摩诃婆罗多 · 章 12.312
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.312.1
साङ्ख्यदर्शनमेतावदुक्तं ते नृपसत्तम् ।
विद्याविद्ये त्विदानीं मे त्वं निबोधानुपूर्वशः ॥ १२.३१२.१ ॥
诸王之最,数论之说至此已对你讲述。现在请依次听我讲解何为明,何为无明。
12.312.2
अविद्यामाहुरव्यक्तं सर्गप्रलयधर्मिणीम् ।
सर्गप्रलयनिर्मुक्तो विद्यो वै पञ्चविंशकः ॥ १२.३१२.२ ॥
称未显现而受创造与毁灭所支配者为无明;超脱创造与毁灭的第二十五谛才是真正的明。
12.312.3
एकत्वं च बहुत्वं च प्रकृतेरनु तत्त्ववित् ।
परस्परं तु विद्यां वै त्वं निबोधानुपूर्वशः।
यथोक्तमृषिभिस्तात साङ्ख्यस्यास्य निदर्शनम् ॥ १२.३१२.३ ॥
孩子,依照诸仙所述的这一数论阐释,请依次理解自性的一与多,以及彼此之间的明。
12.312.4
कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं स्मृतम् ।
बुद्धीन्द्रियाणां च तथा विशेषा इति नः श्रुतम् ॥ १२.३१२.४ ॥
一切行动根的明被认为是知觉根。同样,我们也听说了知觉根的各种差别。
12.312.5
विशेषाणां मनस्तेषां विद्यामाहुर्मनीषिणः ।
मनसः पञ्चभूतानि विद्या इत्यभिचक्षते ॥ १२.३१२.५ ॥
智者称意为诸别相之明;他们宣说,意之明即五大种。
12.312.6
अहंकारस्तु भूतानां पञ्चानां नात्र संशयः ।
अहंकारस्य च तथा बुद्धिर्विद्या नरेश्वर ॥ १२.३१२.६ ॥
无疑,五大种之明即我慢;同样,人主啊,我慢之明即觉。
12.312.7
बुद्धेः प्रकृतिरव्यक्तं तत्त्वानां परमेश्वरम् ।
विद्या ज्ञेया नरश्रेष्ठ विधिश्च परमः स्मृतः ॥ १२.३१२.७ ॥
智性的本性是未显现者;在诸原理中,至高主宰即是。人中之最,智慧应当被认知,而规则被称为至上。
12.312.8
अव्यक्तस्य परं प्राहुर्विद्यां वै पञ्चविंशकम् ।
सर्वस्य सर्वमित्युक्तं ज्ञेयं ज्ञानस्य पार्थिव ॥ १२.३१२.८ ॥
超越未显现者,人们称智慧为第二十五。据说对于一切而言,一切皆为所知;国王啊,应以智慧去认知。
12.312.9
ज्ञानमव्यक्तमित्युक्तं ज्ञेयो वै पञ्चविंशकः ।
तथैव ज्ञानमव्यक्तं विज्ञाता पञ्चविंशक ॥ १२.३१२.९ ॥
知识被称为未显现者,所知者为第二十五。同样,知识即未显现者;第二十五者即是知者。
12.312.10
विद्याविद्यार्थितत्त्वेन मयोक्ता ते विशेषतः ।
अक्षरं च क्षरं चैव यदुक्तं तन्निबोध मे ॥ १२.३१२.१० ॥
以知与无知的真实义理,我已为你特别说明。关于不灭与可灭所说的,请从我这里领会。
12.312.11
उभावेतौ क्षरावुक्तावुभावेतौ क्षराक्षरौ ।
कारणं तु प्रवक्ष्यामि यथाख्यातो न जानतः ॥ १२.३१२.११ ॥
二者都被说为可灭;二者即是可灭与不灭。但我将说明其因,如所说的那样,不对那不知者而言。
