Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.311

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.311.1

मानात्वैकत्वमित्युक्तं त्वयैतदृषिसत्तम ।
पश्यामि वाभिसंदिग्धमेतयोर्वै निदर्शनम् ॥ १२.३११.१ ॥

诸仙之上者,你说这是依据权威的一性;但我觉得这二者的譬喻令人怀疑。

12.311.2

तथाऽबुद्धप्रबुद्धाभ्यां बुध्यमानस्य चानघ ।
स्थूलबुद्ध्या न पश्यामि तत्त्वमेतन्न संशयः ॥ १२.३११.२ ॥

无罪者啊,对于未觉者、已觉者与正在觉悟者亦然:以粗浅的智慧,我看不见此真理,这一点毫无疑问。

12.311.3

अक्षरक्षरयोर्युक्तं त्वया यदपि कारणम् ।
तदप्यस्थिरबुद्धित्वात्प्रनष्टमिव मेऽनघ ॥ १२.३११.३ ॥

无罪者啊,你所说的使不灭与可灭相结合的因由,因我心智不定,对我而言也仿佛已经失去了。

12.311.4

तदेत्तच्छ्रोतुमिच्छामि नानात्वैकत्वदर्शनम् ।
प्रबुद्धमप्रबुद्धं च बुध्यमानं च तत्त्वतः ॥ १२.३११.४ ॥

因此我想听闻这关于多与一的见解,关于觉者、未觉者与正在觉悟者,依真实之理。

12.311.5

विद्याविद्ये च भगवन्नक्षरं क्षरमेव च ।
साङ्ख्यं योगं च कार्त्स्न्येन पृथक्चैवापृथक्च ह ॥ १२.३११.५ ॥

尊者啊,请完整地为我讲述明与无明、不灭与可灭、数论与瑜伽,分别地说,也不分别地说。

12.311.6

हन्त ते संप्रवक्ष्यामि यदेतदनुपृच्छसि ।
योगकृत्यं महाराज पृथगेव शृणुष्व मे ॥ १२.३११.६ ॥

好吧,你所问的,我将为你完整说明。大王啊,请单独地听我讲述瑜伽的修行。

12.311.7

योगकृत्यं तु योगानां ध्यानमेव परं बलम् ।
तच्चापि द्विविधं ध्यानमाहुर्वेदविदो जनाः ॥ १२.३११.७ ॥

瑜伽的职责唯有禅定,乃是至高之力。精通吠陀的人说,这禅定也有两种。

12.311.8

एकाग्रता च मनसः प्राणायामस्तथैव च ।
प्राणायामस्तु सगुणो निर्गुणो मनसस्तथा ॥ १२.३११.८ ॥

心的专一与调息也是如此。调息是有属性的,而心的专一是无属性的。

12.311.9

मूत्रोत्सर्गपुरीषे च भोजने च नराधिप ।
द्विकालं नाभियुज्जीत शेषं युञ्जीत तत्परः ॥ १२.३११.९ ॥

人主啊,在小便、大便和进食时,一日两次不应修习;其余时间应专心修习。

12.311.10

इन्द्रियाणीन्द्रियार्थेभ्यो निवर्त्य मनसा मुनिः ।
दशद्वादशभिर्वापि चतुर्विशात्परं ततः ॥ १२.३११.१० ॥

圣者以心将诸根从诸境收回,应以十或十二,乃至二十四之数修习,甚至更多。

12.311.11

तं चोदनाभिर्मतिमानात्मानं चोदयेदथ ।
तिष्ठन्तमजरं यं तु यत्तदुक्तं मनीषिभिः ॥ १२.३११.११ ॥

智者应以策励之力,策励自己趋向那恒住而不老的自我,正如智者所说。

12.311.12

तैश्चात्मा सततं योज्य इत्येवमनुशुश्रुम् ।
द्रुतं ह्यहीनमनसो नान्यथेति विनिश्चयः ॥ १२.३११.१२ ॥

应以此常使自我与之相应,我们曾如此听闻。心不动摇者,成就迅速;不然则不然——这是确定的。

12.311.13

विमुक्तः सर्वसङ्गेभ्यो लध्वाहारो जितेन्द्रियः ।
पूर्वरात्रेऽपररात्रे च धारयेत मनोऽऽत्मनि ॥ १२.३११.१३ ॥

