摩诃婆罗多 · 章 12.323
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.323.1
अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप ।
परं गुह्यमिमं प्रश्नं शृणुष्वावहितो नृप ॥ १२.३२३.१ ॥
你问我的,是那居于未显现之中的至上之法,人主啊。国王,请专心听这至高而秘密的问题。
12.323.2
यथार्षेणेह विधिना चरताऽवमतेन ह ।
मयाऽऽदित्यादवाप्तानि यजूंषि मिथिलाधिप ॥ १२.३२३.२ ॥
我在此依照仙人之仪而修行,虽受轻慢,却从太阳处得到了夜柔吠陀的诵文,米提拉之主啊。
12.323.3
महता तपसा देवस्तपिष्णुः सेवितो मया ।
प्रीतेन चाहं विभुना सूर्येणोक्तस्तदाऽनघ ॥ १२.३२३.३ ॥
我以大苦行侍奉那光耀的神;那时,遍在的太阳欢喜地对我说:无罪者啊。
12.323.4
वरं वृणीष्व विप्रर्षे यदिष्टं ते सुदुर्लभम् ।
तं ते दास्यामि प्रीतात्मा मत्प्रसादो हि दुर्लभः ॥ १२.३२३.४ ॥
婆罗门仙人啊,选择你所希望的恩赐,那极难得到的;我将欢喜地赐予你,因为我的恩典实在难得。
12.323.5
ततः प्रणम्य शिरसा मयोक्तस्तपतांवरः ।
यजूंषि नोपयुक्तानि क्षिप्रमिच्छामि वेदितुम् ॥ १२.३२३.५ ॥
于是我低首致礼,对苦行者中最杰出的说:"夜柔吠陀的诵文尚未被运用;我愿迅速了知它们。"
12.323.6
ततो मां भगवानाह वितरिष्यामि ते द्विज ।
सरस्वतीह वाग्भूता शरीरं ते प्रवेक्ष्यति ॥ १२.३२३.६ ॥
于是世尊对我说:"再生者啊,我将赐予你;此处,化为言语的萨罗室伐底将进入你的身体。"
12.323.7
ततो मामाह भगवानास्यं स्वं विवृतं कुरु ।
विवृतं च ततो मेऽऽस्यं प्रविष्टा च सरस्वती ॥ १२.३२३.७ ॥
于是世尊对我说:「张开你的口。」我的口一张开,萨拉斯瓦蒂便进入其中。
12.323.8
ततो विदह्यमानोऽहं प्रविष्टोऽम्भस्तदाऽनघ ।
अविज्ञानादमर्षाच्च भास्करस्य महात्मनः ॥ १२.३२३.८ ॥
于是,我被烧灼,便进入水中,哦无垢者,出于无知,也出于对伟大的太阳的愤怒。
12.323.9
ततो विदह्यमानं मामुवाच भगवान्रविः ।
मुहूर्तं सह्यतां दाहस्ततः शीतीभविष्यति ॥ १२.३२३.९ ॥
于是在我燃烧之时,尊贵的罗维对我说:「忍受这灼烧片刻;之后它便会变凉。」
12.323.10
शीतीभूतं च मां दृष्ट्वा भगवानाह भास्करः ।
प्रतिभास्यति ते वेदः सखिलः सोत्तरो द्विज ॥ १२.३२३.१० ॥
见我已经变凉,尊贵的婆斯卡罗说:「哦再生者,吠陀连同其补充与附录将为你显现。」
12.323.11
कृत्स्नं शतपथं चैव प्रणेष्यसि द्विजर्षभ ।
तस्यान्ते चापुनर्भावे बुद्धिस्तव भविष्यति ॥ १२.३२३.११ ॥
哦,再生者中之最,你将宣示完整的《百道梵书》;而在其终了,你的心智将安住于不再返回。
12.323.12
प्राप्स्यसे च यदिष्टं तत्साङ्ख्ययोगेप्सितं पदम् ।
एतावदुक्त्वा भगवानस्तमेवाभ्यवर्तत ॥ १२.३२३.१२ ॥
你将获得你所渴求的,即数论与瑜伽所追求的境界。说完这些,尊贵者便转向西方的山去了。
12.323.13
ततोऽनुव्याहृतं श्रुत्वा गते देवे विभावसौ ।
गृहमागत्य संहृष्टोऽचिन्तयं वै सरस्वतीम् ॥ १२.३२३.१३ ॥
于是听到回应之语后,光明的太阳神离去,我欣喜地回到家中,思念萨拉斯瓦蒂。
12.323.14
ततः प्रवृत्ताऽतिशुभा स्वरव्यञ्जनभूषिता ।
ओंकारमादितः कृत्वा मम देवी सरस्वती ॥ १२.३२३.१४ ॥
于是我的女神萨拉斯瓦蒂,以元音与辅音为饰,将唵置于最前,极其吉祥地显现了。
12.323.15
ततोऽहमर्ध्यं विधिवत्सरस्वत्यै न्यवेदयम् ।
