Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.318

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.318.1

पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्त्वदर्शिनः ।
गन्तव्यमधिभूतं च विष्णुस्तत्राधिदैवतम् ॥ १२.३१८.१ ॥

见真理的婆罗门说,双足为内我(adhyātma);行走为外界要素(adhibhūta),其主宰神为毗湿奴。

12.318.2

पायुरध्यात्ममित्याहुर्यथातत्त्वार्थदर्शिनः ।
विसर्गमधिभूतं च मित्रस्तत्राधिदैवतम् ॥ १२.३१८.२ ॥

洞见真义者说,肛门为内我(adhyātma);排泄为外界要素(adhibhūta),其主宰神为弥多罗。

12.318.3

उपस्थोऽध्यात्ममित्याहुर्यथायोगप्रदर्शिनः ।
अधिभूतं तथाऽऽनन्दो दैवतं च प्रजापतिः ॥ १२.३१८.३ ॥

阐明瑜伽的人说,生殖器为内我(adhyātma);喜乐为外界要素(adhibhūta),其神为生主(Prajāpati)。

12.318.4

हस्तावध्यात्ममित्याहुर्यथासङ्ख्यानदर्शिनः ।
कर्तव्यमधिभूतं तु इन्द्रस्तत्राधिदैवतम् ॥ १२.३१८.४ ॥

洞见次第者说,双手为内我(adhyātma);应作之事为外界要素(adhibhūta),其主宰神为因陀罗。

12.318.5

वागध्यात्ममिति प्राहुर्यथाश्रुतिनिदर्शिनः ।
वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवतम् ॥ १२.३१८.५ ॥

依据天启(śruti)阐明者说,言语为内我(adhyātma);当说之言为外界要素(adhibhūta),其主宰神为火神阿耆尼。

12.318.6

चक्षुरध्यात्ममित्याहुर्यथाश्रुतिनिदर्शिनः ।
रूपमत्राधिभूतं तु सूर्यश्चाप्यधिदैवतम् ॥ १२.३१८.६ ॥

依据天启阐明者说,眼睛为内我(adhyātma);此处色相为外界要素(adhibhūta),其主宰神亦为太阳(Sūrya)。

12.318.7

श्रोत्रमध्यात्ममित्याहुर्यथाश्रुतिनिदर्शिनः ।
शब्दस्तत्राधिभूतं तु दिशश्चात्राधिदैवतम् ॥ १२.३१८.७ ॥

依照经典教导的人说,听觉是内在自我(adhyātma)。其中,声音是外在对象(adhibhūta),而方位则是主宰之神(adhidaivata)。

12.318.8

जिह्वामध्यात्ममित्याहुर्यथाश्रुतिनिदर्शिनः ।
रस एवाधिभूतं तु आपस्तत्राधिदैवतम् ॥ १२.३१८.८ ॥

依照经典教导的人说,舌是内在自我(adhyātma)。味道即是外在对象(adhibhūta),其中水则是主宰之神(adhidaivata)。

12.318.9

घ्राणमध्यात्ममित्याहुर्थथाश्रुतिनिदर्शिनः ।
गन्ध एवाधिभूतं तु पृथिवी चाधिदैवतम् ॥ १२.३१८.९ ॥

依照经典教导的人说,鼻是内在自我(adhyātma)。气味即是外在对象(adhibhūta),大地则是主宰之神(adhidaivata)。

12.318.10

त्वगध्यात्ममिति प्राहुस्तत्त्वबुद्धिविशारदाः ।
स्पर्शमेवाधिभूतं तु पवनश्चाधिदैवतम् ॥ १२.३१८.१० ॥

精通真理者说,皮肤是内在自我(adhyātma)。触觉即是外在对象(adhibhūta),风则是主宰之神(adhidaivata)。

12.318.11

मनोऽध्यात्ममिति प्राहुर्यथा शास्त्रविशारदाः ।
मन्तव्यमधिभूतं तु चन्द्रमाश्चाधिदैवतम् ॥ १२.३१८.११ ॥

精通经典者说,意(心)是内在自我(adhyātma)。可思之物即是外在对象(adhibhūta),月亮则是主宰之神(adhidaivata)。

12.318.12

आहंकारिकमध्यात्ममाहुस्तत्त्वनिदर्शिनः ।
अभिमानोऽधिभूतं तु बुद्धिश्चात्राधिदैवतम् ॥ १२.३१८.१२ ॥

教导真理原理者说,由我慢(ahaṃkāra)所生者即是内在自我(adhyātma)。我慢即是外在对象(adhibhūta),此处的主宰之神则是觉(buddhi)。

12.318.13

बुद्धिरध्यात्ममित्याहुर्यथावदभिदर्शिनः ।
बोद्धव्यमधिभूतं तु क्षेत्रज्ञश्चाधिदैवतम् ॥ १२.३१८.१३ ॥

明察真相者说:觉(buddhi)即内在自我(adhyātma);应知者为元素界(adhibhūta),而知场者即神圣界(adhidaivata)。

12.318.14

एषा ते व्यक्तितो राजन्विभूतिरनुदर्शिता ।
आदौ मध्ये तथाऽन्ते च यथा तत्त्वेन तत्त्ववित् ॥ १२.३१८.१४ ॥

