षयं धनानां दृष्ट्वा च पुनर्वृद्धिं तथैव च ॥ १२.३०७.४८ ॥

既见大海之涨与落,又见财富之损与复增。

12.307.49

संयोगानां क्षयं दृष्ट्वा युगानां च विशेषतः ।
क्षयं च दृष्ट्वा शैलानां क्षयं च सरितां तथा ॥ १२.३०७.४९ ॥

见到聚合的衰灭,尤其是诸劫的衰灭,也见到山岳的衰灭和河流的衰灭。

12.307.50

वर्णानां च क्षयं दृष्ट्वा क्षयान्तं च पुनः पुनः ।
जरा मृत्युस्तथा जन्म दृष्ट्वा दुःखानि चैव ह ॥ १२.३०७.५० ॥

见到种姓的衰灭以及一再以毁灭告终,见到衰老、死亡与出生,也见到种种苦难。

12.307.51

देहदोषांस्तथा ज्ञात्वा तेषां दुःखं च तत्त्वतः ।
देहविक्लवतां चैव सम्यग्विज्ञाय तत्त्वतः ॥ १२.३०७.५१ ॥

同样地了知身体的过失,如实了知其苦,并正确如实地理解身体的困顿。

12.307.52

आत्मदोषांश्च विज्ञाय सर्वानात्मनि संश्रितान् ।
स्वदेहादुत्थितान्गब्धांस्तथा विज्ञाय चाशुभान्।
मूत्रश्लेष्मपुरीषादीन्स्वेदजांश्च सुकुत्सितान् ॥ १२.३०७.५२ ॥

了知自身的过失,以及依于自身者,从自身生起者,不净之物,尿、痰、粪等,以及从汗中生出的极为可厌之物。

12.307.53

कान्स्वगात्रोद्भवान्दोषान्पश्यस्यमितविक्रम ।
एतन्मे संशयं कृत्स्नं वक्तुमर्हसि तत्त्वतः ॥ १२.३०७.५३ ॥

无量勇猛者啊,您看到了从自身身体生出的哪些过失?您应当如实为我解说这全部疑惑。

12.307.54

पञ्च दोषान्प्रभो देहे प्रवदन्ति मनीषिणः ।
मार्गज्ञाः कापिलाः साङ्ख्याः शृणु तानरिसूदन ॥ १२.३०७.५४ ॥

主啊,智者们说身体中有五种过失,知道此道的迦毗罗数论派也这样说。灭敌者啊,请听我说。

12.307.55

कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते ॥ १२.३०७.५५ ॥

欲与怒、恐惧、睡眠,第五为呼吸,据说如此。

12.307.56

एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम् ।
छिन्दन्ति क्षमया क्रोधं कामं संकल्पवर्जनात् ॥ १२.३०७.५६ ॥

这些过失在一切有身众生的身体中都可见。以忍耐断除愤怒,以舍弃意念断除欲望。

12.307.57

सत्वसंसेवनान्निद्रामप्रमादाद्भयं तथा ।
छिन्दन्ति पञ्चमं श्वासमल्पाहारतया नृप ॥ १२.३०७.५७ ॥

通过修习善性断除睡眠,通过不放逸同样断除恐惧;大王,以少食断除第五——呼吸。

12.307.58

गुणान्गुणशतैर्ज्ञात्वा दोषान्दोषशतैरपि ।
हेतून्हेतुशतैश्चित्रैश्चित्रान्विज्ञाय तत्त्वतः ॥ १२.३०७.५८ ॥

以百种善德知善德,以百种过失知过失,以种种因缘如实了知种种之法。

12.307.59

अपां फेनोपमं लोकं विष्णोर्मायाशतैश्वितम् ।
चित्रभित्तिप्रतीकाशं नलसारमनर्थकम् ॥ १२.३०७.५९ ॥

此世界如水上泡沫,由毗湿奴的百种幻术编织而成,如彩绘的墙壁,如芦苇之心,毫无意义。

12.307.60

तमः श्वभ्रनिभं दृष्ट्वा वर्षबुद्बुदसंनिभम् ।
क्लेशप्रायं सुखाद्धीनं नाशोत्तरमिहावशम् ॥ १२.३०७.६० ॥

