Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.313

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.313.1

अप्रबुद्धमथाव्यक्तमिमं गुणविधिं शृणु ।
गुणान्धारयते ह्येषा सृजत्याक्षिपते तथा ॥ १२.३१३.१ ॥

请听这关于三德之法的道理,它未觉且未显。它执持三德,创生三德,又将其收摄。

12.313.2

अजस्रं त्विह क्रीडार्थं विकरोति जनाधिप ।
आत्मानं बहुधा कृत्वा तान्येव प्रविचक्षते ॥ १२.३१३.२ ॥

人主啊,她在此为了游戏而不断多方变化自身,人们所讲述的正是这些形态。

12.313.3

एतदेवं विकुर्वाणं बुध्यमानो न बुध्यते ।
अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्यपि ॥ १२.३१३.३ ॥

即便觉察到它如此变化的人,也并不真正觉知;由于对未显者的觉悟,人们甚至把觉察者称为觉察者。

12.313.4

न त्वेव बुध्यतेऽव्यक्तं सगुणं वाऽथ निर्गुणम् ।
कदाचित्त्वेव खल्वेतदाहुरप्रतिबुद्धकम् ॥ १२.३१३.४ ॥

他确实不能领悟未显者,无论它具有三德还是无三德;然而有时人们恰恰称此为未觉者。

12.313.5

बुध्यते यदि वाऽव्यक्तमेतद्वै पञ्चविंशकम् ।
बुध्यमानो भवत्येष सङ्गात्मक इति श्रुतिः।
अनेनाप्रतिबुद्धेति वदन्त्यव्यक्तमच्युतम् ॥ १२.३१३.५ ॥

若能领悟这未显的第二十五谛,则领悟者便成为聚合之性,此为天启之言。因此人们称这不坏的未显者为未觉者。

12.313.6

अव्यक्तोबोधनाच्चापि बुध्यमानं वदन्त्युत ।
पञ्चविंशं महात्मानं न चासावपि बुध्यते ॥ १२.३१३.६ ॥

由于对未显者的觉悟,人们甚至称领悟者为觉者;然而他也不能领悟这第二十五的大我。

12.313.7

षङ्विशं विमलं बुद्धमप्रमेयं सनातनम् ।
स तु तं पञ्चविंशं च चतुर्विशं च बुध्यते ॥ १२.३१३.७ ॥

他认识第二十六者——清净、觉悟、不可量度、永恒者;他也认识第二十五者和第二十四者。

12.313.8

दृश्यादृश्यौ ह्यनुगतावुभावेव महाद्युती ।
अव्यक्तं तत्तु तद्ब्रह्म बुध्यते तात केवलम् ॥ १२.३१३.८ ॥

可见与不可见两者皆随从,哦,大光明者;然而那未显现的梵,亲爱的,唯有它被人所知。

12.313.9

केवलं पञ्चविंशं च चतुर्विशं च पश्यति ।
बुध्यमानो यदात्मानमन्योऽहमिति मन्यते ॥ १२.३१३.९ ॥

他只看见第二十五与第二十四者,当觉知者以自己为觉知时,便想:「我是另一者」。

12.313.10

तदा प्रकृतिमानेष भवत्यव्यक्तलोचनः ।
बुध्यते च परां बुद्धिं विमलाममलां यदा ॥ १२.३१३.१० ॥

此时他成为具有自性者,以未显现之眼观看;当他认识到那至上、清净、无垢的觉性时。

12.313.11

षङ्विंशं राजशार्दूल तथा बुद्धत्वमाव्रजेत् ।
ततस्त्यजति सोऽव्यक्तं सर्गप्रलयधर्मि वै ॥ १२.३१३.११ ॥

王中之虎啊,第二十六者亦同样达到觉悟之境;然后他舍弃那具有创造与毁灭之性的未显现者。

12.313.12

निर्गुणः प्रकृतिं वेद गुणयुक्तामचेतनाम् ।
ततः केवलधर्माऽसौ भवत्यव्यक्तदर्शनात् ॥ १२.३१३.१२ ॥

无德者认识具有德性的无意识之自性;然后,因见到未显现者,他成为纯粹本性者。

12.313.13

केवलेन समागम्य विमुक्तोऽऽत्मानमाप्नुयात् ।
एतं वै तत्त्वमित्याहुर्निस्तत्त्वमजरामरम् ॥ १२.३१३.१३ ॥

与纯一(kevala)相合而得解脱者,便证得自我。这被称为真实(tattva);无真实者则不老不死。

12.313.14

तत्त्वसंश्रयणादेष तत्त्ववान्न च मानद ।
पञ्चविंशतितत्त्वानि प्रवदन्ति मनीषिणः ॥ १२.३१३.१४ ॥

