Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.309

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.309.1

एवमप्रतिबुद्धत्वादबुद्धमनुवर्तनात् ।
देहाद्देहसहस्राणि तथा समभिपद्यते ॥ १२.३०९.१ ॥

因此,由于未觉悟并追随未觉悟者,人便从一个身体转入千百个身体。

12.309.2

तिर्यग्योनिसहस्रेषु कदाचिद्देवतास्वपि ।
उपपद्यति संयोगाद्गुणैः सह गुणक्षयात् ॥ १२.३०९.२ ॥

在千万种畜生胎中,有时甚至在诸天中,因与诸德相合、诸德消减而生。

12.309.3

मानुषत्वाद्दिवं याति दिवो मानुष्यमेति च ।
मानुष्यान्निरयस्थानमनन्तं प्रतिपद्यते ॥ १२.३०९.३ ॥

由人身而往天界,由天界而复来人身;由人身而至无尽的地狱之处。

12.309.4

कोशकारो यथाऽऽत्मानं कीटः समनुरुन्धति ।
सूत्रतन्तुगुणैर्नित्यं तथाऽयमगुणो गुणैः ॥ १२.३०९.४ ॥

如蚕虫以自己的丝线常常缠绕自身,此无德者也为诸德所缚。

12.309.5

द्वन्द्वमेति च निर्द्वन्द्वस्तासु तास्विह योनिषु ।
शीर्षरोगेऽक्षिरोगे च दन्तशूले गलग्रहे ॥ १२.३०९.५ ॥

虽已超越二元,却在诸般胎中受二元所苦:头痛、眼病、牙痛以及喉间梗阻。

12.309.6

जलोदरे तृषारोगे ज्वरगण्डे विषूचके ।
श्वित्रकुष्ठेऽग्निदग्धे च सिध्मापस्मारयोरपि ॥ १२.३०९.६ ॥

患水肿、渴疾、热病及肿块,患霍乱,患白癜风、麻风,被火烧伤,还有皮肤癣疹与癫痫。

12.309.7

यानि चान्यानि द्वन्द्वानि प्राकृतानि शरीरिषु ।
उत्पद्यन्ते विचित्राणि तान्येषोऽप्यभिमन्यते ॥ १२.३०९.७ ॥

对于有形体的众生中自然生起的其他种种对立之物,他也加以接受。

12.309.8

अभिमन्यत्यभीमानात्तथैव सुकृतान्यपि ॥ १२.३०९.८ ॥

因自负,他把这些放在心上,对善业也是如此。

12.309.9

शुक्लवासाश्च दुर्वासाः शायी नित्यमधस्तथा ।
मण्डूकशायी च तथा वीरासनगतस्तथा ॥ १२.३०९.९ ॥

身着白衣者、衣衫褴褛者、常常躺卧者、同样躺在地上者、像青蛙般躺卧者,以及采取英雄坐姿者。

12.309.10

चीरधारणमाकाशे शयनं स्थानमेव च ।
इष्टकाप्रस्तरे चैव कण्टकप्रस्तरे तथा ॥ १२.३०९.१० ॥

穿树皮衣,露天而卧,也站立,睡在砖块床上,同样也睡在荆棘床上。

12.309.11

भस्मप्रस्तरशायी च भूमिशय्याऽनुलेपनः ।
वीरस्थानाम्बुपङ्के च शयनं फलकेषु च ॥ १२.३०९.११ ॥

睡在灰堆上者,以大地为床者,涂抹膏油者,在英雄站姿中者,在水中与泥中者,以及睡在木板上者。

12.309.12

विविधासु च शय्यासु फलगृद्ध्यान्वितस्तथा ।
मुञ्जमेखलनग्नत्वं क्षौमकृष्णाजिनानि च ॥ १२.३०९.१२ ॥

在各种床榻上睡卧,怀有对果报的贪求,同样系戴茅草腰带,裸身,以及穿麻布衣和披黑鹿皮。

12.309.13

शणवालपरीधानो व्याघ्रचर्मपरिच्छदः ।
सिंहतचर्मपरीधानः पट्टवासास्तथैव च ॥ १२.३०९.१३ ॥