见此黑暗如坑穴,如雨中泡沫,充满苦恼,远离安乐,以毁灭告终,在此不得自主。

12.307.61

रजस्तमसि संमग्नं पङ्के द्वीपमिवावशम् ।
साङ्ख्या राजन्महाप्राज्ञास्त्यक्त्वा देहं प्रजाकृतं ॥ १२.३०७.६१ ॥

见人沉溺于罗阇与答摩,如泥中之岛般无助,国王啊,极具智慧的数论者舍弃这由众生所造的身体。

12.307.62

ज्ञानयोगेन साङ्ख्येन व्यापिना महता नृप ।
राजसानशुभान्गन्धांस्तांमसांश्च तथाविधान् ॥ १२.३०७.६२ ॥

国王啊,借助那遍布一切的伟大智慧瑜伽与数论,人舍弃罗阇性的不吉祥气味,以及同类的答摩性气味。

12.307.63

पुण्यांश्च सात्विकान्गन्धान्स्पर्शजान्देहसंश्रितान् ।
छित्त्वाऽऽशु ज्ञानशस्त्रेण तपो दण्डेन भारत ॥ १२.३०७.६३ ॥

以智慧之剑迅速斩断由触觉而生、依附于身体的吉祥善性香气,婆罗多子孙啊,以苦行为杖,便能舍弃它们。

12.307.64

ततो दुःखोदधिं घोरं चिन्ताशोकमहाह्रदम् ।
व्याधिमृत्युमहाग्राहं महाभयमहोरगम् ॥ १२.३०७.६४ ॥

此后,便能渡过那可怕的苦海——它是忧虑与悲伤的大湖,充满病与死的大鳄,有巨大的恐惧与大蛇。

12.307.65

तमःकूर्मं रजोमीनं प्रज्ञया संतरन्त्युत ।
स्नेहपङ्कं जरादुर्गं ज्ञानदीपमरिंदम् ॥ १२.३०७.६५ ॥

借助智慧渡过有答摩之龟与罗阇之鱼的海洋;以知识之灯渡过充满执著之泥与老迈之险关的海洋,敌人的征服者啊。

12.307.66

कर्मागाधं सत्यतीरं स्थितव्रतमरिंदम् ।
हिंसाशीघ्रमहावेगं नानारससमाकरम् ॥ १२.३०७.६६ ॥

以业行而深不可测,以真实为岸,持守誓愿,敌人的征服者啊;以暴力为迅疾的大力,乃众味之藏。

12.307.67

नानाप्रीतिमहारत्नं दुःखज्वरसमीरणम् ।
शोकतृष्णामहावर्तं तीक्ष्णव्याधिमहागजम् ॥ १२.३०७.६७ ॥

充满众多喜悦的大宝石,被苦热之风所吹动,有悲伤与渴爱的大旋涡,有锐利疾病如大象。

12.307.68

अस्थिसंघातसंघट्टं श्लेष्मफेनमरिंदम् ।
दानमुक्ताकरं घोरं शोणितह्रदविद्रुमम् ॥ १२.३०७.६८ ॥

骨堆相撞而激荡,痰沫如泡,啊,降敌者;施舍之珠的矿藏,可怖,血池中有珊瑚。

12.307.69

हसितोत्क्रुष्टनिर्घोषं नानाज्ञानसुदुस्तरम् ।
रोदनाश्रुमलक्षारं सङ्गत्यागपरायणम्। ॥ १२.३०७.६९ ॥

充满笑声与哭喊的轰鸣,即使以种种智慧也极难渡过;以哭泣的泪水为污秽与咸味;专注于舍弃执着。

12.307.70

पुत्रदारजलौकौघं मत्रिबान्धवपत्तनम् ।
अहिंसासत्यमर्यादं प्राणत्यागमहोर्मिणम् ॥ १२.३०७.७० ॥

充满子女、妻室与水蛭的洪流,以大臣与亲属为港口;以不杀与真实为岸界,有舍弃生命的大波浪。

12.307.71

वेदान्तगमनद्वीपं सर्वभूतदयोदकम् ।
मोक्षदुर्लाभविषयं व़डवामुखसागरम् ॥ १२.३०७.७१ ॥

有通过吠檀多所至的岛屿,以对一切众生的慈悲为水;解脱难以获得之境,是有婆陀婆火之口的大海。

12.307.72

तरन्ति मुनयः सिद्धा ज्ञानयानेन भारत ।
तीर्त्वाऽतिदुस्तरं जन्म विशन्ति विमलं नभः ॥ १२.३०७.७२ ॥