大王啊,你的威德(vibhūti)已清楚地向你展示——在开端、中间与终结,如通晓真理者如实所述。

12.318.15

प्रकृतिर्गुणान्विकुरुते स्वच्छन्देनात्मकाम्यया ।
क्रीडार्थे तु महाराज शतशोऽथ सहस्रशः ॥ १२.३१८.१५ ॥

大王啊,原质(prakṛti)出于自主意愿与自身欲望,仅为嬉戏,将诸德(guṇa)变化成百种、千种。

12.318.16

यथा दीपसहस्राणि दीपान्मर्त्याः प्रकुर्वते ।
प्रकृतिस्तथा विकुरुते पुरुषस्य गुणान्बहून् ॥ १२.३१८.१६ ॥

如同凡人从一盏灯点燃千盏灯,原质亦如此转变补鲁莎的诸多德性。

12.318.17

सत्वमानन्द उद्रेकः प्रीतिः प्राकाम्यमेव च ।
सुखं शुद्धत्वमारोग्यं संतोषः श्रद्दधानता ॥ १२.३१८.१७ ॥

善性(sattva)、喜乐、充盈、欢悦、心愿成就、安乐、清净、健康、知足与信心。

12.318.18

अकार्पण्यमसंरम्भः क्षमा धृतिरहिंसता ।
समता सत्यमानृण्यमार्जवं ह्रीरचापलम् ॥ १२.३१८.१८ ॥

不吝啬、不怒、宽恕、坚定、不杀生、平等、真实、无债、正直、羞耻心,以及不轻浮。

12.318.19

शौचमार्दवमाचारमलौल्यं हृद्यसंभ्रमः ।
इष्टानिष्टवियोगानां कृतानामविकत्थना ॥ १२.३१८.१९ ॥

清净、柔和、良好的行为、不贪婪、心无慌乱,以及在与所爱与所憎分离时,不夸耀所作之业。

12.318.20

दानेन चात्मग्रहणमस्पृहत्वं परार्थता ।
सर्वभूतदया चैव सत्वस्यैते गुणाः स्मृताः ॥ १२.३१८.२० ॥

布施、克制自我、无所贪求、利益他人,以及对一切众生的慈悲——这些被称为萨埵(纯善)的品质。

12.318.21

रजोगुणानां संघातो रूपमैश्वर्यविग्रहौ ।
अत्यागित्वमकारुण्यं सुखदुःखोपसेवनम् ॥ १२.३१८.२१ ॥

罗阇(激情)之性的聚合:容貌、权势与争斗,不愿舍弃,缺乏慈悲,以及执着于苦乐。

12.318.22

परापवादेषु रतिर्विवादानां च सेवनम् ।
अहंकारस्त्वसत्कारश्चिन्ता वैरोपसेवनम् ॥ १२.३१८.२२ ॥

喜好毁谤他人,沉溺于争辩,傲慢与轻慢,忧虑,以及培养仇恨。

12.318.23

परितापोऽभिहरणं ह्रीनाशोऽनार्जवं तथा ।
भेदः परुषता चैव कामक्रोधो मदस्तथा ॥ १२.३१८.२३ ॥

烦恼、掠取、丧失羞耻、不正直、离间、粗暴、欲与怒,以及同样的骄狂。

12.318.24

दर्पो द्वेषोऽतिमानश्च एते प्रोक्ता रजोगुणाः ।
तामसानां तुं संघातान्प्रवक्ष्याम्युपधार्यताम् ॥ १२.३१८.२४ ॥

傲慢、憎恨与过度的自负——这些被称为罗阇的品质。现在我将讲述多摩(暗性)的聚合,请留心听。

12.318.25

मोहोऽप्रकाशस्तामिस्रमन्धतामिस्रसंज्ञितम् ।
मरणं चान्धतामिस्रं तामिस्रं क्रोध उज्यते ॥ १२.३१८.२५ ॥

迷惑与无光被称为“多密罗”,又名“盲暗多密罗”。死亡即是盲暗多密罗,愤怒则称为多密罗。

12.318.26

तमसो लक्षणानीह भक्षणाद्यभिरोचनम् ।
भोजनानामपर्याप्तिस्तथा पेयेष्वतृप्तता ॥ १२.३१८.२६ ॥

此处的多摩(tamas)之相是:耽著饮食等事,对食物无法满足,同样对饮品也不知足。

12.318.27

गन्धवासो विहारेषु शयनेष्वासनेषु च ।
दिवास्वप्ने विवादे च प्रमादेषु च वै रतिः ॥ १२.३१८.२७ ॥

对香料与衣饰、游乐、卧具与坐具、白日之眠、争辩以及放逸,皆生耽著。

12.318.28

नृत्यवादित्रगीतानामज्ञानाच्छ्रद्दधानता ।
द्वेषो धर्मविशेषाणामेते वै तामसा गुणाः ॥ १२.३१८.२८ ॥

因无知而轻信舞蹈、乐器与歌唱,并厌恶某些特定的法,这些正是多摩之德。