परं यत्नमवाप्यैव निषण्णस्तत्परायणः ॥ १२.३२३.१५ ॥
于是我依礼向萨拉斯瓦蒂奉上阿尔迦,以最大的努力,专注于她而坐下。
12.323.16
ततः शतपथं कृत्स्नं सरहस्यं ससंग्रहम् ।
चक्रे सपरिशेषं च हर्षेण परमेण ह ॥ १२.३२३.१६ ॥
于是我以至高的喜悦,编成了完整的《百道梵书》,包括其秘义、汇编与余部。
12.323.17
कृत्वा चाध्ययनं तेषां शिष्याणां शतमुत्तमम् ।
विप्रियार्थं सशिष्यस्य मातुलस्य महात्मनः ॥ १२.३२३.१७ ॥
我又教导了那一百位优秀弟子,好让我那大德的舅舅及其弟子感到不快。
12.323.18
ततः सशिष्येण मया सूर्येणेव गभस्तिभिः ।
व्यस्तो यज्ञो महाराज पितुस्तव महात्मनः ॥ १२.३२३.१८ ॥
于是,大王啊,我与弟子们如太阳以光芒驱散一般,扰乱了您大德父亲的祭祀。
12.323.19
मिषतो देवलस्यापि ततोऽर्धं हृतवान्वसु ।
स्ववेददक्षिणायार्थे विमर्दे मातुलेन ह ॥ १२.३२३.१९ ॥
德瓦拉看着的时候,他夺走了一半的财富,为了他自己吠陀的酬金;在辩论中,我的舅舅就这样做了。
12.323.20
सुमन्तुनाऽथ पैलेन तथा जैमिनिना च वै ।
पित्रा ते मुनिभिश्चैव ततोऽहमनुमानितः ॥ १२.३२३.२० ॥
苏曼图、拜拉、以及贾米尼,还有你的父亲和众仙人,于是我得到他们的同意而受到尊崇。
12.323.21
दश पञ्च च प्राप्तानि यजूंष्यर्कान्मयाऽनघ ।
तथैव रोमहर्षेण पुराणमवधारितम् ॥ १२.३२३.२१ ॥
无罪者啊,我从太阳那里获得了十五部夜柔;同样,《往世书》也从罗摩哈尔沙那那里被领会。
12.323.22
बीजमेतत्पुरस्कृत्य देवीं चैव सरस्वतीम् ।
सूर्यस्य चानुभावेन प्रवृत्तोऽहं नराधिप ॥ १२.३२३.२२ ॥
人主啊,我以此种子为先,并以女神萨罗室伐蒂为本,凭借太阳的威力,我便开始行动。
12.323.23
कर्तुं शतपथं चेदमपूर्वं च कृतं मया ।
यथाभिलपितं मार्गं तथा तच्चोपपादितम् ॥ १२.३२३.२३ ॥
编成此《百道梵书》,而无前例之事我也做成了;正如所愿之道,它也被完成了。
12.323.24
शिष्याणामखिलं कृत्स्नमनुज्ञातं ससंग्रहम् ।
सर्वे च शिष्याः शुचयो गताः परमहर्षिताः ॥ १२.३२३.२४ ॥
对弟子们,全部完整,连同汇编,都已获准;所有清净的弟子都欢喜地离去了。
12.323.25
शाखाः पञ्चदशेमास्तु विद्या भास्करदर्शिता ।
प्रतिष्ठाप्य यथाकामं वेद्यं तदनुचितयम् ॥ १२.३२३.२५ ॥
这十五条枝脉是太阳所示的智慧。随你心愿确立它们,并思索那应当知晓之物。
12.323.26
किमत्र ब्रह्मण्यमृतं किंच वेद्यमनुत्तमम् ।
चिन्तयंस्तत्र चागत्य गन्धर्वो मामपृच्छत ॥ १२.३२३.२६ ॥
这里与梵相关的不死者是什么?最高的应知之物是什么?我正思考此事时,一位乾闼婆来到那里问我。
12.323.27
विश्वावसुस्ततो राजन्वेदान्तज्ञानकोविदः ।
चतुर्विशांस्ततोऽपृच्छत्प्रश्नान्वेदस्य पार्थिव ॥ १२.३२३.२७ ॥
然后,国王啊,精通吠檀多知识的毗舍婆苏提出了关于吠陀的二十四个问题。
12.323.28
पञ्चविंशतिमं प्रश्नं पप्रच्छान्वीक्षिकीं तदा ।
तथैव पुरुषव्याघ्र मित्रं वरुणमेव च ॥ १२.३२३.२८ ॥
于是他提出第二十五个问题,关于推理的探究。人中之虎啊,他同样也问及密特拉和伐楼那。
12.323.29
ज्ञानं ज्ञेयं तथा ज्ञोऽज्ञः कस्तपा अतपास्तथा ।
सूर्यातिसूर्य इति च विद्याविद्ये तथैव च ॥ १२.३२३.२९ ॥
知识与可知者;知者与不知者;谁是苦行者,谁不是苦行者;同样,超越太阳的太阳;以及明与无明,亦复如是。
12.323.30
वेद्यावेद्यं तथा राजन्नचलं चलमेव च ।
अव्ययं चाक्षरं क्षेम्यमेतत्प्रश्नमनुत्तमम् ॥ १२.३२३.३० ॥