婆罗多之子啊,诸仙与成就者乘智慧之舟渡过;渡过极难渡过的生死,他们进入无垢的天空。

12.307.73

तत्र तान्सुकृतीन्साङ्ख्यान्सूर्यो वहति रश्मिभिः ।
पद्मतन्तुवदाविश्य प्रसह्य विषयान्नृप ॥ १२.३०७.७३ ॥

在那里,太阳以其光线载送那些有功德的数论者,如莲茎之丝般深入,王啊,强行越过诸感官之境。

12.307.74

तत्र तान्प्रवहो वायुः प्रतिगृह्णाति भारत ।
वीतरागान्यतीन्सिद्धान्वीर्ययुक्तांस्तपोधनान् ॥ १२.३०७.७४ ॥

在那里,流动的风接纳他们,婆罗多啊——那些离欲的苦行者、成就者、具足力量、以苦行为财富的人。

12.307.75

सूक्ष्मः शीतः सुगन्धी च सुखस्पर्शश्च भारत ।
सप्तानां मरुतां श्रेष्ठो लोकान्गच्छति यः शुभान्।
स तान्वहति कौन्तेय नभसः परमां गतिम् ॥ १२.३०७.७५ ॥

微妙、清凉、芬芳、触感宜人,是七位摩录多中最殊胜者,前往吉祥的诸世界——婆罗多啊,俱缠之子啊,他将他们载往天空的最高之道。

12.307.76

नभो वहति लोकेश रजसः परमां गतिम् ।
तमो वहति लोकेश रजसः परमां गतिम्।
रजो वहति राजेन्द्र सत्वस्य परमां गतिम् ॥ १२.३०७.७६ ॥

天空将他们载往激情(罗阇)的最高之道,世界之主啊。黑暗将他们载往激情的最高之道,世界之主啊。激情将他们载往善性(萨埵)的最高之道,王中之王啊。

12.307.77

सत्वं वहति राजेन्द्र परं नारायणं प्रभुम् ।
प्रभुर्वहति शुद्धात्मा परमात्मानमात्मना ॥ १२.३०७.७७ ॥

善性将他们载往至上的主那罗延,王中之王啊。纯净自性的主以自性将他们载往至上的我。

12.307.78

परमात्मानमासाद्य तद्भूता यतयोऽमलाः ।
अमृतत्वाय कल्पन्ते न निवर्तन्ति वा विभो ॥ १२.३०७.७८ ॥

达到至上自我之后,成为那一境界的无垢苦行者便堪得不死,他们不再返回,威严者啊。

12.307.79

परमा सा गतिः पार्थ निर्द्वन्द्वानां महात्मनाम् ।
सत्यार्जवरतानां वै सर्वभूतदयावताम् ॥ १२.३०७.७९ ॥

阿周那啊,这是那些超越二元对立、喜好真实与正直、慈悲一切众生的大德者的最高归宿。

12.307.80

स्थानमुत्तममासाद्य भगवन्तं स्थिरव्रताः ।
आजन्ममरणं वा ते स्मरन्त्युत न वाऽनघ ॥ १२.३०७.८० ॥

无罪者啊,那些坚定持戒者既已到达至上之境、得见世尊,他们是否还记得从生到死的一切,还是不记得?

12.307.81

यदत्र तथ्यं तन्मे त्वं यथावद्वक्तुमर्हसि ।
त्वदृते पुरुषं नान्यं प्रष्टुमर्हामि कौरव ॥ १२.३०७.८१ ॥

俱卢之后啊,此中真实之义,请您如实地告诉我;除您之外,我不配向他人请教。

12.307.82

मोक्षे दोषो महानेष प्राप्य सिद्धिगतानृषीन् ।
यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे ॥ १२.३०७.८२ ॥

在解脱中,这是一个大的过失:已得成就的圣仙留在那里;若至上的苦行者也安住于那同一知识之中。

12.307.83

प्रवृत्तिलक्षणं धर्मं पश्यामि परमं नृप ।
मग्नस्य हि परे ज्ञाने किं न दुःखतरं भवेत्। ॥ १२.३०७.८३ ॥

君王啊,我看到以行动为特征的法是至上的;对于沉浸于至上知识的人而言,还有什么比这更痛苦的呢?

