Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.33

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.33.1

कानि कृत्वेह कर्माणि प्रायश्चित्तीयते नरः ।
किं कृत्वा मुच्यते तत्र तन्मे ब्रूहि पितामह ॥ १२.३३.१ ॥

人在此世作何事,才需要赎罪?作何事,才能在彼处得解脱?祖父啊,请告诉我。

12.33.2

अकुर्वन्विहितं कर्म प्रतिषिद्धानि चाचरन् ।
प्रायश्चित्तीयते ह्येवं नरो मिथ्याऽनुवर्तयन् ॥ १२.३३.२ ॥

人若不行所当行之事,反而作所禁止之事,又追随虚妄之道,便如此需要赎罪。

12.33.3

सूर्येणाभ्युदितो यश्च ब्रह्मचारी भवत्युत ।
तथा सूर्याभिनिर्मुक्तः कुनखी श्यावदन्नपि ॥ १२.३३.३ ॥

太阳升起之后仍睡觉的人,即使是梵行学徒也如此;同样,太阳落下之后仍睡觉的人,指甲污秽的人,面色黝黑的人,也是如此。

12.33.4

परिवित्तिः परिवेत्ता ब्रह्मेज्यायाश्च दूषकः ।
दिधिषूपतिस्तथा यः स्यादग्रेदिधिषुरेव च ॥ १२.३३.४ ॥

先娶者(parivitti)、后娶者(parivettā)、玷污婆罗门祭祀的人、再婚女子的丈夫,以及最先再婚的人,都是如此。

12.33.5

अवकीर्णी भवेद्यश्च द्विजातिवधकस्तथा ।
अतीर्थे ब्राह्मणस्त्यागी तीर्थे चाप्रतिपादकः ॥ १२.३३.५ ॥

犯下“阿伐吉尔尼”(失戒)之罪的人,杀害再生族的人,在不当之处舍弃婆罗门的人,以及在应当之处不布施的人。

12.33.6

ग्रामयाजी च कौन्तेय मांसस्य परिविक्रयी ।
यश्चाग्नीनपविध्येत तथैव ब्रह्मविक्रयी ॥ १२.३३.६ ॥

孔雀之子啊,为村落主持祭祀的人,卖肉的人,抛弃圣火的人,以及出卖吠陀的人,也是如此。

12.33.7

शूद्रस्त्रीवधको यश्च पूर्वः पूर्वस्तु गर्हितः ।
वृथा पशुसमालम्भी वनदाहस्य कारकः ॥ १२.३३.७ ॥

杀害首陀罗女子者,比前面所说的人更应受谴责;无故屠杀牲畜者,以及焚烧森林者,也同样有罪。

12.33.8

अनृतेनोपवर्ती च प्रतिषेद्धा गुरोस्तथा ।
स्वदत्तस्यापहर्ता च परदत्तनिरोधकः ॥ १२.३३.८ ॥

以谎言谋生者,阻碍师长者,夺回自己所施之物者,以及阻止他人所施之物者,也都有罪。

12.33.9

वाग्दत्तं च मनोदत्तं धारादत्तं च यो हरेत् ।
पाकभेदेन भोक्ता च भुञ्जानस्याप्यनादरः ॥ १२.३३.९ ॥

夺取以言语许诺、以心意施予或以水流注入而施予之物者;分割熟食而食者,以及对正在进食者不敬者,也都有罪。

12.33.10

स्वजनैः कलहं चैव आश्रितानामरक्षणम् ।
एतान्येनांसि सर्वाणि व्युत्क्रान्तसमयश्च यः ॥ १२.३३.१० ॥

与自己的亲族争吵,以及不保护依附于自己的人——这些都是罪过;违背规定时限者,也同样有罪。

12.33.11

अकार्याणि तु वक्ष्यामि यानि तानि निबोध मे ।
लोकवेदविरुद्धानि तान्येकाग्रमनाः शृणु ॥ १२.३३.११ ॥