身穿麻布与毛发之衣,以虎皮覆身,身着狮皮,同样也穿丝绸衣服。

12.309.14

फलकपरिधानश्च तथा कण्टकवस्रधृत् ।
कीटकार्पासवसनश्चीरवासास्तथैव च ॥ १२.३०९.१४ ॥

身穿树皮衣,着荆棘之衣,穿虫丝棉衣,穿破衣,同样地。

12.309.15

वस्राणि चान्यानि बहून्यभिमन्यत्यबुद्धिमान् ।
भोजनानि विचित्राणि रत्नानि विविधानि च ॥ १२.३०९.१५ ॥

愚昧之人还贪求许多其他衣服、奇异的食物以及各种珍宝。

12.309.16

एकवस्रान्तराशित्वमेककालिकभोजनम् ।
चतुर्थाष्टमकालश्च षष्ठकालिक एव च ॥ १२.३०९.१६ ॥

穿一件衣服之间进食,一次进食,四次或八次之时断食,以及在第六时进食。

12.309.17

ष़ड्रात्रभोजनश्चैव तथैवाष्टाहभोजनः ।
सप्तरात्रदशाहारो द्वादशाहिकभोजनः ॥ १२.३०९.१७ ॥

每六夜进食一次之人,同样每八日进食之人,以七夜十日为食之人,以及每十二日进食之人。

12.309.18

मासोपवासी मूलाशी फलाहारस्तथैव च ।
वायुभक्षोऽम्बुपिण्याकदधिगोमयभोजनः ॥ १२.३०९.१८ ॥

禁食一月之人,食根之人,食果之人,同样地;以风为食之人,以水、油饼、凝乳和牛粪为食之人。

12.309.19

गोमूत्रभोजनश्चैव शाकपुष्पाद एव च ।
शेवालभोजनश्चैव तथाऽऽचामेन वर्तयन् ॥ १२.३०९.१९ ॥

以牛尿为食,以蔬菜和花为食,以苔藓为食,仅以漱口之水维持生活的人。

12.309.20

वर्तयञ्शीर्णपर्णैश्च प्रकीर्णफलभोजनः ।
विविधानि च कृच्छ्राणि सेवते सिद्धिकाङ्क्षया ॥ १२.३०९.२० ॥

以枯叶和散落的果实为食,出于对成就(悉地)的渴望,修行种种苦行。

12.309.21

चान्द्रायणानि विधिवल्लिङ्गानि विविधानि च ।
चातुराश्रम्यपन्थानमाश्रयत्यपथानपि ॥ १२.३०९.२१ ॥

依规则行月周期苦行(月祈),佩戴种种标记;他既遵循四行期之道,也依附于不正之道。

12.309.22

उपाश्रमानप्यपरान्पाषण्डान्विविधानपि ।
विविक्ताश्च शिलाच्छायास्तथा प्रस्रवणानि च ॥ १२.३०९.२२ ॥

其他修行处和各种异端之派;僻静之地、岩石之荫,以及泉水。

12.309.23

पुलिनानि विविक्तानि विविक्तानि वनानि च ।
देवस्थानानि पुण्यानि विविक्तानि सरांसि च ॥ १२.३०९.२३ ॥

僻静的沙洲、幽静的森林、神圣的神庙,以及僻静的湖泊。

12.309.24

विविक्ताश्चापि शैलानां गुहा गृहनिभोपमाः ।
विविक्तानि च जप्यानि व्रतानि विविधानि च ॥ १२.३०९.२४ ॥

山中僻静的洞穴如同住所;适于独自诵念的咒语,以及种种誓愿。

12.309.25

नियमान्विविधांश्चापि विविधानि तपांसि च ।
यज्ञांश्च विविधाकारान्विधींश्च विविधांस्तथा ॥ १२.३०९.२५ ॥

种种戒律与种种苦行,种种形式的祭祀,以及种种仪轨。

12.309.26

वणिक्पथं द्विजक्षत्रं वैश्यं शूद्रांस्तथैव च ।
दानं च विविधाकारं दीनान्धकृपणादिषु ॥ १२.३०९.२६ ॥

商路,婆罗门与刹帝利,吠舍与首陀罗,亦是如此;以及向贫穷、盲人、吝啬者等施予种种布施。

12.309.27

अभिमन्यत्यसंबोधात्तथैव त्रिविधान्गुणान् ।
सत्वं रजस्तमश्चैव धर्मार्थौ काम एव च ॥ १२.३०९.२७ ॥

因缺乏正确的觉知,人同样把三德——善性、激情与暗性——视为己有;法、利、欲亦然。

12.309.28

प्रकृत्याऽऽत्मानमेवात्मा एवं प्रवि भजत्युत ।
स्वधाकारवषट्कारौ स्वाहाकारनमस्क्रियाः ॥ १२.३०९.२८ ॥

