Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.310

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.310.1

एवमप्रतिबुद्धत्वादबुद्धजनसेवनात् ।
सर्गकोटिसहस्राणि मरणान्तानि गच्छति ॥ १२.३१०.१ ॥

因此,由于未觉悟并侍奉愚人,众生经历数十亿次以死亡告终的创造。

12.310.2

धाम्ना धामसहस्राणि पतनान्तानि गच्छति ।
तिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च ॥ १२.३१०.२ ॥

借此居所,他经历数千个以堕落告终的居所——在畜生胎中、人道之中,同样也在天界之中。

12.310.3

चन्द्रमा इव भूतानां पुनस्तत्र सहस्रशः ।
लीयतेऽप्रतिबुद्धत्वादेवमेष ह्यबुद्धिमान् ॥ १२.३१०.३ ॥

如同月亮之于众生,他在那里又千次地消融;因未觉悟,这位无智者便如此消融。

12.310.4

कला पञ्चदशी योनिस्तद्धाम इति मन्यते ।
नित्यमेतं विजानीहि सोमं वै षौडशीं कलाम् ॥ १२.३१०.४ ॥

第十五分是胎,这被认为是居所。应永远知道:这是月神的第十六分。

12.310.5

कलया जायते जन्तुः पुनः पुनरबुद्धिमान् ।
धाम तस्योपयुञ्जन्ति भूय एवोपजायते ॥ १२.३१०.५ ॥

众生借由分而一再出生,这无智者。他们享用他的居所,而他又再次出生。

12.310.6

षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम् ।
न तूपयुज्यते देवैर्देवानुपयुनक्ति सा ॥ १२.३१०.६ ॥

然而第十六分是微妙的;应当理解它就是苏摩。它不被诸神享用,反而使诸神享用。

12.310.7

एतामक्षपयित्वा हि जायते नृपसत्तम ।
सा ह्यस्य प्रकृतिर्दृष्टा तत्क्षयान्मोक्ष उच्यते ॥ १२.३१०.७ ॥

诸王之最,毁灭此物则(生灵)得生;此被视为其本性,由其灭除而说为解脱。

12.310.8

तदेवं षोडशकलं देहमव्यक्तसंज्ञिकम् ।
ममायमिति मन्वानस्तत्रैव परिवर्तते ॥ १२.३१०.८ ॥

如此,这具有十六部分、名为未显现者的身体;以为“这是我的”,(生灵)便在那里轮转。

12.310.9

पञ्चविंशस्तथैवात्मा तस्यैवाप्रतिबोधनात् ।
विमलश्च विशुद्धश्च शुद्धामलनिषेवणात् ॥ १२.३१०.९ ॥

第二十五者为自我;因不觉悟于它,它似乎被缚;服侍清净无垢者,它便变得无垢而全然清净。

12.310.10

अशुद्ध एव शुद्धात्मा तादृग्भवति पार्थिव ।
अबुद्धसेवनाच्चापि बुद्धोऽप्यबुद्धतां व्रजेत् ॥ १२.३१०.१० ॥

国王啊,清净的自我也如此变得不净;侍奉未觉者,觉者也可能陷入未觉。

12.310.11

तथैवाप्रतिबुद्धोऽपि विज्ञेयो नृपसत्तम ।
प्रकृतेस्त्रिगुणायास्तु सेवनात्प्राकृतो भवेत् ॥ १२.३१०.११ ॥

同样,诸王之最,应知未觉者;侍奉三德之自然,(人)便成为属于本性(prakṛti)的。

12.310.12

अक्षरक्षरयोरेषु द्वयोः संबन्ध उच्यते ।
स्त्रीपुंसोश्चापि भगवन्संबन्धस्तद्वदुच्यते ॥ १२.३१०.१२ ॥

在这二者之间,即不灭与可灭之间,说有联系;尊者啊,男女之间的关系也如此说。

12.310.13

ऋते तु पुरुषं नेह स्त्री गर्भं धारयत्युत ।
ऋते स्त्रियं न पुरुषो रूपं निर्वर्तयेत्तथा ॥ १२.३१०.१३ ॥