现在我要讲述那些违背世间与吠陀的不当之事;请从我这里理解,并以专一的心来听。

12.33.12

स्वधर्मस्य परित्यागः परधर्मस्य च क्रिया ।
अयाज्ययाजनं चैव तथाऽभक्ष्यस्य भक्षणम् ॥ १२.३३.१२ ॥

舍弃自己的本分而行他人的本分,为不应为之祭祀者主持祭祀,以及食用不可食之物——这些都是不当之事。

12.33.13

शरणागतसंत्यागो भृत्यस्याभरणं तथा ।
रसानां विक्रयश्चापि तिर्यग्योनिवधस्तथा ॥ १२.३३.१३ ॥

抛弃求庇护者,给仆人装饰品,贩卖汁液,以及同样地杀害动物。

12.33.14

आधानादीनि कर्माणि शक्तिमान्न करोति यः ।
अप्रयच्छंश्च सर्वाणि नित्यदेयानि भारत ॥ १२.३३.१४ ॥

有能力却不行阿达那等祭礼、也不施舍一切应常施之物的人,婆罗多啊。

12.33.15

दक्षिणानामदानं च ब्राह्मणस्वाभिमर्शनम् ।
सर्वाण्येतान्यकार्याणि प्राहुर्धर्मविदो जनाः ॥ १२.३३.१५ ॥

不给予达克希纳,侵占婆罗门的财物——所有这些,懂得法的人都说是不可做的事。

12.33.16

पित्रा विवदते पुत्रो यश्च स्याद्गुरुतल्पगः ।
अप्रजायन्नरव्याघ्र भवत्यधार्मिको नरः ॥ १२.३३.१६ ॥

与父亲争执的儿子,以及与师母私通的人——人中之虎啊,无子的人会变得不法。

12.33.17

उक्तान्येतानि कर्माणि विस्तरेणेतरेण च ॥ १२.३३.१७ ॥

这些行为已经被详细或简要地宣说了。

12.33.18

यानि कुर्वन्निकुर्वंश्च प्रायश्चित्तीयते नरः ।
एतान्येव तु कर्माणि क्रियमाणानि मानवैः।
येषुयेषु निमित्तेषु न लिप्यन्तेऽथ ताञ्शृणु ॥ १२.३३.१८ ॥

无论做或不做,都使人须要赎罪的那些行为——但人们做这些行为时,在哪些情况下不沾染他,现在请听。

12.33.19

प्रगृह्य शस्त्रमायान्तमपि वेदान्तगं रणे ।
जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ॥ १२.३३.१९ ॥

若有人在战场上举起武器前来,即便他精通吠陀,且想要杀人,杀死他的人不算杀害婆罗门。

12.33.20

इति चाप्यत्र कौन्तेय मन्त्रो वेदेषु पठ्यते ।
वेदप्रमाणविहितं धर्मं च प्रब्रवीमि ते ॥ १२.३३.२० ॥

因此,俱盾之子啊,关于此事吠陀中也诵有此咒,我还要告诉你依吠陀权威所规定的法。

12.33.21

अपेतं ब्राह्मणं वृत्ताद्यो हन्यादाततायिनम् ।
न तेन ब्रह्महा स स्यान्मन्युस्तन्मन्युमृच्छति ॥ १२.३३.२१ ॥

若婆罗门背离正行,作为侵害者前来,杀他者不算杀害婆罗门。愤怒会落到那愤怒之上。

12.33.22

प्राणात्यये तथा ज्ञानादाचरन्मदिरामपि ।
आदेशितो धर्मपरैः पुनः संस्कारमर्हति ॥ १२.३३.२२ ॥

即使因性命危急,或明知而饮酒之人,若受到依法的人的教导,也值得再次接受净化仪式。

12.33.23

एतत्ते सर्वमाख्यातं कौन्तेयाभक्ष्यभक्षणम् ।
प्रायश्चित्तविधानेन सर्वमेतेन शुद्ध्यति ॥ १२.३३.२३ ॥