自性之我如此以自我分配……;以及‘斯瓦陀’、‘瓦沙特’、‘斯瓦哈’之咒语,与礼敬之行。

12.309.29

याजनाध्यापनं दानं तथैवाहुः प्रतिग्रहम् ।
यजनाध्ययने चैव यच्चान्यदपि किंचन ॥ १२.३०९.२९ ॥

主持祭祀与教授、布施,同样亦说接受供养;祭祀与学习,以及其他任何事物。

12.309.30

जन्ममृत्युविवादे च तथा विशसनेऽपि च ।
शुभाशुभमयं सर्वमेतदाहुः क्रियाफलम् ॥ १२.३०९.३० ॥

在生死之辩中,亦在杀戮之中;由善与恶构成的这一切,人们称之为业之果。

12.309.31

प्रकृतिः कुरुते देवी भवं प्रलयमेव च ।
दिवसान्ते गुणानेतानभ्येत्यैकोऽवतिष्ठते ॥ १२.३०९.३१ ॥

神圣的自性产生创造与毁灭。日终时,接近这些德性之后,唯一者独自安住。

12.309.32

रश्मिजालमिवादित्यस्तत्तत्काले नियच्छति ।
एवमेषोऽसकृत्सर्वं क्रीडार्थमभिमन्यते ॥ १२.३०९.३२ ॥

如同太阳按时收拢它的光网,他也一再为游戏而意念万物。

12.309.33

आत्मरूपगुणानेतान्विविधान्हृदयप्रियान् ।
एवमेव विकुर्वाणः सर्गप्रलयधर्मिणी ॥ १२.३०९.३३ ॥

同样地转变这些属于自身形相、令心喜爱的多种德性,他驱动那以创造与毁灭为本性的自性。

12.309.34

क्रियां क्रियापथे रक्तस्त्रिगुणांस्त्रिगुणाधिपः ।
क्रियां क्रियापथोपेतस्तथा तदभिमन्यते ॥ १२.३०९.३४ ॥

执着于行动之道的三德之主执行行动;与行动之道相连,他同样视之为自己所有。

12.309.35

प्रकृत्या सर्वमेवेदं जगदन्धीकृतं विभो ।
रजसा तमसा चैव व्याप्तं सर्वमनेकधा ॥ १२.३०९.३५ ॥

啊,主宰者!由于自性,这整个世界被蒙蔽了;一切都以多种方式被激情与黑暗所浸透。

12.309.36

एवं द्वन्द्वान्यथैतानि वर्तन्ते मयि नित्यशः ।
ममैवैतानि जायन्ते धावन्ते तानि मामिति ॥ १२.३०९.३६ ॥

如此,这些对立之双在我之中恒常以不同方式出现。它们似乎属于我而生起,并向我奔来,说:「这些是我们的」。

12.309.37

निस्तर्तव्यान्यथैतानि सर्वाणीति नराधिप ।
मन्यतेऽयं ह्यबुद्धित्वात्तथैव सुकृतान्यपि ॥ १२.३०९.३७ ॥

人主啊,这些成对的事物都应当超越。他因无知,对善行也这样认为。

12.309.38

भोक्तव्यानि मयैतानि देवलोकगतेन वै ।
इहैव चैनं भोक्ष्यामि शुभाशुभफलोदयम् ॥ १२.३०९.३८ ॥

即使我已到达天界,这些也应由我享受;就在此地,我也将享受善恶果报的显现。

12.309.39

पुण्यमेव तु कर्तव्यं तत्कुत्वा सुसुखं मम ।
यावदन्तं च मे सौख्यं जात्यां जात्यां भविष्यति ॥ १२.३०९.३९ ॥

只应行善积德。行善之后,我将极其快乐,直到我的尽头,每一次出生都会有快乐。

12.309.40

भविष्यति च मे दुःखं कृतेनेहाप्यनन्तकम् ।
महद्दुःखं हि मानुष्यं निरये चापि मज्जनम् ॥ १२.३०९.४० ॥

因我所作,即使在此也将有无尽的痛苦;人身是极大的苦,且还有堕入地狱的沉没。

12.309.41

निरयाच्चापि मानुष्यं कालेनैष्याम्यहं पुनः ।
मनुष्यत्वाच्च देवत्वं देवत्वात्पौरुषं पुनः ॥ १२.३०९.४१ ॥