摆脱一切执着,少食,制服诸根的人,应在夜的前分与后分,将意念安住于自我(ātman)之中。

12.311.14

स्थिरीकृत्येन्द्रियग्रामं मनसा मिथिलेश्वर ।
मनो बुद्ध्या स्थिरं कृत्वा पाषाण इव निश्चलः ॥ १२.३११.१४ ॥

米提拉之王啊,以意使诸根安定,以觉使意安定,便如石头一般不动。

12.311.15

स्थाणुवच्चाप्यकम्पः स्याद्दारुवच्चापि निश्चलः ।
बुधा विधिविधानज्ञास्तदा युक्तं प्रचक्षते ॥ १२.३११.१५ ॥

应如柱子般不动摇,如木头般不动。此时通晓法则与规定的智者称他为与瑜伽相合者。

12.311.16

न शृणोति न चाघ्राति न रस्यति न पश्यति ।
न च स्पर्शं विजानाति न संकल्पयते मनः ॥ १२.३११.१६ ॥

意不听、不嗅、不尝、不见、不知触,也不起念。

12.311.17

न चाभिमन्यते किंचिन्न च बुध्यति काष्ठवत् ।
तदा प्रकृतिमापन्नं युक्तमाहुर्मनीषिणः ॥ १२.३११.१७ ॥

他不以任何为我有,也不知如木头般的事物。此时已入于本性者,智者称之为相合者。

12.311.18

निर्वाते हि यथा दीप्यन्दीपस्तद्वत्प्रकाशते ।
निर्लिङ्गो विचलश्चोर्ध्वं न तिर्यग्गतिमाप्नुयात् ॥ १२.३११.१८ ॥

如灯火在无风之处燃烧而光明稳定,他也如此光明,无相而不动。他向上而行,不走旁侧之道。

12.311.19

तदा तमनुपश्येत यस्मिन्दृष्टे तु कथ्यते ।
हृदयस्थोऽन्तरात्मेति ज्ञेयो ज्ञस्तात मद्विधैः ॥ १२.३११.१९ ॥

此时应当看见那被看见时即被宣说的存在:居于心中者即是内在的我(antarātman);亲爱的孩子,应由像我这样的智者去认识它。

12.311.20

विधूम इव सप्तार्चिरादित्य इव रश्मिमान् ।
वैद्युतोऽग्निरिवाकाशे दृश्यतेऽऽत्मा तथाऽऽत्मनि ॥ १२.३११.२० ॥

如无烟的七焰之火,如有光芒的太阳,如天空中的闪电之火,同样,自我在自身之中被看见。

12.311.21

संपश्यन्ति महात्मानो धृतिमन्तो मनीषिणः ।
ब्राह्मणा ब्रह्मयोनिस्था ह्ययोनिममृतात्मकम् ॥ १२.३११.२१ ॥

具有大我、坚定而智慧的婆罗门,安住于梵的根源,充分地看见那无生、本性不死的存在。

12.311.22

तदेवाहुरणुभ्योऽणु तन्महद्भ्यो महत्तरम् ।
तत्तत्र सर्वभूतेषु ध्रुवं तिष्ठन्न दृश्यते ॥ १२.३११.२२ ॥

人们称它比最细微者更细微,比最伟大者更伟大。虽然它稳固地存在于一切众生之中,却在那里不被看见。

12.311.23

बुद्धिद्रव्येण दृश्येत मनोदीपेन लोककृत् ।
महतस्तमसस्तात पारे तिष्ठन्न तामसः ॥ १२.३११.२३ ॥

以智慧之质、以心之灯,世界的创造者可以被看见。亲爱的孩子,立于大暗之彼岸者,并非属于黑暗(多摩)之性。

12.311.24

स च मानस इत्युक्तस्तत्वज्ञैर्वेदपारगैः ।
विमलो वितमस्कश्च निर्लिङ्गोऽलिङ्गसंज्ञकः ॥ १२.३११.२४ ॥

知真理者与通晓吠陀者称他为“意所生者”(mānasa)。他清净无垢,无暗,无相,名为“无相者”(alinga)。

12.311.25

योगमेतत्तु योगानां मन्ये योगस्य लक्षणम् ।
एवं पश्यं प्रपश्यन्ति आत्मस्थमजरं परम् ॥ १२.३११.२५ ॥