在此世间,没有男子,女子不能怀胎;没有女子,男子也不能形成形体。

12.310.14

अन्योन्यस्याभिसंबन्धादन्योन्यगुणसंश्रयात् ।
रूपं निर्वर्तयत्येतदेवं सर्वासु योनिषु ॥ १२.३१०.१४ ॥

由于彼此结合,并依托于对方的品质,这种形体得以形成;在一切胎藏中都是如此。

12.310.15

स्त्रीपुंसोरभिसंबन्धादन्योन्यगुणसंश्रयात् ।
ऋतौ निर्वर्त्यते रूपं तद्वक्ष्यामि निदर्शनम् ॥ १२.३१०.१५ ॥

男女相合,彼此依托对方的品质,在受孕之时形成形体;我将举一个例子。

12.310.16

ये गुणाः पुरुषस्येह ये च मातृगुणास्तथा ।
अस्थि स्नायु च मज्जानं जानीमः पैतृकान्द्विज ॥ १२.३१०.१६ ॥

婆罗门啊,我们知道:此处男子的品质,以及母亲的品质,还有骨、筋、髓,都属于父系。

12.310.17

त्वङ्भांसं शोणितं चेति मातृजान्यपि शुश्रुम ।
एवमेताद्द्विजश्रेष्ठ वेदे शास्त्रे च पठ्यते ॥ १२.३१०.१७ ॥

我们也听说,皮肤、肌肉和血液属于母系。婆罗门中最优秀者啊,《吠陀》和论典中正是如此记载的。

12.310.18

प्रमाणं यच्च वेदोक्तं शास्त्रोक्तं यच्च पठ्यते ।
वेदशास्त्रप्रमाणानां प्रमाणं तत्सनातनम् ॥ १२.३१०.१८ ॥

《吠陀》所载的权威,以及论典中所说、所诵的权威,这便是吠陀与论典诸权威中的永恒权威。

12.310.19

अन्योन्यगुणसंरोधादन्योन्यगुणसंश्रयात् ।
एवमेवाभिसंबद्धौ नित्यं प्रकृतिपूरुषौ ॥ १२.३१०.१९ ॥

由于诸德的相互制约与相互依托,自性与神我便如此永远相互结合。

12.310.20

पश्यामि भगवंस्तस्मान्मोक्षधर्मो न विद्यते ।
अथवाऽनन्तरकृतं किंचिदेव निदर्शनम्।
तन्ममाचक्ष्व तत्त्वेन प्रत्यक्षो ह्यसि सर्वथा ॥ १२.३१०.२० ॥

尊者啊,我看来因此并无解脱之法。或者请如实为我指示一个随即所行的例子吧,因为您无论如何都是显而易见的。

12.310.21

मोक्षकामा वयं चापि काङ्क्षामो यदनामयम् ।
अदेहमजरं नित्यमतीन्द्रियमनीश्वरम् ॥ १२.३१०.२१ ॥

我们也求解脱,并渴望那无病、无身、无老、永恒、超越诸根且无主宰的境界。

12.310.22

यदेतदुक्तं भवता देवशास्त्रनिदर्शनम् ।
एवमेतद्यथा चैतन्न गृह्णाति तथा भवान् ॥ १२.३१०.२२ ॥

你所说的神圣经典的譬喻正是如此;然而你并未如其所是地领会它。

12.310.23

धार्यते हि त्वया ग्रन्थ उभयोर्वेदशास्त्रयोः ।
न च ग्रन्थस्य तत्त्वज्ञो यथावत्त्वं नरेश्वरः ॥ १२.३१०.२३ ॥

你确实持守着吠陀与论书两者的经文;然而,人主啊,你并非如实知晓经文真谛之人。

12.310.24

यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः ।
न च ग्रन्थार्थतत्त्वज्ञस्तस्य तद्वारणं वृथा ॥ १२.३१०.२४ ॥

若有人在吠陀与论书中只热衷于持守经文,却不知经义之真谛,那么他的持守便是徒劳的。

12.310.25

मारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः ।
यस्तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थगुणो वृथा ॥ १२.३१०.२५ ॥