国王啊,可知与不可知;不动与动;不坏与不灭;吉祥安稳。这个问题是最高的。
12.323.31
अथोक्तश्च महाराज राजा गन्धर्वसत्तमः ।
पृष्टवानानुपूर्व्येण प्रश्नमर्थवदुत्तमम् ॥ १२.३२३.३१ ॥
大王啊,于是被问及之后,乾闼婆中最优秀的国王依次提出了这个有意义的至上问题。
12.323.32
मुहूर्तमुष्यतां तावद्यावदेनं विचिन्तये ।
बाढमित्येव कृत्वा स तूर्ष्णीं गन्धर्व आस्थितः ॥ १२.३२३.३२ ॥
“请让我停留片刻,好让我思考此事。”乾闼婆说:“很好。”便默然不语。
12.323.33
ततोऽनुचिन्तयमहं भूयो देवीं सरस्वतीम् ।
मनसा स च मे प्रश्नो दध्नो धृतमिवोद्धृतः ॥ १२.३२३.३३ ॥
于是我在心中再次思念女神萨拉斯瓦蒂,我的那个问题便如从凝乳中搅出酥油一般被提炼出来。
12.323.34
तत्रोपनिषदं चैव परिशेषं च पार्थिव ।
मथ्नामि मनसा तात दृष्ट्वा चान्वीक्षिकीं पराम् ॥ १२.३२३.३४ ॥
大王啊,在那里我以心念搅动奥义书与其余之义,亲爱的,因为我已见到至上的思辨之理。
12.323.35
चतुर्थी राजशार्दूल विद्यैषा सांपरायिकी ।
उदीरिता मया तुभ्यं पञ्चविंशाऽधितिष्ठता ॥ १२.३२३.३५ ॥
王中之虎啊,这是第四种知识,关乎来世;我立足于第二十五原理,向你宣说了它。
12.323.36
अथोक्तस्तु मया राजन्राजा विश्वावसुस्तदा ।
श्रूयतां यद्भवानस्मान्प्रश्नं संपृष्टवानिह ॥ १२.३२३.३६ ॥
于是我对他说了话,大王啊,国王毗舍婆苏便说:“请听你在此向我们所问的问题。”
12.323.37
विश्वाविश्वेति यदिदं गन्धर्वेन्द्रानुपृच्छसि ।
विश्वाव्यक्तं परं विद्याद्भूतभव्यभयंकरम् ॥ १२.३२३.३७ ॥
乔达摩之主,你问的是“一切”与“非一切”。应当知道,一切之未显现者是至上的,令过去与未来的众生恐惧。
12.323.38
त्रिगुणं गुणकर्तृत्वाद्विश्वान्यो निष्कलस्तथा ।
विश्वाविश्वेति मिथुनमेवमेवानुदृश्यते ॥ १२.३२३.३८ ॥
因具三德且为三德之作者,它异于一切,同样亦无分。如是,一切与非一切被视作一对。
12.323.39
अव्यक्तं प्रकृतिः प्राहुः पुरुषेति च निर्गुणम् ।
तथैव मित्रं पुरुषं वरुणं प्रकृतिं तथा ॥ १२.३२३.३९ ॥
人们称未显现者为自性,也称之为神我,它无德。同样,应将弥多罗视为神我,将伐楼那视为自性。
12.323.40
ज्ञानं तु प्रकृतिं प्राहुर्ज्ञेयं पुरुषमेव च ।
अज्ञमव्यक्तमित्युक्तं ज्ञस्तु निष्कल उच्यते ॥ १२.३२३.४० ॥
人们称知识为自性,可知者即是神我;无知者被称为未显现,而知者则被称为无分。
12.323.41
कस्तपा अतपाः प्रोक्तः कोसौ पुरुष उच्यते ।
तपास्तु प्रकृतिं प्राहुरतपा निष्कलः स्मृतः ॥ १२.३२३.४१ ॥
谁是苦行者,谁被说为非苦行者?谁被称为神我?人们称苦行为自性,而非苦行者被记为无分。
12.323.42
सूर्यमव्यक्तमित्युक्तमतिसूर्यस्तु निष्कलः ।
अविद्या प्रोक्तमव्यक्तं विद्या पुरुष उच्यते ॥ १२.३२३.४२ ॥
太阳被称为未显现者,而超越太阳者无分;无明被称为未显现者,而明智被称为神我。
12.323.43
तथैवावेद्यमव्यक्तं वेद्यः पुरुष उच्यते ।
चलाचलमिति प्रोक्तं त्वया तदपि मे शृणु ॥ १२.३२३.४३ ॥
同样,未显者不可知,而可知者被称为补鲁莎。你所说的动与不动,也请听我讲。
12.323.44
चलां तु प्रकृतिं प्राहुः कारणं क्षेपसर्गयोः ।
अक्षेपसर्गयोः कर्ता निश्चलः पुरुषः स्मृतः ॥ १२.३२३.४४ ॥
人们称动的自性为投射与创造的原因;不投射、不创造的作者则被认为是不动的补鲁莎。
12.323.45