12.312.12
अनादिनिधनावेतावुभावेवेश्वरौ मतौ ।
तत्त्वसंज्ञावुभावेतौ प्रोच्यते ज्ञानचिन्तकैः ॥ १२.३१२.१२ ॥
这二者无始无终,都被认为是主宰。二者都被智慧的思考者称为“谛”。
12.312.13
सर्गप्रलयधर्मत्वादव्यक्तं प्राहुरक्षरम् ।
तदेतद्गुणसर्गाय विकुर्वाणं पुनःपुनः ॥ १२.३१२.१३ ॥
因其具有创造与毁灭的本性,人们称未显现者为不灭者。为了产生诸德,它一再地变化。
12.312.14
गुणानां महदादीनामुत्पद्यन्ते परम्पराः ।
अधिष्ठानं क्षेत्रमाहुरेतत्तत्पञ्चविंशकम् ॥ १२.३१२.१४ ॥
从诸德及大等中,相续而生。人们称此为田,为所依,它便是第二十五。
12.312.15
यदा तु गुणजालं तदव्यक्तात्मनि संक्षिपेत् ।
तदा सह गुणैस्तैस्तु पञ्चविंशो विलीयते ॥ १२.३१२.१५ ॥
当诸德之网收摄于那未显现的自我时,第二十五便与那些诸德一同消融。
12.312.16
गुणा गुणेषु लीयन्ते तदैका प्रकृतिर्भवेत् ।
क्षेत्रज्ञोऽपि यदा तात तत्क्षेत्रे संप्रलीयते ॥ १२.३१२.१६ ॥
诸德消融于诸德,于是唯余一个原质。孩子啊,当知田者也完全消融于那田之中时。
12.312.17
तदाऽक्षरत्वं प्रकृतिर्गच्छते गुणसंज्ञिता ।
निर्गुणत्वं च वैदेह गुणेष्वप्रतिवर्तनात् ॥ १२.३१२.१७ ॥
此时,以诸德命名的原质获得不灭;啊,毗提诃之王,因不再返回诸德,便得到无德之性。
12.312.18
एवमेव च क्षेत्रज्ञः क्षेत्रज्ञानपरिक्षयात् ।
प्रकृत्या निर्गुणस्त्वेष इत्येवमनुशुश्रुम ॥ १२.३१२.१८ ॥
同样,知田者因田知之耗尽,本性上便成为无德。我们如此听闻。
12.312.19
क्षरो भवत्येष यदा तदा गुणवती मिथः ।
प्रकृतिं त्विभजानाति निर्गुणत्वं तथाऽऽत्मनः ॥ १२.३१२.१९ ॥
当此我变得可灭时,便相互认知具有属性的自性,也同样认知自身的无属性。
12.312.20
तदा विशुद्धो भवति प्रकृतेः परिवर्जनात् ।
अन्योऽहमन्येयमिति यदा बुध्यति बुद्धिमान् ॥ १२.३१२.२० ॥
此时,因舍弃自性而得清净,即智者悟知:「我是异者,此是异者。」
12.312.21
तदैषा त्वन्यतामेति न च मिश्रत्वतां व्रजेत् ।
प्रकृत्या चैव राजेन्द्र मिश्रोऽनन्यश्च दृश्यते ॥ १२.३१२.२१ ॥
此时,此(自性)得成异,而不入于混合。大王之主啊,由自性而见混合与不异。
12.312.22
यदा तु गुणजालं तत्प्राकृतं विजुगुप्सते ।
पश्यते चापरं पश्यं तदा पश्यन्न संस्वजेत् ॥ १२.३१२.२२ ॥
当其厌弃那自然的属性之网,并见到另一者时,此见者在见之时不应执着。
12.312.23
किमहं कृतवानेवं योहं कालमिमं जनम् ।
यदा मत्स्योदकं ज्ञानमनुवर्तितवांस्तदा।
मत्स्यो जालं ह्यविज्ञानादनुवर्तितवानिह ॥ १२.३१२.२३ ॥