我认为这才是诸瑜伽中的瑜伽,是瑜伽的标志。如此观照的人,清楚地看见安住于自我中的、不老的至上者。

12.311.26

योगदर्शनमेतावदुक्तं ते तत्वतो मया ।
साङ्ख्याज्ञानं प्रवक्ष्यामि परिसंख्यानदर्शनम् ॥ १२.३११.२६ ॥

瑜伽之见我已据实对你说完。现在我要宣说数论的知识,即计数之见。

12.311.27

अव्यक्तमाहुः प्रकृतिं परां प्रकृतिवादिनः ।
तस्मान्महत्समुत्पन्नं द्वितीयं राजसत्तम ॥ १२.३११.२७ ॥

主张自性者称至上的自性为未显现者。由它生出了大(觉),即第二者,哦,王中最优者。

12.311.28

अहंकारस्तु महतस्तृतीय इति नः श्रुतम् ।
पञ्चभूतान्यहंकारादाहुः साङ्ख्यनिदर्शिनः ॥ १२.३११.२८ ॥

我们听说,我慢(自我意识)是第三者,位于大(觉)之后。数论的阐释者说,五大元素从我慢中生出。

12.311.29

एताः प्रकृतयश्चाष्टौ विकाराश्चापि षोडश ।
पञ्च चैव विशेषा वै तथा पञ्चेन्द्रियाणि च ॥ १२.३११.२९ ॥

这些是八种自性,还有十六种变化。还有五种特性,同样也有五根。

12.311.30

एतावदेव तत्त्वानां साङ्ख्या आहुर्मनीषिणः ।
साङ्ख्ये विधिविधानज्ञा नित्यं साङ्ख्यपथे रताः ॥ १२.३११.३० ॥

智慧的数论师说,诸谛正是这些。通晓数论规则与次第的人,常常乐于行走在数论之道上。

12.311.31

यस्माद्यदभिजायेत तत्तत्रैव प्रलीयते ।
लीयन्ते प्रतिलोमानि सृज्यन्ते चान्तरात्मना ॥ १२.३११.३१ ॥

事物由何而生,便在彼处消融。诸原理以相反的次序消融,又由内在我重新创生。

12.311.32

अनुलोमेन जायन्ते लीयन्ते प्रतिलोमतः ।
गुणा गुणेषु सततं सागरस्योर्मयो यथा ॥ १२.३११.३२ ॥

顺序则诸德生起,逆序则诸德消融。如海之波浪,诸德恒常消融于诸德之中。

12.311.33

सर्वप्रलय एतावान्प्रकृतेर्नृपसत्तम ।
एकत्वं प्रलये चास्य बहुत्वं च यदाऽसृजत् ॥ १२.३११.३३ ॥

诸王中最尊者啊,这便是自性的全部消融。消融时它处于一体;创造时则生出众多。

12.311.34

एवमेव च राजेन्द्र विज्ञेयं ज्ञेयचिन्तकैः ।
अधिष्ठाता य इत्युक्तस्तस्याप्येतन्निदर्शनम् ॥ १२.३११.३४ ॥

诸王之主啊,思维所应知者的人应当这样理解。被称为监督者的那一位,这也是他的例证。

12.311.35

एकत्वं च बहुत्वं च प्रकृतेरनुतत्त्ववान् ।
एकत्वं प्रलये चास्य बहुत्वं च प्रवर्तनात् ॥ १२.३११.३५ ॥

具足诸原理次第的自性,既有一体,也有众多。消融时为一体,展开时为众多。

12.311.36

बहुधाऽऽत्मानमकरोत्प्रकृतिः प्रसावत्मिका ।
तच्च क्षेत्रं महानात्मा पञ्चविंशोऽधितिष्ठति ॥ १२.३११.३६ ॥

以生发为本性的自性,以多种方式使自身成为众多;而在那田域之上,居于主位的是第二十五的大我。

12.311.37

अधिष्ठातेति राजेन्द्र प्रोच्यते यतिसत्तमैः ।
अधिष्ठानादधिष्ठाता क्षेत्राणामिति नः श्रुतम् ॥ १२.३११.३७ ॥

王中之王啊,最好的苦行者称他为主宰者(adhiṣṭhātā),因为他是支撑,主宰着诸田,我们如此听闻。

12.311.38

क्षेत्रं जानाति चाव्यक्तं क्षेत्रज्ञ इति चोच्यते ।
अव्यक्तके पुरे शेते पुरुषश्चेति कथ्यते ॥ १२.३११.३८ ॥

