摩诃婆罗多 · 章 12.31
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.31.1
तूष्णींभूतं तु राजानं शोचमानं युधिष्ठिरम् ।
तपस्वी धर्मतत्त्वज्ञः कृष्णद्वैपायनोऽब्रवीत् ॥ १२.३१.१ ॥
见国王坚战沉默悲伤,通晓法之真谛的苦行者黑仙(毗耶娑)开口说道。
12.31.2
प्रजानां पालनं धर्मो राज्ञां राजीवलोचन ।
धर्मः प्रमाणं लोकस्य नित्यं धर्मोऽनुवर्त्यताम् ॥ १२.३१.२ ॥
莲目者啊,保护臣民是诸王的法。法是世界的准则;应当始终遵循法。
12.31.3
अनुतिष्ठस्व तद्राजन्पितृपैतामहं पदम् ।
ब्राह्मणेषु तु यो धर्मः स नित्यो वेदनिश्चितः ॥ १२.३१.३ ॥
国王啊,遵循你父祖的道路。婆罗门所奉的法是永恒的,由吠陀所确立。
12.31.4
तत्प्रमाणं प्रमाणानां शाश्वतं भरतर्षभ ।
तस्य धर्मस्य कृत्स्नस्य क्षत्रियः परिरक्षिता ॥ १२.३१.४ ॥
婆罗多族的雄牛啊,这是诸权威中永恒的权威。刹帝利是整个法的守护者。
12.31.5
तथा यः प्रतिहन्त्यस्य शासनं विषये नरः ।
स बाहुभ्यां विनिग्राह्यो लोकयात्राविघातकः ॥ १२.३१.५ ॥
同样,在国中违抗其命令的人,是扰乱世间秩序的人,应当以臂力加以制服。
12.31.6
प्रमाणमप्रमाणं यः कुर्यान्मोहवशं गतः ।
भृत्यो वा यदि वा पुत्रस्तपस्वी वाऽथ कश्चन ॥ १२.३१.६ ॥
凡被迷惑所支配、把权威变成非权威的人——无论他是仆人、儿子,还是某位苦行者——
12.31.7
पापान्सर्वैरुपायैस्तान्नियच्छेच्छातयीत वा ।
अतोऽन्यथा वर्तमानो राजा प्राप्नोति किल्विषम् ॥ १२.३१.७ ॥
应以一切方法制止恶人,或使其被处死。若违此而行,国王便会蒙受罪过。
12.31.8
धर्मं विनश्यमानं हि यो न रक्षेत्स धर्महा ।
ते त्वया धर्महन्तारो निहताः सपदानुगाः ॥ १२.३१.८ ॥
见法将灭而不护之者,即是毁法者。你已将毁法者连同其随从一并杀死。
12.31.9
स्वधर्मे वर्तमानस्त्वं किंनु शोचसि पाण्डव ।
राजा हि हन्याद्दद्याच्च प्रजा रक्षेच्च धर्मतः ॥ १२.३१.९ ॥
般度之子啊,你安住于自身的法,为何还要悲叹?国王可以杀戮,也可以施舍;应依法保护臣民。
12.31.10
न तेऽतिशङ्के वचनं यद्ब्रवीषि तपोधन ।
अपरोक्षो हि ते धर्मः सर्वधर्मविदां वर ॥ १२.३१.१० ॥
苦行的宝藏啊,你所说的话,我并不怀疑。诸知法者中的最上者啊,法对你而言是显而易见的。
12.31.11
मया त्ववध्या बहवो घातिता राज्यकारणात् ।
तानि कर्माणि मे ब्रह्मन्दहन्ति च पचन्ति च ॥ १२.३१.११ ॥
然而为了王国,我使许多不应被杀的人被杀死。婆罗门啊,那些行为燃烧着我,折磨着我。
12.31.12
ईश्वरो वा भवेत्कर्ता पुरुषो वाऽपि भारत ।
हठो वा वर्तते लोके कर्मजं वा फलं स्मृतम् ॥ १२.३१.१२ ॥
婆罗多的后裔啊,无论作者是神还是人,或世间之事由强力而生,或果报被认为由业而生。
