マハーバーラタ · 章 12.327
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.327.1
यद्भवानाह किं व्यक्तिं किमव्यक्तमिति अत्र ब्रूमः ॥ १२.३२७.१ ॥
あなたが言われた、顕現とは何か、非顕現とは何かについて、ここで説明しましょう。
12.327.2
अव्यक्तमग्राह्यमतर्क्यमपरिमेयमव्यक्तं व्यक्तमुपलक्ष्यते यथर्तवो मूर्तयस्तेषु पुष्पफलैर्व्यक्तिरुपलक्ष्यते तद्वद्व्यक्तगुणैरुपलक्ष्यते ॥ १२.३२७.२ ॥
非顕現は把握できず、思考を超え、測ることができない。顕現とは知覚されるものである。季節がその姿によって知られ、花や実にその現れが見えるように、それは顕現した性質によって知覚される。
12.327.3
प्राग्गतं प्रत्यग्गतमूर्ध्वमधस्तिर्यक्च शतश्चानुग्राह्यत्वात्साऽकृतिः ॥ १२.३२७.३ ॥
前へ進み、後ろへ進み、上へ、下へ、横へ、そして百の方向へ行くもの。把握されうるがゆえに、それが形である。
12.327.4
व्यक्त उत्तमो रजः सत्वं तत्प्रधानं तत्वमक्षमजरमित्येवमादीन्यव्यक्तनामानि भवन्ति ।
एवमाह ॥ १२.३२७.४ ॥
顕現が最上である。ラジャス、サットヴァ、そのプラダーナ、その根本原理、不滅、不老などは、非顕現の名である。このように彼は語った。
12.327.5
अव्यक्तं बीजधर्माणं महाग्राहमचेतनम् ।
तस्मादेकगुणो जज्ञे तद्व्यक्तं तत्वमीश्वरः ॥ १२.३२७.५ ॥
非顕現は種子の性質をもち、大いなる把握者であり、無意識である。そこから単一の性質が生じた。その顕現した根本原理が主宰神である。
12.327.6
तदेतदव्यक्तम्। प्रस्नवा घारणादानस्वभावमापोधारणे प्रजनने दाने गुणानां प्रकृतिः सपराप्रमत्तं तदेतदस्मिन्कार्यकरणे ॥ १२.३२७.६ ॥
これが非顕現である。泉、保持、施与の性質をもつ。水を保つこと、生殖、施与において、それは諸性質の本性であり、至上者と共に怠らない。これはこの働きと道具の中にある。
12.327.7
यदप्युक्तं किमव्यक्तमिति तत्र ब्रूमः। व्यक्तं नामाऽऽसुरे यत्पूर्वमव्यक्तादुत्पन्नतत्वमीश्वरमप्रतिबुद्धगुणस्यगेतत्पुरुषसंज्ञिकं महदित्युक्तं बुद्धिरिति च। सत्ता स्मृतिर्धृतिर्मेधा व्यवसायः समाधिप्राप्तिरित्येवमादीनि व्यक्तपर्याये नामानि वदन्त्येवमाह ॥ १२.३२७.७ ॥
未顕とは何かという問いには、こう答えよう。アースリーの教えでは、顕と呼ばれるのは未顕から最初に生じた原理である。その諸性質がまだ識別されていない主は、これをプルシャという名の大(マハット)、また覚(ブッディ)と呼ぶ。存在、記憶、堅固さ、知性、決意、三昧の獲得などは、顕の範疇の名称である、と彼は述べた。
12.327.8
मम व्यक्तादुपात्तासिद्धिरागता संयमश्च महद्यतः ।
परसर्गश्च दीप्त्यर्थमौत्सुक्यं च परं तथा ॥ १२.३२७.८ ॥
顕から、私が得た成就が来た。また制御も来た。そこから大(マハット)が生じる。光輝のための勝れた創造、そして至上の渇望も同様である。
12.327.9
यदेषोर्ध्यस्रोताभिर्महत्वादप्रतिबुद्धत्वाच्चात्मनः यकरोत्यहंकारमव्यक्ताव्यक्ततरम् ॥ १२.३२७.९ ॥
これは上へ流れる流れを通じて、大であることと自己の未覚知によって、我慢を生じさせる。それは未顕であり、さらに未顕なるものである。
12.327.10