अज्ञावुभौ ध्रुवौ चैव अक्षयौ चाप्युभावपि ॥ १२.३२३.४५ ॥
二者皆无生、恒定、不坏;二者皆然。
12.323.46
अजौ नित्यावुभौ प्राहुरध्यात्मगतिनिश्चयाः ।
अक्षयत्वात्प्रजनने अजमत्राहुरव्ययम्।
अक्षयं पुरुषं प्राहुः क्षयो ह्यस्य न विद्यते ॥ १२.३२३.४६ ॥
确立内在之道者说二者皆无生、常住。因不坏之故,在生成中称无生者为不灭;称补鲁莎为不坏,因其无有衰减。
12.323.47
गुणक्षयत्वात्प्रकृतिः कर्तृत्वादक्षयं बुधाः ।
एषा तेऽन्वीक्षिकी विद्या चतुर्थी सांपरायिकी ॥ १२.३२३.४७ ॥
因诸德衰减,自性有坏;因作用之故,智者称之为不坏。这对你而言是研究之明,第四种,关乎来世。
12.323.48
विद्योपेतं धनं कृत्वा कर्मणा नित्यकर्मणि ।
एकान्तदर्शना वेदाः सर्वे विश्वावसो स्मृताः ॥ १२.३२३.४८ ॥
以知识所成之财富,借由日常祭礼之行动;所有以唯一究竟见为宗旨的吠陀,啊,毗湿婆婆苏,皆被记诵。
12.323.49
जायन्ते च म्रियन्ते च यस्मिन्नेते यतश्च्युताः ।
वेदार्थं ये न जानीते वेद्यं गन्धर्वसत्तम ॥ १२.३२३.४९ ॥
在其中这些众生生而死,并从其中坠落;不知吠陀之义与当知之物的人啊,乾闼婆中最上者。
12.323.50
साङ्गोपाङ्गानपि यदि पञ्च वेदानधीयते ।
वेदवेद्यं न जानीते वेदभारवहो हि सः ॥ १२.३२३.५० ॥
即使依附肢与支分学习五部吠陀,若不知吠陀所应知之物,他只是吠陀重担的承载者。
12.323.51
यो घृतार्थी खराक्षीरं मथेद्गन्धर्वसत्तम ।
विष्ठां तत्रानुपश्येत न मण्डं न च वै घृतम् ॥ १२.३२३.५१ ॥
渴求酥油而搅动母驴之乳的人,乾闼婆中最上者啊,他在其中只见粪便,既无乳脂,也无酥油。
12.323.52
तथा वेद्यमवेद्यं च वेदविद्यो न विन्दति ।
स केवलं मूढमतिर्वेदभारवहः स्मृतः ॥ १२.३२३.५२ ॥
同样,精通吠陀者既不得可知之物,也不得不可知之物;他只被称为心智迷惑、吠陀重担的承载者。
12.323.53
द्रष्टव्यौ नित्यमेवैतौ तत्परेणान्तरात्मना ।
यथाऽस्य जन्मनिधने न भवेतां पुनः पुनः ॥ १२.३२३.५३ ॥
应当始终以专注于彼的内我去观照这二者,使此有情的生死不再一次又一次地发生。
12.323.54
अजस्रं जन्मनिधनं चिन्तयित्वा त्रयीमिमाम् ।
परित्यज्य क्षयमिह अक्षयं धर्ममास्थितः ॥ १२.३२३.५४ ॥
不断思维生与死,舍弃这三明与此间的败坏之物,应当依止不坏的法。
12.323.55
यदाऽनुपश्यतेऽत्यन्तमहन्यहनि काश्यप ।
तदा स केवलीभूतः षड्विंशमनुपश्यति ॥ १२.३२३.५५ ॥
迦葉啊,人若日復一日地觀見那至上實相,便成為獨處於自性者,而見第二十六者。
12.323.56
अन्यश्च शाश्वतो व्यक्तस्तथाऽन्यः पञ्चविंशकः ।
तत्स्थं समनुपश्यन्ति तमेकमिति साधवः ॥ १२.३२३.५६ ॥
一為常住,一為顯現,另一為第二十五者。安住其中,善人見之為一。
12.323.57
तेनैतं नाभिनन्दन्ति पञ्चविंशकमच्युतम् ।
जन्ममृत्युभयाद्योगाः सांख्याश्च परमैषिणः ॥ १२.३२३.५७ ॥
因此,出於生死之畏,求索至上的瑜伽士與數論者,並不歡喜那不壞的第二十五者。
12.323.58
पञ्चविंशं यदेतत्ते प्रोक्तं ब्राह्मणसत्तम ।
तदहं न तथा वेद्मि तद्भवान्वक्तुमर्हति ॥ १२.३२३.५८ ॥
婆羅門中最上者,您所說的第二十五者,我並不如此知曉;唯有您可以為我闡明。
12.323.59
जैगीषव्यस्यासितस्य देवलस्य मया श्रुतम् ।
पराशरस्य विप्रर्षेर्वार्षगण्यस्य धीमतः ॥ १२.३२३.५९ ॥
我曾聽聞伽伊濕婆、阿悉陀、提婆羅、梵仙波羅舍羅,以及智者伐沙犍耶的教說。