尊贵的施予者啊,依靠诸真实,他便成为有真实者,然而又并非如此。智者们宣说二十五真实。

12.313.15

न चैष तत्त्ववांस्तात निस्तत्त्वस्त्वेष बुद्धिमान् ।
एष मुञ्चति तत्त्वं हि क्षिप्रं बुद्धत्वलक्षणम् ॥ १२.३१३.१५ ॥

孩子啊,他并非有真实者;他无真实而有智慧。他迅速放下真实——这正是觉悟的标志。

12.313.16

षाङ्विंशोऽहमिति प्राज्ञो गृह्यमाणोऽजरामरः ।
केवलेन बलेनैव समतां यात्यसंशयम् ॥ १२.३१३.१६ ॥

自认为'第二十六'的智者,被如此把握者则不老不死。唯凭纯一之力,他无疑获得平等。

12.313.17

षङ्विंशेन प्रबुद्धेन बुध्यमानो ह्यबुद्धिमान् ।
एवं नानात्वमित्युक्तं साङ्ख्यश्रुतिनिदर्शनात् ॥ १२.३१३.१७ ॥

被第二十六者唤醒而又醒悟者,是无智之人。如此,依据数论经典的教导,宣说了多样性。

12.313.18

चेतनेन समेतस्य पञ्चविंशतिकस्य च ।
एकत्वं वै भवत्यस्य यदा बुद्ध्या न बुध्यते ॥ १२.३१३.१८ ॥

对于他而言,与觉知相合的二十五真实成为一体,当他不以智慧去认识它们时。

12.313.19

बुध्यमानोप्रबुद्धेन समतां याति मैथिल ।
सङ्गधर्मा भवत्येष निःसङ्गात्मा नराधिप ॥ १२.३१३.१९ ॥

迈提拉啊,觉醒者与未觉醒者达成平等。人主啊,此人成为具有执着之性者,又成为自我无执的人。

12.313.20

निःसङ्गात्मानमासाद्य षङ्विंशकमजं विभुम् ।
विभुस्त्यजति चाव्यक्तं यदा त्वेताद्विबुध्यते ॥ १२.३१३.२० ॥

达到无执的自我者,当他觉知此时,便舍弃第二十六、无生、遍在的原理,也舍弃遍在的未显现者。

12.313.21

चतुर्विशं महाभाग षङ्विंशस्य प्रबोधनात् ।
एष ह्यप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ ॥ १२.३१३.२१ ॥

大有福者啊,第二十四因第二十六的觉醒而觉醒。无垢者啊,这对你而言既是未觉醒也是觉醒。

12.313.22

प्रोक्तो बुद्धश्च तत्त्वेन यथाश्रुतिनिदर्शनात् ।
नानात्वैकत्वमेतावद्द्रष्टव्यं शास्त्रदृष्टिभिः ॥ १२.३१३.२२ ॥

如所闻,依真实而说此人为觉者。多与一,只应如此观察,由以经典之见者来观。

12.313.23

मशकोदुम्बरे यद्वदन्यत्वं तद्वदेतयोः ।
मत्स्योदके यथा तद्वदन्यत्वमुपलभ्यते ॥ १२.३१३.२३ ॥

如蚊与无花果树之间有异,此二者之间亦有异。如鱼与水之间可见其异,此处亦如是可见。

12.313.24

एवमेवावगन्तव्यं नानात्वैकत्वमेतयोः ।
एतद्धि मोक्ष इत्युक्तमव्यक्तज्ञानसंज्ञितम् ॥ १२.३१३.२४ ॥

如此应当理解此二者之多与一。此称为解脱,名为未显现之知。

12.313.25

पञ्चविंशतिकस्यास्य योऽयं देहेषु वर्तते ।
एष मोक्षयितव्येति प्राहुरव्यक्तगोचरात् ॥ १२.३१३.२५ ॥

此二十五原理之中,居于诸身者应当解脱,智者从未显现之境如此宣说。

12.313.26

सोयमेवं विमुच्येत नान्यथेति विनिश्चयः ।
परेण परधर्मा च भवत्येष समेत्य वै ॥ १२.३१३.२६ ॥

他唯以此法得解脱,别无他途,此乃定论。与至上者合一后,他便具有至上之性。

12.313.27

विशुद्धर्मा शुद्धेन बुद्धेन च स बुद्धिमान् ।
विमुक्तधर्मा मुक्तेन समेत्य पुरुषर्षभ ॥ १२.३१३.२७ ॥

那具清净本性的智者,与清净而觉悟者相合,便成为至净之性。人中雄牛啊,与解脱者相合,他便成为解脱之性。

12.313.28

वियोगधर्मिणा चैव वियोगात्मा भवत्यथ ।
विमोक्षिणा विमोक्षश्च समेत्येह तथा भवेत् ॥ १२.३१३.२८ ॥