12.31.13
ईश्वरेण नियुक्तो हि साध्वसाधु च भारत ।
कुरुते पुरुषः कर्म फलमीश्वरगामि तत् ॥ १२.३१.१३ ॥
婆罗多之子啊,人受主宰所驱使,行善或行恶,其果报归于主宰。
12.31.14
यथाहि पुरुषश्छिन्द्याद्वृक्षं परशुना वने ।
छेत्तुरेव भवेत्पापं परशोर्न कथंचन ॥ १२.३१.१४ ॥
如人在林中以斧砍树,罪过只归于砍者,斧头绝无罪过。
12.31.15
अथवा तदुपादानात्प्राप्नुयात्कर्मणः फलम् ।
दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते ॥ १२.३१.१५ ॥
若因持取之故而得业果,则以杖或兵器所作之罪,不在人身上。
12.31.16
न चैतदिष्टं कौन्तेय यदन्येन कृतं फलम् ।
प्राप्नुयादिति तस्माच्च ईश्वरे तन्निवेशय ॥ १२.३१.१६ ॥
贡蒂之子啊,他人所作之业,其果报由他人获得,此亦不可取;故应将其托付于主宰。
12.31.17
अथापि पुरुषः कर्ता कर्मणोः शुभपापयोः ।
न परो विद्यते तस्मादेवमप्यशुभं कुतः ॥ १२.३१.१७ ॥
然而人自身乃善恶之业的作者,除他之外别无他者。那么恶又怎会出于他人?
12.31.18
न हि कश्चित्क्वचिद्राजन्दिष्टं प्रतिनिवर्तते ।
दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते ॥ १२.३१.१८ ॥
大王啊,无论何处,无人能使既定之命运逆转;以杖或兵器所作之罪,不在人身上。
12.31.19
यदि वा मन्यसे राजन्हतमेकं प्रतिष्ठितम् ।
एवमप्यशुभं कर्म न भूतं न भविष्यति ॥ १२.३१.१९ ॥
大王啊,即使你认为一个坚定站立的人被杀了,这样的不祥之事既未曾发生,也不会发生。
12.31.20
अथाभिपत्तिर्लोकस्य कर्तव्या पुण्यपापयोः ।
अभिपन्नमिदं लोके राज्ञामुद्यतदण्डनम् ॥ १२.३१.२० ॥
那么世界必须对功德与罪恶作出判断。在世间,这便是君王所举起的刑杖。
12.31.21
तथापि लोके कर्माणि समावर्तन्ति भारत ।
शुभाशुभफलं चैते प्राप्नुवन्तीति मे मतिः ॥ १२.३१.२१ ॥
然而,婆罗多之后裔啊,世间的业行循环往复,它们会获得善与恶的果报——这是我的看法。
12.31.22
एवं पश्य शुभादेशं कर्मणस्तत्फलं ध्रुवम् ।
त्यज त्वं राजशार्दूल मैवं शोके मनः कृथा ॥ १२.३१.२२ ॥
如此看吧:业行的吉祥教导与其果报是确定的。王中之虎啊,舍弃这些;不要这样让心沉溺于悲伤。
12.31.23
स्वधर्मे वर्तमानस्य सापवादेऽपि भारत ।
एवमात्मपरित्यागस्तव राजन्न शोभनः ॥ १२.३१.२३ ॥
婆罗多啊,对于安于自身法职者,即使有非议;王啊,你这样舍弃自己,并不相称。
12.31.24
विहितानि हि कौन्तेय प्रायश्चित्तानि कर्मणाम् ।
शरीरवांस्तानि कुर्यादशरीरः पराभवेत् ॥ १२.३१.२४ ॥
昆提之子啊,业行的赎罪之法已被规定。有身者应当行之;无身者将被击败。
12.31.25
तद्राजञ्जीवमानस्त्वं प्रायश्चित्तं करिष्यसि ।
प्रायश्चित्तमकृत्वा तु प्रेत्य तप्ताऽसि भारत ॥ १२.३१.२५ ॥