12.323.60
भिक्षोः पञ्चशिखस्यास्य कपिलस्य शुकस्य च ।
गौतमस्याष्टिंषेणस्य गर्गस्य च महात्मनः ॥ १२.३२३.६० ॥
還有乞士般遮尸訶、此迦毗羅、鸚鵡、瞿曇、八舌仙,以及大德伽艮伽的教說。
12.323.61
नारदस्यासुरेश्चैव पुलस्त्यस्य च धीमतः ।
सनत्कुमारस्य ततः शुक्रस्य च महात्मनः ॥ १२.३२३.६१ ॥
我曾听闻那罗陀与阿修罗、智者补罗斯蒂耶,然后是萨那特昆摩罗与伟大的树罗的言论。
12.323.62
कश्यपस्य पितुश्चैव पूर्वमेव मया श्रुतम् ।
तदनन्तरं च रुद्रस्य विश्वरूपस्य धीमतः ॥ १२.३२३.६२ ॥
我先前已听过父亲迦叶波的言论,之后又听过智者毗湿伐鲁波之楼陀罗的言论。
12.323.63
दैवतेभ्यः पितृभ्यश्च दैतेयेभ्यस्ततस्ततः ।
प्राप्तमेतन्मया कृत्स्नं वेद्यं नित्यं वदन्त्युत ॥ १२.३२३.६३ ॥
我从诸神、祖先与提耶们那里,又从其他人那里,获得了这全部应当知晓的知识,人们称之为永远应当知道的。
12.323.64
तस्मात्तद्वै भवद्बुद्ध्या श्रोतुमिच्छामि ब्राह्मण ।
भवान्प्रबर्हः शास्त्राणां प्रगल्भश्चातिबुद्धिमान् ॥ १२.३२३.६४ ॥
因此,婆罗门啊,我想从您的智慧中听闻此事;您在论典中最为杰出,精通且极其智慧。
12.323.65
न तवाविदितं किंचिद्भवाञ्श्रुतिनिधिः स्मृतः ।
कथ्यसे देवलोके च पितृलोके च ब्राह्मण ॥ १२.३२३.६५ ॥
对您而言没有任何事是未知的;您被视为天启的宝库。婆罗门啊,诸神之界与祖先之界中都在谈论您。
12.323.66
ब्रह्मलोकगताश्चैव कथयन्ति महर्षयः ।
पतिश्च तपतां शश्वदादित्यस्तव भाषिता ॥ १२.३२३.६६ ॥
已往生梵界的大仙也谈论您,而常放光明者之主阿底耶(太阳),也由您说起。
12.323.67
साङ्ख्यज्ञानं त्वया ब्रह्मन्नवाप्तं कृत्स्नमेव च ।
तथैव योगशास्त्रं च याज्ञवल्क्य विशेषतः ॥ १२.३२३.६७ ॥
婆罗门啊,你已完全获得数论的知识,也同样获得了瑜伽论,尤其是,耶若婆基耶啊。
12.323.68
निःसंदिग्धं प्रबुद्धस्त्वं बुध्यमानश्चराचरम् ।
श्रोतुमिच्छामि तज्ज्ञानं घृतं मण्डमयं यथा ॥ १२.३२३.६८ ॥
你无疑已觉醒,明了动与不动。我想听那知识,如同酥油从奶皮中提取。
12.323.69
कृत्स्नधारिणमेव त्वां मन्ये गन्धर्वसत्तम ।
जिज्ञासमे च मां राजंस्तन्निबोध यथाश्रुतम् ॥ १२.३२३.६९ ॥
乾闼婆中的至尊啊,我认为你是承载一切的人。大王啊,我也想询问;请按你所听的去领会。
12.323.70
बुध्यमानो हि प्रकृतिं बुध्यते पञ्चविंशकः ।
न तु बुध्यति गन्धर्वप्रकृतिः पञ्चविंशकम् ॥ १२.३२३.७० ॥
能觉知者知晓自性,第二十五者觉知。然而乾闼婆之性不觉知第二十五者。
12.323.71
अनेन प्रतिबोधेन प्रधानं प्रवदन्ति तत् ।
साङ्ख्ययोगार्थतत्त्वज्ञा यथ्नाश्रुतिनिदर्शनात् ॥ १२.३२३.७१ ॥
以此觉悟,通晓数论与瑜伽真义者称之为根本自性(胜),如闻教所示。
12.323.72
पश्यंस्तथैव चापश्यन्पश्यत्यन्यः सदाऽनघ ।
षड्विंशं पञ्चविंशं च चतुर्विशं च पश्यति ॥ १२.३२३.७२ ॥
能见者与不见者;同样,另一者常见,无罪者啊。他见第二十六、第二十五,也见第二十四。
12.323.73
न तु पश्यति पश्यंस्तु यश्चैनमनुपश्यति ।
पञ्चविंशोऽभिमन्येत नान्योऽस्ति परतो मम ॥ १२.३२३.७३ ॥
见见者者实不见。随之而见者,自认为第二十五;除我之外,再无他者。
12.323.74
न चतुर्विशको ग्राह्यो मनुजैर्ज्ञानदर्शिभिः ।
मत्स्यो वोदकमन्वेति प्रवर्तेत प्रवर्तनात् ॥ १२.३२३.७४ ॥