知晓田与未显者的,称为田知者(kṣetrajña);他安卧于未显之城,因此又称为补鲁莎(puruṣa,人)。

12.311.39

अन्यदेव च क्षेत्रं स्यादन्यः क्षेत्रज्ञ उच्यते ।
क्षेत्रमव्यक्तमित्युक्तं ज्ञाता वै पञ्चविंशकः ॥ १२.३११.३९ ॥

田确是另一物,知田者被称为另一者;田被说为未显,而知者确是第二十五。

12.311.40

अन्यदेव वचो ज्ञानं स्यादन्यज्ज्ञेयमुच्यते ।
ज्ञानमव्यक्तमित्युक्तं ज्ञेयो वै पञ्चविंशकः ॥ १२.३११.४० ॥

言语与知识确是不同之物,所知之物被称为另一者;知识被说为未显,而所知确是第二十五。

12.311.41

अव्यक्तं क्षेत्रमित्युक्तं यथासत्वं तथेश्वरम् ।
अनीश्वरमतत्त्वं च तत्त्वं तत्पञ्चविंशकम् ॥ १२.३११.४१ ॥

未显被称为田,主宰者依其性质亦复如是。非主宰者非真理,真理即第二十五者。

12.311.42

साङ्ख्यदर्शनमेतावत्परिसङ्ख्यानदर्शनम् ।
साङ्ख्याः प्रकुर्वते चैव प्रकृतिं च प्रचक्षते ॥ १२.३११.४२ ॥

此即数论之说,乃计数之见。数论者制作并宣说自性(prakṛti)。

12.311.43

तत्त्वानि च चतुर्विशत्परिसंख्याय तत्त्वतः ।
साङ्ख्याः सह प्रकृत्या तु निस्तत्त्वः पञ्चविंशकः ॥ १२.३११.४३ ॥

数学家们如实列举二十四谛后,数论派与自性一起,称第二十五者为无谛。

12.311.44

पञ्चविंशो प्रबुद्धात्मा बुध्यमान इति स्मृतः ।
यदा तु बुध्यतेऽऽत्मानं तदा भवति केवलः ॥ १२.३११.४४ ॥

第二十五者是觉醒的自我,被称为正在觉醒者。当它认识自我时,便成为独存者。

12.311.45

सम्यग्दर्शनमेतावद्भाषितं तव तत्त्वतः ।
एवमेतद्विजानन्तः साम्यतां प्रतियान्त्युत ॥ १२.३११.४५ ॥

你如实所说的正见便是如此。如此知晓之人,便得平等。

12.311.46

सम्यङ्गिदर्शनं नाम प्रत्यक्षं प्रकृतेस्तथा ।
गुणतत्त्वाद्यथैतानि निर्गुणोऽन्यस्तथा भवेत् ॥ १२.३११.४६ ॥

所谓正见,即对自性的直接觉知;正如这些由诸德之谛而生,另一者则成为无德。

12.311.47

न त्वेवं वर्तमानानामावृत्तिर्विद्यते पुनः ।
विद्यतेऽक्षरभावत्वे स परात्परमव्ययम् ॥ १२.३११.४७ ॥

然而对于如此安住者,便无再次轮回;在不灭之境中,存在着超越至上者、不坏者。

12.311.48

पश्येरन्नेकमतयो न सम्यक् तेषु दर्शनम् ।
ते व्यक्तं प्रतिपद्यन्ते पुनः पुनररिंदम् ॥ १२.३११.४८ ॥

同一见解者或许能看见,然而他们之中并无正见;他们一次又一次地落入显现之中,啊,降伏敌人者。

12.311.49

सर्वमेतद्विजानन्तो नासर्वस्य प्रबोधनात् ।
व्यक्तीभूता भविष्यन्ति व्यक्तस्य वशवर्तिनः ॥ १२.३११.४९ ॥

知晓这一切者,并非因唤醒那非一切者,而是显现为显者的服从者。

12.311.50

सर्वमव्यक्तमित्युक्तमसर्वः पञ्चविंशकः ।
य एनमभिजानन्ति न भयं तेषु विद्यते ॥ १२.३११.५० ॥

说一切皆是未显现者;第二十五者即非一切。认识它的人,心中无所畏惧。