我为何如此行事,我于知鱼与水时,却随从此人与此时?鱼因无明,于此随从罗网。
12.312.24
अहमेव हि संमोहादन्यमन्यं जनाज्जनम् ।
मत्स्यो यथोदकज्ञानादनुवर्तितवानहम् ॥ १२.३१२.२४ ॥
正是我因迷惑而从一人转向另一人,正如鱼因知水而随从罗网。
12.312.25
मत्स्योऽन्यत्वं यथा ज्ञानादुदकान्नाभिमन्यते ।
आत्मानं तद्वदज्ञानादन्यत्वं चैव वेदयहम् ॥ १२.३१२.२५ ॥
鱼因知觉而不以自己与水为二,我因无知而视自我为异,此我所言明。
12.312.26
ममास्तु धिगबुद्धस्य योऽहमज्ञ इमं पुनः ।
अनुवर्तितवान्मोहादन्यमन्यं जनाज्जनम् ॥ १२.३१२.२६ ॥
愚昧的我真可耻!无知的我因迷惑又随从此事,从这人到那人,四处流转。
12.312.27
अयमत्र भेवद्बन्धुरनेन सह मे क्षमम् ।
साम्यमेकत्वतां यास्ये यादृशस्तादृशस्त्वहम् ॥ १२.३१२.२७ ॥
愿此人在此为我的亲人;与他相合于我为宜。我将得平等与合一,我如他那样,而我本也如此。
12.312.28
तुल्यतामिह पश्यामि सदृशोऽहमनेन वै ।
अयं हि विमलोऽव्यक्तमहमीदृशकस्तथा ॥ १२.३१२.२८ ॥
此处我见平等;我与他相似。他清净不显,我亦如此。
12.312.29
योऽहमज्ञानसंमोहादज्ञया संप्रवृत्तवान् ।
ससङ्गयाऽहं निःसङ्गः स्थितः कालमिमं त्वहम् ॥ १२.३१२.२९ ॥
我因无知之迷惑,因无知而全然投入,带着执著;虽无执著,我却如此长久地停留于此境。
12.312.30
अनयाऽहं वशीभूतः कालमेतं न बुद्धवान् ।
उच्चमध्यमनीचानां तामहं कथमावसे ॥ १२.३१२.३० ॥
我受其所制,未能认识此时。在那种境地中,我如何与上、中、下之人同居?
12.312.31
समानया न याचेह सहवासमहं कथम् ।
गच्छाम्यबुद्धभावत्वादेषेदानीं स्थिरो भवे ॥ १२.३१२.३१ ॥
我怎能在此以平等之身请求与她共处?因处于无知的状态,我现在离去;现在让我变得坚定。
12.312.32
सहवासं न यास्यामि कालमेतद्धि वञ्चनात् ।
वञ्चितोस्म्यनया यद्धि निर्विकारो विकारया ॥ १२.३१२.३२ ॥
此时我不会去共处,因为这是欺骗。我被她欺骗了——我本是不变的,却被这个使人变易的女子所欺。
12.312.33
न चायमपराधोऽस्या ह्यपराधो ह्ययं मम ।
योऽहमत्राभवं सक्तः पराङ्भुखमुपस्थितः ॥ १२.३१२.३३ ॥
这不是她的过错,这过错是我的。因为我在此生起了执着,虽已背离,却又靠近了。
12.312.34
ततोस्मि बहुरूपासु स्थितो मूर्तिष्वमूर्तिमान् ।
अमूर्तश्चापि मूर्तात्मा ममत्वेन प्रधर्षितः ॥ १२.३१२.३४ ॥
此后我安居于众多形相之中,于有形之中虽无形相。虽无形,却成为有形之我,被“我所”之念所压倒。
12.312.35
प्रकृतेरनयत्वेन तासु तास्विह योनिषु ।
निर्ममस्य ममत्वेन किं कृतं तासु तासु च ॥ १२.३१२.३५ ॥
因我为自然(自性)所驱使,在此诸种胎藏之中,我虽无“我所”,却因“我所”之念,在那些那些之中,我又遭受了什么?