具智慧之人不以第二十四为所取。鱼随水而行,由动而动相续不已。
12.323.75
यथैव बुध्यते मत्स्यस्तथैषोऽप्यनुबुध्यते ।
स स्नेहात्सहवासाच्च साभिमानाच्च नित्यशः ॥ १२.३२३.७५ ॥
如鱼之觉知,此人亦如是觉知。因于爱恋、因于相处、因于我慢,他恒常如此。
12.323.76
स निमज्जति कालस्य यदैकत्वं न बुध्यते ।
उन्मज्जति हि कालस्य समत्वेनाभिसंवृतः ॥ १२.३२३.७६ ॥
若不觉知一体,则沉没于时间之中;为时间之平等所包裹,他又复浮起。
12.323.77
यदा तु मन्यतेऽन्योऽहमन्य एष इति द्वजिः ।
तदा स केवलीभूतः षड्विंशमनुपश्यति ॥ १२.३२३.७७ ॥
当再生者思想'我是他者,此为他者'时,他则独处而观见第二十六。
12.323.78
अन्यश्च राजन्परमस्तथाऽन्यः पञ्चविंशकः ।
तत्स्थत्वादनुपश्यन्ति एक एवेति साधवः ॥ १२.३२३.७८ ॥
大王,至上者为他,第二十五亦为他。因住于其中,善人见唯有一。
12.323.79
तेनैतन्नाभिनन्दन्ति पञ्चविंशकमच्युतम् ।
जन्ममृत्युभयाद्भीता योगाः साङ्ख्याश्च काश्यप।
षड्विंशमनुपश्यन्तः शुचयस्तत्परायणाः ॥ १२.३२३.७९ ॥
因此瑜伽行者与数论派,因畏惧生死之怖,不喜悦那不坏的第二十五者。迦叶啊,清净而专注于此者,观见第二十六者。
12.323.80
यदा स केवलीभूतः षड्विंशमनुपश्यति ।
तदा स सर्वविद्विद्वान्न पुनर्जन्म विन्दति ॥ १२.३२३.८० ॥
当他成为独一(离于执着),并观见第二十六者时,那知一切的智者便不再获得重生。
12.323.81
एवमप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ ।
बुद्धिश्चोक्ता यथातत्त्वं मया श्रुतिनिदर्शनात् ॥ १२.३२३.८१ ॥
如是,无垢者啊,你尚未觉醒,却正在觉醒;我依吠陀的明证,已将如实的智慧为你宣说。
12.323.82
पश्यापश्यं यो न पश्येत्क्षेम्यं तत्वं च काश्यप ।
केवलाकेवलं चान्यत्पञ्चविंशं परं च यत् ॥ १२.३२३.८२ ॥
迦叶啊,不能观见见与不见、安稳之真谛、独与非独,以及第二十五者与其上的至上者的人。
12.323.83
तथ्यं शुभं चैतदुक्तं त्वया विभो ।
सम्यक्क्षेम्यं दैवताद्यं यथावत्।
स्वस्त्यक्षयं भवतश्चास्तु नित्यं ।
बुद्ध्या सदा बुद्धियुक्तं नमस्ये ॥ १२.३२३.८३ ॥
主啊,你已将这真实而吉祥之事正确地、如实地宣说——安稳而为诸神之首。愿你的福祉永不衰竭。我以智慧,恒常向具足智慧的你致敬。
12.323.84
एवमुक्त्वा संप्रयातो दिवं स ।
विभ्राजन्वै श्रीमता दर्शनेन।
दृष्टश्च तुष्ट्या परयाऽभिनन्द्य ।
प्रदक्षिणं मम कृत्वा महात्मा ॥ १२.३२३.८४ ॥
言毕,这位大德以光辉的显现升天而去。众人以至高的欢悦见到他并向他致意;他又绕我行了右绕之礼。
12.323.85
ब्रह्मादीनां खेचराणां क्षितौ च ।
ये चाधस्तात्संवसन्ते नरेन्द्र।
तत्रैव तद्दर्शनं दर्शयन्वै ।
सम्यक्क्षेम्यं ये पथं संश्रिता वै ॥ १२.३२३.८५ ॥
哦,人主!梵天等诸神、飞行于空中者、居于大地者以及居于下界者,都在那里显示那同一景象。凡皈依于完全安稳之道者,必定得见。
12.323.86
साङ्ख्याः सर्वे साङ्ख्यधर्मे रताश्च ।
तद्वद्योगा योगधर्मे रताश्च।
ये चाप्यन्ये मोक्षकामा मनुष्या ।
स्तेषामेतद्दर्शनं ज्ञानदृष्टम् ॥ १२.३२३.८६ ॥
凡奉行数论之道的数论者,同样奉行瑜伽之道的瑜伽者,以及其他求解脱的人,对他们而言,此景象以智慧而被见到。
12.323.87
ज्ञानान्मोक्षो जायते राजसिंह ।
नास्त्यज्ञानादेवमाहुर्नरेन्द्र।
