摩诃婆罗多 · 章 12.315
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.315.1
धर्माधर्मविमुक्तं यद्विमुक्तं सर्वसंशयात् ।
जन्ममृत्युविमुक्तं च विमुक्तं पुण्यपापयोः ॥ १२.३१५.१ ॥
超越法与非法,脱离一切疑惑,脱离生死,也脱离功德与罪过。
12.315.2
यच्छिवं नित्यमभयं नित्यमक्षरमव्ययम् ।
शुचि नित्यमनायासं तद्भवान्वक्तुमर्हति ॥ १२.३१५.२ ॥
那寂静吉祥、恒常无惧、不朽不灭、清净恒常且不费力的,您应当宣说。
12.315.3
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् ।
याज्ञवल्क्यस्य संवादं जनकस्य च भारत ॥ १२.३१५.३ ॥
此处我将为你讲述一段古老的传说——耶若婆佉与遮那迦的对话,婆罗多之子啊。
12.315.4
याज्ञवल्क्यमृषिश्रेष्ठं दैवरातिर्महायशाः ।
पप्रच्छ जनको राजा प्रश्नं प्रश्नविदांवरः ॥ १२.३१५.४ ॥
声名显赫的天赐王(遮那迦王),善问者中之最,向仙人中之最耶若婆佉提出一问。
12.315.5
कतीन्द्रियाणि विप्रर्षे कति प्रकृतयः स्मृताः ।
किमव्यक्तं परं ब्रह्म तस्माच्च परतस्तु किम् ॥ १२.३१५.५ ॥
婆罗门仙人啊,有多少根门?所说的原质有多少?未显现者是什么?至高梵是什么?其外又是什么?
12.315.6
प्रभवं चाप्ययं चैव कालसङ्ख्यां तथैव च ।
वक्तुमर्हसि विप्रेन्द्र त्वदनुग्रहकाङ्क्षिणः ॥ १२.३१५.६ ॥
生起与灭尽,以及时间的计算——婆罗门中之最啊,您应当为渴望您恩典的我宣说。
12.315.7
अज्ञानात्परिपृच्छामि त्वं हि ज्ञानमयो निधिः ।
तदहं श्रोतुमिच्छामि सर्वमेतदसंशयम् ॥ १२.३१५.७ ॥
我出于无知而问你,因为你是智慧的宝库;因此我愿毫无疑惑地听闻这一切。
12.315.8
श्रूयतामवनीपाल यदेतदनुपृच्छसि ।
योगानां परमं ज्ञानं साङ्ख्यानां च विशेषतः ॥ १२.३१५.८ ॥
地之守护者啊,请听你所问的:这是瑜伽的至上知识,尤其是数论派的知识。
12.315.9
त तवाविदितं किंचिन्मां तु जिज्ञासते भवान् ।
पृष्टेन चापि वक्तव्यमेष धर्मः सनातनः ॥ १२.३१५.९ ॥
对你而言没有什么是未知的,你仍想从我这里听闻;被问及时而作答,这便是永恒的法。
12.315.10
अष्टौ प्रकृतयः प्रोक्ता विकाराश्चापि षोडश ।
आसां तु सप्त व्यक्तानि प्राहुरध्यात्मचिन्तकाः ॥ १२.३१५.१० ॥
八种本性被宣说,十六种变化也如此;其中七者被内省之思者称为显现的。
12.315.11
अव्यक्तं च महांश्चैव तथाऽहंकार एव च ।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ १२.३१५.११ ॥
未显、大(觉)、以及我慢;地、风、空、水,第五是光明。
12.315.12
एताः प्रकृतयस्त्वष्टौ विकारानपि मे शृणु ।
श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् ॥ १२.३१५.१२ ॥
这些是八种本性;现在也请听我说变化:耳、皮、眼、舌,第五是鼻。
12.315.13
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च ।
वाक्च हस्तौ च पादौ च पायुर्मेढ्रं तथैव च ॥ १२.३१५.१३ ॥