不知经文义理者,只是背负经文的重担;而通晓经文义理之真谛者,经文的功德不会白费。

12.310.26

ग्रन्थस्यार्थस्य पृष्टः संस्तादृशो वक्तुमर्हति ।
यथातत्त्वाभिगमनादर्थं तस्य स विन्दति ॥ १२.३१०.२६ ॥

被问及经文及其义理时,只有这样的人才配得上作答;因为真正通达实相,他才能获得其义。

12.310.27

वस्तु संसत्सु कथयेद्ग्रन्थार्थस्थूलबुद्धिमान् ।
स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात् ॥ १२.३१०.२७ ॥

若对经义理解粗浅之人在集会中讲论其事,那么认识迟钝之人又怎能确定地解说经文呢?

12.310.28

निर्णयं चापि छिद्रात्मा न तं वक्ष्यति तत्त्वतः ।
सोपहास्यात्मतामेति यस्माच्चावाप्तवानपि ॥ १२.३१०.२८ ॥

性情有缺陷的人,即使对确定的结论,也不会如实讲出;即使他已有所得,也会沦为被人讥笑的对象。

12.310.29

तस्मात्त्वं शृणु राजेन्द्र यथैतदनुदृश्यते ।
याथातथ्येन साङ्ख्येषु योगेषउ च महात्मसु ॥ १२.३१०.२९ ॥

因此,王中之王啊,请听这如何在数论者、瑜伽者及大人之中如实可见。

12.310.30

यदेव योगाः पश्यन्ति साङ्ख्यैस्तदवगम्यते ।
एकं साङ्ख्यं च योगं च यः पश्यति स बुद्धिमान् ॥ १२.३१०.३० ॥

瑜伽者所见,亦由数论者所知;能视数论与瑜伽为一者,即是智者。

12.310.31

त्वङ्भांसं रुघिरं मेदः पित्तं मज्जा च स्नायु च ।
एतदैन्द्रियकं तात तद्भवानिदमाह माम् ॥ १२.३१०.३१ ॥

皮、肉、血、脂、胆、髓与筋,这些属于诸根,亲爱的;因此你向我讲述此事。

12.310.32

द्रव्याद्द्रव्यस्य निर्वृत्तिरिन्द्रियादिन्द्रियं तथा ।
देहाद्देहमवाप्नोति बीजाद्वीजं तथैव च ॥ १२.३१०.३२ ॥

由物生物,由根生根;同样,由身得身,由种得种。

12.310.33

निरिन्द्रियस्याबीजस्य निर्द्रव्यस्याप्यदेहिनः ।
कथं गुणा भविष्यन्ति निर्गुणत्वान्महात्मनः ॥ १२.३१०.३३ ॥

无根、无种、无物、无身的无德大我,德性如何得以生起?

12.310.34

गुणा गुणेषु जायन्ते तत्रैव निविशन्ति च ।
एवं गुणाः प्रकृतितो जायन्ते निविशन्ति च ॥ १२.३१०.३४ ॥

德生于德,又入于德;如是,德从自性生,又入于自性。

12.310.35

त्वङ्भांसं रुधिरं मेदः पित्तं मज्जाऽस्थि स्नायु च ।
अष्टौ तान्यथ शुक्रेण जानीहि प्राकृतानि वै ॥ १२.३१०.३५ ॥

皮、肉、血、脂、胆、髓、骨与筋,这八者与精液一起,皆出于自性,当知之。

12.310.36

पुमांश्चैवापुमांश्चैव त्रैलिङ्ग्यं प्राकृतं स्मृतम् ।
न वा पुमान्पुमांश्चैव स लिङ्गीत्यभिधीयते ॥ १२.३१०.३६ ॥

男、非男,此三性被说为出于自性;非男亦非男者,称为“有性者”(liṅgī)。

12.310.37

अलिङ्गात्प्रकृतिर्लिङ्गैरुपालभ्यति सात्मजैः ।
यथा पुष्पफलैर्नित्यमृतवो मूर्तयस्तथा ॥ १२.३१०.३७ ॥

无相之原质,借其相状与其子嗣而被认知,正如四季总借花果而显现其形。

12.310.38

एवमप्यनुमानेन ह्यलिङ्गमुपलभ्यते ।
पञ्चविंशतिमस्तात लिङ्गेषु नियतात्मकः ॥ १२.३१०.३८ ॥