तस्माज्ज्ञानं तत्त्वतोऽन्तेषितव्यं ।
येनात्मानं मोक्षयेज्जन्ममृत्योः ॥ १२.३२३.८७ ॥
哦,王中雄狮!解脱生于智慧;人们说无知之中并无解脱。因此,哦,人主,应当如实地求取智慧,借此使自己脱离生死。
12.323.88
प्राप्य ज्ञानं ब्राह्मणात्क्षत्रियाद्वा ।
वैश्याच्छ्रद्रादपि नीचादभीक्ष्णम्।
श्रद्धातव्यं श्रद्दधानेन नित्यं ।
न श्रद्धिनं जन्ममृत्यू विशेताम् ॥ १२.३२३.८८ ॥
无论从婆罗门、刹帝利、吠舍、首陀罗,甚至从卑贱之人那里获得知识,都应时常保持信心。有信心的人,生与死不会进入。
12.323.89
सर्वं विश्वं ब्रह्म चैतत्समस्तम् ॥ १२.३२३.८९ ॥
这一切、整个宇宙,皆是梵。
12.323.90
ब्रह्मास्यतो ब्राह्मणाः संप्रसूता ।
बाहुभ्यां वै क्षत्रियाः संप्रसूताः।
नाभ्यां वैश्याः पादतश्चापि शूद्राः ।
सर्वे वर्णा नान्यथा वेदितव्याः ॥ १२.३२३.९० ॥
婆罗门生于梵天之口,刹帝利生于其臂,吠舍生于其脐,首陀罗也生于其足。一切种姓应当如此理解,而不是其他方式。
12.323.91
अज्ञानतः कर्मयोनिं भजन्ते ।
तांतां राजंस्ते यथा यान्त्यभावम्।
तथा वर्णा ज्ञानहीनाः पतन्ते ।
घोरादज्ञानात्प्राकृतं योनिजालम् ॥ १२.३२३.९१ ॥
因为无知,众生进入各种业之胎;大王,正如他们走向毁灭,无知的种姓也会堕落。从可怕的无知中产生了自然的胎藏之网。
12.323.92
तस्माज्ज्ञानं सर्वतो मार्गितव्यं ।
सर्वत्रस्थं चैतदुक्तं मया ते।
तत्स्थो ब्रह्मा तस्थिवांश्चापरो य ।
स्तस्मै नित्यं मोक्षमाहुर्नरेन्द्र ॥ १२.३२३.९२ ॥
因此应当从各方面寻求知识。我已经告诉你,它无处不在。安住于其中者即是梵;而另一位稳固地立于其中者,人主啊,人们说他恒得解脱。
12.323.93
यत्ते पृष्टं तन्मया चोपदिष्टं ।
याथातथ्यं तद्विशोको भजस्व।
राजन्गच्छस्वैतदर्थस्य पारं ।
सम्यक्प्रोक्तं स्वस्ति ते त्वस्तु नित्यम् ॥ १२.३२३.९३ ॥
你所问的,我已为你讲说。如其真实而知之,便得离忧。大王,去到此义的彼岸吧。已善说明,愿你永远吉祥。
12.323.94
स एवमनुशिष्टस्तु याज्ञवल्क्येन धीमता ।
प्रीतिमानभवद्राजा मिथिलाधिपतिस्तदा ॥ १२.३२३.९४ ॥
智者耶若那婆迦如此教导之后,弥提罗的国王当时心中欢喜。
12.323.95
गते मुनिवरे तस्मिन्कृते चापि प्रदक्षिणम् ।
दैवरातिर्नरपतिरासीनस्तत्र मोक्षवित् ॥ १२.३२३.९५ ॥
那位最优秀的仙人离去并已行右绕之礼后,通晓解脱的国王提婆罗提仍坐在那里。
12.323.96
गोकोटिं स्पर्शयामास हिरण्यस्य तथैव च ।
रत्नाञ्जलिमथैकैकं ब्राह्मणेभ्यो ददौ तदा ॥ १२.३२३.९६ ॥
他同样让人布施了一千万头牛和黄金,然后又向每一位婆罗门奉献了一捧宝石。
12.323.97
वेदहराज्यं च तदा प्रतिष्ठाप्य सुतस्य वै ।
यतिधर्ममुपास्यंश्चाप्यवसन्मिथिलाधिपः ॥ १२.३२३.९७ ॥
此后,他使其子继位为“持吠陀者”之王国,自己则修持遁世者的法,留居于彼。
12.323.98
साङ्ख्यज्ञानमधीयानो योगशास्त्रं च कृत्स्नशः ।
धर्माधर्मं च राजेन्द्र प्राकृतं परिगर्हयन् ॥ १२.३२३.९८ ॥
彻底研习数论之智与瑜伽之论,大王啊,并斥责法与非法的世俗分别。
12.323.99
अनन्त इति कृत्वा स नित्यं केवलमेव च ।
धर्माधर्मौ पुण्यपापे सत्यासत्ये तथैव च ॥ १२.३२३.९९ ॥
他视之为无限,总是只看见纯一;同样,他也如此看待法与非法、功德与罪过、真与假。
12.323.100
जन्ममृत्यू च राजेन्द्र प्राकृतं तदचिन्तयत् ।