12.307.84

यथान्यायं त्वया तात प्रश्नः पृष्टः सुसंकटः ।
बुधानामपि संमोहः प्रश्नेऽस्मिन्भरतर्षभ ॥ १२.३०७.८४ ॥

孩子啊,你按理提出了极难的问题;在这个问题上,即使智者也会陷入迷惑,婆罗多族之雄啊。

12.307.85

अत्रापि तत्त्वं परमं शृणु सम्यङ्भयेरितम् ।
बुद्धिश्च परमा यत्र कापिलानां महात्मनाम् ॥ १२.३०७.८५ ॥

在此也请好好听那至高的真理,正如无畏的智者所宣说的;那里有伟大灵魂迦毗罗门徒的至高智慧。

12.307.86

इन्द्रियाण्येव बुध्यन्ते स्वदेहे देहिनां नृप ।
कारणान्यात्मनस्तानि सूक्ष्मः पश्यति तैस्तु सः ॥ १२.३०७.८६ ॥

大王啊,在有身者自己的身体中,是诸根在觉知;它们是自我的工具,微妙者通过它们而见。

12.307.87

आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु ।
विनश्यन्ति न संदेहः फेना इव महार्णवे ॥ १२.३०७.८७ ॥

若被自我舍弃,它们便如同木头与墙壁,无疑会毁灭,如同大海中的泡沫。

12.307.88

इन्द्रियैः सह सुप्तस्य देहिनः शत्रुतापन ।
सूक्ष्मश्चरति सर्वत्र नभसीव समीरणः ॥ १२.३०७.८८ ॥

克敌者啊,与诸根一同入睡的有身者,其微妙者遍行一切处,如同天空中的风。

12.307.89

स पश्यति यथान्यायं स्पर्शान्स्पृशति वा विभो ।
बुध्यमानो यथापूर्वमखिलेनेह भारत ॥ १२.३०७.८९ ॥

他如理而见,或触及诸触境,啊,大能者;婆罗多啊,如先前一般在此完全觉知。

12.307.90

इन्द्रियाणीह सर्वाणि स्वे स्वे स्थाने यथाविधि ।
अनीशत्वात्प्रलीयन्ते सर्पा हतविषा इव ॥ १२.३०७.९० ॥

在此,诸根各在其位,依法而住;因无主宰,它们便消融,如同毒液已被毁灭的蛇。

12.307.91

इन्द्रियाणां तु सर्वेषां स्वस्थानेष्वेव सर्वशः ।
आक्रम्य गतयः सूक्ष्माश्चरत्यात्मा न संशयः ॥ १२.३०७.९१ ॥

将一切感官完全收摄于各自的位置,自我便沿着微妙之道运行,此事无疑。

12.307.92

सत्वस्य च गुणान्कृत्स्नान्नजसश्च गुणान्पुनः ।
गुणांश्च तमसः सर्वान्गुणान्बुद्धेश्च भारत ॥ १२.३०७.९२ ॥

婆罗多啊,萨埵的一切性质,又有罗阇的性质,所有暗性的性质,以及智力的性质。

12.307.93

गुणांश्च मनसश्चापि नभसश्च गुणांश्च सः ।
गुणान्वायोश्च धर्मात्मंस्तेजसां च गुणान्पुनः ॥ १२.३०७.९३ ॥

心的性质,虚空的性质,他的风的性质,义者啊,又有火的性质。

12.307.94

अपां गुणांस्तथा पार्थ पार्थिंवांश्च गुणानपि ।
सर्वात्मना गुणैर्व्याप्तः क्षेत्रज्ञेषु युधिष्ठिर ॥ १२.३०७.९४ ॥

同样,帕尔塔啊,水的性质,又有地的性质;尤提西提啊,他在知场者之中,完全被诸性质所遍满。

12.307.95

आत्मा च याति क्षेत्रज्ञं कर्मणी च शुभाशुभे ।
शिष्या इव महात्मानमिन्द्रियाणि च तं प्रभो ॥ १२.३०७.९५ ॥