因此,大王,你在活着时将行赎罪。未行赎罪者死后将受煎熬,婆罗多之子啊。
12.31.26
हताः पुत्राश्च पौत्राश्च भ्रातरः पितरस्तथा ।
श्वशुरा गुरवश्चैव मातुलाश्च पितामहाः ॥ १२.३१.२६ ॥
儿子、孙子、兄弟、父辈、岳父、师长、舅父与祖父都已被杀。
12.31.27
क्षत्रियाश्च महात्मानः संबन्धिसुहृदस्तथा ।
वयस्या भागिनेयाश्च ज्ञातयश्च पितामह ॥ १२.३१.२७ ॥
刹帝利、大德之人、亲属与友人,同伴、外甥及族人,啊祖父。
12.31.28
बहवश्च मनुष्येन्द्रा नानादेशसमागताः ।
घातिता राज्यलुब्धेन मयैकेन पितामह ॥ १२.३१.२८ ॥
许多来自各地的人王,被我一人——贪图王国者——所杀,啊祖父。
12.31.29
तांस्तादृशानहं हत्वा धर्मनित्यान्महीक्षितः ।
असकृत्सोमपान्वीरान्क्रिं प्राप्स्यामि तपोधन ॥ १२.३१.२९ ॥
杀了这些恒守法度、屡次饮用苏摩的英雄君王,我将得到什么,啊苦行的宝藏?
12.31.30
दह्याम्यनिशमद्यापि चिन्तयानः पुन पुनः ।
हीनां पार्थिवसिंहैस्तैः श्रीमद्भिः पृथिवीमिमाम् ॥ १२.३१.३० ॥
至今我仍日夜焚灼,反复思量这大地已因那些如狮般光耀的人王而空虚。
12.31.31
दृष्ट्वा ज्ञातिवधं घोरं हतांश्च शतशः परान् ।
कोटिशश्च नरानन्यान्परितप्ये पितामह ॥ १२.३१.३१ ॥
眼见亲族惨遭屠戮,数百敌人及千百万其他人被杀,祖父啊,我痛苦万分。
12.31.32
का नु तासां वरस्त्रीणामवस्थाऽद्य भविष्यति ।
विहीनानां तु तनयैः पतिभिर्भ्रातृभिस्तथा ॥ १२.३१.३२ ॥
那些失去儿子、丈夫和兄弟的贤良女子,如今将会怎样?
12.31.33
अस्मानन्तकरान्घोरान्पाण्डवान्वृष्णिसंहतान् ।
आक्रोशन्त्यः कृशा दीनाः प्रपतिष्यन्ति भूतले ॥ १२.३१.३३ ॥
那些憔悴而悲苦的女子,咒骂我们这些带来死亡的可怖般度之子,以及与Vṛṣṇi族结合的人,将倒卧在地。
12.31.34
अपश्यन्त्यः पितॄन्भ्रातॄन्पतीन्पुत्रांश्च योषितः ।
त्यक्त्वा प्राणान्स्त्रियः सर्वागमिष्यन्ति यमक्षयम् ॥ १२.३१.३४ ॥
所有妇女不再见到父亲、兄弟、丈夫和儿子,将舍弃性命,前往阎摩之所。
12.31.35
वत्सलत्वाद्द्विजश्रेष्ठ तत्र ये नास्ति संसयः ।
व्यक्तं सौक्ष्म्याच्च धर्मस्य प्राप्स्यामः स्त्रीवधं वयम् ॥ १२.३१.३५ ॥
二生者中最优秀的人啊,出于怜爱,此中无疑;而且,依据法的微妙,我们显然将招来杀害妇女的罪过。
12.31.36
ते वयं सुहृदो हत्वा कृत्वा पापमनन्तकम् ।
नकरे निपतिष्यामो ह्यधः शिरस एव ह ॥ १२.३१.३६ ॥
我们杀害了朋友,犯下无尽的罪过,必将头朝下坠入地狱。
12.31.37
शरीराणि विमोक्ष्यामस्तपसोग्रेण सत्तम ।
आश्रमाणां विशेषं त्वमथाचक्ष्व पितामह ॥ १२.३१.३७ ॥
善人之最啊,我们将以严酷的苦行舍弃身体。现在,祖父,请讲述各个生活阶段的特别区别。