声、触、色、味、香,以及言语、双手、双足、肛门与生殖器。
12.315.14
एते विशेषा राजेन्द्रा महाभूतेषु पञ्चसु ।
बुद्धीन्द्रियाण्यथैतानि सविशेषाणि मैथिल ॥ १२.३१५.१४ ॥
王中之王啊,这些是五大元素的特性;mithila之王啊,这些感官也各有其特性。
12.315.15
मनः षोडशकं प्राहुरध्यात्मगतिचिन्तकाः ।
त्वं चैवान्ये च विद्वांसस्तत्त्वबुद्धिविशारदाः ॥ १२.३१५.१५ ॥
思考自我之道者称心为第十六;你和其他通晓真理的学者也这样说。
12.315.16
अव्यक्ताच्च महानात्मा समुत्पद्यति पार्थिव ।
प्रथमं सर्गमित्येतदाहुः प्राधानिकं बुधाः ॥ १२.३१५.१६ ॥
君王啊,从未显现者中生出大我。智者称此为第一创造,即由原质而来的创造。
12.315.17
महतश्चाप्यहंकार उत्पद्यति नराधिप ।
द्वितीयं सर्गमित्याहुरेतद्बुद्ध्यात्मकं स्मृतम् ॥ १२.३१५.१७ ॥
人主啊,从大(觉)中也生出我慢。这被称为第二创造,被认为具有觉性(智性)之本质。
12.315.18
अहंकाराच्च संभूतं मनो भूतगुणात्मकम् ।
तृतीयः सर्ग इत्येष आहंकारिक उच्यते ॥ १२.३१५.१८ ॥
由我慢所生的意,具有五大元素之性质。这称为第三创造,即由我慢而生的创造。
12.315.19
मनसस्तु समुद्भूता महाभूता नराधिप ।
चतुर्थं सर्गमित्येतन्मानसं चिन्तनात्मकम् ॥ १२.३१५.१९ ॥
人主啊,大元素从意中生起。这是第四创造,即意之创造,其性质为思虑。
12.315.20
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च ।
पञ्चमं सर्गमित्याहुर्भौतिकं भूतचिन्तकाः ॥ १२.३१५.२० ॥
声、触、色、味、香——研究元素者称此为第五创造,即物质之创造。
12.315.21
श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् ।
सर्गं तु षष्ठमित्याहुर्बहुचिन्तात्मकं स्मृतम् ॥ १२.३१५.२१ ॥
耳、皮、眼、舌、鼻——称此为第六创造,传述其性质为多思之创造。
12.315.22
अधः श्रोत्रेन्द्रियग्राम उत्पद्यदि नराधिप ।
सप्तमं सर्गमित्याहुरेतदैन्द्रियकं स्मृतम् ॥ १२.३१५.२२ ॥
人主啊,若耳根诸根从下生起,则称此为第七创造,传为属于诸根之创造。
12.315.23
ऊर्ध्वं स्रोतस्तथा तिर्यगुत्पद्यति नराधिप ।
अष्टमं सर्गमित्याहुरेतदार्जवकं स्मृतम् ॥ १२.३१५.२३ ॥
人主啊,其流向上升,亦有横向而生者——称此为第八创造,传为正直之创造。
12.315.24
तिर्यक्स्रोतस्त्वधःस्रोत उत्पद्यति नराधिप ।
नवमं सर्गमित्याहुरेतदार्जवकं बुधाः ॥ १२.३१५.२४ ॥
人主啊,其流横向与向下而生——称此为第九创造;智者称之为正直。
12.315.25
एते वै नव सर्गा हि तत्त्वानि च नराधिप ।
चतुर्विशतिरुक्तानि यथाश्रुतिनिदर्शनम् ॥ १२.३१५.२५ ॥
人主啊,这些确实是九种创造,诸原理被说为二十四,正如天启所闻的阐释。
12.315.26
अत ऊर्ध्वं महाराज गुणस्यैतस्य तत्त्वतः ।
महात्मभिरनुप्रोक्तां कालसङ्ख्यां निबोध मे ॥ १२.३१५.२६ ॥
大王,此后请依此德性之真理,从我这里听取大心者所传授的时间计算。