自我归向知场者,善恶之业亦然;主啊,诸感官也如弟子般归向那位大我。

12.307.96

प्रकृतिं चाप्यतिक्रम्य गच्छत्यात्मानमव्ययम् ।
परं नारायणं देवं निर्द्वन्द्वं प्रकृतेः परम् ॥ १२.३०७.९६ ॥

超越自然,不灭的自我趣向至上神那罗延,他无有二元,超越自然。

12.307.97

विमुक्तः सर्वपापेभ्यः प्रविष्टस्तमनामयम् ।
परमात्मानमगुणं न निवर्तति भारत ॥ १२.३०७.९७ ॥

脱离一切罪恶,进入那无瑕的至高自我者,不再从无德的至高自我中返回,婆罗多啊。

12.307.98

शिष्टं तत्र मनस्तात इन्द्रियाणि च भारत ।
आगच्छन्ति यथाकालं गुरोः संदेशकारिणः ॥ १२.३०७.९८ ॥

亲爱的孩子,婆罗多啊,那里心与诸根仍然留存;如同奉行师尊嘱咐的使者,它们按时归来。

12.307.99

शक्यं चाल्पेन कालेन शान्तिं प्राप्तुं गुणार्थिना ।
एवमुक्तेन कौन्तेय युक्तज्ञानेन मोक्षिणा ॥ १२.३०७.९९ ॥

昆提之子啊,对于寻求善德、如此受教、以修习之智追求解脱者,可在短时间内获得寂静。

12.307.100

साङ्ख्या राजन्महाप्राज्ञा गच्छन्ति परमां गतिम् ।
ज्ञानेनानेन कौन्तेय तुल्यं ज्ञानं न विद्यते ॥ १२.३०७.१०० ॥

国王啊,大智的数论者得到至高的归宿。昆提之子啊,没有能与此智相等的智慧。

12.307.101

अत्र ते संशयो मा भूज्ज्ञानं सांख्यं परं मतम् ।
अक्षरं ध्रुवमव्यक्तं पूर्णं ब्रह्म सनातनम् ॥ १२.३०७.१०१ ॥

对此你不应有疑惑:数论之智被认为是至高的。它是不灭的、恒常的、未显现的、圆满的、永恒的梵。

12.307.102

अनादिमध्यनिधनं निर्द्वन्द्वं कर्तृ शाश्वतम् ।
कूटस्थं चैव नित्यं च यद्वदन्ति शमात्मकाः ॥ १२.३०७.१०२ ॥

无始无中无终、离于二元、作者、永恒、不动且常在——心性寂静者如此说。

12.307.103

यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः ।
यच्च शंसन्ति शास्त्रेषु वदन्ति परमर्षयः ॥ १२.३०७.१०३ ॥

一切创造与毁灭的变化由此而生,至高的仙人在经典中宣说、阐明的正是此理。

12.307.104

सर्वे विप्राश्च देवाश्च तथा शमविदो जनाः ।
ब्रह्मण्यं परमं देवमनन्तं परमच्युतम् ॥ १२.३०७.१०४ ॥

一切婆罗门、诸神以及通晓寂静之人,都知晓那至高的梵、至高之神、无限、至不朽者。

12.307.105

प्रार्थयन्तश्च तं विप्रा वदन्ति गुणबुद्धयः ।
सम्यग्युक्तास्तथा योगाः साङ्ख्याश्चामितदर्शनाः ॥ १२.३०७.१०५ ॥

向他祈祷的婆罗门、心念专注于德性的人、正确修习的瑜伽士,以及见解无边的数论者,都谈论他。

12.307.106

अमूर्तेस्तस्य कौन्तेय साङ्ख्यं मूर्तिरिति श्रुतिः ।
अभिज्ञानानि तस्याहुर्मतं हि भरतर्षभ ॥ १२.३०७.१०६ ॥

贡蒂之子啊,吠陀启示说:那无形者的形相即是数论。婆罗多之最啊,他的辨识之相已被宣说;这便是定论。

12.307.107

द्विविधानीह भूतानि पृथिव्यां पृथिवीपते ।
जङ्गमाजङ्गमाख्यानि जङ्गमं तु विशिष्यते ॥ १२.३०७.१०७ ॥