与具分离之性者相合,他便成为自性分离者;与解脱者相合,此处解脱便以同样方式成就。

12.313.29

शुद्धधर्मा शुचिश्चैव भवत्यमितदीप्तिमान् ।
विमलात्मा च भवति समेत्य विमलात्मना ॥ १२.३१३.२९ ॥

他具清净之性而自身清净,遂成为光明无量者;与无垢之我相合,他便成为无垢之我。

12.313.30

केवलात्मा तथा चैव केवलेन समेत्य वै ।
स्वतन्त्रश्च स्वतन्त्रेण स्वतन्त्रत्वमवाप्नुते ॥ १२.३१३.३० ॥

同样,孤独之我与孤独者相合,便真正获得孤独;自主者与自主者相合,便获得自主。

12.313.31

एतावदेतत्कथितं मया ते ।
तथ्यं महाराज यथार्थतत्त्वम्।
अमत्सरत्वं प्रतिगृह्य चार्थं ।
सनातनं ब्रह्म विशुद्धमाद्यम् ॥ १२.३१३.३१ ॥

大王,我已将这一切告诉你,这是真实的究竟之理。无嫉妒地领会此义:永恒、清净、原初的梵。

12.313.32

नावेदनिष्ठस्य जनस्य राज ।
न्प्रदेयमेतत्परमं त्वया भवेत्।
विवित्समानाय विबोधकारणं ।
प्रबोधहेतोः प्रणतस्य शासनम् ॥ १२.३१३.३२ ॥

大王,你不应将这至高之法传给不信守吠陀之人。只应传给渴求了知、寻求觉醒之因、并谦卑俯首之人。

12.313.33

न देयमेतच्च तथाऽनृतात्मने ।
शठाय क्लीबाय न जिह्नबुद्धये।
न पण्डितज्ञानपरोपतापिने ।
देयं त्वयेदं विनिबोध यादृशे ॥ १२.३१३.३३ ॥

也不可传给本性虚假、狡诈、怯懦、心思歪曲的人,也不可传给折磨智者之学的人。你应当传给不是这样的人;要明白这一点。

12.313.34

श्रद्धान्वितायाथ गुणान्विताय ।
परापवादाद्विरताय नित्यम्।
विशुद्धयोगाय बुधाय चैव ।
क्रियावते च क्षमिणे हिताय ॥ १२.३१३.३४ ॥

应传给具有信心与德行、始终不诽谤他人、修行清净、有智慧、善行、能忍耐并且行善之人。

12.313.35

विविक्तशीलाय विधिप्रियाय ।
विवादहीनाय बहुश्रुताम्।
विजानते चैव दमक्षमावते ।
शक्ताय चैकात्मशमाय देहिनाम् ॥ १२.३१३.३५ ॥

应传给行为清寂、喜爱戒律、无争论、博学、有智慧、具备自制与忍耐、有能力,并且自我平静与一切有身众生合一之人。

12.313.36

एतैर्गुणैर्हीनतमे न देय ।
मेतत्परं ब्रह्म विशुद्धमाहुः।
न श्रेयसा योक्ष्यति तादृशे कृतं ।
धर्मप्रवक्तारमपात्रदानात् ॥ १२.३१३.३६ ॥

此法不应传予最缺乏这些德性之人。此称为至高清净的梵。为此等人所做之事不能导向善果;因布施于不当之人,即便是讲说法的人也(一无所获)。

12.313.37

पृथ्वीमिमां यद्यपि रत्नपूर्णां ।
दद्यान्न देयं त्विदमव्रताय।
जितेन्द्रियायैतदसंशयं ते ।
भवेत्प्रदेयं परमं नरेन्द्र ॥ १२.३१३.३७ ॥

即使将这满是珍宝的大地施舍出去,也不应把此法给予无戒律之人。但是,哦人王,对于已调伏诸根之人,这无疑将是你应施予的至上之物。

12.313.38

कराल मा ते भयमस्तु किंचि ।
देतच्छ्रुतं ब्रह्म परं त्वयाऽद्य।
यथावदुक्तं परमं पवित्रं ।
विशोकमत्यन्तमनादिमध्यम् ॥ १२.३१३.३८ ॥

哦,可畏者,愿你毫无恐惧。今日你已听闻那至高的梵,依其本来面目所说:至上、清净、无忧、究竟,无始无中。

12.313.39

अगाधजन्मामरणं च राज ।
न्निरामयं वीतभयं शिवं च।
समीक्ष्य मोहं त्यज बाऽद्य सर्व ।
ज्ञानस्य तत्त्वार्थमिदं विदित्वा ॥ १२.३१३.३९ ॥