俱盾之子啊,关于食用不可食之物,这一切我都已告诉你了。依照赎罪的规定,由此一切便得清净。

12.33.24

गुरुतल्पं हि गुर्वर्थं न दूषयति मानवम् ।
उद्दालकः श्वेतकेतुं जनयामास शिष्यतः ॥ १२.३३.२४ ॥

为了师长而到师长的床榻之上,并不会玷污人。乌达拉迦通过其弟子生下了室维多奇都。

12.33.25

स्तेयं कुर्वंश्च गुर्वर्थमापत्सु न निषिध्यते ।
बहुशः कामकारेण न चेद्यः संप्रवर्तते ॥ १२.३३.२५ ॥

为了师长在危难中行窃者,并不被禁止,只要不是出于欲望而屡次为之。

12.33.26

अन्यत्र ब्राह्मणस्वेभ्य आददानो न दुष्यति ।
स्वयमप्राशिता यश्च न स पापेन लिप्यते ॥ १२.३३.२६ ॥

取用他人之物,除婆罗门之财外,不致污染;取用自己未曾食用之物者,亦不为罪所染。

12.33.27

प्राणत्राणेऽनृतं वाच्यमात्मनो वा परस्य च ।
गुर्वर्थे स्त्रीषु चैव स्याद्विवाहकरणेषु च ॥ १२.३३.२७ ॥

救命之时,为自己或他人,为师长,关于女子之事,以及安排婚姻之时,可以说谎。

12.33.28

नावर्तते व्रतं स्वप्ने शुक्रमोक्षे कथंचन ।
आज्यहोमः समिद्धेऽग्नौ प्रायश्चित्तं विधीयते ॥ १२.३३.२८ ॥

梦中或任何情况下遗精,誓愿都不会因此中断;以酥油投入燃烧的火中,被规定为赎罪之法。

12.33.29

पारिवित्त्यं तु पतिते नास्ति प्रव्रजिते तथा ।
भिक्षिते पारदार्यं च तद्धर्मस्य न दूषकम् ॥ १२.३३.२९ ॥

对于堕落之人或出家之人,没有“先娶”之事;同样,与乞食者的“他妻”之事也不污染法。

12.33.30

वृथा पशुसमालम्भं नैव कुर्यान्न कारयेत् ।
भ्रनुग्रहः पशूनां हि संस्कारो विधिनोदितः ॥ १२.३३.३० ॥

无故不可杀害牲畜,也不可教人杀害;对牲畜怀有慈悲,才是依法所说的圣礼。

12.33.31

अनर्हे ब्राह्मणे दत्तमज्ञानात्तन्न दूषकम् ।
सत्काराणां तथा तीर्थे नित्यं वा प्रतिपादनम् ॥ १२.३३.३१ ॥

因无知而施予不配的婆罗门,并非过失;同样,在圣地以敬意施予,或经常施予,也不是过错。

12.33.32

स्त्रियास्तथापचारिण्या निष्कृतिः स्याददूषिका ।
अपि सा पूयते तेन न तु भर्ता प्रदुष्यति ॥ १२.३३.३२ ॥

同样,对于犯过错的女子,也可以有无过失的赎罪;由此她得以清净,而其丈夫并不会被玷污。

12.33.33

तत्त्वं ज्ञात्वा तु सोमस्य विक्रयः स्याददोषवान् ।
असमर्थस्य भृत्यस्य विसर्गः स्याददोषवान् ॥ १२.३३.३३ ॥

既知苏摩的真实本性,出售它或许并无过失;辞退无能力的仆人也或许并无过失。

12.33.34

वनदाहो गवामर्थे क्रियमाणो न दूषकः ।
उक्तान्येतानि कर्माणि यानि कुर्वन्न दुष्यति ॥ १२.३३.३४ ॥

为了牛群而焚烧森林,所做之时并无可责;行此所说之事者,并不被玷污。

12.33.35

प्रायश्चित्तानि वक्ष्यामि विस्तरेणैव भारत ।
यानि कृत्वा नरः पूतो भविष्यति नराधिप ॥ १२.३३.३५ ॥

婆罗多的后裔,人王啊,我将详细说明那些行之则人得以清净的赎罪之法。