ब्रह्माव्यक्तस्य कर्मेदमिति नित्यं नराधिप ॥ १२.३२३.१०० ॥
啊,诸王之王,他认为生与死是自然的;啊,人主,他总是这样想:这是未显现之梵的作为。
12.323.101
पश्यन्ति योगाः साङ्ख्याश्च स्वशास्त्रकृतलक्षणाः ।
इष्टानिष्टविमुक्तं हि तस्थौ ब्रह्म परात्परम् ॥ १२.३२३.१०१ ॥
瑜伽行者与数论派依各自论典所述之相而见之;超越好与恶的梵,安住于至高之上的至高。
12.323.102
नित्यं तदाहुर्विद्वांसः शुचि तस्माच्छुचिर्भव ।
दीयते यच्च लभते दत्तं यच्चानुमन्यते ॥ १२.३२३.१०२ ॥
智者称之为永恒而清净;因此你应当清净。所施与的、所获得的、已布施的、所允许的,一切皆是它。
12.323.103
अव्यक्तेनेति तच्चिन्त्यमन्यथा मा विचन्तय ।
ददाति च नरश्रेष्ठ प्रतिगृह्णाति यच्च ह।
ददात्यव्यक्त इत्येतत्प्रतिगृह्णाति यच्च वै ॥ १२.३२३.१०३ ॥
应当思之为“由未显现者”;切勿另作他想。啊,人中最优者,它施与,也接受;“未显现者施与”与“所接受者”正是此义。
12.323.104
आत्मा ह्येवात्मनो ह्येकः कोऽन्यस्तस्मात्परो भवेत् ।
एवं मन्यस्व सततमन्यथा मा विचिन्तय ॥ १२.३२३.१०४ ॥
自我本身即是自我之唯一;还有谁能高于它呢?因此应当恒常如此思维,切勿另作他想。
12.323.105
यस्याव्यक्तं न विदितं सगुणं निर्गुणं पुनः ।
तेन तीर्थानि यज्ञाश्च सेवितव्या विपश्चिता ॥ १२.३२३.१०५ ॥
若不知未显现者,有德与无德,智者应当亲近圣地与祭祀。
12.323.106
न स्वाध्यायैस्तपोभिर्वा यज्ञैर्वा कुरुनन्दन ।
लभतेऽव्यक्तिकं स्थानं ज्ञात्वाऽव्यक्तं महीयते ॥ १२.३२३.१०६ ॥
俱卢之喜,不以诵读、苦行或祭祀得到未显现之境;知晓未显现者,方受尊崇。
12.323.107
तथैव महतः स्थानमाहंकारिकमेव च ।
अहंकारात्परं चापि स्थानानि समवाप्नुयात् ॥ १२.३२३.१०७ ॥
同样,有大(觉)之境与我慢之境;超越我慢,亦可获得更高之境。
12.323.108
ये त्वव्यक्तात्परं नित्यं जानते शास्त्रतत्पराः ।
जन्ममृत्युविमुक्तं च विमुक्तं सदसच्च यत् ॥ १२.३२३.१०८ ॥
专注经典者,知晓超越未显现之永恒,即超脱生死、超脱有与非有者。
12.323.109
एतन्मयाऽऽप्तं जनकात्पुरस्ता ।
त्तेनापि चाप्तं नृप याज्ञवल्क्यात्।
ज्ञातं विशिष्टं न तथा हि यज्ञा ।
ज्ञानेन दुर्गं तरते न यज्ञैः ॥ १२.३२३.१०९ ॥
此法我先前得自遮那伽,而他亦得自耶若伐尔基耶,王啊。此法已知为殊胜;祭祀则不然。以智慧可渡过艰难之道,非以祭祀。
12.323.110
दुर्गं जन्म निधनं चापि राज ।
न्न भौतिकं ज्ञानविदो वदन्ति।
यज्ञैस्तपोभिर्नियमैर्व्रतैश्च ।
दिवं समासाद्य पतन्ति भूमौ ॥ १२.३२३.११० ॥
王啊,生与死的艰难之道……(文本缺失)……;知者不称之为物质。以祭祀、苦行、戒律与誓愿升至天界者,终又坠落于大地。
12.323.111
तस्मादुपासस्व परं महच्छुचि ।
शिवं विमोक्षं विमलं पवित्रम्।
क्षेत्रं ज्ञात्वा पार्थिव ज्ञानयज्ञ ।
मुपास्य वै तत्त्वमृषिर्भविष्यसि ॥ १२.३२३.१११ ॥
因此,当崇敬那至上、伟大、纯净、吉祥、解脱、无垢、清净之境。国王啊,知晓田地并以知识祭祀崇敬它,你将得到真理,成为仙人。
12.323.112
युदुपनिषदमुपाकरोत्तथाऽसौ ।
जनकनृपस्य पुरा हि याज्ञवल्क्यः।
यदुपगणितशाश्वताव्ययं त ।
च्छुभममृतत्वमशोकमर्च्छति ॥ १२.३२३.११२ ॥
往昔耶若婆佉为遮那伽王所宣说的奥义:凡得证那被视为永恒不灭者,便得到那吉祥、不死、无忧之境。