如此,即便借推理,无相亦可被知;孩子,第二十五者,其性恒定,存于诸相之中。

12.310.39

अनादिनिधनोऽनन्तः सर्वदर्शी निरामयः ।
केवलं त्वभिमानित्वादगुणेष्वगुणा उच्यते ॥ १२.३१०.३९ ॥

无始无终,无限,遍见,无病;唯因我慢,方将诸德归于无德者。

12.310.40

गुणा गुणवतः सन्ति निर्गुणस्य कुतो गुणाः ।
तस्मादेवं विजानन्ति ये जना गुणदर्शिनः ॥ १२.३१०.४० ॥

诸德存于具德者;无德者何来诸德?故唯见诸德之人,如此而知。

12.310.41

यदा त्वेष गुणनिव प्रकृतावनुमन्यते ।
तदा स गुणवानेव परमं नानुपश्यति ॥ १२.३१०.४१ ॥

当此者在原质中被视为具德时,彼便真成具德者,而不见至上者。

12.310.42

यत्तं बुद्धेः परं प्राहुः साङ्ख्ययोगाश्च सर्वशः ।
बुध्यमानं महाप्राज्ञमबुद्धपरिवर्जनात् ॥ १२.३१०.४२ ॥

数论与瑜伽所谓超越觉性者,被完全知晓;大智者舍弃无明,自身觉醒之时。

12.310.43

अप्रबुद्धमथाव्यक्तं गुणं प्राहुरनीश्वरम् ।
निर्गुणं चेश्वरं नित्यमधिष्ठातारमेव च ॥ १२.३१०.४३ ॥

称未觉与未显为德,无主宰;而无德者、主宰、常住及监督者,即是此物。

12.310.44

प्रकृतेश्च गुणानां च पञ्चविंशतिकं बुधाः ।
साङ्ख्ययोगे च कुशला बुध्यन्ते परमैषिणः ॥ १२.३१०.४४ ॥

智者知自性与诸德的二十五谛;精通数论与瑜伽、寻求至上者,皆能领悟之。

12.310.45

यदा प्रबुद्धास्त्वव्यक्तमवस्थाजन्मभीरवः ।
बुध्यमानं प्रबुद्धेन गमयन्ति समन्ततः ॥ १२.३१०.४५ ॥

当觉悟者畏惧生与状态,而觉悟未显之时,被觉者所知者便从各方引向其归宿。

12.310.46

एतन्निदर्शनं सम्यगसम्यक्चार्थदर्शनम् ।
बुध्यमानाप्रबुद्धाना पृथग्पृथगरिंदम् ॥ १२.३१०.४६ ॥

此为譬喻:正确与错误地见义,觉者与未觉者各自不同。敌人的制伏者啊!

12.310.47

परस्परेणैतदुक्तं क्षराक्षरनिदर्शनम् ।
एकत्वमक्षरं प्राहुर्नानात्वं क्षरमुच्यते ॥ १२.३१०.४७ ॥

此于彼此间已说:不灭与可灭之譬。一体称为不灭,多样则称为可灭。

12.310.48

पञ्चविंशतिनिष्ठोऽयं यदा सम्यक्प्रचक्षते ।
एकत्वं दर्शनं चास्य नानात्वं चाप्यदर्शनम् ॥ १२.३१०.४८ ॥

当此依于二十五谛而被正确宣说时,见其一体、不见其多样,便是其所成之见。

12.310.49

तत्त्वनिस्तत्त्वयोरेतत्पृथग्नेव निदर्शनम् ।
पञ्चविंशतितत्वं तु तत्त्वमाहुर्मनीषिणः ॥ १२.३१०.४९ ॥

这是本原与非本原的各自明示;智者称二十五个本原为本原。

12.310.50

निस्तत्त्वं पञ्चविंशस्य परमाहुर्निदर्शनम् ।
वर्गस्य वर्गमाचारं तत्त्वं तत्त्वात्सनातनम् ॥ १२.३१०.५० ॥

二十五者之非本原被称为至高的明示;类别之行即是类别;由本原而来的本原是永恒的。