12.312.36
योनीषु वर्तमानेन नष्टसंज्ञेन चेतसा ।
न ममात्रानया कार्यमहंकारकृतात्मना ॥ १२.३१२.३६ ॥
我居于诸胎藏之中,心失其觉知,自我由我慢所成,于此与她再无任何事务。
12.312.37
आत्मानं बहुधा कृत्वा येयं भूयो युनक्ति माम् ।
इदानीमेष बुद्धोस्मि निर्ममो निरहंकृतः ॥ १२.३१२.३७ ॥
它化为多种形态,再次束缚我。如今我已觉醒,无我所之念,无我慢之心。
12.312.38
ममत्वमनया नित्यमहंकारकृतात्मकम् ।
अपेत्याहमिमां हित्वा संश्रयिष्ये निरामयम् ॥ १२.३१२.३८ ॥
我常对此执着于‘我所’,此乃由我慢所成之自性。离开她、舍弃她,我将皈依无病无苦者。
12.312.39
अनेन साम्यं यास्यामि नानयाऽहमचेतसा ।
क्षणं मम सहानेन नैकत्वमनया सह ॥ १२.३१२.३९ ॥
我将与此(神我)相同,而非与此无意识者(自性)相同。我与她连片刻也无相伴,与她也无合一。
12.312.40
एवं परमसंबोधात्पञ्चविंशोऽनुबुद्धवान् ।
अक्षरत्वं नियच्छेत त्यक्त्वा क्षरमनामयम् ॥ १२.३१२.४० ॥
如此,以至上觉悟,第二十五(谛,即补鲁莎)已然醒悟。舍弃那可灭者,应当获得无病的不灭之境。
12.312.41
अव्यक्तं व्यक्तकर्माणं सगुणं निर्गुणं तथा ।
निर्गुणं परमं दृष्ट्वा तादृग्भवति मैथिल ॥ १२.३१२.४१ ॥
见到至上的无德者——它未显现,却是显现之业的作者,既有德又无德——人便成为与之相同,哦,弥提罗之子。
12.312.42
अक्षरक्षरयोरेतदुक्तं तत्वनिदर्शनम् ।
मयेह ज्ञानसंपन्नं यथाश्रूतिनिदर्शनात् ॥ १२.३१२.४२ ॥
关于不灭与可灭的这一谛之阐明,我在此宣说,充满智慧,依所闻之天启而阐明。
12.312.43
निःसंदिग्धं च सूक्ष्मं च विबुद्धं विमलं यथा ।
प्रवक्ष्यामि तुते भूयस्तन्निबोध यथाश्रुतम् ॥ १२.३१२.४३ ॥
我将再次为你宣说那无疑、精微、通达且清净的道理;你要依所闻而理解它。
12.312.44
साङ्ख्ययोगौ मया प्रोक्तौ शास्त्रद्वयनिदर्शनात् ।
यदेव शास्त्रं साङ्ख्योक्तं योगदर्शनमेव तत् ॥ १२.३१२.४४ ॥
我以两部论典的阐释宣说了数论与瑜伽;数论所说的论典,正是瑜伽的教义。
12.312.45
प्रबोधनकरं ज्ञानं साङ्ख्यानामवनीपते ।
विस्पष्टं प्रोच्यते तत्र शिष्याणां हितकाम्यया ॥ १२.३१२.४५ ॥
地上之主啊,数论派那唤醒人的智慧,在那里为了弟子的利益而被极其明晰地宣说。
12.312.46
पृथक्चैवमिदं शास्त्रमित्याहुः कुशला जनाः ।
अस्मिंश्च शास्त्रे योगानां पुनर्दधि पुनः शरः ॥ १२.३१२.४६ ॥
有智之人说此论自成一部;此论中讲述诸瑜伽,又讲凝乳,又讲箭。
12.312.47
पञ्चविंशात्परं तत्त्वं न पश्यति नराधिप ।
साङ्ख्यानां तु परं तत्त्वं यथावदनुवर्णितम् ॥ १२.३१२.४७ ॥
人主啊,超出二十五谛之上,(瑜伽行者)见不到更高的谛;数论派的最高真谛已如实地描述。
12.312.48
बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः ।
बुध्यमानं च बुद्धं च प्राहुर्योगनिदर्शनम् ॥ १२.३१२.४८ ॥
觉者、未觉者、真实地正在觉悟者,以及正在觉悟而已觉悟者——这些被称为瑜伽的阐明。