大地之主啊,这世间的众生有两类,称为动与不动;而动者被认为更为殊胜。

12.307.108

ज्ञानं महद्यद्धि महत्सु राज ।
न्वेदेषु साङ्ख्येषु तथैव योगे।
यच्चापि दृष्टं विविधं पुराणे ।
साङ्ख्यागतं तन्निखिलं नरेन्द्र ॥ १२.३०७.१०८ ॥

国王啊,伟人中所有的大智慧,吠陀、数论中所有的,瑜伽中亦然;以及在往世书中所见的种种智慧,人主啊,这一切都包含于数论之中。

12.307.109

यच्चेतिहासेषु महत्सु दृष्टं ।
यच्चार्थशास्त्रे नृप शिष्टजुष्टे।
ज्ञानं च लोके यदिहास्ति किंचि ।
त्साङ्ख्यागतं तच्च महन्महात्मन् ॥ १२.३०७.१०९ ॥

凡在大史诗中所见,王啊,凡在贤者所遵循的政事论中所有,以及世间此处所有的任何知识,都包含于数论之中;它伟大啊,大力者。

12.307.110

शमश्च दृष्टः परमं बलं च ।
ज्ञानं च साङ्ख्यं च यथावदुक्तम्।
तपांसि सूक्ष्माणि सुखानि चैव ।
साङ्ख्ये यथावद्विहितानि राजन् ॥ १२.३०७.११० ॥

寂静与至上力量被见到;知识与数论也已如实宣说;微妙的苦行与快乐,王啊,也在数论中如法规定。

12.307.111

विपर्यये तस्य हि पार्थ देवा ।
न्गच्छन्ति साङ्ख्याः सततं सुखेन।
तांश्चानुसंचार्य ततः कृतार्थाः ।
पतन्ति विप्रेषु यतेषु भूयः ॥ १२.३०७.१११ ॥

普利塔之子啊,在其反转之际,诸神并不总是轻易地前往数论的修习者那里;追随他们并达成目标后,他们又坠落于婆罗门与苦行者之中。

12.307.112

हित्वा च देहं प्रविशन्ति मोक्षं ।
दिवौकसो द्यामिव पार्थ साङ्ख्याः।
अतोऽधिकं तेऽभिरता महार्थे ।
साङ्ख्ये द्विजाः पार्थिव शिष्टजुष्टे ॥ १२.३०७.११२ ॥

普利塔之子啊,舍弃身体后,数论的修习者进入解脱,正如天界居民进入天空一般;因此,王啊,再生者更加欣悦于那智者所修习的、数论的伟大目标。

12.307.113

तेषां न तिर्यग्गमनं हि दृष्टं ।
नार्वाग्गतिः पापकृताधिवासः।
च चाबुधानामपि ते द्विजातयो ।
ये ज्ञानमेतन्नृपतेऽनुरक्ताः ॥ १२.३०७.११३ ॥

他们的道路不见有横向或向下的运行,也没有由罪业所造的居所。专注于此知识的再生者,哦国王,(即使对无知者也能使其免于罪过)。

12.307.114

साङ्ख्यं विशालं परमं पुराणं ।
महार्णवं विमलमुदाहरन्ति
कृत्स्नं च साङ्ख्यं नृपते महात्मा ।
नारायणो धारयतेऽप्रमेयम् ॥ १२.३०७.११४ ॥

人们称数论为广大、至上、古老、如大海般清净的。哦国王,伟大的那罗延以无量之力承载整个数论。

12.307.115

एतन्मयोक्तं नरदेव तत्त्वं ।
नारायणो विश्वमिदं पुराणम्।
स सर्गकाले च करोति सर्गं ।
संहारकाले च तदत्ति भूयः ॥ १२.३०७.११५ ॥

人主啊,我已为你说明此真理:那罗延即是这古老的宇宙。在创造之时他造作创造,在毁灭之时他又将其吞噬。

12.307.116

संहृत्य सर्वं निजदेहसंस्थं ।
कृत्वाऽप्सु शेते जगदन्तरात्मा ॥ १२.३०७.११६ ॥

收摄住存于自身身中的一切,将其置于水中之后,世界的内在自我便躺下而眠。