哦,国王,其生起不可测度,不死,无病,无怖,吉祥。既已了知此义,审察迷惑之后,现在就舍弃一切;知此为智慧的真实义,舍弃迷惑吧。

12.313.40

अवाप्तमेतद्धि मया सनातना ।
द्धिरण्यगर्भाद्यजतो नराधिप।
प्रसाद्य यत्नेन तमुग्रतेजसं ।
सनातनं ब्रह्म यथाऽद्य वै त्वया ॥ १२.३१३.४० ॥

哦,人王,此永恒之法是我礼拜金胎(Hiraṇyagarbha)时从他那里获得的。我以努力使那威光炽烈者欢喜,从而获得了永恒的梵,正如你今日所获得的一样。

12.313.41

पृष्टस्त्वया चास्मि यथा नरेन्द्र ।
तथा मयेदं त्वयि चोक्तमद्य।
तथाऽवाप्तं ब्रह्मणो मे नरेन्द्र ।
महाज्ञानं मोक्षविदां परायणम् ॥ १२.३१३.४१ ॥

哦,人主,正如你所问,我今日便如此告诉你。哦,人主,我从梵那里获得的大智慧,是知解解脱者的至高归宿。

12.313.42

एतदुक्तं परं ब्रह्म यस्मान्नावर्तते पुनः ।
पञ्चविंशो महाराज परमर्षिनिदर्शनात् ॥ १२.३१३.४२ ॥

此至高之梵已被宣说,因为得之者不再轮回。大王啊,第二十五谛由至上仙人的教导而如此被知晓。

12.313.43

पुनरावृत्तिमाप्नोति परं ज्ञानमवाप्य च ।
नावबुध्यति तत्त्वेन बुध्यमानोऽजरामरम् ॥ १२.३१३.४३ ॥

即使获得了至上之智,若不能真正了知那不老不死者,虽然努力去知,仍会陷入再次轮回。

12.313.44

एतन्निः श्रेयसकरं ज्ञानं ते परमं मया ।
कथितं तत्त्वतस्तात श्रुत्वा देवर्षितो नृप ॥ १२.३१३.४४ ॥

孩子,这能带来至善的至上智慧,我已依其真实义为你宣说。国王啊,我是从天仙那里听闻此理的。

12.313.45

हिरण्यगर्भादृषिणा वसिष्ठेन महात्मना ।
वसिष्ठादृषिशार्दूलान्नारदोऽवाप्तवानिदम् ॥ १२.३१३.४५ ॥

从希兰亚迦尔巴处,伟大的仙人婆私吒得之;从婆私吒处,仙人中的猛虎那罗陀得此。

12.313.46

नारदाद्विदितं मह्यमेतद्ब्रह्म सनातनम् ।
मा शुचः कौरवेन्द्र त्वं श्रुत्वैतत्परमं पदम् ॥ १२.३१३.४६ ॥

我从那罗陀处知晓此永恒之梵。库鲁之主啊,听闻此至上之境,你不要悲伤。

12.313.47

येन क्षराक्षरे वित्ते भयं तस्य न विद्यते ।
विद्यते तु भयं तस्य यो नैतद्वेत्ति पार्थिव ॥ १२.३१३.४७ ॥

知晓可灭与不可灭者,无所恐惧;不知此者,方有恐惧,大王。

12.313.48

अविज्ञानाच्च मूढात्मा पुनः पुनरुपाद्रवत् ।
प्रेत्य जातिसहस्राणि मरणान्तान्युपाश्नुते ॥ १२.३१३.४८ ॥

因无知,迷惑之心一再受苦。死后,经历千万次生死,皆终于死亡。

12.313.49

देवलोकं तथा तिर्यङ्भनुष्यमपि चाश्नुते ।
यदि शुध्यति कालेन तस्मादज्ञानसागरात् ॥ १२.३१३.४९ ॥

他可到达天界,亦可得畜生与人身;若经时日,能从那无知之海中得净化。

12.313.50

उत्तीर्णोऽस्मादगाधात्स परमाप्नोति शोभनम् ।
अज्ञानसागरो घोरो ह्यव्यक्तोऽगाध उच्यते।
अहन्यहनि मज्जन्ति यत्र भूतानि भारत ॥ १२.३१३.५० ॥

渡过此无底之海者,得至最上吉祥之境。无知之海甚为可怖;未显者称为无底,众生在其中日日沉没,婆罗多之子啊。

12.313.51

यस्मादगाधादव्यक्तादुत्तीर्णस्त्वं सनातनात् ।
तस्मात्त्वं विरजाश्चैव वितमस्कश्च पार्थिव ॥ १२.३१३.५१ ॥

你既已从那无底、未显、永恒之中渡出,所以,大王,你已离于激情,离于黑暗。