यदप्युक्तं किमव्यक्ततरमिति अत्र ब्रूमः ॥ १२.३२७.१० ॥
より未顕とは何かという問いに、ここで答えよう。
12.327.11
व्यक्ताव्यक्ततरं नाम तृतीयं पुरुषसंज्ञकम् ।
तदेतदुभयोर्विरिञ्चवैरिञ्चयोरेकैक उत्पत्तिः ॥ १२.३२७.११ ॥
第三のものは、顕かつより未顕なるものと呼ばれ、プルシャという名である。これは二つのヴィリンチとヴァイリンチャのそれぞれから、一つずつ生じる。
12.327.12
विरिञ्चोऽभिमानिन्यविवेक ईर्ष्या कामः क्रोधो लोभो मदो दर्पो ममकारश्चैतान्यहंकारपर्यायनामानि भवन्त्येवमाह ॥ १२.३२७.१२ ॥
ヴィリンチャは、慢心、無分別、嫉妬、欲望、怒り、貪欲、陶酔、驕り、「わがもの」という執着がすべて我執の同義語であると述べる。
12.327.13
अहं कर्तेत्यहंकर्ता ससृजे विश्वमीश्वरः ।
तृतीयमेनं पुरुषमभिमानगुणं विदुः ॥ १२.३२७.१३ ॥
「私は行為者である」——我執による行為者である主が宇宙を創造した。この第三のプルシャは慢心を性質とするものとして知られる。
12.327.14
अहंकाराद्युगपदुन्मादयामास पञ्च महाभूतानि शब्दस्पर्शरूपरसगन्धलक्षणानि। तान्येव बुद्ध्यन्त इत्येवमाह ॥ १२.३२७.१४ ॥
彼は我執から、音・触・色・味・香を特徴とする五大元素を同時に起こした。それらこそが知覚される、と彼は言う。
12.327.15
भूतसङ्घमहङ्काराद्यो विद्वानवबुध्यसे ।
अभिमानमतिक्रम्य महान्तं प्रतितिष्ठते ॥ १२.३२७.१५ ॥
もし賢者として、我執から生じた元素の集まりを理解するなら、慢心を超えて偉大なるもの(マハット)に確立する。
12.327.16
भूतेषु चाप्यहंकारमश्वरूपस्तथोच्यते ।
पुनर्विषयहेत्वर्थे स मनस्संज्ञकः स्मृतः ॥ १२.३२७.१६ ॥
諸元素の中の我執もまた馬の姿をしたものと呼ばれる。また感覚対象のために、それはマナス(意)という名で記憶される。
12.327.17
विखराद्वैखरं युगपदिन्द्रियैः सहोत्पादयति। श्रोत्रं घ्राणं चक्षुर्जिह्वा त्वगित्येतानि शब्दस्पर्शरूपरसगन्धानवबुध्यन्त इति पञ्च बुद्धीन्द्रियाणि वदन्त्येवमाहुराचार्याः ॥ १२.३२७.१७ ॥
彼は毘訶羅から吠訶羅を諸根とともに同時に生じさせる。耳・鼻・眼・舌・皮膚は、それによって音・触・色・味・香が知られるものであり、師たちはこの五つを知覚器官と呼ぶ。
12.327.18
वाग्घस्तौ पादपायुरानन्दश्चेति पञ्चेन्द्रियाणि विशेषमादित्योश्वीनि नक्षत्राणीत्येतानीन्द्रियाणां पर्यायनामानि वदन्त्येवमाह ॥ १२.३२७.१८ ॥
言葉、両手、両足、肛門、歓喜——これら五つが行為器官である。これらは特に、アーディティヤ、アシュヴィン、星宿とも呼ばれる。これらは諸感官の同義語である、と彼は語った。
12.327.19
अहंकारात्तथा भूतान्युत्पाद्य महदात्मनोः ।
वैखरत्वं ततो राज्ञा वैखर्यो विषयात्मकः ॥ १२.३२७.१९ ॥
我慢から、また同様に大と自我から元素を生じさせた後、王よ、粗大性(ヴァイカラトヴァ)が生じる。粗大なもの(ヴァイカリー)は対象からなる。
12.327.20
विकारस्थमहंकारमवबुध्याथ मानवः ।
महदैश्वर्यमाप्नोति यावदाचन्द्रतारकम् ॥ १२.३२७.२० ॥
変化の中にとどまる我慢を理解した人は、月と星々が続く限り、大いなる統治権を得る。