从地狱出来后,我将在时机到来时再次获得人身;从人身得天身,从天身又得男子气概。

12.309.42

मनुष्यत्वाच्च निरयं पर्यायेणोपगच्छति ।
य एवं वेत्ति नित्यं वै निरात्मात्मगुणैर्वृतः ॥ १२.३०९.४२ ॥

从人身也会轮番堕入地狱。若有人始终这样明了,虽被自我的诸德所包裹,却能脱离自我。

12.309.43

तेन देवमनुष्येषु निरये चोपपद्यते ।
ममत्वेनावृतो नित्यं तत्रैव परिवर्तते ॥ १२.३०९.४३ ॥

因此他生于天神、人类之中,或生于地狱。常被“我所”的执着所笼罩,他便在那里轮回。

12.309.44

सर्गकोटिसहस्राणि मरणान्तासु योनिषु ।
य एवं कुरुते कर्म शुभाशुभफलात्मकम् ॥ १२.३०९.४४ ॥

如此造作善恶果报之业者,经历千千万万次在死亡终结的胎藏之中的生死。

12.309.45

स एवं फलमाप्नोति त्रिषु लोकेषु मूर्तिमान् ।
प्रकृतिः कुरुते कर्म शुभाशुभफलात्मकम्।
प्रकृतिश्च तदश्नाति त्रिषु लोकेषु कामगा ॥ १२.३०९.४५ ॥

如此具身的他,在三界中获得果报。自性造作善恶果报之业,而那同一自性随意游行于三界,享受其果。

12.309.46

तिर्यग्योनिमनुष्यत्वे देवलोके तथैव च ।
त्रीणि स्थानानि चैतानि जानीयात्प्राकृतानिह ॥ १२.३०९.४६ ॥

畜生胎、人身与天界——此三种境界,应知皆属自性。

12.309.47

अलिङ्गां प्रकृतिं त्वाहुर्लिङ्गैरनुमिमीमहे ।
तथैव पौरुषं लिङ्गमनुमानाद्धि गम्यते ॥ १२.३०९.४७ ॥

人们说自性无相,但我们借由相状推知它;同样,神我之相也只能由推理得知。

12.309.48

स लिङ्गान्तरमासाद्य प्राकृतं लिङ्गमव्रणम् ।
व्रणद्वाराण्यधिष्ठाय कर्मणाऽऽत्मनि पश्यति ॥ १२.३०९.४८ ॥

他得到另一种相,便获得自性的、无瑕的相;安住于伤口之门,借由行为在自身之中观见。

12.309.49

श्रोत्रादीनि तु सर्वाणि पञ्च कर्मेन्द्रियाण्यथ ।
वागादीनि प्रवर्तन्ते गुणेष्विह गुणैः सह ॥ १२.३०९.४९ ॥

听觉等一切,以及五种作用根,言语等,在此与诸德一起,在诸德中运转。

12.309.50

अहमेतानि वै सर्वं मय्येतानीन्द्रियाणि ह ।
निरिन्द्रियो हि मन्तेत व्रणवानस्मि निर्व्रणः ॥ १२.३०९.५० ॥

我即是这一切,这些根都在我之中。无根者应当思念:'我虽有伤,实则无伤。'

12.309.51

अलिङ्गो लिङ्गमात्मानमकालः कालमात्मनः ।
असत्वं सत्वमात्मानमतत्त्वं तत्त्वमात्मनः ॥ १२.३०९.५१ ॥

以无相之我为有相,以无时之我为时;以非有为我之有,以非真为我之真。

12.309.52

अमृत्युर्मृत्युमात्मानमचरश्चरमात्मनः ।
अक्षेत्रः क्षेत्रमात्मानमसर्गः सर्गमात्मनः ॥ १२.३०९.५२ ॥

以不死之我为死,以不动之我为我之动;以无田为田,以无造为我之造。

12.309.53

अतपास्तप आत्मानमगतिर्गतिमात्मनः ।
अभवो भवमात्मानमभयो भयमात्मनः ॥ १२.३०९.५३ ॥

以无苦行之我为苦行,以无去之我为我之去;以无生为生,以无惧之我为我之惧。

12.309.54

अकर्ता कर्तृ चात्मानमबीजो बीजमात्मनः ।
अक्षरः क्षरमात्मानमबुद्धिस्त्वभिमन्यते ॥ १२.३०९.५४ ॥

以无作为作者,以无种为我之种,以不灭为我之灭。唯无智者如此妄想。